सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/कार्णश्रवसम्

कार्णश्रवसम्
कार्णश्रवसम्

तं वः सखायो मदाय पुनानमभि गायत ।
शिशुं न हव्यैः स्वदयन्त गूर्तिभिः ।। १०९८ ।। ऋ. ९.१०५.१
सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते ।
देवावीर्मदो मतिभिः परिष्कृतः ।। १०९९ ।।
अयं दक्षाय साधनोऽयं शर्धाय वीतये ।
अयं देवेभ्यो मधुमत्तरः सुतः ।। ११०० ।।


१३ कार्णश्रवसम् । कर्णश्रवा आङ्गिरसः । उष्णिक्। पवमानस्सोमः ।।

ताऽ२३४म्वः । साऽ२३४खा ।। योमदाऽ२३या । पूनानम । भिगायाऽ२३ता ।। शाइशुन्नह । व्यैस्वदयाऽ२३ ।। तगूर्तिभाऽ३४३इः ।। श्रीः ।। साऽ२३४म्व । त्साऽ२३४ई ।। वमातॄऽ२३भाइः । आइन्दुर्हिन्वा । नोअज्याऽ२३ताइ ।। दाइवावीर्म । दोमतिभाऽ२३इः ।। परिष्कृताऽ३४३ः ।। श्रीः ।। आऽ२३४यम् । दाऽ२३४क्षा ।। यसाधाऽ२३नाः । आयꣳशुर्द्धा। । यपीताऽ२३याइ ।। आयन्देवे । भ्योमधुमाऽ२३ । तरस्सुताऽ३४३ः । ओऽ२३४५इ ।।डा।।

दी. १.७ उत्. ६ मा. १९. चो. ।।११३।

टिप्पणी

द्वादशाहे षष्ठस्याह्नः -- तंवःसखायो मदायेति कार्णश्रवसे च । - आर्षेयकल्पः उपोद्घातः पृ. ७५

तं वः सखायो मदायेति मद्वतीर् भवन्ति। अभिपूर्वम् एवैतत् तृतीयसवने रसं मदं दधति। पुनानम् अभिगायत। शिशुं न हव्यै स्वदयन्त गूर्तिभिः॥ इति पशुरूपम् एवैतद् उपगच्छन्ति। पशूनां वै शिशुर् भवति। सं वत्स इव मातृभिर् इन्दुर् हिन्वानो अज्यत इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः। देवावीर् मदो मतिभिः परिष्कृतं इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः॥जैब्रा ३.१६२

तासु कार्णश्रवसम्। इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानस् स व्यस्मयत। तस्य कर्णौ समैषताम्। ताभ्यां नाशृणोत्। सो ऽकामयताबधिर् स्यां, शृणुयां कर्णाभ्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽबधिरो ऽभवद्, अशृणोत् कर्णाभ्याम्। सो ऽब्रवीद् अश्रौषं वै कर्णाभ्याम् इति। तद् एव कार्णश्रवसस्य कार्णश्रवसत्वम्। अबधिरो भवति, शृणोति कर्णाभ्यां य एवं वेद। तद् व् एवाचक्षते गौलोमम् इति। गोलोमा आङ्गिरसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे, बहुपशुर् भवति य एवं वेद। यद् उ गोलोमा आंगिरसो ऽपश्यत् तस्माद् गौलोमम् इत्य् आख्यायते। - जैब्रा ३.१६३

द्र. कार्णश्रवसम्(श्रुधि श्रुत्कर्ण इति) ग्रामगेयः