सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ७/वैखानसम्

वैखानसम्.
वैखानसम्.

न किष्टं कर्मणा नशद्यश्चकार सदावृधं ।
इन्द्रं न यज्ञैर्विश्वगूर्त्तमृभ्वसमधृष्टं धृष्णुमोजसा ॥ ११५५ ॥ ऋ. ८.७०.३
अषाढमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः ।
सं धेनवो जायमाने अनोनवुर्द्यावः क्षामीरनोनवुः ॥ ११५६ ॥

 
९. वैखानसम् ॥ वैखानसाः। बृहती। इन्द्रः।
नकिष्टाऽ३म्कर्मणानशात् ॥ यश्चाकारा । सदावृधाऽ२३म् । सदावृधाम् । इन्द्रान्नया । ज्ञैर्विश्वगू।
तमाऽ२र्भ्वसाऽ२३म्।। ॥ तमृभ्वसाम्॥ अधार्ष्टन्धा । ष्णुमोजसाऽ२३ ॥ ष्णुमोजसाऽ३४३ ॥श्रीः। अधृष्टाऽ३न्धृष्णुमोजसा ॥ अधार्ष्टंधा । ष्णुमोजसाऽ२३ ॥ ष्णुमोजसा । अषाढमू । ग्रंपृतना । सुसाऽसहाऽ२३इम् । सुसासहीम् ॥ यस्माइन्महाइः । उरुज्रयाऽ२३ः । उरुज्रयाऽ३४३ः ॥श्रीः॥ यस्मिन्माऽ३हीरुरुज्रयाः ॥ यस्माइन्महाइः । उरुज्रयाऽ२३ः । उरुज्रयाः । संधाइनवो। जायमाने अनोऽ२नवूऽ२३ः । अनोनवूः ॥ द्यावाःस्थिक्षामाइः । अनोनवूऽ२३ः ॥ अनोनवूऽ३४३ः। ओऽ२३४५इ ॥डा।।
दी. १९. उत्. ९. मा. २८. धैः ॥१२९॥

टिप्पणी

वैखानसम् (ग्रामगेयः) वैखानसा वा ऋषय इन्द्रस्य प्रिया आसंस्तान् रहस्युर्देवमलिम्लुड्मुनिमरणेऽमारयत् तं देवा अब्रुवन् क्व तर्षयो (?)ऽभूवान्निति तान् प्रैषमैच्छत् तान्नाविन्दत् स इमान् लोकानेकधारेणापुनात् तान्मुनिमरणेऽविन्दत् तानेतेन साम्ना समैरयत् तद्वाव स तर्ह्यकामयत कामसनि साम वैखानसं काममेवैतेनावरुन्धे स्तोमः - तांब्रा. १४.४.४

वैखानसमच्छावाकसाम यच्छुक्रिये सवने क्रियेते तेनैव जगती कृता तेन पशव्यः - तांब्रा. १८.११.११

अथैता भवन्ति नकिष् टं कर्मणा नशद् इति। अति वा एतर्हि बृहती बृहतीं क्रामत्य्, अति ककुप् ककुभम्, अत्य् अनुष्टुब् अनुष्टुभम्। सैषा बृहती सती जगती संपद्यते। तेनातिक्रामति। सा अत्य् अष्टमम् अहर् जिहीते, नवमम् अहर् अभ्यारभते, प्रति षष्ठम् अपधावति॥१८९॥ तासु वैखानसम्। वैखानसा वा एतानि सामान्य् अपश्यन्न् अभ्यारम्भं यज्ञस्य प्रत्यपसारम्। अभ्यारम्भैर् वै देवा असुरान् यज्ञाद् अन्तरायन्। अथ ह वै वैखानसा इत्य् ऋषिका इन्द्रस्य प्रिया आसुः। तान् ह रहस्युर् मारिम्लवो मारयांचकार। तान् हेच्छन् रहस्युम् उपेयाय। तं होवाच - रहस्यो, नेह तान् वैखानसान् इत्य् ऋषिकान् अद्राक्षीर् इति। स होवाच - स्यो वै भगवस् तान् अमारयद् इति। तं होवाचां रहस्यो, यत्रो दुष्प्रतिज्ञाना भ्रूणहत्या। अथ कथं प्रत्यज्ञास्था इति। स होवाचानृतं च भ्रूणहत्यां चोदयांसम्। तद् अनृतम् एवायासीत्। स सत्यम् एवाभ्युपागाद् इति। तं होवाच वरं वृणीष्व यः प्रत्यज्ञास्था इति। स होवाच - ब्राह्मण एव मे प्रजायाम् आजायताम् इति। ते हैते तक्षवो राहस्यवा । अथो आहुर् इन्द्रम् एव तद् देवता अभ्यशंसन्न् इन्द्रं पर्यचक्षत - त्वयि सतस् तवो मारिम्लवो ऽमीमरद् इति। सो ऽकामयत सम् ऐनान् ईरयेयम् इति। स एतत् सामापश्यत्। तेनैनान् समैरयत्। तद् एतद् भेषजं प्रायश्चित्तिस् साम। भेषजं वै सत् प्रायश्चित्तिम् अकुरुत। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् एवैतेन भिषज्यन्ति। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। तद् इन्द्रो ह वै विखानाः। स यद् इन्द्र एतत् सामापश्यत्, तस्माद् वैखानसम् इत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥जैब्रा ३.१९०