जैमिनीयं ब्राह्मणम्/काण्डम् ३/१८१-१९०
← कण्डिका १७१-१८० | जैमिनीयं ब्राह्मणम्/काण्डम् ३ कण्डिका १८१-१९० [[लेखकः :|]] |
कण्डिका १९१-२०० → |
ये ह खलु वा अयुज स्तोमास् ते युग्मन्तो, ये युग्मन्तास् ते ऽयुजः। तद् ये ऽयुज स्तोमास् तान् ग्राम्याः पशवो ऽन्व्, अथ ये युग्मन्तस् तान् आरण्याः। तद् यद् अयुजां स्तोमानां साम युग्मोत्तमं भवति, तस्माद् ग्राम्याः पशवो युक्ता वहन्ति। अथ यद् युग्मतां स्तोमानां सामायुग् उत्तमं भवति तस्माद् आरण्याः पशवो युक्ताश् चरन्ति। अथ यस्माद् दशमे ऽहनि पञ्चदशत्रयस्त्रिंशौ स्तोमौ भवतस् तस्माद् उ यौ ज्येष्ठौ पशूनां तौ युक्तौ वहतो हस्ती चोष्ट्रश् च॥3.181॥
वृषा पवस्व धारयेति माध्यन्दिनस्य पवमानस्य वृषण्वतीर् गायत्र्यो भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। मरुत्वते च मत्सर इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। तं त्वा धर्तारम् ओण्योर् इति विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् यत् तं त्वा धर्तारम् इत्य् अह्न् एव धृत्यै। तासु गायत्रम् उक्तब्राह्मणम्। अथ सन्तनि। यथा ह वै व्योकसौ विच्छिद्य व्युत्क्रामत एवं षष्ठं च सप्तमं चाहनी व्युच्छिद्य व्युत्क्रामतः। स यथाश्वं संयोजनेन संयुज्याद् एवम् अत्र सन्तति। तस्य सकृत् प्रस्तौति, त्रिः प्रतिहरति, त्रिर् निधनम् उपयन्ति। तत् सप्त संपद्यन्ते सप्तमस्याह्नो रूपं, सप्तरात्रस्य सन्तत्या अव्यवच्छेदाय। अथ सौपर्णम् उक्तब्राह्मणम्। अतिक्रान्तो वा एतर्हि यज्ञो भवति सप्तमे ऽहन्। तद् यद् अत्र सौपर्णं भवति यज्ञस्यैवारम्भाय। तद् ऐळं भवति - पशवो वा इळा। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै॥3.182॥
अथ रोहितकूलीयम्। विश्वामित्रो वै भरतानाम् अनस्वत्या महावृषान् अयात्। तद् ध गंगायै वा यमुनायै वा बृहत् प्रतिकूलम् आस। ते होचुर् महावृषाः - कौ स्वित् ताव् एतर्ह्य् अनड्वाहौ, याव् इदम् इयद् बृहत् प्रतिकूलम् उद्वहेताम् इति। स होवाच विश्वामित्रस् - तौ त्वे मम रोहिताव् इति। रोहितौ हास्यानड्वाहाव् आसतुः। ते होचुर् महावृषास् - ते वा अंशम् अवहरावहै - यदि तवैतद् अनड्वाहाव् उद्वहातो, वस्न्य एव त्वम् अनांसि पूरयासै। यद्य् उ नोद्वहातो, वस्न्या उ वयं त्वां जयेमेति। तथेति। ते हांशम् अवजह्रिरे। तौ ह यवाचितस्य वा व्रीह्याचितस्य वा धुरि युयुजुः। सो ऽकामयत विश्वामित्र - उद् इमम् आजिं जयेयम् इति। स एते सामनी अपश्यत्। ताभ्याम् एनाव् अनुपरिक्रामम् अभ्यसेधत्। ताव् उदपारयेताम्। ताव् उदजयेताम्। ततो वै स तम् आजिम् उदजयत्। प्रतिकूलम् इवैते यन्ति ये षष्ठाद् अह्नश् छन्दोमान् अभ्युत्क्रामन्ति। तद् यद् अत्र रोहितकूलीयं भवत्य् उज्जित्या एव। उज्जयति य एवं वेद। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते, सम् अस्मै स काम ऋध्यते। यद् उ कूले रोहिताभ्याम् उदजयत्, तस्माद् रोहितकूलीये इत्य् आख्यायेते। पुनानस् सोम धारयेत्य् उभयरूपा बृहती भवति। एषा ह वा उभे सामनी उद्ययाम, तस्माद् एतां कुर्वन्त्य् एव बृहत्साम्नः कुर्वन्ति रथन्तरसाम्नः॥3.183॥
तासु रौरवम्। देवा वा एता अयातयाम्नीस् तनूर् असुरयुद्धाय प्रावृहन्त। अग्निर् एव रौरवं प्रावृहत। तेनासुरान् अभ्यतपत्। ते ऽभितप्यमाना अरवन्त। यद् अभितप्यमानारवन्त तद् रौरवस्य रौरवत्वम्। अभितपति भ्रातृव्यं श्रेयान् भूत्वा य एवं वेद। तद् आग्नेयं सामाग्नेये ऽहन् क्रियते। आग्नेयम् एतद् अहर् यद्गायत्रम्। अग्निर् हि गायत्री। तद् यद् अत्र रौरवं क्रियते ऽहर् एव तद्रूपेण समर्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् ऋद्धुकं भवति। तद् ऐळं भवति - पशवो वा इळा। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। अथ रथन्तरम्। जामि द्वादशाहस्यास्तीत्य् आहुः। बार्हतं षष्ठम् अहर् बार्हतं सप्तमम्। पवमाने रथन्तरं प्रोहन्त्य् अजामितायै। नान्यतो ऽपसक्तो विवधो ह्रियत इत्य् आहुः। तद् यद् उभे बृहद्रथन्तरे भवतस् स विवधताया एव। यो वै मूलाद् अग्रं संचिक्रमिषति न स शक्नोत्य्, अथ यो ऽग्राद् अग्रं संक्रामति स शक्नोति। अग्राद् वा एते ऽग्रं संक्रामन्ति ये बृहतो बृहद् उपयन्ति। तस्माद् बार्हतं षष्ठम् अहर् भवति, बार्हतं सप्तमम्॥3.184॥
अथ गौङ्गवं यत् साम देवता प्रशंसति। सामैतद् देवता प्रशंसति तेन यजमानास् सत्याशिषो भवन्ति। देवासुराः पशुष्व् अस्पर्धन्त। ते ऽसुराः पशुभिस् सह समुद्रम् अभ्यवायन्। ते देवा अकामयन्त - वृञ्जीमह्य् असुराणां पशून् इति। त एतत् सामापश्यन्। तेनास्तुवत। तेनासुराणां पशून् अवृञ्जत। ते ऽब्रुवन् गां गां वावासुराणाम् अवृक्ष्महीति। तद् एव गौङ्गवस्य गौङ्गवत्वम्। तद् एतत् पशव्यं साम। गां - गाम् एव द्विषतो भ्रातृव्यस्य वृंक्ते ऽव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। गौङ्गवेन वै देवा असुरान् हत्वा घोषं गंगणिम् अकुर्वत। तद् व् एव गौङ्गवस्य गौङ्गवत्वम्। तद् उ भ्रातृव्यहा। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। तद् ऊर्ध्वम् इव च तिर्यग् इव च गीयते। यद् ऊर्ध्वम् इव गीयते तद् बृहतो रूपं, यत् तिर्यग् इव तद् रथन्तरस्य। एतद् वै समृद्धं छन्दोमानां यद् उभयं रूपम्॥3.185॥
अथ समन्तम्। इन्द्राग्नी वा अकामयेतां - समन्तौ स्याव, समानीम् ऋद्धिम् ऋध्नुयावेति। ताव् एतत् सामापश्यताम्। अर्धम् अन्यो ऽपश्यद् अर्धम् अन्यः। तस्यान्तौ समाहृत्य समधत्ताम्। यत् समधत्तां तत् समन्तस्य समन्तत्वम्। तेनास्तुवाताम्। ततो वै तौ समन्ताव् अभवतां, समानीम् ऋद्धिम् आर्ध्नुताम्। तद् ब्रह्म वा अग्निः, क्षत्रम् इन्द्रः। उभयं ब्रह्म च क्षत्रं चावरुन्द्धे य एवं वेद। तस्माद् उ हैतत् सामैतस्माद् अह्नो नान्तरित्यम्। इदं वै रथन्तरम् अदो बृहत्। इदम् एवान्तरिक्षं समन्तम् अनयोर् एव लोकयोस् समन्तत्वाय। एतेन वा एते समन्ते। समन्तेन पशुकाम स्तुवीत। पशवो वा अन्तरिक्षं, पशवस् समन्तम्। पशुमान् एव भवति समन्तेन तुष्टुवानः। ब्राह्मणः पुरोधाकामस् समन्तेन स्तुवीत। आग्नेयो ब्राह्मण, ऐन्द्रो राजन्य, आग्नेयी पृथिव्य्, ऐन्द्री द्यौः। ते एते ऽन्तरिक्षम् अभि समन्ते। समन्ताव् एनौ करोति ब्राह्मणं च राजन्यं च समन्तेन तुष्टुवानो, गच्छति पुरोधां, पुर एनं दधते। प्रजापतिर् वा अकामयत - समन्तः प्रजया पशुभि स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स समन्तः प्रजया पशुभिर् अभवत्। तद् व् एव समन्तस्य समन्तत्वम्। समन्त एव प्रजया पशुभिर् भवति य एवं वेद॥3.186॥
अथायास्यं बार्हतराथन्तरम्। उभौ वर्णौ समृद्ध्यै। मध्येनिधनं प्रतिष्ठायै। आदित्याश् च वा अंगिरसश्च स्वर्गे लोके ऽस्पर्धन्त। त ऐक्षन्त यतरे नो यतरान् याजयिष्यन्ति ते हास्यन्त इति। ते ऽङ्गिरसः पूर्वे यज्ञं समभरन्, श्वस्सुत्यान्ते ऽग्निम् आङ्गिरसं दूतं प्राहिण्वन्न् - इमान् न श्वस्सुत्याम् आदित्येभ्यः प्रब्रूहीति। स एत्याब्रवीद् - आदित्या, अङ्गिरसो व श्वस्सुत्यां प्राहुर् इति। तं होचुर् अपेहि मन्त्रयित्वा त्वा प्रतिवक्ष्याम इति। तस्माद् इदम् अप्य् एतर्हि दूतम् आहुर् - अपेहि मन्त्रयित्वा त्वा प्रतिवक्ष्याम इति। ते होचुर् उप तज् जानीत यथा अस्मान् एवांगिरसो याजयेयुर् न वयम् अङ्गिरसः। यदि याजयिष्यामो हास्यामहे, यद्य् उ न याजयिष्यामो यज्ञाद् यशसो ऽपक्रमिष्याम इति। तस्माद् उ ह वृतेन नापक्राम्ये, यज्ञाद यशसो नेद् अपक्रामाणीति॥3.187॥
पदेन हापेयात्। स्वं वा यज्ञम् अभ्युपेयाद्। इदं च त्वया कृतम् इति वा। त एतम् आदित्यास् [१]सद्यःक्रीयं यज्ञं समभरन्। ते ऽब्रुवन्न् अग्ने चिरं तद् यच् छ्व, इमाम् एव वयं तुभ्यम् अद्य सुत्यां प्रब्रूमः। तेषां नस् त्वं होतासि, गौर् आंगिरसो ऽध्वर्युर्, बृहस्पतिर् उद्गाता, अयास्यो ब्रह्मेति सर्वान् अवृणत। सो ऽब्रवीद् - दूतो वा अहं चरामीति। तम् अग्निं दूतं वृणीमह इत्य् एव दूतं चरन्तम् अवृणत। स एषां वृतोनापाक्रामत्। स पुनर् एत्याब्रवीद्, अङ्गिरस, आदित्या वो ऽद्यसुत्यां प्राहुर् इति। तेन होतुर् एव नो ऽवृथा इति। नेति होवाच। दूतो युष्माकम् अभूवं, वृत एवामीषाम् अस्म्य्, आद् अह नूनम् अमी युष्मन् मेधावितरा वा धीरतरा वाभूवन् य एतत् पूर्वे दृशन्न् इति। ते वृता नापाक्रामन्। त एत्यायाजयन्। तेभ्य एतम् आदित्या आदित्यम् एवाश्वं श्वेतं भूतम् अश्वाभिधान्य् अभिहितम् अयास्याय ब्रह्माश्वं नीत्वा स्वर्गं लोकम् अगच्छन्। अहीयन्ताङ्गिरसः। सो ऽयास्यस् सदृशाव् आत्मन श्रेयांसं वा प्रतिगृह्य व्यभ्रंशत। सो ऽकामयत सम् आत्मानं श्रीणीयेति। स एतत् सामापश्यत्। तेनात्मानं समश्रीणीत। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् यद् अत्रायास्यं भवति सम् एवैनद् एतेन श्रीणन्ति, भिषज्यन्त्य् एवैनम् एतेन । यद् व् अयास्यो ऽपश्यत् तस्माद् आयास्यम् इत्य् आख्यायते। [२]प्रो अयासीद् इन्दुर् इन्द्रस्य निष्कृतम् इति प्रवद् ऋचा च साम्ना चैतद् अहः प्रणयन्ति। उभौ वर्णौ समृद्ध्यै। प्रेति भृगवः प्रेत्य् अङ्गिरसः प्रेत्य् आदित्या स्वर्गं लोकम् आरोहन्। प्रेत्य् एवैतेन स्वर्गं लोकम् आरोहन्ति॥3.188॥
अथ बृहत्। वर्ष्म वै बृहत्। वर्ष्मण्य् एवैतत् प्रतितिष्ठन्तो यन्ति। तद् गायत्रे ऽहन् भवति। पुंसो वा एतद् रूपं यद् बृहत्, स्त्रियै गायत्री। तद् यद् अत्र बृहत् पृष्ठं भवति तेनैवैतद् अहर् मिथुनं क्रियते। अथ वामदेव्यम्। पशवो वै वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। वयं घ त्वा सुतावन्त इति सतोबृहतीर् आक्रमन्ते ऽनपभ्रंशाय। तास्व् अभिनिधनं काण्वम्।तद् आहुर् - विरुद्धं वा एतद् ब्रह्मसाम्नो यद् अन्यतरद् रूपम् अभिवदतीति। तद् यद् अभीति भवति तेन रथन्तरस्य रूपान् न यन्ति। इन्द्रो वै वृत्रम् अजिघांसत्। स कण्वम् उपाधावद् - ऋष उप त्वा धावाम, इह नो ऽधिब्रूहीति। स एतत् कण्वस् सामापश्यत्। तेनास्तुत। ततो वा इन्द्रो वृत्रम् अहन्। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। यद् व् एवास्मा एतेन साम्ना कण्वो ऽभीति वज्रम् अभ्यनदत्, तस्माद् अभिनिधनं काण्वम् इत्य् आख्यायते। अथैता भवन्ति नकिष् टं कर्मणा नशद् इति। अति वा एतर्हि बृहती बृहतीं क्रामत्य्, अति ककुप् ककुभम्, अत्य् अनुष्टुब् अनुष्टुभम्। सैषा बृहती सती जगती संपद्यते। तेनातिक्रामति। सा अत्य् अष्टमम् अहर् जिहीते, नवमम् अहर् अभ्यारभते, प्रति षष्ठम् अपधावति॥3.189॥
तासु वैखानसम्। वैखानसा वा एतानि सामान्य् अपश्यन्न् अभ्यारम्भं यज्ञस्य प्रत्यपसारम्। अभ्यारम्भैर् वै देवा असुरान् यज्ञाद् अन्तरायन्। अथ ह वै वैखानसा इत्य् ऋषिका इन्द्रस्य प्रिया आसुः। तान् ह रहस्युर् मारिम्लवो मारयांचकार। तान् हेच्छन् रहस्युम् उपेयाय। तं होवाच - रहस्यो, नेह तान् वैखानसान् इत्य् ऋषिकान् अद्राक्षीर् इति। स होवाच - स्यो वै भगवस् तान् अमारयद् इति। तं होवाचां रहस्यो, यत्रो दुष्प्रतिज्ञाना भ्रूणहत्या। अथ कथं प्रत्यज्ञास्था इति। स होवाचानृतं च भ्रूणहत्यां चोदयांसम्। तद् अनृतम् एवायासीत्। स सत्यम् एवाभ्युपागाद् इति। तं होवाच वरं वृणीष्व यः प्रत्यज्ञास्था इति। स होवाच - ब्राह्मण एव मे प्रजायाम् आजायताम् इति। ते हैते तक्षवो राहस्यवा । अथो आहुर् इन्द्रम् एव तद् देवता अभ्यशंसन्न् इन्द्रं पर्यचक्षत - त्वयि सतस् तवो मारिम्लवो ऽमीमरद् इति। सो ऽकामयत सम् ऐनान् ईरयेयम् इति। स एतत् सामापश्यत्। तेनैनान् समैरयत्। तद् एतद् भेषजं प्रायश्चित्तिस् साम। भेषजं वै सत् प्रायश्चित्तिम् अकुरुत। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् एवैतेन भिषज्यन्ति। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। तद् इन्द्रो ह वै विखानाः। स यद् इन्द्र एतत् सामापश्यत्, तस्माद् वैखानसम् इत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥3.190॥
- ↑ आर्षेयकल्पः पृ. १७४
- ↑ प्रवद्भार्गवम्