सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १२क/श्लोकानुश्लोके
ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ ॥ ४३९ ॥ ऋ. ५.३१.४
अनवस्ते रथमश्वाय तक्षुस्त्वष्टा वज्रं पुरुहूत द्युमन्तं ॥ ४४० ॥
(४३९।१) ॥ श्लोके द्वे। द्वयोः प्रजापतिस्त्रिष्टुबिन्द्रः ॥
हाउस्वरता॥ ब्रह्माणाऽ२ः । इन्द्रम् । आऽ । महयाऽ२०तोऽ२३४ । कैः॥ अवाऽ२र्द्धयान् । अहयेह । तवाऽ३४५इ । ऊ६५६ ॥ श्लोकयताऽ२३४५ ॥
( दी० ३ । प० ११ । मा० ६ )१ (टू । ७७२)x
(४३९।२)
हाउ । अभि । स्वरता॥ ब्रह्माणआइन्द्राऽ२म् । महयाऽ२०तोऽ२३४ । कैः । अवर्द्धायाऽ२न् ॥ अहयेहन्तवाऽ२३४५ऊऽ६५६॥ श्लोऽ२३४काः॥
( दी० ३ । प० ९ । मा० ८ )२( ढै । ७७३)
(४४०।१) ॥ अनुश्लोके द्वे। द्वयोः प्रजापतिस्त्रिष्टुबिन्द्रः त्वष्टा वा ॥
हाउस्वरता । स्वरतस्वराऽ२३ता । आनवस्तेरथम । श्वायाताऽ१क्षूऽ२३४: ॥ हाउस्वरता । स्वरतस्वराऽ२३ता । त्वष्टावज्रंपुरुहू । ताद्युमान्ताऽ२३४म् ॥ हाउस्वरता। स्वरतस्व । राऽ२ । ताऽ२३४ । औहोवा ॥ स्वराऽ३ताऽ२३४५॥
(दी० ९ । प० १४ । मा० ५.)३ (धु । ७७४)
.
टिप्पणी
महाव्रते अहनि हविर्द्धाने उपस्थानम् -- श्लोकानुश्लोकाभ्यां हविर्धाने उपतिष्ठन्ते कीर्तिमेव तज्जयन्ति - तां.ब्रा. ५.४.६
श्लोकानुश्लोकाभ्यां स्तुवते। श्लोकेन पुरस्ताद् अनुश्लोकेन पश्चात्। तद् यच् छ्लोकेन स्तुवते पुण्यं श्लोकम् अवरुणधामहा इति। अथ यद् अनुश्लोकेन पुण्यो ऽनुश्लोक उत्तस्थुषो ऽनूत्तिष्ठाद् इति। जै.ब्रा. २.४०२
उरुक्रमस्य देवस्य मायावामनरूपिणः। कीर्तौ पत्न्यां बृहच्छ्लोकस्तस्यासन्सौभगादयः भागवतपु ६.१८.८
स्वरश्च मे श्लोकश्च मे (यज्ञेन कल्पताम्) - तैसं ४.७.१.१