सुभाषितरत्नकोशः/४४ श्मशानव्रज्या

← ४३ वार्धक्यव्रज्या सुभाषितरत्नकोशः
४४ श्मशानव्रज्या
विद्याकरः
४५ वीरव्रज्या →

ततः श्मशानव्रज्या

चञ्चत्पक्षाभिघातग्लपितहुतभुजः प्रौढधाम्नश् चितायाः क्रोडाद् आकृष्टमूर्तेर् अहमहमिकया चण्डचञ्चुग्रहेण /
सद्यस् तप्तं शवस्य ज्वलद् इव पिशितं भूरि जग्ध्वार्धदग्धं पश्यान्तःप्लुष्यमाणः प्रविशति सलिलं सत्वरं गृध्रसंघः ४४.१ (१५२८)
पाणिनेः

उद्बद्धेभ्यः सुदूरं घनरजनितमःपूरितेषु द्रुमेषु प्रोद्ग्रीवं पश्य पादद्वितयधृतभुवः श्रेणयः फेरवाणाम् /
उल्कालोकैः स्फुरद्भिर् निजवदनगुहोत्सर्पिभिर् वीक्षितेभ्यश् च्योतत् सान्द्रं वसाम्भः क्वथितशववपुर्मण्डलेभ्यः पिबन्ति ४४.२ (१५२९)
पाणिनेः

उत्कृत्योत्कृत्य कृत्तिं प्रथमम् अथ पृथूच्छोफभूयांसो मांसान्य् अङ्गस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्य् अग्रपूतीनि जग्ध्वा /
आत्तस्नाय्वन्त्रनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्काद् अङ्कस्थाद् अस्थिसंस्थस्थपुटगतम् अपि क्रव्यम् अव्यग्रम् अत्ति ४४.३ (१५३०)

कर्णाभ्यर्णविदीर्णसृक्कविकटव्यादानदीप्ताग्निभिर् दंष्ट्राकोटिविसंकटैर् इत इतो धावद्भिर् आकीर्त्यते /
विद्युत्पुञ्जनिकाशकेशनयनभ्रूश्मश्रुजालैर् नभो लक्ष्यालक्ष्यविशुष्कदीर्घवपुषाम् उल्कामुखानां मुखैः ४४.४ (१५३१)

अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल- व्यक्तोत्तंसभृतः पिनह्य सहसा हृत्पुण्डरीकस्रजः /
एताः शोणितपङ्ककुङ्कुमकुषः सम्भूय कान्तैः पिबन्त्य् अस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः ४४.५ (१५३२)

एतत् पूतनचक्रम् अक्रमकृतश्वासार्धमुक्तैर् वृकान् उत्पुष्णत् परितो नृमांसविघसैर् आदर्दरं क्रन्दतः /
खर्जूरद्रुमदध्नजङ्घमसितत्वङ्नद्धविष्वक्तत- स्नायुग्रन्थिघनास्थिपञ्जरजरत्कङ्कालम् आलोक्यते ४४.६ (१५३३)

गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारसंवल्लित- क्रन्दत्फेरवचण्डहात्कृतिभृतिप्राग्भारभीमैस् तटैः /
अन्तःशीर्णकरङ्ककर्करतरत्संरोधिकूलंकष- स्रोतोनिर्गमघोरघर्घररवा पारेश्मशानं सरित् ४४.७ (१५३४)
भवभूतेर् अमी

अत्रास्थः पिशितं शवस्य कठिनैर् उत्कृत्य कृत्स्नं नखैर् नग्नस्नायुकरालघोरकुहरैर् मस्तिष्कदिग्धाङ्गुलिः /
संदश्यौष्ठपिटेन भुग्नवदनः प्रेतश् चिताग्निद्रुतं सूत्कारैर् नलकास्थिकोटरगतं मज्जानम् आकर्षति ४४.८ (१५३५)
जयादित्यस्य

चञ्चच्चञ्चूद्वृतार्धच्युतपिशितलवग्राससंवृद्धगर्धैर् गृध्रैर् आरब्धपक्षद्वितयविधुतिभिर् बद्धसान्द्रान्धकारे /
वक्त्रोद्वान्ताः पतन्त्यश् छिमितिशिखिशिखाश्रेणयो ऽस्मिञ् शिवानाम् अस्रस्रोतस्य् अजस्रस्रुतबहलवसा वासविस्रे स्वनन्ति ४४.९ (१५३६)
श्रीहर्षदेवस्य

विदूराद् अभ्यस्तैर् वियति बहुशो मण्डलशतैर् उदञ्चत्पुच्छाग्रस्तिमितविततैः पक्षतिपुटैः /
पतन्त्य् एते गृध्राः शवपिशितलोलाननगुहा- गलल्लालाक्लेदस्नपितनिजचञ्चूभयपुटाः ४४.१० (१५३७)

पिबत्य् एको ऽन्यस्माद् घनरुधिरम् आछिद्य चषकं ललज्जिह्वो वक्त्राद् गलितम् अपरो लेढु पिबतः /
ततः स्त्यानाः कश्चिद् भुवि निपतिताः शोणितकणाः क्षणाद् उच्चग्रीवो रसयति लसद्दीर्घरसनः ४४.११ (१५३८)

चिताग्नेर् आकृष्टं नलकशिखरप्रोतम् असकृत् स्फुरद्भिर् निर्वाप्य प्रबलपवनैः स्फूत्कृतशतैः /
शिरो नारं प्रेतः कबलयति तृष्णावशवलत्- करालास्यः प्लुष्यद्वदनकुहरस् तूद्गिरति च ४४.१२ (१५३९)
अमी श्रीक्षेमीश्वरस्य

अन्यादानाकुलान्तःकरणवशविपद्बाधितप्रेतरङ्कं ग्रासभ्रश्यत्करालश्लथपिशितशवाग्रग्रहे मुक्तनादम् /
सर्वैः क्रामद्भिर् उल्काननकवलरसव्यात्तवक्त्रप्रभाभिर् व्यक्तैस् तैः संवलद्भिः क्षणम् अपरम् इव व्योम्नि वृत्तं श्मशानम् ४४.१३ (१५४०)
वल्लणस्य

नेत्राकुञ्चनसारणक्रमकृतप्रव्यक्तनक्तंदिनो दिक्चक्रान्तविसर्पिसल्लरिसटाभारावरुद्धाम्बरः /
हस्तन्यस्तकपालकन्दरदरीमुक्ताभ्रधाराः पिबन्न् उन्मुक्तध्वनिभिन्नकर्णकुहरः क्रव्याद् अयं नृत्यति ४४.१४ (१५४१)

इति श्मशानव्रज्या|| ४४