प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०४७ हरिवंशपुराणम्
अध्यायः ०४८
वेदव्यासः
अध्यायः ०४९ →
श्रीकृष्णस्य आगमनेन चिन्तितानां राजानां सभायां जरासंधसुनीथानां भाषणम्

अष्टचत्वारिंशोऽध्यायः

वैशम्पायन उवाच
ते कृष्णमागतं दृष्ट्वा वैनतेयसहाच्युतम् ।
बभूवुश्चिन्तयाविष्टाः सर्वे नृपतिसत्तमाः ।। १ ।।
ते समेत्य सभां राजन् राजानो भीमविक्रमाः ।
मन्त्राय मन्त्रकुशला नीतिशास्त्रार्थवित्तमाः ।। २ ।।
भीष्मकस्य सभां गत्वा रम्यां हेमपरिष्कृताम् ।
सिंहासनेषु चित्रेषु विचित्रास्तरणेषु च ।
निषेदुस्ते नृपवरा देवा देवसभामिव ।। ३ ।।
तेषां मध्ये महाबाहुर्जरासंधो महाबलः ।
वभाषे स महातेजा देवान् देवेश्वरो यथा ।। ४ ।।
जरासंध उवाच
श्रूयतां भो नृपश्रेष्ठा भीष्मकश्च महामतिः ।
कथ्यमानं मया बुद्ध्या वचनं वदतां वराः ।। ५ ।।
योऽसौ कृष्ण इति ख्यातो वसुदेवसुतो बली ।
वैनतेयसहायेन सम्प्राप्तः कुण्डिनं त्विह ।। ६ ।।
कन्याहेतोर्महातेजा यादवैरभिसंवृतः ।
अवश्यं कुरुते यत्नं कन्यावाप्तिर्यथा भवेत् ।। ७ ।।
यदत्र कारणं कार्यं सुनयोपेतमृद्धितम् ।
कुरुध्वं नृपशार्दूला विनिश्चित्य बलाबलम् ।। ८ ।।
पदातिनौ महावीर्यौ वसुदेवसुतावुभौ ।
वैनतेयं विना तस्मिन् गोमन्ते पर्वतोत्तमे ।
कृतवन्तौ महाघोरं भवद्भिर्विदितं हि तत् ।। ९ ।।
वृष्णिभिर्यादवैश्चैव भोजान्धकमहारथैः ।
समेत्य युद्धमानस्य कीदृशो विग्रहो भवेत् ।। 2.48.१० ।।
कन्यार्थे यततानेन गरुडस्थेन विष्णुना ।
कः स्थास्यति रणे तस्मिन्नपि शक्रः सुरैः सह ।। ११ ।।
यदा चास्मै नापि सुता कदाचित् सम्प्रदीयते ।
ततो ह्ययं बलादेनां नेतुं शक्तः सुरैः सह ।। १२ ।।
पुरा एकार्णवे घोरे श्रूयते मेदिनी त्वियम् ।
पातालतलसम्मग्ना विष्णुना प्रभविष्णुना ।। १३ ।।
वाराहं रूपमास्थाय उद्धृता जगदादिना ।
हिरण्याक्षश्च दैत्येन्द्रो वराहेण निपातितः ।। १४ ।।
हिरण्यकशिपुश्चैव महाबलपराक्रमः ।
अवध्योऽमरदैत्यानामृषिगन्धर्वकिन्नरैः ।। १५ ।।
यक्षराक्षसनागानां नाकाशे नावनिस्थले ।
न चाभ्यन्तररात्र्यह्नोर्न शुष्केणार्द्रकेण च ।। १६ ।।
अवध्यस्त्रिषु लोकेषु दैत्येन्द्रस्त्वपराजितः ।
नरसिंहेन रूपेण निहतो विष्णुना पुरा ।। १७ ।।
वामनेन तु रूपेण कश्यपस्यात्मजो बली ।
अदित्या गर्भसम्भूतो बलिर्बद्धोऽसुरोत्तमः ।। १८ ।।
सत्यरज्जुमयैः पाशैः कृतः पातालसंश्रयः ।
कार्तवीर्यो महावीर्यः सहस्रभुजविग्रहः ।। १९ ।।
दत्तात्रेयप्रसादेन मत्तो राज्यमदेन च ।
जामदग्न्यो महातेजा रेणुकागर्भसंभवः ।। 2.48.२० ।।
त्रेताद्वापरयोः संधौ रामः शस्त्रभृतां वरः ।
पर्शुना(पशुना?) वज्रकल्पेन सप्तद्वीपेश्वरो नृपः ।
विष्णुना निहतो भूयः छद्मरूपेण हैहयः ।। २१ ।।
इक्ष्वाकुकुलसम्भूतो रामो दाशरथिः पुरा ।
त्रिलोकविजयं वीरं रावणं संन्यपातयत् ।। २२ ।।
पुरा कृतूयुगे विष्णुः संग्रामे तारकामये ।
षोडशार्द्धभुजो भूत्वा गरुडस्थो हि वीर्यवान् ।। २३ ।।
निजघानासुरान् युद्धे वरदानेन गर्वितान् ।
कालनेमिश्च दैतेयो देवानां च भयप्रदः ।। २४ ।।
सहस्रकिरणाभेन चक्रेण निहतो युधि ।
महायोगबलेनाजौ विश्वरूपेण विष्णुना ।। २५ ।।
अनेन प्राप्तकालास्ते निहता बहवोऽसुराः ।
वने वनचरा दैत्या महाबलपराक्रमाः ।। २६ ।।
निहता बालभावेन प्रलम्बारिष्टधेनुकाः ।
शकुनीं केशिनं चैव यमलार्जुनकावपि ।। २७ ।।
नागं कुवलयापीडं चाणूरं मुष्टिकं तथा ।
कंसं च बलिनां श्रेष्ठं सगणं देवकीसुतः ।। २८ ।।
न्यहनद् गोपवेषेण क्रीडमानो हि केशवः ।
एवमादीनि दिव्यानि छद्मरूपाणि चक्रिणा ।। २९ ।।
कृतानि दिव्यरूपाणि विष्णुना प्रभविष्णुना ।
तेनाहं वः प्रवक्ष्यामि भवतां हितकाम्यया ।। 2.48.३० ।।
तं मन्ये केशवं विष्णुं सुराद्यमसुरान्तकम् ।
नारायणं जगद्योनिं पुराणं पुरुषं ध्रुवम् ।। ३१ ।।
स्रष्टारं सर्वभूतानां व्यक्ताव्यक्तं सनातनम् ।
अधृष्यं सर्वलोकानां सर्वलोकनमस्कृतम् ।। ३२ ।।
अनादिमध्यनिधनं क्षरमक्षरमव्ययम् ।
स्वयम्भुवमजं स्थाणुमजेयं सचराचरैः ।। ३३।।
त्रिविक्रमं त्रिलोकेशं त्रिदशेन्द्रारिनाशनम् ।
इति मे निश्चिता बुद्धिर्जातोऽयं मथुरामधि ।। ३४ ।।
कुले महति वै राज्ञां विपुले चक्रवर्तिनाम् ।
कथमन्यस्य मर्त्यस्य गरुडो वाहनं भवेत् ।। ३५ ।।
विशेषेण तु कन्यार्थे विक्रमस्थे जनार्दने ।
कः स्थास्यति पुमानद्य गरुडस्याग्रतो बली ।। ३६ ।।
स्वयंवरकृतेनासौ विष्णुः स्वयमिहागतः ।
विष्णोरागमने चैव महान् दोषः प्रकीर्तितः ।। ३७ ।।
भवद्भिरनुचिन्त्येदं क्रियतां यदनन्तरम् ।
वैशम्पायन उवाच
एवं विब्रुवमाणे तु मगधानां जनेश्वरे ।। ३८ ।।
सुनीथ उवाच
सम्यगाह महाबाहुर्मगधाधिपतिर्नृपः ।। ३९ ।।
समक्षं नरदेवानां यथावृत्तं महाहवे ।
गोमन्ते रामकृष्णाभ्यां कृतं कर्म सुदुष्करम् ।। 2.48.४० ।।
गजाश्वरथसम्बाधा पत्तिध्वजसमाकुला ।
निर्दग्धा महती सेना चक्रलाङ्गलवह्निना ।। ४१ ।।
तेनायं मागधः श्रीमाननागतमचिन्तयत् ।
ब्रुवते राजसेनायामनुस्मृत्य सुदारुणम् ।। ४२ ।।
पदात्योर्युध्यतोस्तत्र बलकेशवयोर्युधि ।
दुर्निवार्यतरो घोरो ह्यभवद् वाहिनीक्षयः ।। ४३ ।।
विदितं वः सुपर्णस्य स्वागतस्य नृपोत्तमाः ।
पक्षवेगानिलोद्धूता बभ्रमुर्गगनेचराः ।। ४४ ।।
समुद्राः क्षुभिताः सर्वे चचालाद्रिर्मही मुहुः ।
वयं सर्वे सुसंत्रस्ताः किमुत्पातेति विक्लवाः ।। ४५ ।।
यदा संनह्य युध्येत आरूढः केशवः खगम् ।
कथमस्मद्विधः शक्तः प्रतिस्थातुं रणाजिरे ।। ४६ ।।
राज्ञां स्वयंवरो नाम सुमहान् हर्षवर्धनः ।
कृतो नरवरैराद्यैर्यशोधर्मस्य वै विधिः ।। ४७ ।।
इदं तु कुण्डिनगरमासाद्य मनुजेश्वराः ।
पुनरेवैष्यते क्षिप्रं महापुरुषविग्रहम् ।। ४८ ।।
यदि सा वरयेदन्यं राज्ञां मध्ये नृपात्मजा ।
कृष्णस्य भुजयोर्वीर्यं कः पुमान् प्रसहिष्यति ।। ४९ ।।
विज्ञापितमिदं दोषं स्वयंवरमहोत्सवे ।
तदर्थमागतः कृष्णो वयं चैव नराधिपाः ।। 2.48.५० ।।
कृष्णस्यागमनं चैव नृपाणामतिगर्हितम् ।
कन्याहेतोर्नरेन्द्राणां यथा वदति मागधः ।। ५१ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे मागधसुनीथवाक्ये अष्टचत्वारिंशोऽध्यायः ।। ४८ ।।