प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १०५ हरिवंशपुराणम्
अध्यायः १०६
वेदव्यासः
अध्यायः १०७ →
शम्बरासुरप्रद्युम्नानां मायामयं युद्धं, शम्बरस्य चिन्ता, देवराजस्य इन्द्रस्याज्ञया नारदेन प्रद्युम्नं तस्य पूर्वरूपस्य स्मारणं आवश्यकस्य कर्तव्यस्य सुज्ञानं च

षडधिकशततमोऽध्यायः

वैशम्पायन उवाच
शम्बरस्तु ततः क्रुद्धः सूतमाह विशाम्पते ।
शत्रुप्रमुखतो वीर रथं मे वाहय द्रुतम् ।। १ ।।
यावदेनं शरैर्हन्मि मम विप्रियकारकम् ।
ततो भर्तृवचः श्रुत्वा सूतस्तत्प्रियकारकः ।। २ ।।
रथं संचोदयामास चामीकरविभूषितम् ।
तं दृष्ट्वा रथमायान्तं प्रद्युम्नः फुल्ललोचनः ।। ३ ।।
संदधे चापमादाय शरं कनकभूषितम् ।
तेनाहनत् सुसंक्रुद्धः कोपयञ्शम्बरं रणे ।। ४ ।।
हृदये ताडितस्तेन देवशत्रुः सुविक्लवः ।
रथशक्तिं समाश्रित्य तस्थौ सोऽथ विचेतनः ।। ५ ।।
स चेतनां पुनः प्राप्य धनुरादाय शम्बरः ।
विव्याध कार्ष्णिं कुपितः सप्तभिर्निशितैः शरैः ।। ६ ।।
तानप्राप्ताञ्शरान् सोऽथ सप्तभिः सप्तधाच्छिनत्।
शम्बरं च जघानाथ सप्तत्या निशितैः शरैः ।। ७ ।।
पुनः शरसहस्रेण कङ्कबर्हिणवाससा ।
अहनच्छम्बरं क्रोधाद् धाराभिरिव पर्वतम् ।। ८ ।।
प्रदिशो विदिशश्चैव शरधारासमावृताः ।। ९ ।।
अन्धकारीकृतं व्योम दिनकर्ता न दृश्यते ।
ततोऽन्धकारमुत्सार्य वैद्युतास्त्रेण शम्बरः ।। 2.106.१० ।।
प्रद्युम्नस्य रथोपस्थे शरवर्षं मुमोच ह ।
तदस्त्रजालं प्रद्युम्नः शरेणानतपर्वणा ।। ११ ।।
चिच्छेद बहुधा राजन्दर्शयन् पाणिलाघवम्।
हते तस्मिन् महावर्षे शराणां कार्ष्णिना तदा ।। १२ ।।
द्रुमवर्षं मुमोचाथ मायया कालशम्बरः ।
द्रुमवर्षोच्छ्रितं दृष्ट्वा प्रद्युम्नः क्रोधमूर्च्छितः ।। १३ ।।
आग्नेयास्त्रं मुमोचाथ तेन वृक्षाननाशयत्।
भस्मीभूते वृक्षवर्षे शिलासंघातमुत्सृजत् ।। १४ ।।
प्रद्युम्नस्तं तु वायव्यैः प्रोत्सारयत संयुगे ।
ततो मायां परां चक्रे देवशत्रुः प्रतापवान् ।। १५ ।।
सिंहान्व्याघ्रान् वराहांश्च तरक्षूनृक्षवानरान् ।
वारणान् वारिदप्रख्यान्हयानुष्ट्रान्विशाम्पते।। १६ ।।
मुमोच धनुरायम्य प्रद्युम्नस्य रथोपरि ।
गान्धर्वास्त्रेण चिच्छेद सर्वांस्तान्खण्डशस्तदा ।।१७।।
प्रद्युम्नेन तु सा माया हता तां वीक्ष्य शम्बरः ।
अन्यां मायां मुमोचाथ शम्बरः क्रोधमूर्च्छितः ।। १८ ।।
गजेन्द्रान् भिन्नवदनान् षष्टिहायनयौवनान् ।
महामात्रोत्तमारूढान् कल्पितान् रणकोविदान्। १९ ।।
तामापतन्तीं मायां तु कार्ष्णिः कमललोचनः ।
सैंहीं मायां समुत्स्रष्टुं चक्रे बुद्धिं महामनाः ।। 2.106.२०।।
सा सृष्टा सिंहमाया तु रौक्मिणेयेन धीमता ।
माया नागवती नष्टा आदित्येनेव शर्वरी ।। २१ ।।
निहतां हस्तिमायां तु तां समीक्ष्य महासुरः ।
अन्यां सम्मोहिनीं मायां सोऽसृजद् दानवोत्तमः।।२२ ।।
तां दृष्ट्वा मोहिनीं नाम मायां मयविनिर्मिताम् ।
संज्ञास्त्रेण तु प्रद्युम्नो नाशयामास वीर्यवान् ।। २३ ।।
शम्बरस्तु ततः क्रुद्धो हतया मायया तदा ।
सैंहीं मायां महातेजाः सोऽसृजद् दानवेश्वरः।। २४।।
सिंहानापततो दृष्ट्वा रौक्मिणेयः प्रतापवान् ।
अस्त्रं गान्धर्वमादाय शरभानसृजत् तदा ।। २५ ।।
तेऽष्टापदा बलोदग्रा नखदंष्ट्रायुधा रणे ।
सिंहान् विद्रावयामासुर्वायुर्जलधरानिव ।। २६
सिंहान् विद्रवतो दृष्ट्वा माययाष्टापदेन वै ।
शम्बरश्चिन्तयामास कथमेनं निहन्मि वै ।
अहो मूर्खस्वभावोऽहं यन्मया न हतः शिशुः ।। २७ ।।
प्राप्तयौवनदेहस्तु कृतास्त्रश्चापि दुर्मतिः ।
तत् कथं निहनिष्यामि शत्रुं रणशिरःस्थितम् ।। २८ ।।
माया सा तिष्ठते तीव्रा पन्नगी नाम भीषणा ।
दत्ता मे देवदेवेन हरेणासुरघातिना ।। २९ ।।
तां सृजामि महामायामाशीविषसमाकुलाम् ।
तया दह्येत दुष्टात्मा ह्येष मायामयो बली ।। 2.106.३० ।।
सा सृष्टा पन्नगी माया विषज्वालासमाकुला ।
तया पन्नगमय्या तु सरथं सहवाजिनम् ।। ३१ ।।
ससूत स हि प्रद्युम्नं बबन्ध शरबन्धनैः ।
बध्यमानं तदा दृष्ट्वा आत्मानं वृष्णिवंशजः । ३२ ।।
मायां संचिन्तयामास सौपर्णीं सर्पनाशिनीम् ।
सा चिन्तिता महामाया प्रद्युम्नेन महात्मना ।। ३३ ।।
सुपर्णा विचरन्ति स्म सर्पा नष्टा महाविषाः ।
भग्नायां सर्पमायायां प्रशंसन्ति सुरासुराः ।। ३४ ।।
साधु वीर महाबाहो रुक्मिण्यानन्दवर्धन ।
यत्त्वया धर्षिता माया तेन स्म परितोषिताः ।। ३५ ।।
हतायां सर्पमायायां शम्बरोऽचिन्तयत् पुनः ।
अस्ति मे कालदण्डाभो मुद्गरो हेमभूषितः । ३६।।
तमप्रतिहतं युद्धे देवदानवमानवैः ।
पुरा यो मम पार्वत्या दत्तः परमतुष्टया ।। ३७ ।।
गृहाण शम्बरेमं त्वं मुद्गरं हेमभूषितम् ।
मया सृष्टं स्वदेहे वै तपः परमदुश्चरम् ।। ३८ ।।
मायान्तकरणं नाम सर्वासुरविनाशनम् ।
अनेन दानवौ रौद्रौ बलिनौ कामरूपिणौ ।। ३९ ।।
शुम्भश्चैव निशुम्भश्च सगणौ सूदितौ मया ।
प्राणसंशयमापन्ने त्वया मोक्ष्यः स शत्रवे ।। 2.106.४०।।
इत्युक्त्वा पार्वती देवी तत्रैवान्तरधीयत ।
तदहं मुद्गरं श्रेष्ठं मोचयिष्यामि शत्रवे ।। ४१।।
तस्य विज्ञाय चित्तं तु देवराजोऽभ्यभाषत ।
गच्छ नारद शीघ्रं त्वं प्रद्युम्नस्य रथं प्रति ।। ४२ ।।
सम्बोधय महाबाहुं पूर्वजातिं च मोक्षय ।
वैष्णवास्त्रं प्रयच्छास्मै वधार्थं शम्बरस्य च ।। ४३।।
अभेद्यं कवचं चास्य प्रयच्छासुरसूदने ।
एवमुक्तो मघवता नारदः प्रययौ त्वरम् ।। ४४ ।।
आकाशेऽधिष्ठितोऽवोचन्मकरध्वजकेतनम् ।
कुमार पश्य मां प्राप्तं देवगन्धर्वनारदम् ।
प्रेषितं देवराजेन तव सम्बोधनाय वै ।। ४५ ।।
स्मर त्वं पूर्वकं भावं कामदेवोऽसि मानद ।
हरकोपानलाद् दग्धस्तेनानङ्ग इहोच्यसे ।। ४६ ।।
त्वं वृष्णिवंशजातोऽसि रुक्मिण्या गर्भसम्भवः।
जातोऽसि केशवेन त्वं प्रद्युम्न इति कीर्त्यसे ।। ४७।।
आहृत्य शम्बरेण त्वमिहानीतोऽसि मानद ।
सप्तरात्रे त्वसम्पूर्णे सूतिकागारमध्यतः ।। ४८ ।।
वधार्थं शम्बरस्य त्वं ह्रियमाणो ह्युपेक्षितः ।
केशवेन महाबाहो देवकार्यार्थसिद्धये ।। ४९ ।।
यैषा मायावती नाम भार्या वै शम्बरस्य तु ।
रतिं तां विद्धि कल्याणीं तव भार्यां पुरातनीम् ।। 2.106.५० ।।
तव संरक्षणार्थाय शम्बरस्य गृहेऽवसत्।
मायां शरीरजां तस्य मोहनार्थं दुरात्मनः ।। ५१।।
रतेः सम्पादनार्थाय प्रेषयत्यनिशं तदा ।
एवं प्रद्युम्न बुद्ध्वा वै तत्र भार्या प्रतिष्ठिता ।। ५२ ।
हत्वा तं शम्बरं वीर वैष्णवास्त्रेण संयुगे ।
गृह्य मायावतीं भार्यां द्वारकां गन्तुमर्हसि ।। ५३ ।।
गृहाण वैष्णवं चास्त्रं कवचं च महाप्रभम् ।
शक्रेण तव संगृह्य प्रेषितं शत्रुसूदन ।। ५४ ।।
शृणु मे ह्यपरं वाक्यं क्रियतामविशङ्कया ।
अस्य देवरिपोस्तात मुद्गरो नित्यमूर्जितः ।। ५५ ।।
पार्वत्यां परितुष्टायां दत्तः शत्रुनिबर्हणः ।
अमोघश्चैव संग्रामे देवदानवमानवैः ।। ५६ ।।
तदस्त्रप्रविघातार्थं देवीं त्वं स्मर्तुमर्हसि ।
स्तव्या चैव नमस्या च महादेवी रणोत्सुकैः ।। ५७।।
तत्र वै क्रियतां यत्नः संग्रामे रिपुणा सह ।
इत्युक्त्वा नारदो वाक्यं प्रययौ यत्र वासवः ।। ५८ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शम्बरवधे नारदवाक्ये षडधिकशततमोऽध्यायः ।। १०६ ।।