हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ११२

← अध्यायः १११ हरिवंशपुराणम्
अध्यायः ११२
वेदव्यासः
अध्यायः ११३ →
ब्राह्मणबालकस्य रक्षणे अर्जुनस्य विफलता, ब्राह्मणेन अर्जुनस्य तिरस्कारं, तेषां श्रीकृष्णेन सह उत्तरां दिशायां गमनम्

द्वादशाधिकशततमोऽध्यायः

अर्जुन उवाच
मुहूर्तेन वयं ग्रामं तं प्राप्य भरतर्षभ ।
विश्रान्तवाहनाः सर्वे निवासायोपसंस्थिताः ।। १ ।।
ततो ग्रामस्य मध्येऽहं निविष्टः कुरुनन्दन ।
समन्ताद् वृष्णिसैन्येन महता परिवारितः ।। २।।
ततः शकुनयो दीप्ता मृगाश्च क्रूरभाषिणः ।
दीप्तायां दिशि वाशन्तो भयमावेदयन्ति मे ।। ३ ।।
संध्यारागो जपावर्णो भानुमांश्चैव निष्प्रभः ।
पपात महती चोल्का पृथिवी चाप्यकम्पत ।। ४ ।।
तान्समीक्ष्य महोत्पातान् दारुणाँल्लोमहर्षणान् ।
योगमाज्ञापयंस्तत्र जनस्योत्सुकचेतसः ।। ५ ।।
युयुधानपुरोगाश्च वृष्ण्यन्धकमहारथाः ।
सर्वे युक्तरथाः सज्जाः स्वयं चाहं तथाभवम् ।। ६ । ।
गतेऽर्धरात्रसमये ब्राह्मणो भयविक्लवः ।
उपागम्य भयादस्मानिदं वचनमब्रवीत् ।। ७ ।।
कालोऽयं समनुप्राप्तो ब्राह्मण्याः प्रसवस्य मे ।
तथा भवन्तस्तिष्ठन्तु न भवेद् वञ्चनं यथा ।। ८ ।।
मुहूर्तादेव चाश्रौषं कृपणं रुदितस्वनम् ।
तस्य विप्रस्य भवने ह्रियतेऽह्रियतेति च ।। ९ ।।
अथाकाशे पुनर्वाचमश्रौषं बालकस्य वै ।
ऊँहेति ह्रियमाणस्य न च पश्यामि राक्षसम् ।। 2.112.१० ।।
ततोऽस्माभिस्तदा तात शरवर्षैः समन्ततः ।
विष्टम्भिता दिशः सर्वा हृत एव स बालकः ।। ११ ।।
ब्राह्मणोऽऽर्तस्वरं कृत्वा हृते तस्मिन् कुमारके ।
वाचः स परुषास्तीव्राः श्रावयामास मां तदा ।। १२ ।।
वृष्णयो हतसंकल्पास्तथाहं नष्टचेतनः ।
मामेवं हि विशेषेण ब्राह्मणः प्रत्यभाषत ।। १३।।
रक्षिष्यामीति चोक्तं ते न च रक्षितवानसि ।
शृणु वाक्यमिदं शेषं यत् त्वमर्हसि दुर्मते ।। १४ ।।
वृथा त्वं स्पर्धसे नित्यं कृष्णेनामितबुद्धिना ।
यदि स्यादिह गोविन्दो नैतदत्याहितं भवेत् ।। १५ ।।
यथा चतुर्थं धर्मस्य रक्षिता लभते फलम्।
पापस्यापि तथा मूढ भागं प्राप्नोत्यरक्षिता ।। १६ ।।
रक्षिष्यामीति चोक्तं ते न च शक्तोऽसि रक्षितुम् ।
मोघं गाण्डीवमेतत्ते मोघं वीर्यं यशश्च ते ।। १७ ।।
अकिञ्चिदुक्त्वा तं विप्रं ततोऽहं प्रस्थितस्तथा ।
सह वृष्ण्यन्धकसुतैर्यत्र कृष्णो महाद्युतिः ।। १८ ।।
ततो द्वारवतीं गत्वा दृष्ट्वा मधुनिघातिनम् ।
व्रीडितः शोकसंतप्तो गोविन्देनोपलक्षितः ।। १९ ।।
स तु मां व्रीडितं दृष्ट्वा विनिन्दन् कृष्णसंनिधौ ।
मौढ्यं पश्यत मे योऽहं श्रद्दधे क्लीबकत्थनम् ।। 2.112.२० ।।
तं प्रद्युम्नो नानिरुद्धो न रामो न च केशवः ।
यत्र शक्ताः परित्रातुं कोऽन्यस्तदवनेश्वरः ।। २१ ।।
धिगर्जुनं वृथावादं धिगात्मश्लाघिनो धनुः ।
दैवोपसृष्टो यो मौर्ख्यादागच्छति च दुर्मतिः ।। २२ ।।
एवं शपति विप्रर्षौ विद्यामास्थाय वैष्णवीम् ।
ययौ संयमिनीं वीरो यत्रास्ते भगवान् यमः ।। २३ ।।
विप्रापत्यमचक्षाणस्तत ऐन्द्रीमगात् पुरीम् ।
आग्नेयीं नैर्ऋतीं सौम्यामुदीचीं वारुणीं तथा ।। २४ ।
रसातलं नाकपृष्ठं धिष्ण्यान्यन्यान्युदायुधः ।
ततोऽलब्ध्वा द्विजसुतमनिस्तीर्णप्रतिश्रवः ।। २५।।
अग्निं विविक्षुः कृष्णेन प्रद्युम्नेन निषेधितः ।
दर्शये द्विजसूनुं ते मावज्ञात्मानमात्मना ।। २६ ।।
कीर्तिं त एते विपुलां स्थापयिष्यन्ति मानवाः ।
इति सम्भाष्य मां स्नेहात् समाश्वास्य च माधवः ।। २७ ।।
सान्त्ययित्वा तु तं विप्रमिदं वचनमब्रवीत् ।
सुग्रीवं चैव शैब्यं च मेघपुष्पबलाहकौ । २८ ।।
योजयाश्वानिति तदा दारुकं प्रत्यभाषत ।
आरोप्य ब्राह्मणं कृष्णो ह्यवरोप्य च दारुकम् ।। २९ ।।
मामुवाच ततः शौरिः सारथ्यं क्रियतामिति ।
ततः समास्थाय रथं कृष्णोऽहं ब्राह्मणः स च।
प्रयाताः स्म दिशं सौम्यामुदीचीं कौरवर्षभ ।। 2.112.३० ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये श्रीकृष्णस्योदीचीगमने द्वादशाधिकशततमोऽध्यायः ।। ११२ ।।