प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०३९ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०४०
[[लेखकः :|]]
अध्यायः ०४१ →
देवेभिः स्वप्रभुत्वस्य प्राप्तिः, देवराजस्य इन्द्रस्य सर्वेषां लोकानां आधिपत्योपरि प्रतिष्ठा, सत्-असत् पुरुषाणां यथोचितगत्याय आदेशं दत्त्वा भगवतः अन्तर्धानं, देवेन्द्रेण पर्वतानां पक्षाणां छेदनम्

चत्वारिंशोऽध्यायः

वैशम्पायन उवाच
विद्राव्य तु रणे सर्वानसुरान् पुरुषोत्तमः ।
मुमोच तत्र बद्धांस्तान् पुरंदरमुखान् सुरान् ।। १ ।।
ततः प्रकृतिमापन्नाः सर्वे देवगणास्तथा ।
पुरंदरं पुरस्कृत्य नारायणमुपस्थिताः ।। २ ।।
देवा ऊचुः
त्वत्प्रसादेन भगवंस्तव बाहुबलेन च ।
जीवामोऽद्य महाबाहो निष्क्रान्ताश्चान्तकाननात्।। ३ ।।
त्वच्छासनाद्धि भगवन्किं कुर्वन्त्वदितेः सुताः ।
इच्छामः पादशुश्रूषां तव कर्तुं सनातन ।। ४ ।।
वैशम्पायन उवाच
तच्छ्रुत्वा वचनं तेषां पुण्डरीकनिभेक्षणः ।
उवाच वचनं देवान् मुदायुक्तो हतद्विषः ।। ५ ।।
श्रीभगवानुवाच
यो यस्य भावतो लोको मयैव विहितः पुरा ।
पाल्यतां स तु यत्नेन नियोगश्च क्वचित् क्वचित्।। ६ ।।
ऐश्वर्यं प्रतिपन्नाः स्वं क्रतुभागपुरस्कृतम् ।
मयैव पूर्वं निर्दिष्टो नियोगः प्रतिपाल्यताम् ।। ७ ।।
शक्रं चोवाच भगवान् वचनं दुन्दुभिस्वनः ।
इदं यथावत् कर्तव्यं सत्सु चासत्सु च त्वया।। ८ ।।
गच्छन्तु तपसा स्वर्गे मुनयः शंसितव्रताः ।
तव लोकं सुरश्रेष्ठ सर्वकामदुघं सदा ।। ९ ।।
यायजूकाश्च ये केचिद् ब्राह्मणाः क्षत्रिया विशः ।
तेषां कामदुघा लोकाः स्वर्गमादिमनोहराः ।
यज्ञैरिष्ट्वा यायजूकाः फलं ते प्राप्नुवन्तु च ।। 3.40.१० ।।
भावः सद्धर्मशीलानामभावः पापकर्मणाम् ।
सन्तः स्वर्गजितः सन्तु सर्वाश्रमनिवासिनः ।। ११ ।।
सत्यशूरा रणे शूरा दानशूराश्च ये नराः ।
ते नराः स्वर्गमश्नन्तु सदा ये चानसूयवः ।। १२ ।।
अश्रद्दधानाः पुरुषाः कामिनोऽर्थपराः शठाः ।
अब्रह्मण्या नास्तिकाश्च नरकं यान्तु मानवाः ।। १३ ।।
एतावत् क्रियतां वाक्यं मयोक्तं त्रिदशेश्वराः ।
ततो मयि स्थिते सर्वान् बाधिष्यन्ते न चारयः।। १४ ।।
इत्युक्त्वान्तर्हितो देवः शङ्खचक्रगदाधरः ।
देवतानां च सर्वेषामभवद् विस्मयो महान् ।। १५ ।।
एतदत्यद्भुतं दृष्ट्वा वाराहचरितं सुराः ।
नमस्कृत्य वराहाय नाकपृष्ठमितो गताः ।। १६ ।।
ततः स्वान्याधिपत्यानि प्रतिपन्नानि दैवतैः ।
सर्वलोकाधिपत्ये च प्रतिष्ठां वासवो गतः ।। १७ ।।
विमुक्ता दानवगणैः प्रकृतिं धरणी गता ।
स्थैर्यहेतोर्धरण्यास्तु ज्ञात्वा चागस्कृतान्गिरीन्।। १८।।
स्वेषु स्थानेषु संस्थाप्य पर्वतानां पुरंदरः ।
चिच्छेद भगवान् पक्षान् वज्रेण शतपर्वणा ।। १९ ।।
सर्वेषामेव पक्षा वै छिन्नाः शक्रेण धीमता ।
एकः सपक्षो मैनाकः सुरैस्तत्समयः कृतः ।। 3.40.२० ।।
एष नारायणस्यायं प्रादुर्भावो महात्मनः ।
वाराह इति विप्रेन्द्रैः पुराणे परिकीर्तितः ।। २१ ।।
कृष्णद्वैपायनमतं नानाश्रुतिसमाहितम् ।
नाशुचेर्न कृतघ्नाय न नृशंसाय कीर्तयेत् ।। २२ ।।
न क्षुद्राय न नीचाय न गुरुद्वेषकारिणे ।
नाशिष्याय तथा राजन् न कृतघ्नाय चैव हि ।। २३ ।।
आयुष्कामैर्यशःकामैर्महीकामैश्च मानवैः ।
जयैषिभिश्च श्रोतव्यो देवानामेष वै जयः ।। २४ ।।
पुराणवेदसम्बद्धः शिवः स्वस्त्ययनो महान् ।
पावनः सर्वसत्त्वानां तत्कालविजयप्रदः ।। २५ ।।
एष कौरव्य तत्त्वेन कथितस्त्वनुपूर्वशः ।
वाराहस्य नृपश्रेष्ठ प्रादुर्भावो महात्मनः ।। २६ ।।
ये यजन्ति मखैः पुण्यैर्दैवतानि पितॄनपि ।
आत्मानमात्मना नित्यं विष्णुमेव यजन्ति ते ।। २७ ।।
लोकायनाय त्रिदशायनाय ब्रह्मायनायात्मभवायनाय ।
नारायणायात्महितायनाय महावराहाय नमस्कुरुष्व ।। २८ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वाराहप्रादुर्भावे चत्वारिंशोऽध्यायः ।। ४० ।।