लघुसिद्धान्तकौमुदी/अजन्तस्त्रीलिङ्गप्रकरणम्

(अजन्तस्त्रीलिङ्गप्रकरणम् इत्यस्मात् पुनर्निर्दिष्टम्)
← अजन्तपुंलिङ्गप्रकरणम् लघुसिद्धान्तकौमुदी
अजन्तस्त्रीलिङ्गप्रकरणम्
वरदराजः
अजन्तनपुंसकलिङ्गप्रकरणम् →


अथाजन्तस्त्रीलिङ्गाः

रमा

औङ आपः॥ लसक_२१७ = पा_७,१.१८॥
आबन्तादङ्गात्परस्ययौङः शी स्यात्। औङित्यौकारविभक्तेः संज्ञा। रमे। रमाः॥

सम्बुद्धौ च॥ लसक_२१८ = पा_७,३.१०६॥
आप एकारः स्यात्सम्बुद्धौ। एङ्ह्रस्वादिति संबुद्धिलोपः। हे रमे। हे रमे। हे रमाः। रमाम्। रमे। रमाः॥

आङि चापः॥ लसक_२१९ = पा_७,३.१०५॥
आङि ओसि चाप एकारः। रमया। रमाभ्याम्। रमाभिः॥

याडापः॥ लसक_२२० = पा_७,३.११३॥
आपो ङितो याट्। वृद्धिः। रमायै। रमाभ्याम्। रमाभ्यः। रमायाः। रमयोः। रमाणाम्। रमायाम्। रमासु। एवं दुर्गाम्बिकादयः॥

सर्वनाम्नः स्याड्ढ्रस्वश्च॥ लसक_२२१ = पा_७,३.११४॥
आबन्तात्सर्वनाम्नो ङितः स्याट् स्यादापश्च ह्रस्वः। सर्वस्यै। सर्वस्याः। सर्वासाम्। सर्वस्याम्। शेषं रमावत्॥ एवं विश्वादय आबन्ताः॥

विभाषा दिक्समासे बहुव्रीहौ॥ लसक_२२२ = पा_१,१.२८॥
सर्वनामता वा। उत्तरपूर्वस्यै, उत्तरपूर्वायै। तीयस्येति वा सर्वनामसंज्ञा। द्वितीयस्यै, द्वितीयायै॥ एवं तृतीया॥ अम्बार्थेति ह्रस्वः। हे अम्ब। हे अक्क। हे अल्ल॥ जरा। जरसौ इत्यादि। पक्षे रमावत्॥ गोपाः, विश्वपावत्॥ मतीः। मत्या॥

ङिति ह्रस्वश्च॥ लसक_२२३ = पा_१,४.६॥
इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ, ह्रस्वौ चेवर्णोवर्णौ, स्त्रियां वा नदीसंज्ञौ स्तो ङिति। मत्यै, मतये। मत्याः २। मतेः २॥

इदुद्भ्याम्॥ लसक_२२४ = पा_७,३.११७॥
इदुद्भ्यां नदीसंज्ञकाभ्यां परस्य ङेराम्। मत्याम्, मतौ। शेषं हरिवत्॥ एवं बुद्ध्यादयः॥

त्रिचतुरोः स्त्रियां तिसृचतसृ॥ लसक_२२५ = पा_७,२.९९॥
स्त्रीलिङ्गयोरेतौ स्तो विभक्तौ॥

अचि र ऋतः॥ लसक_२२६ = पा_७,२.१००॥
तिसृ चतसृ एतयोरृकारस्य रेफादेशः स्यादचि। गुणदीर्घोत्वानामपवादः। तिस्रः। तिसृभ्यः। तिसृभ्यः। आमि नुट्॥

न तिसृचतसृ॥ लसक_२२७ = पा_६,४.४॥
एतयोर्नामि दीर्घो न। तिसृणाम्। तिसृषु॥ द्वे। द्वे। द्वाभ्याम्। द्वाभ्याम्। द्वाभ्याम्। द्वयोः। द्वयोः॥ गौरी। गौर्य्यौ। गौर्य्यः। हे गौरि। गौर्य्यै इत्यादि। एवं नद्यादयः॥ लक्ष्मीः। शेषं गौरीवत्॥ एवं तरीतन्त्र्यादयः॥ स्त्री। हे स्त्रि॥

स्त्रियाः॥ लसक_२२८ = पा_६,४.७९॥
अस्येयङ् स्यादजादौ प्रत्यये परे। स्त्रियौ। स्त्रियः॥

वाम्शसोः॥ लसक_२२९ = पा_६,४.८०॥
अमि शसि च स्त्रिया इयङ् वा स्यात्। स्त्रियम्, स्त्रीम्। स्त्रियः, स्त्रीः। स्त्रिया। स्त्रियै। स्त्रियाः। परत्वान्नुट्। स्त्रीणाम्। स्त्रीषु॥ श्रीः। श्रियौ। श्रियाः॥

नेयङुवङ्स्थानावस्त्री॥ लसक_२३० = पा_१,४.४॥
इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो न तु स्त्री। हे श्रीः। श्रियै, श्रिये। श्रियाः, श्रियः॥

वामि॥ लसक_२३१ = पा_१,४.५॥
इयङुवङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तो न तु स्त्री। श्रीणाम्, श्रियाम्। श्रियि, श्रियाम्॥ धेनुर्मतिवत्॥

स्त्रियां च॥ लसक_२३२ = पा_७,१.९६॥
स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते॥

ऋन्नेभ्यो ङीप्॥ लसक_२३३ = पा_४,१.५॥
ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप्। क्रोष्ट्री गौरीवत्॥ भ्रूः श्रीवत्॥ स्वयम्भूः पुंवत्॥

न षट्स्वस्रादिभ्यः॥ लसक_२३४ = पा_४,१.१०॥
ङीप्टापौ न स्तः॥
स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा।
याता मातेति सप्तैते स्वस्रादय उदाहृताः॥
स्वसा। स्वसारौ॥ माता पितृवत्। शसि मातॄः॥ द्यौर्गोवत्॥ राः पुंवत्॥ नौर्ग्लौवत्॥

इत्यजन्तस्त्रीलिङ्गाः

  1. संज्ञाप्रकरणम्
  2. अच्सन्धिप्रकरणम्
  3. हल्सन्धिप्रकरणम्
  4. विसर्गसन्धिप्रकरणम्
  5. अजन्तपुंलिङ्गप्रकरणम्
  6. अजन्तस्त्रीलिङ्गप्रकरणम्
  7. अजन्तनपुंसकलिङ्गप्रकरणम्
  8. हलन्तपुंलिङ्गप्रकरणम्
  9. हलन्तस्त्रीलिङ्गप्रकरणम्
  10. हलन्तनपुंसकलिङ्गप्रकरणम्
  11. अव्ययप्रकरणम्
  12. भ्वादिप्रकरणम्
  13. अदादिप्रकरणम्
  14. जुहोत्यादिप्रकरणम्
  15. दिवादिप्रकरणम्
  16. स्वादिप्रकरणम्
  17. तुदादिप्रकरणम्
  18. रुधादिप्रकरणम्
  19. तनादिप्रकरणम्
  20. क्र्यादिप्रकरणम्
  21. चुरादिप्रकरणम्
  22. ण्यन्तप्रक्रिया
  23. सन्नन्तप्रक्रिया
  24. यङन्तप्रक्रिया
  25. यङ्लुगन्तप्रक्रिया
  26. नामधातवः
  27. कण्ड्वादिः
  28. आत्मनेपदप्रकिया
  29. परस्मैपदप्रकिया
  30. भावकर्मप्रकिया
  31. कर्मकर्तृप्रकिया
  32. लकारार्थप्रकिया
  33. कृत्यप्रक्रिया
  34. पूर्वकृदन्तप्रकरणम्
  35. उणादिप्रकरणम्
  36. उत्तरकृदन्तप्रकरणम्
  37. विभक्त्यर्थाः (कारकप्रकरणम्)
  38. केवलसमासः
  39. अव्ययीभावसमासः
  40. तत्पुरुषसमासः
  41. बहुव्रीहिसमासः
  42. द्वन्द्वसमासः
  43. समासान्तप्रकरणम्
  44. तद्धिते साधारणप्रत्ययप्रकरणम्
  45. अपत्याधिकारप्रकरणम्
  46. रक्ताद्यर्थकप्रकरणम्
  47. चातुरार्थिकप्रकरणम्
  48. शैषिकप्रकरणम्
  49. विकारार्थप्रकरणम्
  50. ठगधिकारप्रकरणम्
  51. प्राग्घितीयप्रकरणम्
  52. छयतोरधिकारप्रकरणम्
  53. ठञधिकारप्रकरणम्
  54. त्वतलाधिकारप्रकरणम्
  55. भवनाद्यर्थकप्रकरणम्
  56. मत्वर्थीयप्रकरणम्
  57. प्राग्दिशीयप्रकरणम्
  58. प्रागिवीयप्रकरणम्
  59. स्वार्थिकप्रकरणम्
  60. स्त्रीप्रत्ययप्रकरणम्