प्रमुखा विकल्पसूचिः उद्घाट्यताम्


389

ग्रहोक्थं वा एतद्यत्प्रउगं नव प्रातर्ग्रहा गृह्यन्ते नवभिर्बहिष्पवमाने स्तुवते स्तुते स्तोमे दशमं गृह्णाति हिंकार इतरासां दशमः सो सा सम्मा वायव्यं शंसति तेन वायव्य उक्थवानैन्द्रवायवं शंसति तेनैन्द्रवायव उक्थवान्मैत्रावरुणं शंसति तेन मैत्रावरुण उक्थवानाश्विनं शंसति तेनाश्विन उक्थवानैन्द्रं शंसति तेन शुक्रामन्थिना उक्थवन्तौ वैश्वदेवं शंसति तेनाऽऽग्रयण उक्थवान्सारस्वतं शंसति न सारस्वतो ग्रहोऽस्ति वाक्तु सरस्वती ये तु केच वाचा ग्रहा गृह्यन्ते ते ऽस्य सर्वे शस्तोक्थाः उक्थिनो भवन्ति य एवं वेद॥3.1॥


394

अन्नाद्यं वा एतेनावरुन्द्धे यत्प्रउगमन्याऽन्या देवता प्रउगे शस्यतेऽन्यदन्यदुक्थं प्रउगे क्रियतेऽन्यदन्यदस्यान्नाद्यं ग्रहेषु ध्रियते य एवं वेदैतद्ध वै यजमानस्याध्यात्मतममिवोक्थं यत्प्रउगं तस्मादेनैनैतदुपेक्ष्यतममिवेत्याहुरेतेन ह्येनं होता संस्करोतीति वायव्यं शंसति तस्मादाहुर्वायुः प्राणः प्राणो रेतो रेतः पुरुषस्य प्रथमं सम्भवतः सम्भवतीति यद्वायव्यं शंसति प्राणमेवास्य तत्संस्करोत्यैन्द्रवायवं शंसति यत्र वाव प्राणस्तदपानो यदैन्द्रवायवं शंसति प्राणापानावेवास्य तत्संस्करोति मैत्रावरुणं शंसति तस्मादाहुश्चक्षुः पुरुषस्य प्रथमं सम्भवतः सम्भवतीति यन्मैत्रावरुणं शंसति चक्षुरेवास्य तत्संस्करोत्याश्विनं शंसति तस्मात्कुमारं जातं संवदन्त उप वै शुश्रूषते नि वै ध्यायतीति यदाश्विनं शंसति श्रोत्रमेवास्य तत्संस्करोत्यैन्द्रं शंसति तस्मात्कुमारं जातं संवदन्ते प्रतिधारयति वै ग्रीवा अथो शिर इति यदैन्द्रं शंसति वीर्यमेवास्य तत्संस्करोति वैश्वदेवं शंसति तस्मात्कुमारो जातः पश्चेव प्रचरति वैश्वदेवानि ह्यङ्गानि यद्वैश्वदेवं शंसत्यङ्गान्येवास्य तत्संस्करोति सारस्वतं शंसति तस्मात्कुमारं जातं जघन्या वागाविशति वाग्घि सरस्वती यत्सारस्वतं शंसति वाचमेवास्य तत्संस्करोत्येष वै जातो जायते सर्वाभ्य एताभ्यो देवताभ्यः सर्वेभ्य उक्थेभ्यः सर्वेभ्यश्छन्दोभ्यः सर्वेभ्यः प्रउगेभ्यः सर्वेभ्यः सवनेभ्यो य एवं वेद यस्य चैवं विदुष एतच्छंसन्ति॥3.2॥



399

प्राणानां वा एतदुक्थं यत्प्रउगं सप्त देवताः शंसति सप्त वै शीर्षन्प्राणाः शीर्षन्नेव तत्प्राणान्दधाति किं स यजमानस्य पापभद्रमाद्रियेतेति ह स्माऽऽह योऽस्य होता स्यादित्यत्रैवैनं यथा कामयेत तथा कुर्याद्यं कामयेत प्राणेनैनं व्यर्धयानीति वायव्यमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धम् प्राणेनैवैनं तद्व्यर्धयति यं कामयेत प्राणापानाभ्यामेनं व्यर्धयानीत्यैन्द्रवायवमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं प्राणापानाभ्यामेवैनं तद्व्यर्धयति यं कामयेत चक्षुषैनं व्यर्धायनीति मैत्रावरुणमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं चक्षुषैवैनं तद्व्यर्धयति यं कामयेत श्रोत्रेणैनं व्यर्धयानीत्याश्विनमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं श्रोत्रेणैवैनं तद्व्यर्धयति यं कामयेत वीर्येणैनं व्यर्धयानीत्यैन्द्रमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं वीर्येणैवैनां तद्व्यर्धयति यं कामयेताङ्गैरेनं व्यर्धयानीति वैश्वदेवमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धमङ्गैरेवैनं तद्व्यर्धयति यं कामयेत वाचैनं व्यर्धयानीति सारस्वतमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं वाचैवैनं तद्व्यर्धयति यमु कामयेत सर्वैरेनमङ्गैः सर्वेणात्मना समर्धयानीत्येतदेवास्य यथापूर्वमृजुक्लृप्तं शंसेत्सर्वैरेवैनं तदङ्गैः सर्वेणात्मना समर्धयति सर्वैरङ्गैः सर्वेणात्मना समृध्यते य एवं वेद॥3.3॥


तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रमाग्नेयीषु सामगा स्तुवते वायव्यया होता प्रतिपद्यते कथमस्याऽऽग्नेय्योऽनुशस्ता भवन्तीति। अग्नेर्वा एताः सर्वास्तन्वो यदेता देवताः। स यदग्निः प्रवानिव दहति तदस्य वायव्यं रूपं तदस्य तेनानुशंसति। अथ यद्द्वैधमिव कृत्वा दहति द्वौ वा इन्द्रवायू तदस्यैन्द्रवायवं रूपं तदस्य तेनानुशंसति। अथ यदुच्च हृष्यति नि च हृष्यति तदस्य मैत्रावरुणं रूपं तदस्य तेनानुशंसति। स यदग्निर्घोरसंस्पर्शस्तदस्य वारुणं रूपं तं यद्घोरसंस्पर्शं सन्तं मित्रकृत्येवोपासते तदस्य मैत्रं रूपं तदस्य तेनानुशंसति। अथ यदेनं द्वाभ्यां बाहुभ्यां द्वाभ्यामरणीभ्यां मन्थन्ति द्वौ वा अश्विनौ तदस्याऽऽश्विनं रूपं तदस्य तेनानुशंसति। अथ यदुच्चैर्घोष स्तनयन्बबबा कुर्वन्निव दहति यस्माद्भूतानि विजन्ते तदस्यैन्द्रं रूपं तदस्य तेनानुशंसति। अथ यदेनमेकं सन्तं बहुधा विहरन्ति तदस्य वैश्वदेवं रूपं तदस्य तेनानुशंसति। अथ यत्स्फूर्जयन्वाचमिव वदन्दहति तदस्य सारस्वतं रूपं तदस्य तेनानुशंसति। एवमु हास्य वायव्ययैव प्रतिपद्यमानस्य तृचेन तृचेनैवैताभिर्देवताभिः स्तोत्रियोऽनुशस्तो भवति। विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना। पिबा मित्रस्य धामभिरिति वैश्वदेवमुक्थं शस्त्वा वैश्वदेव्या यजति यथाभागं तद्देवताः प्रीणाति॥3.4॥ (11.4) (75)


देवपात्रं वा एतद्यद्वषट्कारो वषट्करोति देवपात्रेणैव तद्देवतास्तर्पयति। अनुवषट्करोति तद्यथा ऽदो ऽश्वान्वा गा वा पुनरभ्याकारं तर्पयन्त्येवमेवैतद्देवताः पुनरभ्याकारं तर्पयन्ति यदनुवषट्करोति। इमानेवाग्नीनुपासत इत्याहुर्धिष्ण्यानथ कस्मात्पूर्वस्मिन्नेव जुह्वति पूर्वस्मिन्वषट्कुर्वन्तीति। यदेव सोमस्याग्ने वीहीत्यनुवषट्करोति तेन धिष्ण्यान्प्रीणाति। असंस्थितान्सोमान्भक्षयन्तीत्याहुर्येषां नानुवषट्करोति को नु सोमस्य स्विष्टकृद्भाग इति। यद्वा सोमस्याग्ने वीहीत्यनुवषटकरोति तेनैव संस्थितान्सोमान्भक्षयन्ति स उ एव सोमस्य स्विष्टकृद्भागो वषट्करोति॥3.5॥ (11.5) (76)


414

वज्रो वा एष यद्वषट्कारो यं द्विष्यात्तं ध्यायेद्वषट्करिष्यंस्तस्मिन्नेव तं वज्रमास्थापयति षळ् इति वषट्करोति षड्वा ऋतव ऋतूनेव तत्क-ल्पयत्यृतून्प्रतिष्ठापयत्यृतून्वै प्रतितिष्ठत इदं सर्वमनुप्रतितिष्ठति यदिदं किंच प्रतितिष्ठति य एवं वेद तदु ह स्माह हिरण्यदन्बैद एतानि वा एतेन षट्प्रतिष्ठापयति द्यौरन्तरिक्षे प्रतिष्ठितान्तरिक्षम्पृथिव्याम्पृथिव्यप्स्वापः सत्ये सत्यम्ब्रह्मणि ब्रह्म तपसीत्येता एव तत्प्रतिष्ठाः प्रतितिष्ठन्तीरिदं सर्वम-नुप्रतितिष्ठति यदिदं किंच प्रतितिष्ठति य एवं वेद वौषळ् इति वषट्करोत्यसौ वाव वावृतवः षळ् एतमेव तदृतुष्वादधात्यृतुषु प्रतिष्ठापयति यादृगिव वै देवेभ्यः करोति तादृगिवास्मै देवाः कुर्वन्ति॥3.6॥


419

त्रयो वै वषट्कारा वज्रो धामच्छद्रिक्तः स यमेवोच्चैर्बलि वषट्करोति स वज्रस्तं तं प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै तस्मात्स भ्रातृव्यवता वषट्कृत्योऽथ यः समः संततोऽनिर्हाणर्चः स धामच्छत्तं तं प्रजाश्च पशवश्चानूपतिष्ठन्ते तस्मात्स प्रजाकामेन पशुकामेन वषट्कृत्योऽथ येनैव षळ् अवराध्नोति स रिक्तो रिणक्त्यात्मानं रिणक्ति यजमानं पापीयान्वषट्कर्ता भवति पापीयान्यस्मै वषट्करोति तस्मात्तस्याशां नेयात्किं स यजमानस्य पापभद्रमाद्रियेतेति ह स्माह योऽस्य होता स्यादित्यत्रैवैनं यथा कामयेत तथा कुर्याद्यं कामयेत यथैवानीजानोऽभूत्तथैवेजानः स्यादिति यथैवास्य ऋचं ब्रूयात्तथैवास्य वषट्कुर्यात्सदृशमेवैनं तत्करोति यं कामयेत पापीयान्स्यादित्युच्चैस्तरामस्य ऋचमुक्त्वा शनैस्तरां वषट्कुर्यात्पापीयांसमेवैनं तत्करोति यं कामयेत श्रेयान्स्यादिति शनैस्तरामस्य ऋचमुक्त्वोच्चैस्तरां वषट्कुर्याच् छ्रिय एवैनं तच्छ्रियामादधाति संततमृचा वषट्कृत्यं संतत्यै। संधीयते प्रजया पशुभिर्य एवं वेद॥3.7॥


यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्साक्षादेव तद्देवतां प्रीणाति प्रत्यक्षाद्देवतां यजति। वज्रो वै वषट्कारः स एष प्रहृतोऽशान्तो दीदाय तस्य हैतस्य न सर्व इव शान्तिं वेद न प्रतिष्ठां तस्माद्धाप्येतर्हि भूयानिव मृत्युस्तस्य हैषैव शान्तिरेषा प्रतिष्ठा वागित्येव तस्माद्वषट्कृत्य वषट्कृत्य वागित्यनुमन्त्रयेत स एनं शान्तो न हिनस्ति। वषट्कार मा मां प्रमृक्षो माऽहं त्वां प्रमृक्षं बृहता मन उपह्वये व्यानेन शरीरं प्रतिष्ठाऽसि प्रतिष्ठां गच्छ प्रतिष्ठां मा गमयेति वषट्कारमनुमन्त्रयेत। तदु ह स्माऽऽह दीर्घमेतत्सदप्रभ्वोजः सह ओजः। इत्येव वषट्कारमनुमन्त्रयेत। ओजश्च ह वै सहश्च वषट्कारस्य प्रियतमे तन्वौ। प्रियेणैवैनं तद्धाम्ना समर्धयति। प्रियेण धाम्ना समृध्यते य एवं वेद। वाक्च वै प्राणापानौ च वषट्कारस्य एते वषट्कृते वषट्कृते व्युत्क्रामन्ति ताननुमन्त्रयेत वागोजः सह ओजो मयि प्राणापानावित्यात्मन्येव तद्धोता वाचं च प्राणापानौ च प्रतिष्ठापयति सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥3.8॥ (11.8) (79)


यज्ञो वै देवेभ्य उदक्रामत्तं प्रैषैः प्रैषमैच्छन्यत्प्रैषैः प्रैषमैच्छंस्तत्प्रैषाणां प्रैषत्वम्। तं पुरोरुग्भिः प्रारोचयन्यत्पुरोरुग्भिः प्रारोचयंस्तत्पुरोरुचां पुरोरुक्त्वम्। तं वेद्यामन्वविन्दन्यद्वेद्यामन्वविन्दंस्तद्वेदेर्वेदित्वम्। तं वित्तं ग्रहैर्व्यगृह्णत यद्वित्तं ग्रहैर्व्यगृह्णत तद् ग्रहाणां ग्रहत्वम्। तं वित्त्वा निविद्भिर्न्यवेदयन्यद्वित्त्वा निविद्भिर्न्यवेदयंस्तन्निविदां निवित्त्वम्। महद्वावनष्टैष्यभ्यल्पं वेच्छति यतरो वाव तयोर्ज्याय इवाभीच्छति स एव तयोः साधीय इच्छति। य उ एव प्रैषान्वर्षीयसो वर्षीयसो वेद स उ एव तान्साधीयो वेद नष्टैष्यंह्येतद्यत्प्रैषाः। तस्मात्प्रह्वस्तिष्ठन्प्रेष्यति॥3.9॥ (11.9) (80)


गर्भा वा एत उक्थानां यन्निविदस्तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते तस्मात्पराञ्चो गर्भा धीयन्ते पराञ्चः संभवन्ति। यन्मध्यतो मध्यंदिने धीयन्ते तस्मान्मध्ये गर्भा धृताः। यदन्ततस्तृतीयसवने धीयन्ते तस्मादमुतोऽर्वाञ्चो गर्भाः प्रजायन्ते प्रजात्यै। प्रजायते प्रजया पशुभिर्य एवं वेद। पेशा वा एत उक्थानां यन्निविदस्तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते यथैव प्रवयणतः पेशः कुर्यातादृक्ततद्यन्मध्यतो मध्यंदिने धीयन्ते यथैव मध्यतः पेशः कुर्यात्तादृक्तद्यदन्ततस्तृतीयसवने धीयन्ते यथैवाव प्रज्जनतः पेशः कुर्यात्तादृक्तत्। सर्वतो यज्ञस्य पेशसा शोभते य एवं वेद॥3.10॥ (11.10) (81)


सौर्या वा एता देवता यन्निविदस्तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते मध्यतो मध्यंदिनेंततस्तृतीयसवन आदित्यस्यैव तद्व्रतमनु पर्यावर्तन्ते। पच्छो वै देवा यज्ञं समभरंस्तस्मात्पच्छो निविदः शस्यन्ते। यद्वै तद्देवाय यज्ञं समभरंस्तस्मादश्वः समभवत्तस्मादाहुरश्वं निविदां शंस्त्रे दद्यादिति तदु खलु वरमेव ददति। न निविदः पदमयतीयात्। यन्निविदः पदमतीयाद्यस्य तच्छिद्रं कुर्याद्यज्ञस्य वै छिद्रं स्रवद्यजमानोऽनु पापीयान्भवति तस्मान्न निविदः पदमतीयात्। न निविदः पदे विपरिहरेद्यन्निविदः पदे विपरिहरेन्मोहयेद्यज्ञं मुग्धो यजमानः स्यात्तस्मान्न निविदः पदे विपरिहरेत्। न निविदः पदे समस्येद्यन्निविदः पदेसमस्येद्यज्ञस्य तदायुः संहरेत्प्रमायुको यजमानः स्यात्तस्मान्न निविदः पदे समस्येत्। प्रेदं ब्रह्म प्रेदं क्षत्त्रमित्येते एव समस्येद् ब्रह्मक्षत्त्रयोः संश्रित्यै तस्माद्ब्रह्म च क्षत्त्रं च संश्रिते। न तृचं न चतुर्ऋचमतिमन्येत निविद्धानमेकैकं निविदः पदमृचं सूक्तं प्रति तस्मान्न तृचं न चतुर्ऋचमतिमन्येत निविद्धानं निविदा ह्येव स्तोत्रमतिशस्तं भवति। एकां परिशिष्य तृतीयसवने निविदं दध्यात्। यदहे परिशिष्य दध्यात्प्रजननंतदुपहन्याद्गर्भैस्तत्प्रजा व्यर्धयेत्तस्मादेकामेव परिशिष्य तृतीयसवने निविदं दध्यात्। न सूक्तेन निविदमतिपद्येत। येन सूक्तेन निविदमतिपद्येत न तत्पुनरुपनिवर्तेत वास्तुहमेव तत्। अन्यत्तद्दैवतं तच्छन्दसं सूक्तमाहृत्य तस्मिन्निविदं दध्यात्। मा प्रगाम पथो वयमिति पुरस्तात्सूक्तस्य शंसति। पथो वा एष प्रैति यो यज्ञे मुह्यति मा यज्ञादिन्द्र सोमिन इति यज्ञादेव तन्न प्रच्यवते। माऽन्तः स्थुर्नो अरातय इत्यरातीयत एव तदपहन्ति। यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः। तमाहुतं नशीमहीति। प्रजा वैतन्तुः प्रजामेवास्मा एतत्संतनोति। मनो न्वाहुवामहे नाराशंसेन सोमेनेति। मनसा वै यज्ञस्तायते मनसा क्रियते। सैव तत्र प्रायश्चित्तिः प्रायश्चित्तिः॥3.11॥ (11.11) (82)

445

देवविशः कल्पयितव्या इत्याहुश्छन्दश्छन्दसि प्रतिष्ठाप्यमिति शोंसा-वोमित्याह्वयते प्रातःसवने त्र्?यक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तदष्टाक्षरं सम्पद्यतेऽष्टाक्षरा वै गायत्री गायत्रीमेव तत्पुर-स्तात्प्रातःसवनेऽचीक्लृपतामुक्थं वाचीत्याह शस्त्वा चतुरक्षरमोमुक्थशा इ-त्यध्वर्युश्चतुरक्षरं तदष्ठाक्षरंसम्पद्यतेऽष्टाक्षरा वै गायत्री गायत्रीमेव तदुभयतः प्रातःसवनेऽचीक्लृपतामध्वर्यो शोंसावोमित्याह्वयते मध्यंदिने षळक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तदेकादशाक्षरं सम्पद्यत एका-दशाक्षरा वै त्रिष्टुप् त्रिष्टुभमेव तत्पुरस्तान्मध्यंदिनेऽचीक्लृपतामुक्थं वाची-न्द्रायेत्याह शस्त्वा सप्ताक्षरमोमुक्थशा इत्यध्वर्युश्चतुरक्षरं तदेकादशाक्षरं सम्पद्यत एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुभमेव तदुभयतो मध्यं-दिनेऽचीक्लृपतामध्वर्यो शोशोंसावोमित्याह्वयते तृतीयसवने सप्ताक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तद्द्वादशाक्षरं सम्पद्यते द्वादशाक्षार वै जगती जगतिमेव तत्पुरस्तात्तृतीयसवनेऽचीक्लृपतामुक्थं वाचीन्द्राय देवेभ्य इत्याह शस्त्वैकादशाक्षरमोमित्यध्वर्युरेकाक्षरं तद्द्वा-दशाक्षरं सम्पद्यते द्वादशाक्षर वै जगती जगतीमेव तदुभयतस्तृतीयसव-नेऽचीक्लृपतां तदेतदृषिः पश्यन्नभ्यनूवाच यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत यद्वा जगज्जगत्याहितम्पदं य इत्तद्विदुस्ते अमृतत्वमानशुरित्येतद्वै तच्छन्दश्छन्दसि प्रतिष्ठापयति। कल्पयति देवविशो य एवं वेद॥3.12॥



450

प्रजापतिर्वै यज्ञं छन्दांसि देवेभ्यो भागधेयानि व्यभजत्स गायत्रीमेवाग्नये वसुभ्यः प्रातःसवनेऽभजत्त्रिष्टुभमिन्द्राय रुद्रे भ्यो मध्यंदिने जगतीं विश्वेभ्यो देवेभ्य आदित्येभ्यस्तृतीयसवनेऽथास्य यत्स्वं छन्द आसीदनुष्टुप् तामुदन्त-मभ्युदौहदच्छावाकीयामभि सैनमब्रवीदनुष्टुप्त्वं न्वेव देवानाम्पापिष्ठोऽसि यस्य तेऽहं स्वं छन्दोऽस्मि याम्मोदन्तमभ्युदौहीरच्छावाकीयामभिति तदजानात्स स्वं सोममाहरत्स स्वे सोमेऽग्रम्मुखमभि पर्याहरदनुष्टुभं तस्माद्वनुष्टुबग्रिया मुख्या युज्यते सर्वेषां सवनानामग्रियो मुख्यो भवति श्रेष्ठतामश्नुते य एवं वेद स्वे वै स तत्सोमेऽकल्पयत्तस्माद्यत्र क्व च यजमानवशो भवति कल्पत एव यज्ञो पि। तस्यै जनतायै कल्पते यत्रैवं विद्वान्यजमानो वशी यजते॥3.13॥


455

अग्निर्वै देवानां होतासीत्तम्मृत्युर्बहिष्पवमानेऽसीदत्सोऽनुष्टुभाज्यम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तमाज्येऽसीदत्स प्रउगेण प्रत्यपद्यत मृत्युमेव तत्प-र्यक्रामत्तम्माध्यंदिने पवमानेऽसीदत्सोऽनुष्टुभा मरुत्वतीयम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तम्माध्यंदिने बृहतीषु नाशक्नोत्सत्तुम्प्राणा वै बृहत्यः प्राणानेव तन्नाशक्नोद्व्यवैतुं तस्मान्माध्यंदिने होता बृहतीषु स्तोत्रियेणैव प्रतिपद्यते प्राणा वै बृहत्यः प्राणानेव तदभि प्रतिपद्यते तं तृतीयपवमानेऽसीदत्सोऽनुष्टुभा वैश्वदेवम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तं यज्ञायज्ञीयेऽसीदत्स वैश्वानरीये-णाग्निमारुतम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामद्वज्रो वै वैश्वानरीयम्प्रतिष्ठा यज्ञायज्ञीयं वज्रेणैव तत्प्रतिष्ठाया मृत्युं नुदते स सर्वान्पाशान्सर्वान्स्था-णून्मृत्योरतिमुच्य स्वस्त्येवोदमुच्यत स्वस्त्येव होतोन्मुच्यते सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥3.14॥


460

इन्द्रो वै वृत्रं हत्वा नास्तृषीति मन्यमानः पराः परावतोऽगच्छत्स परमामेव परावतमगच्छदनुष्टुब्वै परमा परावद्वाग्वा अनुष्टुप् स वाचम्प्रविश्याशयत्तं सर्वाणि भूतानि विभज्यान्वैछंस्तम्पूर्वेद्युः पितरोऽविन्दन्नुत्तरमहर्देवास्तस्मा-त्पूर्वेद्युः पितृभ्यः क्रियत उत्तरमहर्देवान्यजन्ते तेऽब्रुवन्नभिषुणवामैव तथा वाव न आशिष्ठमागमिष्यतीति तथेति तेऽभ्यषुण्वंस्त आ त्वा रथां यथोतय इत्ये-वैनमावर्तयन्निदं वसो सुतमन्ध इत्येवैभ्यः सुतकीर्त्यामाविरभवदिन्द्र नेदीय एदिहीत्येवैनम्मध्यम्प्रापादयन्तागतेन्द्रे ण यज्ञेन यजते सेन्द्रे ण यज्ञेन राध्नोति य एवं वेद॥3.15॥


इन्द्रं वै वृत्रं जघ्निवांसं नास्तृतेति मन्यमानाः सर्वा देवता अजहुस्तं मरुत एव स्वापयो नाजहुः प्राणा वै मरुतः स्वापयः प्राणा हैवैनं तं नाजहुस्तस्मादेषोऽच्युतः स्वापिमान्प्रगाथः शस्यत आस्वापे स्वापिभिरिति। अपि ह यद्यैन्द्रमेवात ऊर्ध्वं छन्दः शस्यते तद्ध सर्वं मरुत्वतीयं भवत्येष चेदच्युतः स्वापिमान्प्रगाथः शस्यत आस्वापे स्वापिभिरिति॥3.16॥ (12.5) (87)


470

ब्राह्मणस्पत्यम्प्रगाथं शंसति बृहस्पतिपुरोहिता वै देवा अजयन्स्वर्गं लोकं व्यस्मिँ ल्लोकेऽजयन्त तथैवैतद्यजमानो बृहस्पतिपुरोहित एव जयति स्वर्गं लोकं व्यस्मिँ ल्लोके जयते तौ वा एतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते तदाहुर्यन्न किं चनास्तुतं सत्पुनरादायं शस्यतेऽथ कस्मादेतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते इति पवमानोक्थं वा एतद्यन्मरुत्वतीयं षट्सु वा अत्र गायत्रीषु स्तुवते षट्सु बृबतीषु तिसृषु त्रिष्टुप्सु स वा एष त्रिछन्दाः पञ्चदशो माध्यंदिनः पवमानस्तदाहुः कथं त एष त्रिछन्दाः पञ्चदशो माध्यंदिनः पवमानोऽनुशास्तो भवतीति ये एव गाय त्र्?या उत्तरे प्रतिपदो यो गाय-त्रोऽनुचरस्ताभिरेवास्य गायत्र्योऽनुशस्ता भवन्त्येताभ्यामेवास्य प्रगाथाभ्या-म्बृहत्योऽनुशस्ता भवन्ति तासु वा एतासु बृहतीषु सामगा रौरवयौ-धाजयाभ्याम्पुनरादायं स्तुवते तस्मादेतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते तच्छस्त्रेण स्तोत्रमन्वैति ये एव त्रिष्टुभौ धाय्ये यत्त्रैष्टुभं निवि-द्धानम्ताभिरेवास्य त्रिष्टुभोऽनुशस्ता भवन्त्येवमु हास्यैष त्रिछन्दाः पञ्चदशो माध्यंदिनः पवमानो नुशस्तो भवति य एवं वेद॥3.17॥


475

धाय्याः शंसति धाय्याभिर्वै प्रजापतिरिमाँ ल्लोकानधयद्यं-यं काममकामयत तथैवैतद्यजमानो धाय्याभिरेवेमाँ ल्लोकान्धयति यं-यं कामां कामयते य एवं वेद यदेव धाय्याः यत्रयत्र वै देवा यज्ञस्य छिद्रं निरजानंस्तद्धाय्याभिर-पिदधुस्तद्धाय्यानां धाय्यात्वमछिद्रे ण हास्य यज्ञेनेष्टम्भवति य एवं वेद यद्वेव धाय्याः स्यूम हैतद्यज्ञस्य यद्धाय्यास्तद्यथा सूच्या वासः संदधदियादे-वमेवैताभिर्यज्ञस्य छिद्रं संदधदेति य एवं वेद यद्वेव धाय्याः तान्यु वा एतान्युपसदामेवोक्थानि यद्धाय्या अग्निर्नेतेत्याग्नेयी प्रथमोपसत्तस्या एतदुक्थं त्वं सोम क्रतुभिरिति सौम्या द्वितीयोपसत्तस्या एतदुक्थम्पिन्वन्त्यप इति वैष्णवी तृतीयोपसत्तस्या एतदुक्थं यावन्तं ह वै सौम्येनाध्वरेणेष्ट्वा लोकं जयति तमत एकैकयोपसदा जयति य एवं वेद यश्चैवं विद्वान्धाय्याः शंसति तद्धैक आहुस्तान्वो मह इति शंसेदेतां वाव वयम्भरतेषु शस्यमानामभिव्यजानीम इति वदन्तस्तत्तन्नादृत्यं यदेतां शंसेदीश्वरः पर्जन्योऽवर्ष्टोः पिन्वन्त्यप इत्येव शंसेद्वृष्टिवनि पदम्मरुत इति मारुतमत्यं न मिहे वि नयन्तीति विनी-तवद्यद्विनीतवत्तद्विक्रान्तवद्यद्विक्रान्तवत्तद्वैष्णवं वाजिनमितीन्द्रो वै वाजी तस्यां वा एतस्यां चत्वारि पदानि वृष्टिवनि मारुतं वैष्णवमैन्द्रं सा वा एषा तृतीयसवनभाजना सती मध्यंदिने शस्यते तस्माद्धेदम्भरतानाम्पशवः सायंगोष्ठाः सन्तो मध्यंदिने संगविनीमायन्ति सो जगती जागता हि पशव आत्मा यजमानस्य मध्यंदिनस्तद्यजमाने पशून्दधाति॥3.18॥


मरुत्वतीयं प्रगाथं शंसति पशवो वै मरुतः पशवः प्रगाथः पशूनामवरुद्ध्यै। जनिष्ठा उग्रः सहसे तुरायेति सूक्तं शंसति तद्वा एतद्यजमानजननमेव सूक्तं यजमानं ह वा एतेन यज्ञाद्देवयोन्यै प्रजनयति। तत्संजयं भवति सं च जयति वि च जयते। एतद्गौरिवीतं गौरिवीतिर्ह वै शाक्त्यो नेदिष्ठं स्वर्गस्य लोकस्यागच्छत्स एतत्सूक्तमपश्यत्तेन स्वर्गं लोकमजयत्तथैवैतद्यजमान एतेन सूक्तेन स्वर्गं लोकं जयति। तस्यार्धाः शस्त्वाऽर्धाः परिशिष्य मध्ये निविदं दधाति। स्वर्गस्य हैष लोकस्य रोहो यन्निवित्। स्वर्गस्य हैतल्लोकस्याऽऽक्रमणं यन्निवित्तामाक्रममाण इव शंसेदुपैव यजमानं निगृह्णीत योऽस्य प्रियः स्यादिति नु स्वर्गकामस्य। अथाभिचरतो यः कामयेत क्षत्त्रेण विशं हन्यामिति त्रिस्तर्हि निविदा सूक्तं विशंसेत्क्षत्त्रं वै निविद्विट्सूक्तं क्षत्त्रेणैव तद्विशं हन्ति। यः कामयेत विशा क्षत्त्रं हन्यामिति त्रिस्तर्हि सूक्तेन निविदं विशंसेत्क्षत्त्रं वै निविद्विट्सूक्तं विशैव तत्क्षत्त्रं हन्ति। य उ कामयेतोभयत एनं विशः पर्यवच्छिनदानीत्युभयतस्तर्हि निविदं व्याह्वयीतोभयत एवैनं तद्विशः पर्यवच्छिनत्ति। इति न्वभिचरत इतरथा त्वेव स्वर्गकामस्य। वयः सुपर्णा उपसेदुरिन्द्रमित्युत्तमया परिदधाति। प्रियमेधा ऋषयो नाधमानाः। अप ध्वान्तमू्र्णुहीति येन तमसा प्रावृतो मन्येत तन्मनसा गच्छेदप हैवास्मात्तल्लुप्यते। पूर्धि चक्षुरिति चक्षुषी मरीमृज्येत। आजरसं ह चक्षुष्मान्भवति य एवं वेद। मुमुग्ध्यस्मान्निधयेव बद्धानिति पाशा वै निधा मुमुग्ध्यस्मान्पाशादिव बद्धानित्येव तदाह॥3.19॥ (12.8) (90)


485

इन्द्रो वै वृत्रं हनिष्यन्सर्वा देवता अब्रवीदनु मोपतिष्ठध्वमुप मा ह्वयध्वमिति तथेति तं हनिष्यन्त आद्र वन्सोऽवेन्मां वै हनिष्यन्त आद्र वन्ति हन्तेमान्भीषया इति तानभि प्राश्वसीत्तस्य श्वसथादीषमाणा विश्वे देवा अद्र वन्मरुतो हैनं नाजहुः प्रहर भगवो जहि वीरयस्वेत्येवैनमेतां वाचं वदन्त उपातिष्ठन्त तदेतदृषिः पश्यन्नभ्यनूवाच वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा आजहुर्ये सखायः मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासीति सोऽवेदिमे वै किल मे सचिवा इमे माकामयन्त हन्तेमानस्मिन्नुक्थ आभजा इति तानेतस्मिन्नुक्थ आभजदथ हैते तर्ह्युभे एव निष्केवल्ये उक्थे आसतुर्मरुत्वतीयं ग्रहं गृह्णाति मरुत्वतीयम्प्रगाथं शंसति मरुत्वतीयं सूक्तं शंसति मरुत्वतीयाम्निविदं दधाति मरुतां सा भक्तिर्मरुत्वतीयमुक्थं शस्त्वा मरुत्वतीयया यजति यथाभागं तद्देवताः प्रीणाति ये त्वाहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्टौ ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिरिति यत्रयत्रैवैभिर्व्यजयत यत्र वीर्यमकरोत्तदेवैतत्समनुवेद्येन्द्रेणैनान्ससोमपीथान्करोति॥3.20॥


490

इन्द्रो वै वृत्रं हत्वा सर्वा विजितीर्विजित्याब्रवीत्प्रजापतिमहमेतदसानि यत्त्व-महम्महानसानीति स प्रजापतिरब्रवीदथ कोऽहमिति यदेवैतदवोच इत्य-ब्रवीत्ततो वै को नाम प्रजापतिरभवत्को वै नाम प्रजापतिर्यन्महा-निन्द्रोऽभवत्तन्महेन्द्र स्य महेन्द्र त्वं स महान्भूत्वा देवता अब्रवीदुद्धारम्म उद्धरतेति यथाप्येतर्हीछति यो वै भवति यः श्रेष्ठतामश्नुते स महान्भवति तं देवा अब्रुवन् स्वयमेव ब्रूष्व यत्ते भविष्यतीति स एतम्माहेन्द्रं ग्रहमब्रूत माध्यंदिनं सवनानां निष्केवल्यमुक्थानां त्रिष्टुभं छन्दसाम्पृष्ठं साम्नां तमस्मा उद्धारमुदहरनु उदस्मा उद्धारं हरन्ति य एवं वेद तां देवा अब्रुवन्सर्वं वा अवोचथा अपि नोऽत्रास्त्विति स नेत्यब्रवीत्कथं वोऽपिस्यादिति तमब्रुवन्नप्येव नो स्तु मघवन्निति तानीक्षतैव॥3..21॥


495

ते देवा अब्रुवन्नियं वा इन्द्र स्य प्रिया जावा वावाता प्रासहा नामास्यामेवेछामहा इति तथेति तस्यामैछन्त सैनानब्रवीत्प्रातर्वः प्रतिवक्तास्मीति तस्मात्स्त्रियः पत्याविछन्ते तस्मादु स्त्र्?यनुरात्रम्पत्याविछते ताम्प्रातरुपायन्सैतदेव प्रत्यपद्यत यद्वावान पुरुतमम्पुराषाळा वृत्रहेन्द्रो नामान्यप्राः अचेति प्रासहस्पति-स्तुविष्मानितीन्द्रो वै प्रासहस्पतिस्तुविष्मान्यदीमुश्मासि कर्तवे करत्तदिति यदेवैतदवोचामाकरत्तदित्येवैनांस्तदब्रवीत्ते देवा अब्रुवन्नप्यस्या इहास्तु या नोऽस्मिन्न वै कमविददिति तथेति तस्या अप्यत्राकुर्वंस्तस्मादेषात्रापि शस्यते यद्वावान पुरुतमम्पुराषाळ् इति सेना वा इन्द्र स्य प्रिया जाया वावाता प्रासहा नाम को नाम प्रजापतिः श्वशुरस्तद्यास्य कामे सेना जयेत्तस्या अर्धात्ति-ष्ठंस्तृणमुभयतः परिछिद्येतरां सेनामभ्यस्येत्प्रासहे कस्त्वा पश्यतीति तद्य-थैवादः स्नुषा श्वशुराळ् लज्जमाना निलीयमानैत्येवमेव सा सेना भज्यमाना निलीयमानैति यत्रैवं विद्वांस्तृणमुभयतः परिछिद्येतरां सेनं अभ्यस्यति प्रासहे कस्त्वा पश्यतीति तानिन्द्र उवाचापि वोऽत्रास्त्विति ते देवा अब्रुव-न्विराड्याज्यास्तु निष्केवल्यस्य या त्रयस्त्रिंशदक्षरा त्रयस्त्रिंशद्वै देवा अष्टौ वसव एकादश रुद्र ?ा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च देवता अक्षरभाजः करोत्यक्षरम्-अक्षरमेव तद्देवता अनुप्रपिबन्ति देवपात्रेणैव तद्देवतास्तृप्यन्ति यं कामयेतानायतनवान्स्यादित्यविराजास्य यजेद्गाय त्र्?या वा तृष्टुभा वान्येन वा छन्दसा वषट्कुर्यादनायतनवन्तमेवैनं तत्करोति यं कामयेतायतनवान्स्यादिति विराजास्य यजेत्पिबा सोममिन्द्र मन्दतु त्वेत्येतयायतनवन्तमेवैनं तत्करोति॥3.22॥


ऋक्च वा इदमग्रे साम चाऽऽस्तां सैव नाम ऋगासीदमो नाम साम सा वा ऋक्सामोपावदन्मिथुनं संभवाव प्रजात्या इति नेत्यब्रवीत्साम ज्यायान्वा अतो मम महिमेति ते द्वे भूत्वोपावदतां तेन प्रतिचन समवदत तास्तिस्रो भूत्वोपावदंस्तत्तिसृभिः समभवद्यत्तिसृभिः समभवत्तस्मात्तिसृभिः स्तुवन्ति तिसृभिरुद्गायन्ति तिसृभिर्हि साम संमितं तस्मादेकस्य बह्व्यो जाया भवन्ति नैकस्यै बहवः सह पतयो यद्वै तत्सा चामश्च समभवतां तस्सामाभवत्तत्साम्नः सामत्वम्। सामन्भवति य एवं वेद। यो वै भवति यः श्रेष्ठतामश्नुते स सामन्भवत्यसामन्य् इति हि निन्दन्ति। ते वै पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वा कल्पेतामाहावश्च हिंकारश्च प्रस्तावश्च प्रथमा च ऋगुद्गीथश्च मध्यमा च प्रतिहारश्चोत्तमा च निधनं च वषट्कारश्च। ते यत्पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वा कल्पेतां तस्मादाहुः पाङ्क्तो यज्ञः पाङ्क्ताः पशव इति। यदु विराजं दशिनीमभिसमपद्येतां तस्मादाहुर्विराजि यज्ञो दशिन्यां प्रतिष्ठित इति। आत्मा वै स्तोत्रियः प्रजाऽनुरूपः पत्नी धाय्या पशवः प्रगाथो गृहाः सूक्तम्। स वा अस्मिंश्च लोकेऽमुष्मिंश्च प्रजया पशुभिश्च गृहेषु वसति य एवं वेद॥3.23॥ (12.12) (94)

स्तोत्रियं शंसत्यात्मा वै स्तोत्रियः। तं मध्यमया वाचा शंसत्यात्मानमेव तत्संस्कुरुते। अनुरूपं शंसति प्रजा वा अनुरूपः। स उच्चैस्तरामिवानुरूपः शंस्त्व्यः प्रजामेव तच्छ्रेयसीमात्मनः कुरुते। धाय्यां शंसति पत्नी वै धाय्या। सा नीचैस्तरामिव धाय्या शंस्तव्या। अप्रतिवादिनी हास्य गृहेषु पत्नी भवति यत्रैवं विद्वान्नीचैस्तरां धाय्यां शंसति। प्रगाथं शंसति। स स्वरवत्या वाचा शंस्तव्यः पशवो वै स्वरः पशवः प्रगाथः पशूनामवरुद्ध्यै। इन्द्रस्य नु वीर्याणि प्रवोचमिति सूक्तं शंसति। तद्वा एतत्प्रियमिन्द्रस्य सूक्तं निष्केवल्यं हैरण्यस्तूपमेतेन वै सूक्तेन हिरण्यस्तूप आङ्गिरस इन्द्रस्य प्रियं धामोपागच्छत्स परमं लोकमजयत्। उपेन्द्रस्य प्रियं धाम गच्छति जयति परमं लोकं य एवं वेद। गृहा वै प्रतिष्ठा सूक्तं तत्प्रतिष्ठिततमया वाचा शंस्तव्यं तस्माद्यद्यपि दूर इव पशूँल्लभते गृहानेवैनानाजिगमिषति गृहा हि पशूनां प्रतिष्ठा प्रतिष्ठा॥3.24॥ (12.13) (95)

512

सोमो वै राजामुष्मिँल्लोक आसीत्तं देवाश्च ऋषयश्चाभ्याध्यायन्कथम-यमस्मान्सोमो राजागच्छेदिति तेऽब्रुवंश्छन्दांसि यूयं न इमं सोमं राजानमा-हरतेति तथेति ते सुपर्णा भूत्वोदपतंस्ते यत्सुपर्णा भूत्वोदपतंस्तदेतत्सौ-पर्णमित्याख्यानविद आचक्षते छन्दांसि वै तत्सोमं राजानमछाचरंस्तानि ह तर्हि चतुरक्षराणिचतुरक्षराण्येव छन्दांस्यासन्सा जगती चतुरक्षरा प्रथमो-दपतत्सा पतित्वार्धमध्वनो गत्वाश्राम्यत्सा परास्य त्रीण्यक्षराण्येकाक्षरा भूत्वा दीक्षां च तपश्च हरन्ती पुनरभ्यवापतत्तस्मात्तस्य वित्ता दीक्षा वित्तं तपो यस्य पशवः सन्ति जागता हि पशवो जगती हि तानाहरदथ त्रिष्टुबुदपतत्सा पतित्वा भूयोऽर्धादध्वनो गत्वाश्राम्यत्सा परास्यैकमक्षरं त्र्?यक्षरा भूत्वा दक्षिना हरन्ती पुनरभ्यवापतत्तस्मान्मध्यंदिने दक्षिणा नीयन्ते त्रिष्टुभो लोके त्रिष्टुब्भि ता आहरत्॥3.25॥


ते देवा अब्रुन्गायत्रीं त्वं न इमं सोमं राजानमाहरेति सा तथेत्यब्रवीत्तां वै मा सर्वेण स्वस्त्ययनेनानुमन्त्रयध्वमिति तथेति सोदपतत्तां देवाः सर्वेण स्वस्त्ययनेनान्वमन्त्रयन्त प्रेति चेति चेत्येतद्वै सर्वं स्वस्त्ययनं यत्प्रेति चेति तद्योऽस्य प्रियः स्यात्तमेतेनानुमन्त्रयेत प्रेति चेति चेति स्वस्त्येव गच्छति स्वस्ति पुनरागच्छति। सा पतित्वासोमपालान्भीषयित्वा पद्भ्यां च मुखेन च सोमं राजानं समगभ्णाद्यानि चेतरे छन्दसी अक्षराण्यजहितां तानि चोपसमगृभ्णात्। तस्या अनुविसृज्य कृशानुः सोमपालः सव्यस्य पदो नखमच्छिदत्तच्छल्यकोऽभवत्तस्मात्स नखमिव यद्वशमस्रवत्सा वशाऽभवत्तस्मात्सा हविरिवाथ यः शल्यो यदनीकमासीत्स सर्पो निर्दंश्यभवत्सहसः स्वजो यानि पर्णानि ते मन्थावला यानि स्नावानि ते गण्डूपदा यत्तेजनं सोऽन्धाहिः सो सा तथेषुरभवत्॥3.26॥ (13.2) (97)


सा यद्दक्षिणेन पदा समगृभ्णात्तत्प्रातःसवनमभवत्तद्गायत्री स्वमायतनमकुरुत तस्मात्तत्समृद्धतमं मन्यन्ते सर्वेषां सवनानामग्रियो मुख्यो भवति श्रेष्ठतामश्नुते य एवं वेदाथ यत्सव्येन पदा समगृ्भ्णात्तन्माध्यंदिनं सवनमभवत्तद्विस्रंसत तद्विस्रस्तं नान्वाप्नोत्पूर्वं सवनं ते देवाः प्राजिज्ञासन्त तस्मिंस्त्रिष्टुभं छन्दसामदधुरिन्द्रं देवतानां तेन तत्समावद्वीर्यमभवत्पूर्वेण सवनेनोभाभ्यां सवनाभ्यां समावद्वीर्याभ्यां समावज्जामीभ्यां राध्नोति य एवं वेदाथ यन्मुखेन समगृभ्णात्तत्तृतीयसवनमभवत्। तस्य पतन्ती रसमधयत्तद्धीतरसं नान्वाप्नोत्पूर्वे सवने ते देवाः प्राजिज्ञासन्त तत्पशुष्वपश्यंस्तद्यदाशिरममवनयन्त्याज्येन पशुना चरन्ति तेन तत्समावद्वीर्यमभवत्पूर्वाभ्यां सवनाभ्याम्। सर्वैः सवनैः समावद्वीर्यैः समावज्जामिभीराध्नोति य एवं वेद॥3.27॥ (13.3) (98)


527

ते वा इमे इतरे छन्दसी गायत्रीमभ्यवदेतां वित्तं नावक्षराण्यनुपर्यागुरिति नेत्यब्रवीद्गायत्री यथावित्तमेव न इति ते देवेषु प्रश्नमैतां ते देवा अब्रुवन् यथावित्तमेव व इति तस्माद्धाप्येतर्हि वित्त्यां व्याहुर्यथावित्तमेव न इति ततो वा अष्टाक्षरा गाय त्र्?यभव त्त्र्?यक्षरा त्रिष्टुबेकाक्षरा जगती साष्टाक्षरा गायत्री प्रातःसवनमुदयछन्नाशक्नोत्त्रिष्टुप्त्र्यक्षरा माध्यंदिनं सवनमुद्यन्तुं तां गाय- त्र्?यह्रवीदायान्यपि मेऽत्रास्त्विति सा तथेत्यब्रवीत्त्रिष्टुप् तां वै मैतैरष्टाभि-रक्षरैरुपसंधेहीति तथेति तामुपसमदधादेतद्वै तद्गाय त्र्?यै मध्यंदिने यन्मरुत्वती-यस्योत्तरे प्रतिपदो यश्चानुचरः सैकादशाक्षरा भूत्वा माध्यंदिनं सवनमुदय-छन्नाशक्नोज्जगत्येकाक्षरा तृतियसवनमुद्यन्तुं तां गाय त्र्?यब्रवीदायान्यपि मेऽत्रा-स्त्विति सा तथेत्यब्रवीज्जगति तां वै मैतैरेकादशभिरक्षरैरुपसंधेहीति तथेति तामुपसमदधादेतद्वै तद्गाय त्र्?यै तृतीयसवने यद्वैश्वदेवस्योत्तरे प्रतिपदो यश्चानुचरः सा द्वादशाक्षरा भूत्वा तृतीयसवनमुदयछत्ततो वा अष्टाक्षरा गाय त्र्?य-भवदेकादशाक्षरा त्रिष्टुब्द्वादशाक्षरा जगती सर्वैश्छन्दोभिः समावद्वीर्यैः समावज्जामिभी राध्नोति य एवं वेदैकं वै सत्तत्त्रेधाभवत्तस्मादाहुर्दातव्यमेवं विदुष इत्येकं हि सत्तत्त्रेधा भवत्॥3.28॥


532

ते देवा अब्रुवन्नादित्यान्युष्माभिरिदं सवनमुद्यछामेति तथेति तस्मादा-दित्यारम्भणं तृतीयसवनमादित्यग्रहः पुरस्तात्तस्य यजत्य् आदित्यासो अदितिर्मादयन्तामिति मद्वत्या रूपसमृद्धया मद्वद्वै तृतीयसवनस्य रूपं नानु-वषट्करोति न भक्षयति संस्था वा एषा यदनुन्वषट्कारः संस्था भक्षः प्राणा आदित्या नेत्प्राणान्संस्थापयानीति त आदित्या अब्रुवन्सवितारं त्वयेदं सह सवनमुद्यछामेति तथेति तस्मात्सावित्री प्रतिपद्भवति वैश्वदेवस्य सावित्रग्रहः पुरस्तात्तस्य यजति दमूना देवः सविता वरेण्य इति मद्वत्या रूपसमृद्धया मद्वद्वै तृतीयसवनस्य रूपं नानुन्वषट्करोति न भक्षयति संस्था वा एषा यदनुन्वषट्कारः संस्था भक्षः प्राणः सविता नेत्प्राणं संस्थापयानीत्युभे वा एष एते सवने विपिबति यत्सविता प्रातःसवनं च तृतीयसवनं च तद्य-त्पिबवत्सावि त्र्?यै निविदः पदम्पुरस्ताद्भवति मद्वदुपरिष्टादुभयोरेवैनं तत्सव-नयोराभजति प्रातःसवने च तृतीयसवने च बह्व्यः प्रातर्वायव्याः शस्यन्त एका तृतीयसवने तस्मादूर्ध्वाः पुरुषस्य भूयांसः प्राणा यच्चावाञ्चो द्यावापृथिवीयं शंसति द्यावापृथिवी वै प्रतिष्ठे इयमेवेह प्रतिष्ठासावमुत्र तद्यद्द्यावापृथिवीयं
शंसति प्रतिष्ठयोरेवैनं तत्प्रतिष्ठापयति॥3.29॥


537

आर्भवं शंसत्यृभवो वै देवेषु तपसा सोमपीथमभ्यजयंस्तेभ्यः प्रातःसवने-ऽवाचिकल्पयिषंस्तानग्निर्वसुभिः प्रातःसवनादनुदत तेभ्यो माध्यंदिने सवने-ऽवाचिकल्पयिषंस्तानिन्द्रो रुद्रै र्माध्यंदिनात्सवनादनुदत तेभ्यस्तृतीयसवने-ऽवाचिकल्पयिषंस्तान्विश्वे देवा अनोनुद्यन्त नेह पास्यन्ति नेहेति स प्रजा-पतिरब्रवीत्सवितारं तव वा इमेऽन्तेवासास्त्वमेवैभिः सम्पिबस्वेति स तथेत्य-ब्रवीत्सविता तान्वै त्वमुभयतः परिपिबेति तान्प्रजापतिरुभयतः पर्यपिबत्ते एते धाय्ये अनिरुक्ते प्राजापत्ये शस्येते अभित आर्भवं सुरुपकृत्नुमूतयेऽयं वेन-श्चोदयत्पृश्निगर्भा इति प्रजापतिरेवैनांस्तदुभयतः परिपिबति तस्मादु श्रेष्ठी पात्रे रोचयत्येव यं कामयते तं तेभ्यो वै देवा अपैवाबीभत्सन्त मनुष्यगन्धात्त एते धाय्ये अन्तरदधत येभ्यो मातैवा पित्र इति॥3.30॥


542

वैश्वदेवं शंसति यथा वै प्रजा एवं वैश्वदेवं तद्यथाऽन्तरं जनता एवं सूक्तानि यथारण्यान्येवं धाय्यास्तदुभयतो धाय्यां पर्याह्वयते तस्मात्तान्यरण्यानि सन्त्यनरण्यानि मृगैश्च वयोभिश्चेति ह स्माह यथा वै पुरुष एवं वैश्वदेवं तस्य यथावन्तरमङ्गान्येवं सूक्तानि यथा पर्वाण्येवं धाय्यास्तदुभयतो धाय्यां पर्याह्वयते तस्मात्पुरुषस्य पर्वाणि शिथिराणि सन्ति दृळ्हानि ब्रह्मणाऽऽहितानि धृतानि मूलं वा एतद्यज्ञस्य यद्धाय्याश्च याज्याश्च तद्यदन्यान्या धाय्याश्च याज्याश्च कुर्युरुन्मूलमेव तद्यज्ञं कुर्युस्तस्मात्ताः समान्य एव स्युः पाञ्चजन्यं वा एतदुक्थं यद्वैश्वदेवं सर्वेषां वा एतत्पञ्चजनानामुक्थं देवमनुष्याणां गन्धर्वाप्सरसां सर्पाणां च पितॄणां चैतेषां वा एतत्पञ्चजनानामुक्थं सर्व एनं पञ्चजना विदुरैनं पञ्चिन्यै जनतायै हविनो गच्छन्ति य एवं वेद सर्वदेवत्यो वा एष होता यो वैश्वदेवं शंसति सर्वा दिशो ध्यायेच्छंसिष्यन्सर्वास्वेव तद्दिक्षु रसं दधाति यस्यामस्य दिशि द्वेष्यः स्यान्न तां ध्यायेदनुहायैवास्य तद्वीर्यमादत्तेऽदितिर्द्यौरदितिरन्तरिक्षमित्युत्तमया परिदधातीयं वा अदितिरियं द्यौरियं अन्तरिक्षमदितिर्माता स पिता स पुत्र इतीयं वै मातेयं पितेयं पुत्रो विश्वे देवा अदितिः पञ्च जना इत्यस्यां वै विश्वे देवा अस्यां पञ्चजनाः अदितिर्जातमदितिर्जनित्वमितीयं वै जातमियं जनित्वं द्विः पच्छः परिदधाति चतुष्पादा वै पशवः पशूनामवरुद्ध्यै सकृदर्धर्चशः प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति सदैव पञ्चजनीयया परिदध्यात्तदुपस्पृशन्भूमिं परिदध्यात्तद्यस्यामेव यज्ञं सम्भरति तस्यामेवैनं तदन्ततः प्रतिष्ठापयति विश्वे देवाः शृणुतेमं हवं म इति वैश्वदेवमुक्थं शस्त्वा वैश्वदेव्या यजति यथाभागं तद्देवताः प्रीणाति॥3.31॥


आग्नेयी प्रथमा घृतयाज्या सौमी सौम्ययाज्या वैष्णवी घृतयाज्या त्वं सोम पितृभिः संविदान इति सौम्यस्य पितृमत्या यजति। घ्नन्ति वा एतत्सोमं यदभिषुण्वन्ति तस्यैतामनुस्तरणीं कुर्वन्ति यत्सौम्यः पितृभ्यो वा अनुस्तरणी तस्मात्सौम्यस्य पितृमत्या यजति। अवधिषुर्वा एतत्सोमं यदभ्यसुषवुस्तदेनं पुनः संभावयन्ति। पुनराप्याययन्त्युपसदां रूपेणोपसदां किल वै तद्रूपं यदेता देवता अग्निः सोमो विष्णुरिति। प्रतिगृह्य सौम्यं होता पूर्वश्छन्दोगेभ्योऽवेक्षेत। तं हैके पूर्वं छन्दोगेभ्यो हरन्ति तत्तथा न कुर्याद् वषट्कर्ता प्रथमः सर्वभक्षान्भक्षयतीति ह स्माऽऽह तेनैव रूपेण तस्माद् वषट्कर्तैव पूर्वोऽवेक्षेताथैनं छन्दोगेभ्यो हरन्ति॥3.32॥ (13.8) (103)


प्रजापतिर्वै स्वां दुहितरमभ्यध्यायद्दिवमित्यन्य आहुरुषसमित्यन्ये तामृश्यो भूत्वा रोहितं भूतामभ्यैत्तं देवा अपश्यन्नकृतं वै प्रजापतिः करोतिति ते तमैच्छन्य एनमारिष्यत्येतमन्योन्यस्मिन्नाविन्दंस्तेषां या एव घोरतमास्तन्व आसंस्ता एकधा समभरंस्ताः संभूता एष देवोऽभवत्तदस्यैतद्भूतवन्नाम। भवति वै स योऽस्यैतदेवं नाम वेद। तं देवा अब्रुवन्नयं वै प्रजापतिरकृतमकरिमं विध्येति स तथेत्यब्रवीत्स वै वो वरं वृणा इति वृणीष्वेति स एतमेव वरमवृणीत पशूनामाधिपत्यं तदस्यैतत्पशुमन्नाम। पशुमान्भवति योऽस्यैतदेवं नाम वेद। तमभ्यायत्याविध्यत्स विद्ध ऊर्ध्व उदप्रपतत्तमेतं मृग इत्याचक्षते य उ एव मृगव्याधः स उ एव स या रोहित्सा रोहिणी यो एवेषुस्त्रिकाण्डा सो एवेषुस्त्रिकाण्डा। तद्वा इदं प्रजापते रेतः सिक्तमधावत्तत्सरोऽभवत्ते देवा अब्रुवन्मेदं प्रजापते रेतो दुषदिति यदब्रुवन्मेदं प्रजापते रेतोदुषदिति तन्मादुषमभवत्तन्मादुषस्य मादुषत्वं मादुषं ह वै नामैतद्यन्मानुषं सन्मानुषमित्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः॥3.33॥ (13.9) (104)


557

तदग्निना पर्यादधुस्तन्मरुतोऽधून्वंस्तदग्निर्न प्राच्यावयत्तदग्निना वैश्वानरेण पर्यादधुस्तन्मरुतोऽधून्वंस्तदग्निर्वैश्वानरः प्राच्यावयत्तस्य यद्रेतसः प्रथममुददीप्यत तदसावादित्योऽभवद्यद् द्वितीयमासीत्तद्भृगुरभवत्तं वरुणो न्यगृह्णीत तस्मात्स भृगुर्वारुणिरथ यत्तृतीयमदीदेदिव त आदित्या अभवन्येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन्यदङ्गाराः पुनरवशान्ता उददीप्यन्त तद्बृहस्पतिरभवद्यानि परिक्षाणान्यासंस्ते कृष्णा पशवोऽभवन्या लोहिनी मृत्तिका ते रोहिता अथ यद्भस्मासीत्तत्परुष्यं व्यसर्पद्गौरो गवय ऋश्य उष्ट्रो गर्दभ इति ये चैतेऽरुणाः पशवस्ते च तान्वा एष देवोऽभ्यवदत मम वा इदम्मम वै वास्तुहमिति तमेतयर्चा निरवादयन्त यैषा रौद्री शस्यत आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः त्वं नो वीरो अर्वति क्षमेथा इति ब्रूयान्नाभि न इत्यनभिमानुको हैष देवः प्रजा भवति प्र जायेमहि रुद्रिय प्रजाभिरिति ब्रूयान्न रुद्रेत्येतस्यैव नाम्नः परिहृत्यै तदु खलु शं नः करतीत्येव शंसेच् छमिति प्रतिपद्यते सर्वस्मा एव शान्त्यै नृभ्यो नारिभ्यो गव इति पुमांसो वै नरः स्त्रियो नार्यः सर्वस्मा एव शान्त्यै सोऽनिरुक्ता रौद्री शान्ता सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद। सो गायत्री ब्रह्म वै गायत्री ब्रह्मणैवैनं तं नमस्यति॥3.34॥


वैश्वानरीयेणाऽऽग्निमारुतं प्रतिपद्यते वैश्वानरो वा एतद्रेतः सिक्तं प्राच्यावयत्तस्माद्वैश्वानरीयेणाऽऽग्निमारुतं प्रतिपद्यते। अनवानं प्रथम ऋक्शंस्तव्याऽग्नीन्वा एषोऽर्चींष्यशान्तान्प्रसीदन्नेति य आग्निमारुतं शंसति प्राणेनैव तदग्नींस्तरति। अधीयन्नुपहन्यादन्यं विवक्तारमिच्छेत्तमेव तत्सेतुं कृत्वा तरति। तस्मादाग्निमारुते न व्युच्यमेष्टव्यो विवक्ता। मारुतं शंसति मरुतो ह वा एतद्रेतः सिक्तं धून्वन्तः प्राच्यावयंस्तस्मान्मारुतं शंसति। यज्ञा यज्ञा वो अग्नये देवो वो द्रविणोदा इति मध्ये योनिं चानुरूपं च शंसति तद्यन्मध्ये योनिं चानुरूपं च शंसति तस्मान्मध्ये योनिर्धृता। यदु द्वे सूक्ते शस्त्वा शंसति प्रतिष्ठयोरेव तदुपरिष्टात्प्रजननं दधाति प्रजात्यै। प्रजायते प्रजया पशुभिर्य एवं वेद॥3.35॥ (13.11) (106)


567

जातवेदस्यं शंसति प्रजापतिः प्रजा आसृजत ताः सृष्टाः पराच्य एवायन्न व्यावर्तन्त त अग्निना पर्यगच्छत्ता अग्निमुपावर्तन्त तमेवाद्याप्युपावृत्ताः सोऽब्रवीज्जाता वै प्रजा अनेनाविदमिति यदब्रवीज्जाता वै प्रजा अनेनाविदमिति तज्जातवेदस्यमभवत्तज्जातवेदसो जातवेदस्त्वं ता अग्निना परिगता निरुद्धाः शोचन्त्यः दीध्यत्योऽतिष्ठंस्ता अद्भिरभ्यषिञ्चत्तस्मादुपरिष्टाज्जातवेदस्यस्यापो-हिष्ठीयम्शंसति तस्मात्तच्छमयतेव शंस्तव्यं ता अद्भिरभिषिच्य निजा-स्यैवामन्यत तासु वा अहिना बुध्न्येन परोक्षात्तेजोऽदधादेष ह वा अहिर्बुध्न्यो यदग्निर्गार्हपत्योऽग्निनैवासु तद्गार्हपत्येन परोक्षात्तेजो दधाति तस्मादाहुर्जुह्वदेवाजुह्वतो वसीयानिति॥3.36॥


572

देवानाम्पत्नीः शंसत्यनूचीरग्निं गृहपतिं तस्मादनूची पत्नी गार्हपत्यमास्ते तदाहू राकाम्पूर्वां शंसेज्जाम्यै वै पूर्वपेयमिति तत्तन्नादृत्यं देवानामेव पत्नीः पूर्वाः शंसेदेष ह वा एतत्पत्नीषु रेतो दधाति यदग्निर्गार्हपत्योऽग्निनैवासु तद्गार्हपत्येन पत्नीषु प्रत्यक्षाद्रे तो दधाति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद तस्मात्समानोदर्या स्वसान्योदार्ययै जायाया अनुजीविनी जीवति राकां शंसति राका ह वा एताम्पुरुषस्य सेवनीं सीव्यति यैषा शिश्नेऽधि पुमांसोऽस्य पुत्रा जायन्ते य एवं वेद पावीरवीं शंसति वाग्वै सरस्वती पावीरवी वाच्येव तद्वाचम्दधाति तदाहुर्यामीम्पूर्वां शंसेत् पि त्र्?यामिति यामीमेव पूर्वां शंसेदिमं यम प्रस्तरमा हि सीदेति राज्ञो वै पूर्वपेयं तस्माद्यामीमेव पूर्वां शंसेन्मातली कव्यैर्यमो अङ्गिरोभिरिति काव्यानामनूचीं शंसत्यवरेणैव वै देवान्काव्याः परेणैव पितॄंस्तस्मात्काव्यानामनूचीं शंसत्युदीरतामवर उत्परास इति पि त्र्?याः शंसत्युन्मध्यमाः पितरः सोम्यास इति ये चैवावमा ये च परमा ये च मध्यमास्तान्सर्वाननन्तरायम्पॄणात्याहम्पितॄन्सुविदत्राँ अवित्सीति द्वितीयां शंसति बर्हिषदो ये स्वधया सुतस्येत्येतद्ध वा एषाम्प्रियं धाम यद्बर्हिषद इति प्रियेणैवैनांस्तद्धाम्ना समर्धयति प्रियेण धाम्ना समृध्यते य एवं वेदेदम्पितृभ्यो नमो अस्त्वद्येति नमस्कारवतीमन्ततः शंसति तस्मादन्ततः पितृभ्यो नमस्क्रियते तदाहुर्व्याहावम्पि त्र्?याः शंसेदव्याहावामिति व्याहावमेव शंसेदसंस्थितं वै पितृयज्ञस्य साध्वसंस्थितं वा एष पितृयज्ञं संस्थापयति योऽव्याहावं शंसति तस्माद्व्याहावमेव शंस्तव्यम्॥3.37॥


577

स्वादुष्किलायम्मधुमाँ उतायमितीन्द्रस्यैन्द्रीरनुपानीयाः शंसत्येताभिर्वा इन्द्रस्तृतीयसवनमन्वपिबत्तदनुपानीयानामनुपानीयात्वम् माद्यन्तीव वै तर्हि देवता यदेता होता शंसति तस्मादेतासु मद्वत्प्रतिगीर्यं ययोरोजसा स्कभिता रजांसीति वैष्णुवारुणीमृचं शंसति विष्णुर्वै यज्ञस्य दुरिष्टम्पाति वरुणः स्विष्टं तयोरुभयोरेव शान्त्यै विष्णोर्नु कं वीर्याणि प्र वोचमिति वैष्णवीं शंसति यथा वै मत्यमेवं यज्ञस्य विष्णुस्तद्यथा दुष्कृष्टं दुर्मतीकृतं सुकृष्टं सुमतीकृतं कुर्वन्नियादेवमेवैतद्यज्ञस्य दुष्टुतं दुःशस्तं सुष्टुतं सुशस्तं कुर्वन्नेति यदेतां होता शंसति तन्तुं तन्वन्रजसो भानुमन्विहीति प्राजापत्यां शंसति प्रजा वै तन्तुः प्रजामेवास्मा एतत्संतनोति ज्योतिष्मतः पथो रक्ष धिया कृतानिति देवयाना वै ज्योतिष्मन्तः पन्थानस्तानेवास्मा एतद्वितनोत्यनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनमित्येवैनं तन्मनोः प्रजया संतनोति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवम्वेदैवा न इन्द्रो मघवा विरप्शीत्युत्तमया परिदधातीयं वा इन्द्रो मघवा विरप्शी करत्सत्या चर्षणीधृदनर्वेतीयं वै सत्या चर्षणीधृदनर्वा त्वं राजा जनुषां धेह्यस्मे इतीयं वै राजा जनुषामधि श्रवो माहिनं यज्जरित्र इतीयं वै माहिनं यज्ञः श्रवो यजमानो जरिता यजमानायैवैतामाशिषमाशास्ते तदुपस्पृशन्भूमिम्परिदध्यात्तद्यस्यामेव यज्ञं सम्भरति तस्यामेवैनं तदन्ततः प्रतिष्ठापयत्यग्ने मरुद्भिः शुभयद्भिर्ऋक्वभिरित्याग्निमारुतमुक्थं शस्त्वाग्निमारुत्या यजति यथाभागं तद्देवताः प्रीणाति प्रीणाति॥3.38॥


584

देवा वा असुरैर्युद्धमुपप्रायन्विजयाय तानग्निर्नान्वकामयतैतुं तं देवा अब्रुवन्न् अपि त्वमेह्यस्माकं वै त्वमेकोऽसीति स नास्तुतोऽन्वेष्यामीत्यब्रवीत्स्तुत नु मेति तं ते समुत्क्रम्योपनिवृत्यास्तुवंस्तान्स्तुतोऽनुप्रैत्स त्रिःश्रेणिर्भूत्वा त्र्?यनीकोऽसुरान्युद्धमुपप्रायद्विजयाय त्रिःश्रेणिरिति छन्दांस्येव श्रेणीरकुरुत त्र्?यनीक इति सवनान्येवानीकानि तानसम्भाव्यम्पराभावयत्ततो वै देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद सा वा एषा गाय त्र्?येव यदग्निष्टोमश्चतुर्विंशत्यक्षरा वै गायत्री चतु-र्विंशतिरग्निष्टोमस्य स्तुतशस्त्राणि तद्वै यदिदमाहुः सुधायां ह वै वाजि सुहितो दधातीति गायत्री वै तन्न ह वै गायत्री क्षमा रमत ऊर्ध्वा ह वा एषा यजमानमादाय स्वारेतित्यग्निष्टोमो वै तन्न ह वा अग्निष्टोमः क्षमा रमत ऊर्ध्वो ह वा एष यजमानमादाय स्वरेति स वा एष संवत्सर एव यदग्निष्टोमश्चतुर्विंशत्यर्धमासो वै संवत्सरश्चतुर्विंशतिरग्निष्टोमस्य स्तुतशस्त्राणि तं यथा समुद्रं श्रोत्या एवं सर्वे यज्ञक्रतवो पियन्ति॥3.39॥


589

दीक्षणीयेष्टिस्तायते तामेवानु याः काश्चेष्टयस्ताः सर्वा अग्निष्टोममपि-यन्तीळामुपह्वयत इळाविधा वै पाकयज्ञा इळामेवानु ये केच पाकयज्ञास्ते सर्वेऽग्निष्टोममपियन्ति सायम्प्रातरग्निहोत्रं जुह्वति सायम्प्रातर्व्रतम्प्रयछन्ति स्वाहाकारेणाग्निहोत्रं जुह्वति स्वाहाकारेण व्रतम्प्रयछन्ति स्वाहाकारमे-वान्वग्निहोत्रमग्निष्टोममप्येति पञ्चदश प्रायणीये सामिधेनीरन्वाह पञ्चदश दर्शपूर्णमासयोः प्रायणीयमेवानु दर्शपूर्णमासावग्निष्टोममपीतः सोमं राजानं क्रीणन्त्यौषधो वै सोमो राजौषधिभिस्तम्भिषज्यन्ति यम्भिषज्यन्ति सोममेव राजानं क्रीयमाणमनु यानि कानि च भेषजानि तानि सर्वाण्यग्निष्टोमम-पियन्त्यग्निमातिथ्ये मन्थन्त्यग्निं चातुर्मास्येष्वातिथ्यमेवानु चातुर्मास्यान्यग्निष्टोममपियन्ति पयसा प्रवर्ग्ये चरन्ति पयसा दाक्षायणयज्ञे प्रवर्ग्यमेवानु दाक्षायणयज्ञोऽग्निष्टोममप्येति पशुरुपवसथे भवति तमेवानु ये के च पशुबन्धास्ते सर्वेऽग्निष्टोममपियन्तीळादधो नाम यज्ञक्रतुस्तं दध्ना चरन्ति दध्ना दधिघर्मे दधिघर्ममेवान्विळादधो ग्निष्टोममप्येति॥3.40॥

591


594

इति नु पुरस्तादथोपरिष्टात्पञ्चदशोक्थ्यस्य स्तोत्राणि पञ्चदश शस्त्राणि स मासो मासधा संवत्सरो विहितः संवत्सरोऽग्निर्वैश्वानरोऽग्निरग्निष्टोमः संवत्सर-मेवानूक्थ्योऽग्निष्टोममप्येत्युक्थ्यमपियन्तमनु वाजपेयोऽप्येत्युक्थ्यो हि स भवति द्वादश रात्रेः पर्यायाः सर्वे पञ्चदशास्ते द्वौ-द्वौ सम्पद्य त्रिंशदेकविंशं षोळशि साम त्रिवृत्संधिः सा त्रिंशत्स मासस्त्रिंशन्मासस्य रात्रयो मासधा संवत्सरो विहितः संवत्सरोऽग्निर्वैश्वानरोऽग्निरग्निष्टोमः संवत्सरमेवान्वतिरा-त्रोऽग्निष्टोममप्येत्यतिरात्रमपियन्तमन्वप्तोर्यामोऽप्येत्यतिरात्रो हि स भवत्येतद्वै ये च पुरस्ताद्ये चोपरिष्टाद्यज्ञक्रतवस्ते सर्वेऽग्निष्टोममपियन्ति तस्य संस्तुतस्य नवतिशतं स्तोत्रियाः सा या नवतिस्ते दश त्रिवृतोऽथ या नवतिस्ते दशाथ या दश तासामेका स्तोत्रियोदेति त्रिवृत्परिशिष्यते सोऽसावेकविंसोऽध्या-हितस्तपति विषुवान्वा एष स्तोमानां दश वा एतस्मादर्वाञ्चास्त्रिवृतो दश पराञ्चो मध्य एष एकविंश उभयतोऽध्याहितस्तपति तद्यासौ स्तोत्रियोदेति सैतस्मिन्नध्यूळ्हा स यजमनस्तद्दैवं क्षत्रं सहो बलमश्नुते ह वै दैवं क्षत्रं सहो बलमेतस्य ह सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद॥3.41॥


599

देवा वा असुरैर्विजिग्याना ऊर्ध्वाः स्वर्गं लोकमायन्सोऽग्निर्दिविस्पृगूर्ध्व उदश्रयत स स्वर्गस्य लोकस्य द्वारमवृणोदग्निर्वै स्वर्गस्य लोकस्याधिपतिस्तं वसवः प्रथमा आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते त्रिवृता स्तोमेना-स्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छंस्तं रुद्र ?ा आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते पञ्चदशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छंस्तमादित्या आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते सप्तदशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छंस्तं विश्वे देवा आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं त एकविंशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छन्नेकैकेन वै तं देवाः स्तोमेनास्तुन्वंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छन्नथ हैनमेष एतैः सर्वैः स्तोमैः स्तौति यो यजते यश्चैनमेवं वेदातित्तु तमर्जाता अति ह वा एनमर्जते स्वर्गं लोकमभि य एवं वेद॥3.42॥


स वा एषोऽग्निरेव यदग्निष्टोमस्तं यदस्तुवंस्तस्मादग्निस्तोमस्तमग्निस्तोमं सन्तमग्निष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः। तं यच्चचतुष्टया देवाश्चतुर्भिः स्तोमैरस्तुवंस्तस्माच्चतुस्तोमस्तं चतुस्तोमं सन्तं चतुष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः। अथ यदेनमूर्ध्वं सन्तं ज्योतिर्भूतमस्तुवंस्तस्माज्ज्योतिस्तोमस्तं ज्योतिस्तोमं सन्तं ज्योतिष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः। स वा एषोऽपूर्वोऽनपरो यज्ञक्रतुर्यथा रथचक्रमनन्तमेवं यदग्निष्टोमस्तस्य यथैव प्रायणं तथोदयनम्। तदेषाऽभि यज्ञगाथा गीयते यदस्य पूर्वमपरं तदस्य यद्वस्यापरं तद्वस्य पूर्वम्। अहेरिव सर्पणं शाकलस्य न विजानन्ति यतरत्परस्तादिति। यथा ह्येवास्य प्रायणमेवमुदयनमसदिति। तदाहुर्यत्त्रिवृत्प्रायणमेकविंशमुदयनं केन ते समे इति। यो वा एकविंशस्त्रिवृद्वै सोऽथो यदुभौ तृचौ तृचिनाविति ब्रूयात्तेनेति॥3.43॥ (14.5) (114)


यो वा एष तपत्येषोऽग्निष्टोम एष साह्नस्तं सहैवाह्ना संस्थापयेयुः साह्नो वै नाम। तेनासंत्वरमाणाश्चरेयुर्यथैव प्रातःसवन एवं माध्यंदिन एवं तृतीयसवन एवमु ह यजमानोऽप्रमायुको भवति। यद्ध वा इदं पूर्वयोः सवनयोरसंत्वरमाणाश्चरन्ति तस्माद्धेदं प्राच्यो ग्रामता बहुलाविष्टा अथ यद्धेदं तृतीयसवने संत्वरमाणाश्चरन्ति तस्माद्धेतं प्रत्यञ्चि दीर्घारण्यानि भवन्ति तथा ह यजमानः प्रमायुको भवति। तेनासंत्वरमाणाश्चरेयुर्यथैव प्रातःसवन एवं माध्यंदिन एवं तृतीयसवन एवमु ह यजमानोऽप्रमायुको भवति। स एतमेव शस्त्रेणानु पर्यावर्तेत यदा वा एष प्रातरुदेत्यथ मन्द्रं तपति तस्मान्मन्द्रया वाचा प्रातःसवने शंसेदथ यदाऽभ्येत्यथ बलीयस्तपति तस्माद्बलीयस्या वाचा मध्यंदिने शंसेदथ यदाऽभितरामेत्यथ बलिष्ठतमं तपति तस्माद्बलिष्ठतमया वाचा तृतीयसवने शंसेदेवं शंसेद्यदि वाच ईशीत वाग्घि शस्त्रं यया तु वाचोत्तरोत्तरिण्योत्सहेत समापनाय तया प्रतिपद्येतैतत्सुशस्ततममिव भवति। स वा एष न कदाचनास्तमेति नोदेति। तं यदस्तमेतीति मन्यन्तेऽह्न एव तदन्तमित्वाऽथाऽऽत्मानं विपर्यस्यते रात्रीमेवावस्तात्कुरुतेऽहः परस्तात्। अथ यदेनं प्रातरुदेतीति मन्यन्ते रात्रेरेव तदन्तमित्वाऽथाऽऽत्मानं विपर्यस्यतेऽहरेवावस्तात्कुरुतेरात्रिं परस्तात्। स वा एष न कदाचन निम्रोचति। न ह वै कदाचन निम्रोचत्येतस्य ह सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद य एवं वेद॥3.44॥ (14.6) (115)


616

यज्ञो वै देवेभ्योऽन्नाद्यमुदक्रामत्ते देवा अब्रुवन्यज्ञो वै नोऽन्नाद्यमुदक्रमीदन्विमं यज्ञमन्न अन्विच्छामेति तेऽब्रुवन्कथमन्विच्छामेति ब्राह्मणेन च छन्दोभि-श्चेत्यब्रुवंस्ते ब्राह्मणं छन्दोभिरदीक्षयंस्तस्यान्तं यज्ञमतन्वतापि पत्नीः समयाज-यंस्तस्माद्धाप्येतर्हि दीक्षणीयाआमिष्टावान्तमेव यज्ञं तन्वतेऽपि पत्नीः संया-जयन्ति तमनु न्यायमन्ववायंस्ते प्रायणीयमतन्वत तम्प्रायणीयेन नेदीयोऽन्वा-गच्छंस्ते कर्मभिः समत्वरन्त तच्छंय्वन्तमकुर्वंस्तस्माद्धाप्येतर्हि प्रायणीयं शंय्वन्तमेव भवति तमनु न्यायमन्ववायंस्त आतिथ्यमतन्वत तमातिथ्येन नेदीयोऽन्वागच्छंस्ते कर्मभिः समत्वरन्त तदिळान्तमकुर्वंस्तस्माद्धाप्येतर्ह्यातिथ्यमिळान्तमेव भवति तमनु न्यायमन्ववायंस्त उपसदोऽतन्वत तमुपस-द्भिर्नेदीयोऽन्वागच्छंस्ते कर्मभिः समत्वरन्त ते तिस्रः सामिधेनीरनूच्य तिस्रो देवता अयजंस्तस्माद्धाप्येतर्ह्युपसत्सु तिस्र एव सामिधेनीरनूच्य तिस्रो देवता यजन्ति तमनु न्यायमन्ववायंस्त उपवसथमतन्वत तमुपवसथ्येऽहन्याप्नुवंस्त-माप्त्वान्तं यज्ञमतन्वतापि पत्नीः समयाजयंस्तस्माद्धाप्येतर्ह्युपवसथ आन्तमेव यज्ञं तन्वतेऽपि पत्नीः संयाजयन्ति तस्मादेतेषु पूर्वेषु कर्मसु शनैस्तरां-शनैस्तरामिवानुब्रूयादनूत्सरमिव हि ते तमायांस्तस्मादुपवसथे यावत्या वाचा कामयीत तावत्यानुब्रूयादाप्तो हि स तर्हि भवतीती तमाप्त्वाब्रुवंस्तिष्ठस्व नोऽन्नाद्यायेति स नेत्यब्रवीत्कथं वस्तिष्ठेयेति तानीक्षतैव तमब्रुवन्ब्राह्मणेन च नश्छन्दोभिश्च सयुग्भूत्वान्नाद्याय तिष्ठस्वेति तथेति तस्माद्धाप्येतर्हि यज्ञः सयुग्भूत्वा देवेभ्यो हव्यं वहति ब्राह्मणेन च च्छन्दोभिश्च॥3.45॥


621

त्रीणि ह वै यज्ञे क्रियन्ते जग्धं गीर्णं वान्तं तद्धैतदेव जग्धं यदाशंसम्ंनमार्त्विज्यं कारयत उत वा मे दद्यादुत वा मा वृणीतेति तद्ध तत्पराङेव यथा जग्धं न हैव तद्यजमानम्भुनक्त्यथ हैतदेव गीर्णं यद्बिभ्यदार्त्विज्यं कारयत उत वा मा न बाधेतोत वा मे न यज्ञवेशशां कुर्यादिति तद्ध तत्पराङेव यथा गीर्णं न हैव तद्यजमानम्भुनक्त्यथ हैतदेव वान्तं यदभिशस्यमानमार्त्विज्यं कारयते यथा ह वा इदं वान्तान्मनुष्या बीभत्सन्त एवम्तस्माद्देवास्तद्ध तत्पराङेव यथा वान्तं न हैव तद्यजमानम्भुनक्ति स एतेषां त्रयाणामाशाम्नेयात्तं यद्येतेषां त्रयाणा-मेकंचिदकाममभ्याभवेत्तस्यास्ति वामदेव्यस्य स्तोत्रे प्रायश्चित्तिरिदं वा वामदेव्यं यजमानलोकोऽमृतलोकः स्वर्गो लोकस्तत्त्रिभिरक्षरैर्न्यूनं तस्य स्तोत्र उपसृप्य त्रेधात्मानं विगृह्णीयात् पुरुष इति स एतेषु लोकेष्वात्मानं दधात्यस्मिन्यजमानलोकेऽस्मिन्नमृतलोकेऽस्मिन्स्वर्गे लोके स सर्वां दुरिष्टिमत्येति। अपि यदि समृद्धा इव ऋत्विजः स्युरिति ह स्मा हाथ हैतज्जपेदेवेति॥3.46॥


626

छन्दांसि वै देवेभ्यो हव्यमूढ्वा श्रान्तानि जघनार्धे यज्ञस्य तिष्ठन्ति यथाश्वो वाश्वतरो वोहिवांस्तिष्ठेदेवं तेभ्य एतम्मैत्रावरुणम्पशुपुरोळाशमनु देविका-हवींषि निर्वपेद्धात्रे पुरोळाशं द्वादशकपालं यो धाता स वषट्कारोऽनुमत्यै चरुं यानुमतिः सा गायत्री राकायै चरुं या राका सा त्रिष्टुप् सिनीवाल्यै चरुं या सिनीवाली सा जगती कुह्वै चरुं या कुहूः सानुष्टुबेतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्त एतैर्ह वा अस्य छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टम्भवाति य एवं वेद तद्वै यदिदमाहुः सुधायां ह वै वाजी सुहितो दधातीति छन्दांसि वै तत्सुधायां ह वा एनं छन्दांसि दधत्यननुध्यायिनं लोकं जयति य एवं वेद तद्धैक आहुर्धातारमेव सर्वासाम्पुरस्तात्पुरस्तादाज्येन परियजेत्तदासु सर्वासु मिथुनं दधातीति तदु वा आहुर्जामि वा एतद्यज्ञे क्रियते यत्र समानीभ्यामृग्भ्यं समानेऽहन्यजतीति यदि ह वा अपि बह्व्य इव जायाः पतिर्वाव तासाम्मिथुनं तद्यदासां धातारम्पुरस्ताद्यजति तदासु सर्वासु मिथुनं दधाति। इति नु देविकानाम्॥3.47॥


631

अथ देवीनां सूर्याय पुरोळाशमेककपालं यः सूर्यः स धाता स उ एव वषट्कारो दिवे चरुं या द्यौः सानुमतिः सो एव गाय त्र्?युषसे चरुं योषाः सा राका सो एव त्रिष्टुब्गवे चरुं या गौः सा सिनीवाली सो एव जगती पृथिव्यै चरुं या पृथिवी सा कुहूः सो एवानुष्टुबेतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जाग-तमानुष्टुभमन्वन्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्त एतैर्ह वा अस्य छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टम्भवति य एवं वेद तद्वै यदिदमाहुः सुधायां ह वै वाजी सुहितो दधातीति छन्दांसि वै तत्सुधायां ह वा एनं छन्दांसि दधत्यननुध्यायिनं लोकं जयति य एवं वेद तद्धैक आहुः सूर्यमेव सर्वासा-म्पुरस्तात्पुरस्तादाज्येन परियजेत्तदासु सर्वासु मिथुनं दधातीति तदु वा आहुर्जामि वा एतद्यज्ञे क्रियते यत्र समानीभ्यामृग्भ्यां समानेऽहन्यजतीति यदि ह वा अपि बह्व्य इव जायाः पतिर्वाव तासाम्मिथुनं तद्यदासां सूर्यम्पुर-स्ताद्यजति तदासु सर्वासु मिथुनं दधाति ता या इमास्ता अमूर्या अमूस्ता इमा अन्यतराभिर्वाव तं काममाप्नोति य एतासूभयीषु ता उभयीर्गतश्रियः प्रजा-तिकामस्य संनिर्वपेन्न त्वेषिष्यमाणस्य यदेना एषिष्यमाणस्य संनिर्वपेदीश्वरो हास्य वित्ते देवा अरन्तोर्यद्वा अयमात्मनेऽलममंस्तेति ता ह शुचिवृक्षो गौपलायनो वृद्धद्युम्नस्याभिप्रतारिणस्योभयीर्यज्ञे संनिरुवाप तस्य ह रथगृत्सं गाहमानं दृष्ट्वोवाचेत्थमहमस्य राजन्यस्य देविकाश्च देवीश्चोभयीर्यज्ञे सममादयं यदस्येत्थं रथगृत्सो गाहत इति चतुःषष्टिः कवचिनः शश्वद्धास्य ते पुत्रनप्तार आसुः॥3.48॥


अग्निष्टोमं वै देवा अश्रयन्तोक्थान्यसुरास्ते समावद्वीर्या एवाऽऽसन्न व्यवर्तन्त तान्भरद्वाज ऋषीणामपश्यदिमे वा असुरा उक्थेषु श्रितास्तानेषां न कश्चन पश्यतीति सोऽग्निमुदह्वयत्। एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिर इति। असुर्या ह वा इतरा गिरः। सोऽग्निरुपोत्तिष्ठन्नब्रवीत्किंस्विदेव मह्यं कृशो दीर्घः पलितो वक्ष्यतीति। भरद्वाजो ह वै कृशो दीर्घः पलित आस। सोऽब्रवीदिमे वा असुरा उक्थेषु श्रितास्तान्वो न कश्चन पश्यतीति। तानग्निरश्वो भूत्वाऽभ्यत्यद्रवद्यदग्निरश्वो भूत्वाऽभ्यत्यद्रवत्तत्साकमश्वं सामाभवत्तत्साकमश्वस्य साकमश्वत्वम्। तदाहुः साकमश्वेनोक्थानि प्रणयेदप्रणीतानि वाव तान्युक्थानि यान्यन्यत्र साकमश्वादिति। प्रमंहिष्ठीयेन प्रणयेदित्याहुः प्रमंहिष्ठीयेन वै देवा असुरानुक्थेभ्यः प्राणुदन्त। तत्प्राहैव प्रमंहिष्ठीयेन नयेत्प्र साकमश्वेन॥3.49॥ (15.5) (120)

641

ते वा असुरा मैत्रावरुणस्योक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानि-तोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्वरुणस्तस्मादैन्द्रावरुणम्मैत्रावरुणस्तृती-यसवने शंसतीन्द्र श्च हि तान्वरुणश्च ततोऽनुदेतां ते वै ततोऽपहता असुरा ब्राह्म-नाच्छंसिन उक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्बृहस्पतिस्तस्मादैन्द्राबार्हस्पत्यम्ब्राह्मणाच्छंसी तृतीयसवने शंसतीन्द्र श्च हि तान्बृहस्पतिश्च ततोऽनुदेतां ते वै ततोऽपहता असुरा अछा-वाकस्योक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्विष्णुस्तस्मादैन्द्रावैष्णवमच्छावाकस्तृतीयसवने शंसतीन्द्र श्च हि ता-न्विष्णुश्च ततोऽनुदेतां द्वन्द्वमिन्द्रे ण देवताः शस्यन्ते द्वन्द्वं वै मिथुनं त-स्माद्द्वन्द्वान्मिथुनम्प्रजायते प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेदाथ हैते पोत्रीयाश्च नेष्ट्रीयाश्च चत्वार ऋतुयाजाः षळृचः सा विराड्दशिनी तद्विराजि यज्ञं दशिन्यां प्रतिष्ठापयन्ति प्रतिष्ठापयन्ति॥3.50॥