ऋग्वेदः सूक्तं २.३४
← सूक्तं २.३३ | ऋग्वेदः - मण्डल २ सूक्तं २.३४ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः |
सूक्तं २.३५ → |
दे. मरुत्। जगती, १५ त्रिष्टुप् |
धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास्तविषीभिरर्चिनः ।
अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तो अप गा अवृण्वत ॥१॥
द्यावो न स्तृभिश्चितयन्त खादिनो व्यभ्रिया न द्युतयन्त वृष्टयः ।
रुद्रो यद्वो मरुतो रुक्मवक्षसो वृषाजनि पृश्न्याः शुक्र ऊधनि ॥२॥
उक्षन्ते अश्वाँ अत्याँ इवाजिषु नदस्य कर्णैस्तुरयन्त आशुभिः ।
हिरण्यशिप्रा मरुतो दविध्वतः पृक्षं याथ पृषतीभिः समन्यवः ॥३॥
पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदमा जीरदानवः ।
पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु धूर्षदः ॥४॥
इन्धन्वभिर्धेनुभी रप्शदूधभिरध्वस्मभिः पथिभिर्भ्राजदृष्टयः ।
आ हंसासो न स्वसराणि गन्तन मधोर्मदाय मरुतः समन्यवः ॥५॥
आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन ।
अश्वामिव पिप्यत धेनुमूधनि कर्ता धियं जरित्रे वाजपेशसम् ॥६॥
तं नो दात मरुतो वाजिनं रथ आपानं ब्रह्म चितयद्दिवेदिवे ।
इषं स्तोतृभ्यो वृजनेषु कारवे सनिं मेधामरिष्टं दुष्टरं सहः ॥७॥
यद्युञ्जते मरुतो रुक्मवक्षसोऽश्वान्रथेषु भग आ सुदानवः ।
धेनुर्न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीमिषम् ॥८॥
यो नो मरुतो वृकताति मर्त्यो रिपुर्दधे वसवो रक्षता रिषः ।
वर्तयत तपुषा चक्रियाभि तमव रुद्रा अशसो हन्तना वधः ॥९॥
चित्रं तद्वो मरुतो याम चेकिते पृश्न्या यदूधरप्यापयो दुहुः ।
यद्वा निदे नवमानस्य रुद्रियास्त्रितं जराय जुरतामदाभ्याः ॥१०॥
तान्वो महो मरुत एवयाव्नो विष्णोरेषस्य प्रभृथे हवामहे ।
हिरण्यवर्णान्ककुहान्यतस्रुचो ब्रह्मण्यन्तः शंस्यं राध ईमहे ॥११॥
ते दशग्वाः प्रथमा यज्ञमूहिरे ते नो हिन्वन्तूषसो व्युष्टिषु ।
उषा न रामीररुणैरपोर्णुते महो ज्योतिषा शुचता गोअर्णसा ॥१२॥
ते क्षोणीभिररुणेभिर्नाञ्जिभी रुद्रा ऋतस्य सदनेषु वावृधुः ।
निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णं दधिरे सुपेशसम् ॥१३॥
ताँ इयानो महि वरूथमूतय उप घेदेना नमसा गृणीमसि ।
त्रितो न यान्पञ्च होतॄनभिष्टय आववर्तदवराञ्चक्रियावसे ॥१४॥
यया रध्रं पारयथात्यंहो यया निदो मुञ्चथ वन्दितारम् ।
अर्वाची सा मरुतो या व ऊतिरो षु वाश्रेव सुमतिर्जिगातु ॥१५॥
सायणभाष्यम्
' धारावराः ' इति पञ्चदर्शचं द्वितीयं सूक्तं गार्त्समदं मारुतम् । अन्त्या त्रिष्टुप् शिष्टा जगत्यः ' । तथा चानुक्रान्तं- धारावरा मारुतं त्रिष्टुबन्तम् इति । पृष्ठ्याभिप्लवषडहयोस्तृतीयेऽहन्याग्निमारुतशस्त्रस्य इदं मारुतनिविद्धानम् । सूत्रितं च-- वैश्वानराय धिषणां धारावरा मरुतस्त्वमग्ने प्रथमो अङ्गिरा इत्याग्निमारुतम् ' ( आश्व. श्रौ. ७. ७) इति ।।
धा॒रा॒व॒रा म॒रुतो॑ धृ॒ष्ण्वो॑जसो मृ॒गा न भी॒मास्तवि॑षीभिर॒र्चिनः॑ ।
अ॒ग्नयो॒ न शु॑शुचा॒ना ऋ॑जी॒षिणो॒ भृमिं॒ धम॑न्तो॒ अप॒ गा अ॑वृण्वत ॥१
धा॒रा॒व॒राः । म॒रुतः॑ । धृ॒ष्णुऽओ॑जसः । मृ॒गाः । न । भी॒माः । तवि॑षीभिः । अ॒र्चिनः॑ ।
अ॒ग्नयः॑ । न । शु॒शु॒चा॒नाः । ऋ॒जी॒षिणः॑ । भृमि॑म् । धम॑न्तः । अप॑ । गाः । अ॒वृ॒ण्व॒त॒ ॥१
धारावराः। मरुतः । धृष्णुऽओजसः । मृगाः । न । भीमाः । तविषीभिः । अर्चिनः ।
अग्नयः । न। शुशुचानाः। ऋजीषिणः । भृमिं। धमंतः । अप। गाः। अवृण्वत ॥१॥
धारावरा उदकधारयांतरिक्षमावृण्वंतः । यद्वा धाराणां धृतानां स्थिराणां वृक्षादीनां निवारयितारश्चालयितारः । धृष्ण्वोजसः परेषां धर्षकेण बलेन युक्ताः । अत एव मृगा न भीमाः । सिंहा इव भयंकराः । तविषीभिरात्मीयैर्बलैर्वृष्टिप्रदानादिनार्चिनः सर्वं जगत्पूजयंतः । अग्नयो न शुशुचाना दीप्ता वह्नय इव दीप्यमानाः ॥ शुच दीप्तौ । लिटः कानच् ॥ ऋजीषिणः । ऋजीषमुदकं तद्वंतः । यद्वा ऋजीषोऽपगतसारः सोमः । तेन युक्ताः । तृतीयसवने ह्याग्निमारुते मरुतः स्तूयते । तत्र च सवनद्वयेऽभिषुतं गतसारं सोममभिषुण्वंति । अतस्तेषां तद्युक्तत्वं । एवंभूता मरुतो भृमिं भ्राम्यंतं मेघं धमंतो वर्षणार्थमितस्ततः प्रेरयंतो गास्तदंतर्गता वर्ष्या अपोऽपावृण्वत । अपावृताः कुर्वंति । यथा सर्वैर्दृश्यंते तथा प्रवर्षंतीत्यर्थः । यद्वा भृम्याख्यो वीणाविशेषः । तं धमंतो वादयंतो गा वलनाम्नासुरेणापिहिता अपावृण्वत । अपगतावरणा अकुर्वन् ॥
द्यावो॒ न स्तृभि॑श्चितयन्त खा॒दिनो॒ व्य१॒॑भ्रिया॒ न द्यु॑तयन्त वृ॒ष्टयः॑ ।
रु॒द्रो यद्वो॑ मरुतो रुक्मवक्षसो॒ वृषाज॑नि॒ पृश्न्याः॑ शु॒क्र ऊध॑नि ॥२
द्यावः॑ । न । स्तृऽभिः॑ । चि॒त॒य॒न्त॒ । खा॒दिनः॑ । वि । अ॒भ्रियाः॑ । न । द्यु॒त॒य॒न्त॒ । वृ॒ष्टयः॑ ।
रु॒द्रः । यत् । वः॒ । म॒रु॒तः॒ । रु॒क्म॒ऽव॒क्ष॒सः॒ । वृषा॑ । अज॑नि । पृश्न्याः॑ । शु॒क्रे । ऊध॑नि ॥२
द्यावः। न। स्तृऽभिः। चितयंत । खादिनः। वि। अभ्रियाः। न । द्युतयंत। वृष्टयः ।
रुद्रः। यत्। वः । मरुतः। रुक्मऽवक्षसः। वृषा । अजनि। पृश्न्याः। शुक्रे। ऊधनि॥२॥
स्तृभिः । नक्षत्रनामैतत् । यदाह यास्कः । ऋक्षाः स्तृभिरिति नक्षत्राणां । नि०३.२०. । इति । नक्षत्रैर्द्यावो न यथा द्युलोकाश्चितयंत चेतयंति स्वात्मानं ज्ञापयंति ॥ चिती संज्ञाने ॥ प्रकाशंत इत्यर्थः । तथा खादिनः शत्रूणां खादका मरुतः स्वकीयैराभरणैर्ज्ञायते । यद्वा खादः कटकं । तद्युक्ताः संतः प्रकाशंते । तथा वृष्टयो वर्षका मरुतोऽभ्रिया न । अभ्रेषु भवा विद्युत इव वि द्युतयंत । सर्वं जगद्विद्योतयंति । प्रकाशयंति ॥ अभशब्दाद्भवार्थे समुद्राभ्राद्घः इति घप्रत्ययः ॥ शेषः प्रत्यक्षकृतः । रुक्मवक्षसः । रुक्मं रोचमाणाभरणं वक्षस्युरसि येषां तादृशा हे मरुतो यद्यदा वो युष्मान् वृषा सेचनसमर्थों रुद्रो महादेवः पृश्न्याः । पृश्निमाध्यमिका वाक् । तस्याः संबंधिनि शुक्रे निर्मल ऊधन्युद्वते प्रदेशेऽजेनि । अजनयत् । तदानीमिति पूर्वत्र संबंधः । यद्वा पृश्निर्नानावर्णेयं भूमिः पुरा गोरूपधरासीत् तस्यां महेशो वृषो भूत्वा मरुत उत्पादयामासेत्याचक्षते । तदत्रोच्यते । हे मरुतो यद्यस्माद्वो युष्मान् वृषा वृषरूपो रुद्रः पृश्न्या गोः शुक्रे निर्मल ऊधन्यूधसि पयस उत्पत्तिस्थानेऽजनि । अजीजनत् । तस्माद्यूयमेवंमहानुभावा जाता इत्यर्थः । तथा च तैत्तिरीयकं । पृश्नियै वै पयसो । मरुतो जाताः । तै० सं० २. २.११. ४.। इति ॥
उ॒क्षन्ते॒ अश्वाँ॒ अत्याँ॑ इवा॒जिषु॑ न॒दस्य॒ कर्णै॑स्तुरयन्त आ॒शुभिः॑ ।
हिर॑ण्यशिप्रा मरुतो॒ दवि॑ध्वतः पृ॒क्षं या॑थ॒ पृष॑तीभिः समन्यवः ॥३
उ॒क्षन्ते॑ । अश्वा॑न् । अत्या॑न्ऽइव । आ॒जिषु॑ । न॒दस्य॑ । कर्णैः॑ । तु॒र॒य॒न्ते॒ । आ॒शुऽभिः॑ ।
हिर॑ण्यऽशिप्राः । म॒रु॒तः॒ । दवि॑ध्वतः । पृ॒क्षम् । या॒थ॒ । पृष॑तीभिः । स॒ऽम॒न्य॒वः॒ ॥३
उक्षंते । अश्वान्। अत्यान्ऽइव। आजिषु । नदस्य । कर्णैः । तुरयंते । आशुऽभिः।
हिरण्यऽशिप्राः । मरुतः । दविध्वतः । पृक्षं । याथ। पृषतीभिः। सऽमन्यवः ॥३॥
मरुतोऽश्वान् व्याप्तान् लोकानुक्षंते । सिंचंति ॥ अशू व्याप्तौ। औणादिकः क्वन्प्रत्ययः ॥ आजिषु संग्रामेष्वत्यानिव सततगामिनस्तुरगान् यथा स्वेदापनोदायोदकैः सिंचंति तद्वत् । अपि च ते मरुत आशुभिः शीघ्रगमनैरश्वैर्नदस्य शब्दवतो मेघस्य कर्णैः कृतैर्मध्यप्रदेशैस्तुरयंते । वर्षणार्थं वृष्ट्युत्पादनाय त्वरितं गच्छंति ॥ तुर त्वरणे ॥ शेषः प्रत्यक्षकृतः । हे हिरण्यशिप्राः । शिप्रं शिरस्त्राणं । सुवर्णमयशिरस्त्राणाः समन्यवः समानमनस्काः समानक्रोधा वा हे मरुतो दविध्वतो महीरुहादिकं कंपयंतो यूयं ॥ धूञ् कंपन इत्यस्माद्दाधर्त्यादावेतद्रूपं निपात्यते ॥ पृषतीभिर्युष्मद्रथे योजिताभिः श्वेतबिंद्वंकिताभिमृगीभिर्वडवाभिर्वा पृक्षं । अन्ननामैतत् । हविर्लक्षणान्नवंतं यजमानं ॥ अर्शआदित्वादच् ॥ याथ । गच्छथ ॥
पृ॒क्षे ता विश्वा॒ भुव॑ना ववक्षिरे मि॒त्राय॑ वा॒ सद॒मा जी॒रदा॑नवः ।
पृष॑दश्वासो अनव॒भ्ररा॑धस ऋजि॒प्यासो॒ न व॒युने॑षु धू॒र्षदः॑ ॥४
पृ॒क्षे । ता । विश्वा॑ । भुव॑ना । व॒व॒क्षि॒रे॒ । मि॒त्राय॑ । वा॒ । सद॑म् । आ । जी॒रऽदा॑नवः ।
पृष॑त्ऽअश्वासः । अ॒न॒व॒भ्रऽरा॑धसः । ऋ॒जि॒प्यासः॑ । न । व॒युने॑षु । धूः॒ऽसदः॑ ॥४
पृक्षे। ता। विश्वा । भुव॑ना। ववक्षिरे। मित्राय । वा। सदं। आ। जीरऽदानवः । पृषत्ऽअश्वासः। अनवभऽराधसः। ऋजिप्यासः। न। वयुनेषु । धूःऽसदः ॥४॥ पृक्षे पृक्षवते हविर्लक्षणान्नयुक्ताय यजमानाय ता तानि विश्वा सर्वाणि भुवनान्युदकानि मित्राय । वाशब्द उपमार्थः । मित्रायेव सदं सदा आ ववक्षिरे । मरुत आवहंति । यद्वा वाशब्दोऽवधारणे । मित्रभूताय यजमानायैव पृक्षे ऽन्ने निमित्तभूते सति वृष्ट्युदकान्यावहंति । कीदृशा मरुतः । जीरदानवः । क्षिप्रदानाः । पृषदश्वासः पृषद्भिः श्वेतबिंदुभिर्युक्ता अश्वा येषां ते तथोक्ताः । अनवभराधसः ॥ भृशु भ्रंशु अधःपतने । अवभ्रंशनमवभ्रः । डोऽन्यत्राधि दृश्यते । पा० ६.२. ४८. ४.। इति डप्रत्ययः । नास्त्यवभ्रो यस्येति बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वं । अनवभ्रं भ्रंशनरहितं राधो धनं येषां ते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ऋजिप्यासो न। ऋजु अकुटिलं प्राप्नुवंतो गच्छंतोऽश्वा इव वयुनेषु गंतृषु मध्ये धूर्षदो धुरि मेघस्य वहने सीदंतो निषण्णा इत्यर्थः ॥
इन्ध॑न्वभिर्धे॒नुभी॑ र॒प्शदू॑धभिरध्व॒स्मभिः॑ प॒थिभि॑र्भ्राजदृष्टयः ।
आ हं॒सासो॒ न स्वस॑राणि गन्तन॒ मधो॒र्मदा॑य मरुतः समन्यवः ॥५
इन्ध॑न्वऽभिः । धे॒नुऽभिः॑ । र॒प्शदू॑धऽभिः । अ॒ध्व॒स्मऽभिः॑ । प॒थिऽभिः॑ । भ्रा॒ज॒त्ऽऋ॒ष्ट॒यः॒ ।
आ । हं॒सासः॑ । न । स्वस॑राणि । ग॒न्त॒न॒ । मधोः॑ । मदा॑य । म॒रु॒तः॒ । स॒ऽम॒न्य॒वः॒ ॥५
इंधन्वऽभिः । धेनुऽभिः। रप्शदूधऽभिः। अध्वस्मऽभिः। पथिऽभिः। भाजत्ऽऋष्टयः।
आ । हंसासो। न । स्वसराणि । गंतन। मधोः । मदाय । मरुतः । सऽमन्यवः ॥५॥
समन्यवः समानमनस्काः समानक्रोधाः समानतेजसो वा हे मरुतो भाजदृष्टयो दीप्यमानायुधा यूयमिंधन्वभिः समिंधनवद्भिः ॥ इंधनशब्दाच्छंदसीवनिपाविति मत्वर्थीयो वनिप् । छांदसो वर्णलोपः ॥ धेनुभिः प्रीणयितृभिश्च रप्शदूधभिः । विरप्शीति महन्नाम । महोधस्कैः । ऊधांसि जलस्रोतोमार्गः । यदा रप खप व्यक्तायां वाचि । शब्दायमानोच्छ्रितप्रदेशैरध्वस्मभिर्ध्वसनरहितैः पथिभिः पतंति गच्छंतीति पंथानो मेघाः ।। एवंभूतैर्मेघैः सह मार्गैरेव वागंतन । आगच्छत । किमर्थं । मधोर्मदाय । सोमस्य मदार्थं। तत्र दृष्टांतः । इंसासो न । यथा हंसाः स्वसराणि स्वकीयानि निवासस्थानानि प्राप्नुवंति तद्वत् ॥ ॥१९॥
आ नो॒ ब्रह्मा॑णि मरुतः समन्यवो न॒रां न शंस॒ः सव॑नानि गन्तन ।
अश्वा॑मिव पिप्यत धे॒नुमूध॑नि॒ कर्ता॒ धियं॑ जरि॒त्रे वाज॑पेशसम् ॥६
आ । नः॒ । ब्रह्मा॑णि । म॒रु॒तः॒ । स॒ऽम॒न्य॒वः॒ । न॒राम् । न । शंसः॑ । सव॑नानि । ग॒न्त॒न॒ ।
अश्वा॑म्ऽइव । पि॒प्य॒त॒ । धे॒नुम् । ऊध॑नि । कर्ता॑ । धिय॑म् । ज॒रि॒त्रे । वाज॑ऽपेशसम् ॥६
आ। नः । ब्रह्माणि । मरुतः । सऽमन्यवः । नरां। न। शंसः। सवनानि । गंतन।
अश्वाँऽइव। पिप्यत ।धेनुम्। ऊधनि। कर्त । धियं । जरित्रे। वाजऽपेशसं ॥६॥
समन्यवः समानमनसः समानक्रोधा वा हे मरुतो नोऽस्माकं ब्रह्माणि ॥ अन्ननामैतत् ॥ अन्नानि सवनान्यभिषुतसोमलक्षणानि हवींष्यागंतन । आगच्छत ॥ गमेर्लोटि छांदसः शपो लुक् । तप्तनप्ननथनाश्चेति तस्य तनबादेशः । अत एव ङित्त्वाभावादनुनासिकलोपाभावः ॥ तत्र दृष्टांतः । नरां न शंसः । नरामस्माकं शंसः। शंसनीयं स्तोत्रं यथागच्छथ तद्वत् ॥ नरशब्दात् षष्ठीबहुवचनस्यानित्यमागमशासनमिति नुडभावः। शंसः कर्मणि घञंत आद्युदात्तः । सुपां सुलुगित्यमः सुआदेशः ॥ आगत्य च धेनुमुदकदानेन प्रीणयितारमश्वामिवोधनि पिप्यत । यथाश्वाः पीनावयवा भवंति तद्वन्मेघं वर्षणसमर्थमाप्यायितं कुरुतेत्यर्थः । अपि च जरित्रे स्तोत्रे वाजपेशसं वाजैरन्नैराश्लिष्टं ॥ पिश अवयवे ॥ धियं कर्म कर्त। कुरुत ॥ करोतेश्छांदसः शपो लुक् । पूर्ववत्तशब्दस्य तबादेशः ।।
तं नो॑ दात मरुतो वा॒जिनं॒ रथ॑ आपा॒नं ब्रह्म॑ चि॒तय॑द्दि॒वेदि॑वे ।
इषं॑ स्तो॒तृभ्यो॑ वृ॒जने॑षु का॒रवे॑ स॒निं मे॒धामरि॑ष्टं दु॒ष्टरं॒ सहः॑ ॥७
तम् । नः॒ । दा॒त॒ । म॒रु॒तः॒ । वा॒जिन॑म् । रथे॑ । आ॒पा॒नम् । ब्रह्म॑ । चि॒तय॑त् । दि॒वेऽदि॑वे ।
इष॑म् । स्तो॒तृऽभ्यः॑ । वृ॒जने॑षु । का॒रवे॑ । स॒निम् । मे॒धाम् । अरि॑ष्टम् । दु॒स्तर॑म् । सहः॑ ॥७
तं । नः । दात । मरुतः । वाजिनं । रथे । आपानं । ब्रह्म । चितयत्। दिवेऽदिवे।
इषं। स्तोतृऽभ्यः । वृजनेषु । कारवे । सनिं । मेधां। अरिष्टं। दुस्तरं । सहः ॥७॥
हे मरुतः तं पुत्रं नोऽस्मभ्यं दात । दत्त प्रयच्छत ॥ छांदसः शपो लुक् ॥ कीदृशं । वाजिनमन्नवंतं बलवंतं वा। रथे रंहणे युष्मदीय आगमने निमित्तभूते सति दिवेदिवे प्रतिदिवसं चितयत् प्रज्ञापयत् युष्मद्गुणप्रख्यापकं । ब्रह्म स्तोत्रमापानमाप्नुवंतं । अपि च इषमन्नं स्तोतृभ्योऽस्मभ्यं दात । प्रयच्छत । तथा वृजनेषु संग्रामेषु कारवे स्तोत्रे ॥ वचनव्यत्ययः ॥ मेधां युद्धप्रज्ञानं सनिं धनदातृत्वं चारिष्टं शत्रुभिरहिंसितं दुस्तरं शत्रुभिस्तरीतुमशक्यं सहो बलं च प्रयच्छत ॥
यद्यु॒ञ्जते॑ म॒रुतो॑ रु॒क्मव॑क्ष॒सोऽश्वा॒न्रथे॑षु॒ भग॒ आ सु॒दान॑वः ।
धे॒नुर्न शिश्वे॒ स्वस॑रेषु पिन्वते॒ जना॑य रा॒तह॑विषे म॒हीमिष॑म् ॥८
यत् । यु॒ञ्जते॑ । म॒रुतः॑ । रु॒क्मऽव॑क्षसः । अश्वा॑न् । रथे॑षु । भगे॑ । आ । सु॒ऽदान॑वः ।
धे॒नुः । न । शिश्वे॑ । स्वस॑रेषु । पि॒न्व॒ते॒ । जना॑य । रा॒तऽह॑विषे । म॒हीम् । इष॑म् ॥८
यत् । युंजते । मरुतः । रुक्मऽवक्षसः। अश्वान्। रथेषु । भगे। आ । सुऽदानवः ।
धेनुः । न । शिश्वे। स्वसरेषु । पिन्वते । जनाय। रातऽहविषे। महीं। इषं ॥८॥
रुक्मवक्षसो रोचमानाभरणोरस्काः सुदानवः शोभनदाना मरुतो यद्यदा रथेषु भगे भजनीये स्थाने । धुरीत्यर्थः । अश्वानायुंजते । आभिमुख्येन युक्तान्कुर्वंति । तदानीमेव रातहविषे दत्तहविष्काय यजमानाय महीं महतीमिषमन्नं तत्कारणभूतमुदकं वा स्वसंरेषु स्वकीयेषु गृहेषु पिन्वते । सिंचंति किरंति ॥ पिवि सेचने ॥ तत्र दृष्टांतः । धेनुर्न शिश्वे । यथा धेनुः प्रस्रुतस्तनी सती स्वकीयाय वत्साय क्षीरं प्रयच्छति तद्वत् ।।
यो नो॑ मरुतो वृ॒कता॑ति॒ मर्त्यो॑ रि॒पुर्द॒धे व॑सवो॒ रक्ष॑ता रि॒षः ।
व॒र्तय॑त॒ तपु॑षा च॒क्रिया॒भि तमव॑ रुद्रा अ॒शसो॑ हन्तना॒ वधः॑ ॥९
यः । नः॒ । म॒रु॒तः॒ । वृ॒कऽता॑ति । मर्त्यः॑ । रि॒पुः । द॒धे । व॒स॒वः॒ । रक्ष॑त । रि॒षः ।
व॒र्तय॑त । तपु॑षा । च॒क्रिया॑ । अ॒भि । तम् । अव॑ । रु॒द्राः॒ । अ॒शसः॑ । ह॒न्त॒न॒ । वध॒रिति॑ ॥९
यः । नः । मरुतः । वृकऽताति । मर्त्यः । रिपुः । दधे। वसवः । रक्षत। रिषः।
वर्तयत । तपुषा। चक्रिया। अभि। तं । अव। रुद्राः। अशसः। हंतन। वधरिति ॥९॥
हे मरुतः यो मर्यो मनुष्यो वृकताति आदाता वृकः ॥ वृक आदाने । वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छदास । पा०५. ४. ४१.। इति स्वार्थिकस्तातिल्प्रत्ययः ॥ तादृशः सन् नोऽस्माकं रिपुर्दधे। रिपुतयात्मानं धारयति । हे वसवो वासयितारो मरुतो रिषो हिंसकादस्मान्रक्षत । पालयत । अस्माकं शत्रुभूतं मर्त्यं तपुषा तापयित्र्या चक्रिया ऋष्ट्याख्यया शक्त्याभिवर्तयत । अभितो निवर्तयत । हे रुद्रा रुद्रपुत्राः । यद्वा रोरूयमाणा द्रवंतः अशसो भक्षकस्य ॥ अश भोजन इत्यस्मादौणादिकोऽसिप्रत्ययः ॥ तादृशस्य राक्षसादेर्वधर्हननसाधनमायुधमवहंतन । अवयुत्यास्मत्तः पृथक्कृत्य नाशयत ॥ हंतेर्लोटि तप्तनप्तनथनाश्चेति तनम् ॥
चि॒त्रं तद्वो॑ मरुतो॒ याम॑ चेकिते॒ पृश्न्या॒ यदूध॒रप्या॒पयो॑ दु॒हुः ।
यद्वा॑ नि॒दे नव॑मानस्य रुद्रियास्त्रि॒तं जरा॑य जुर॒ताम॑दाभ्याः ॥१०
चि॒त्रम् । तत् । वः॒ । म॒रु॒तः॒ । याम॑ । चे॒कि॒ते॒ । पृश्न्याः॑ । यत् । ऊधः॑ । अपि॑ । आ॒पयः॑ । दु॒हुः ।
यत् । वा॒ । नि॒दे । नव॑मानस्य । रु॒द्रि॒याः॒ । त्रि॒तम् । जरा॑य । जु॒र॒ताम् । अ॒दा॒भ्याः॒ ॥१०
चित्रं। तत्। वः। मरुतः। याम। चेकिते। पृश्न्याः। यत्। ऊधः। अपि। आपयः। दुहुः।
यत्। वा। निदे। नवमानस्य। रुद्रियाः । त्रितं। जराय। जुरतां । अदाभ्याः ॥१०॥
हे महतो वो युष्माकं चित्रं चायनीयं याम प्रापणं चेकिते । सर्वैर्ज्ञायते । इदानीं परोक्षवदाह । अपि शब्दः प्रसिद्धौ । यद्यदा खलु पृश्न्या माध्यमिकाया वाचः संबंधिनमूधरुद्धतं मेघमापयः प्रापयितारो मरुतो दुहुः । दुहंति ॥ दुहेश्छांदसो लिट् । छंदसि चेति वक्तव्यमिति द्विर्वचनाभावः ॥ यद्वा यदा च नवमानस्य स्तुवतस्त्रितस्य निदे निंदकाय शत्रवे हिंसां कृतवंत इति शेषः ॥ निदि कुत्सायां। क्विप् चेति क्विप् ॥ तदानीं हे अदाभ्या अहिंस्या रुद्रिया रुद्रस्य पुत्रा मरुतस्त्रितमृर्षि जुरतां हिंसतां शत्रूणां जराय जरणाय विनाशाय अभूतेति शेषः ॥ ॥ २० ॥
तान्वो॑ म॒हो म॒रुत॑ एव॒याव्नो॒ विष्णो॑रे॒षस्य॑ प्रभृ॒थे ह॑वामहे ।
हिर॑ण्यवर्णान्ककु॒हान्य॒तस्रु॑चो ब्रह्म॒ण्यन्त॒ः शंस्यं॒ राध॑ ईमहे ॥११
तान् । वः॒ । म॒हः । म॒रुतः॑ । ए॒व॒ऽयाव्नः॑ । विष्णोः॑ । ए॒षस्य॑ । प्र॒ऽभृ॒थे । ह॒वा॒म॒हे॒ ।
हिर॑ण्यऽवर्णान् । क॒कु॒हान् । य॒तऽस्रु॑चः । ब्र॒ह्म॒ण्यन्तः॑ । शंस्य॑म् । राधः॑ । ई॒म॒हे॒ ॥११
तान्। वः । महः । मरुतः। एवऽयाव्नः । विष्णोः । एषस्य । प्रऽभृथे। हवामहे ।
हिरण्यऽवर्णान्। ककुहान्। यतऽस्रुचः। ब्रह्मण्यंतः। शंस्यं। राधः । ईमहे ॥११॥
हे मरुत एवयाव्न एवं गंतव्यं स्तोत्रं यज्ञं वा गंतॄन महो महतो महानुभावांस्तान्वो युष्मान्विष्णोर्व्यापकस्य ग्रहचमसादिषु सर्वत्र व्याप्य वर्तमानस्यैषस्यैषणीयस्य प्रार्थनीयस्य सोमस्य प्रभृथे प्रभरणेऽभिषवादिभिः प्रकर्षेण संपादने सति हवामहे । आह्वयामहे । आहूय च हिरण्यवर्णान् हितरमणीयवर्णान्वा ककुहान् श्रेष्ठान् स्तुत्यान्वा एवंभूतांस्तान् यतस्रुचो यागायोद्यतस्रुचो ब्रह्मण्यंतः । ब्रह्म स्तोत्रं । तदिच्छंतो वयं शंस्यं प्रशंसनीयं राधो धनमीमहे । याचामहे ॥
ते दश॑ग्वाः प्रथ॒मा य॒ज्ञमू॑हिरे॒ ते नो॑ हिन्वन्तू॒षसो॒ व्यु॑ष्टिषु ।
उ॒षा न रा॒मीर॑रु॒णैरपो॑र्णुते म॒हो ज्योति॑षा शुच॒ता गोअ॑र्णसा ॥१२
ते । दश॑ऽग्वाः । प्र॒थ॒माः । य॒ज्ञम् । ऊ॒हि॒रे॒ । ते । नः॒ । हि॒न्व॒न्तु॒ । उ॒षसः॑ । विऽउ॑ष्टिषु ।
उ॒षाः । न । रा॒मीः । अ॒रु॒णैः । अप॑ । ऊ॒र्णु॒ते॒ । म॒हः । ज्योति॑षा । शु॒च॒ता । गोऽअ॑र्णसा ॥१२
ते। दशऽग्वाः। प्रथमाः । यज्ञं। ऊहिरे। ते। नः । हिन्वंतु। उषसः। विऽउष्टिषु ।
उषाः। न।रामीः। अरुणैः। अप।ऊर्णुते। महः। ज्योतिषा।शुचता।गोऽअर्णसा ॥१२॥
ते मरुतो दशग्वाः । ये दशभिर्मासैः सिद्धिं गता अंगिरसस्तद्रूपा भूत्वा प्रथमा आदित्येभ्यः प्रथमभाविनः संतो यज्ञमूहिरे। अवहन्। आदित्यानामंगिरसां च स्वर्गगमनं प्रति स्पर्धमानानां मध्ये पूर्वमेवांगिरसो यागाननुष्ठाय स्वर्गं प्राप्ताः । तथा च श्रूयते । आदित्याश्चैवेहासन्नंगिरसश्च तेऽग्रेऽग्निनाग्निमयजंतेति । तादृशास्त उषसो व्युष्टिषु विवासेषु प्रभातेषु सत्सु नोऽस्मान् हिन्वंतु । प्रेरयंतु ॥ हि गतौ वृद्धौ च ॥ रामीः कृष्णवर्णा रात्रीरुषा न यथोषा अरुणैरारोचमानैः स्वतेजोभिरपोर्णुते। अपवृणोत्यपसारयति । तथा महो महता शुचता दीप्यमानेन गोअर्णसा गच्छदुदकेन ज्योतिषा सूर्याख्येन तमो निवारयंति । सूर्यमंडलमावृण्वतो वृत्रादीन् हत्वा सर्वं जगत्प्रकाशयंतीत्यर्थः ॥
ते क्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी॑ रु॒द्रा ऋ॒तस्य॒ सद॑नेषु वावृधुः ।
नि॒मेघ॑माना॒ अत्ये॑न॒ पाज॑सा सुश्च॒न्द्रं वर्णं॑ दधिरे सु॒पेश॑सम् ॥१३
ते । क्षो॒णीभिः॑ । अ॒रु॒णेभिः॑ । न । अ॒ञ्जिऽभिः॑ । रु॒द्राः । ऋ॒तस्य॑ । सद॑नेषु । व॒वृ॒धुः॒ ।
नि॒ऽमेघ॑मानाः । अत्ये॑न । पाज॑सा । सु॒ऽच॒न्द्रम् । वर्ण॑म् । द॒धि॒रे॒ । सु॒ऽपेश॑सम् ॥१३
ते। क्षोणीभिः। अरुणेभिः। न। अंजिऽभिः। रुद्राः। ऋतस्य। सदनेषु । ववृधुः।
निऽमेघमानाः । अत्येन । पाज॑सा । सुऽचंद्रं । वर्णं । दधिरे। सुऽपेशसं ॥१३॥
रुद्रा रुद्रपुत्रास्ते मरुतः क्षोणीभिः शब्दकारिभिर्वीणाख्यैर्वीणाविशेषैररुणेभिर्नांजिभिः ॥ नशब्दः समुच्चये ॥ आरोचमानैररुणवर्णेर्वा रूपाभिव्यंजकैरलंकारैश्च समन्विताः संत ऋतस्योदकस्य सदनेषु निवासभूतेषु मेघेषु वावृधुः । वर्धंते । अपि च अत्येन सततगामिना शीघ्रं व्याप्नुवता पाजसात्मीयेन बलेन निमेघमाना नितरां मेघादुदकं चिंतयंतस्ते सुश्चंद्रं शोभनाह्लादनं सुपेशसं ॥ पेश इति रूपनाम ॥ शोभनरूपं वर्णं दधिरे। कांतिं धारयंति ॥
ताँ इ॑या॒नो महि॒ वरू॑थमू॒तय॒ उप॒ घेदे॒ना नम॑सा गृणीमसि ।
त्रि॒तो न यान्पञ्च॒ होतॄ॑न॒भिष्ट॑य आव॒वर्त॒दव॑राञ्च॒क्रियाव॑से ॥१४
तान् । इ॒या॒नः । महि॑ । वरू॑थम् । ऊ॒तये॑ । उप॑ । घ॒ । इत् । ए॒ना । नम॑सा । गृ॒णी॒म॒सि॒ ।
त्रि॒तः । न । यान् । पञ्च॑ । होतॄ॑न् । अ॒भिष्ट॑ये । आ॒ऽव॒वर्त॑त् । अव॑रान् । च॒क्रिया॑ । अव॑से ॥१४
तान्। इयानः। महि। वरूथं। ऊतये। उप। घ। इत्। एना। नमसा। गृणीमसि।
त्रितः।न।यान्।पंच होतॄन्।अभिष्टये।आऽववर्तत्।अवरान्।चक्रिया।अवसे ॥१४॥
तान् मरुतो महि महद्वरूथं वरणीयं प्रशस्तं धनं तन्मरुत ऊतये रक्षणार्थमियान इयाना याचमाना वयं ॥ सुपां सुलुगिति जसः सुः ॥ एनानेन नमसा नमस्कारेण स्तोत्रेण वोपेत् उपेत्य गृणीमसि । स्तुमः ॥ घेति पादपूरणः । एनेत्यत्र सुपां सुलुगिति तृतीयाया आजादेशः । नशब्दः समुच्चये ॥ त्रित ऋषिश्च यानेतान् मरुतः पंच होतॄन् अध्यात्मप्राणापानादिपंचवृत्त्यात्मना वर्तमानान् अत एव होमनिष्पादकान् अवरान् मुख्यानभिष्टये ऽभिलषितसिद्ध्यर्थं चक्रिया नाभिचक्रेणावसेऽवितुं संगंतुमाववर्तत् । स्वस्मान्निर्जिगमिषन्प्राणान् स्वात्माभिमुखमावर्तयत् । यद्वा चक्रियः ऋष्ट्याख्येनायुधेन युक्तान् अवसे स्तुत्यादिभिस्तर्पयितुमावर्तयत् । तान् स्तुम इति संबंधः ॥ ववर्तदिति वृतेर्ण्यंताल्लुङि चङि रूपं ॥
यया॑ र॒ध्रं पा॒रय॒थात्यंहो॒ यया॑ नि॒दो मु॒ञ्चथ॑ वन्दि॒तार॑म् ।
अ॒र्वाची॒ सा म॑रुतो॒ या व॑ ऊ॒तिरो षु वा॒श्रेव॑ सुम॒तिर्जि॑गातु ॥१५
यया॑ । र॒ध्रम् । पा॒रय॑थ । अति॑ । अंहः॑ । यया॑ । नि॒दः । मु॒ञ्चथ॑ । व॒न्दि॒तार॑म् ।
अ॒र्वाची॑ । सा । म॒रु॒तः॒ । या । वः॒ । ऊ॒तिः । ओ इति॑ । सु । वा॒श्राऽइ॑व । सु॒ऽम॒तिः । जि॒गा॒तु॒ ॥१५
यया। रध्रं। पारयथ । अति । अंहः । यया। निदः । मुंचथ। वंदितारं।
अर्वाची। सा। मरुतः । या। वः । ऊतिः । ओ इति । सु। वाश्राऽइव । सुऽमतिः । जिगातु ॥१५॥
हे मरुतो ययोत्या रध्रमाराधकं यजमानमंहः पापमति पारयथ । अतिक्रमयथ । ययोत्या वंदितारं स्तोतारं निदो निंदितुः शत्रोः सकाशोन्मुंचथ । मोचयथ । हे मरुतो वो युष्मदीया योतिः सार्वाच्यस्मदभिमुखा भवतु । तथा सुमतिर्युष्मदीया शोभना मतिरनुग्रहात्मिका बुद्धिश्च वाश्रेव हंभांरवं कुर्वती धेनुरिव वत्सं सुष्ठु ओ जिगातु । एवं गच्छतु । अस्मान् प्रति सर्वथागच्छत्वित्यर्थः ॥ ॥२१॥
टिप्पणी
dhärävara maruto dhṛṣṇvojasah (TB. dhṛṣṇuvojasaḥ) RV.2.34.1; AB.5.2.15;
ज्योतिःषष्ठमहः -धारावरा मरुतो धृष्ण्व् ओजस इति मारुतम् । धारावरा इति निनर्तिः । अन्तः षष्ठम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कर्द्यन् हि तत इयात् ।- KB.२१.४;
तृतीयमहः (वैश्वेदेवशस्त्रमग्निमारुतशस्त्रं च ) - धारावरा इति निनर्तिः । अन्तस् तृतीयम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कद्र्यन् हि तत इयात् ।- कौब्रा २२.५;
TB.2.5.5.4". Ps: dhärävara marutah AÇ.7.7.2; dhärävarah
दशरात्रे तृतीयमहः - धारावरास्त्वमग्ने प्रथमो अङ्गिरा ऋषिरित्याग्निमारुते शां.श्रौ. १०.४.१५
अभिप्लवषडहप्रकरणम् - धारावरास्त्वमग्ने द्युभिरित्याग्निमारुतम् - शांश्रौ ११.९.८
२.३४.७ तं नो दात मरुतो इति
मण्डल २ | |
---|---|
|