← सूक्तं १.६३ ऋग्वेदः - मण्डल १
सूक्तं १.६४
नोधा गौतमः
सूक्तं १.६५ →
दे. मरुतः। जगती, १५ त्रिष्टुप्।


वृष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिं प्र भरा मरुद्भ्यः ।
अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः ॥१॥
ते जज्ञिरे दिव ऋष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः ।
पावकासः शुचयः सूर्या इव सत्वानो न द्रप्सिनो घोरवर्पसः ॥२॥
युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव ।
दृळ्हा चिद्विश्वा भुवनानि पार्थिवा प्र च्यावयन्ति दिव्यानि मज्मना ॥३॥
चित्रैरञ्जिभिर्वपुषे व्यञ्जते वक्षस्सु रुक्माँ अधि येतिरे शुभे ।
अंसेष्वेषां नि मिमृक्षुरृष्टयः साकं जज्ञिरे स्वधया दिवो नरः ॥४॥
ईशानकृतो धुनयो रिशादसो वातान्विद्युतस्तविषीभिरक्रत ।
दुहन्त्यूधर्दिव्यानि धूतयो भूमिं पिन्वन्ति पयसा परिज्रयः ॥५॥
पिन्वन्त्यपो मरुतः सुदानवः पयो घृतवद्विदथेष्वाभुवः ।
अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति स्तनयन्तमक्षितम् ॥६॥
महिषासो मायिनश्चित्रभानवो गिरयो न स्वतवसो रघुष्यदः ।
मृगा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम् ॥७॥
सिंहा इव नानदति प्रचेतसः पिशा इव सुपिशो विश्ववेदसः ।
क्षपो जिन्वन्तः पृषतीभिरृष्टिभिः समित्सबाधः शवसाहिमन्यवः ॥८॥
रोदसी आ वदता गणश्रियो नृषाचः शूराः शवसाहिमन्यवः ।
आ वन्धुरेष्वमतिर्न दर्शता विद्युन्न तस्थौ मरुतो रथेषु वः ॥९॥
विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस्तविषीभिर्विरप्शिनः ।
अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वृषखादयो नरः ॥१०॥
हिरण्ययेभिः पविभिः पयोवृध उज्जिघ्नन्त आपथ्यो न पर्वतान् ।
मखा अयासः स्वसृतो ध्रुवच्युतो दुध्रकृतो मरुतो भ्राजदृष्टयः ॥११॥
घृषुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गृणीमसि ।
रजस्तुरं तवसं मारुतं गणमृजीषिणं वृषणं सश्चत श्रिये ॥१२॥
प्र नू स मर्तः शवसा जनाँ अति तस्थौ व ऊती मरुतो यमावत ।
अर्वद्भिर्वाजं भरते धना नृभिरापृच्छ्यं क्रतुमा क्षेति पुष्यति ॥१३॥
चर्कृत्यं मरुतः पृत्सु दुष्टरं द्युमन्तं शुष्मं मघवत्सु धत्तन ।
धनस्पृतमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तनयं शतं हिमाः ॥१४॥
नू ष्ठिरं मरुतो वीरवन्तमृतीषाहं रयिमस्मासु धत्त ।
सहस्रिणं शतिनं शूशुवांसं प्रातर्मक्षू धियावसुर्जगम्यात् ॥१५॥


सायणभाष्यम्

‘वृष्ण शर्धाय' इति पञ्चदशर्चं सप्तमं सूक्तम् । नोधस आर्षं मारुतम् । अन्त्या त्रिष्टुप् । शिष्टाश्चतुर्दश जगत्यः । तथा चानुक्रान्तं - वृष्णे पञ्चोना मारुतं त्रिष्टुबन्तम्' इति । चातुर्विंशिकेऽहनि आग्निमारुते इदं मारुतं निविद्धानीयम् । सूत्रितं च - ‘ पृक्षस्य वृष्णो वृष्णे शर्धाय यज्ञेन वर्धतेत्याग्निमारुतम्' ( आश्व. श्रौ. ७. ४) इति । आभिप्लविके पञ्चमेऽहन्यपि एतत् आग्निमारुते मारुतनिविद्धानम् । सूत्रितं च - पृक्षस्य वृष्णो वृष्णे शर्धाय नू चित्सहोजा इत्याग्निमारुतम्' (आश्व. श्रौ. ७. ७) इति ॥


वृष्णे॒ शर्धा॑य॒ सुम॑खाय वे॒धसे॒ नोध॑ः सुवृ॒क्तिं प्र भ॑रा म॒रुद्भ्य॑ः ।

अ॒पो न धीरो॒ मन॑सा सु॒हस्त्यो॒ गिर॒ः सम॑ञ्जे वि॒दथे॑ष्वा॒भुव॑ः ॥१

वृष्णे॑ । शर्धा॑य । सुऽम॑खाय । वे॒धसे॑ । नोधः॑ । सु॒ऽवृ॒क्तिम् । प्र । भ॒र॒ । म॒रुत्ऽभ्यः॑ ।

अ॒पः । न । धीरः॑ । मन॑सा । सु॒ऽहस्त्यः॑ । गिरः॑ । सम् । अ॒ञ्जे॒ । वि॒दथे॑षु । आ॒ऽभुवः॑ ॥१

वृष्णे । शर्धाय । सुऽमखाय । वेधसे । नोधः । सुऽवृक्तिम् । प्र । भर । मरुत्ऽभ्यः ।

अपः । न । धीरः । मनसा । सुऽहस्त्यः । गिरः । सम् । अञ्जे । विदथेषु । आऽभुवः ॥१

अत्र पूर्वार्धेन स्तुतौ नोधाः प्रेर्यते । हे “नोधः “वृष्णे कामानां वर्षित्रे “सुमखाय शोभनयज्ञाय “वेधसे पुष्पफलादीनां कर्त्रे । वायौ सति हि पुष्पाणि फलानि चोत्पद्यन्ते । एवंविधाय “मरुद्भ्यः । विभक्तिव्यत्ययः । मरुतां मितराविणां “शर्धाय समूहाय "सुवृक्तिं सुष्ठु आवर्जकं सुष्ठु प्रवृत्तं वा स्तोत्रं “प्र “भर प्रेरय स्तुहीति यावत् । स्तुतौ प्रेरितो नोधा आह । “धीरः धीमान् “सुहस्त्यः शोभनाङ्गुलियुक्तः । कृताञ्जलिरित्यर्थः । एवंभूतोऽहं “मनसा “गिरः स्तुतिलक्षणा वाचः “समञ्जे सम्यग्व्यक्ताः करोमि। या गिरः “विदथेषु यज्ञेषु “आभुवः । आङ् मर्यादायाम् । यथाशास्त्रं प्रयुक्ता भवन्तीति आभुवः । देवताभिमुखीकरणाय समर्थाः । यज्ञयोग्यैः स्तोत्रैर्मनःपूर्वकं मरुद्गणं स्तौमीति भावः । तत्र दृष्टान्तः । “अपो “न । यथा पर्जन्यो युगपदेव बहुषु प्रदेशेषु बहुशो जलानि वर्षति तद्वत् ॥ वृष्णे । ‘ वृषु सेचने ' । कनिन्युवृषितक्षि° ' इत्यादिना कनिन्प्रत्ययः । कित्त्वाद्गुणाभावो नित्त्वादाद्युदात्तत्वम् । चतुर्थ्येकवचने “अल्लोपोऽनः' इति अकालोपः । शर्धाय । ‘ शृधु प्रसहने । शर्ध्यते प्रसह्यते अनेन पर्वतादिकमिति शर्धो मरुत्संघः । करणे घञ् । ञित्त्वादाद्युदात्तत्वम् । सुमखाय । शोभनो मखो यस्य । ‘ नञ्सुभ्याम् ' इति प्राप्ते व्यत्ययेन पूर्वपदप्रकृतिस्वरत्वम् । नोधः । पादादित्वात् षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । सुहस्त्यः । हस्ते भवा हस्त्याः । भवे छन्दसि ' इति यत् । ‘ यतोऽनावः ' इत्याद्युदात्तत्वम् । ततः सुशब्देन बहुव्रीहौ ‘आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् ॥


ते ज॑ज्ञिरे दि॒व ऋ॒ष्वास॑ उ॒क्षणो॑ रु॒द्रस्य॒ मर्या॒ असु॑रा अरे॒पस॑ः ।

पा॒व॒कास॒ः शुच॑य॒ः सूर्या॑ इव॒ सत्वा॑नो॒ न द्र॒प्सिनो॑ घो॒रव॑र्पसः ॥२

ते । ज॒ज्ञि॒रे॒ । दि॒वः । ऋ॒ष्वासः॑ । उ॒क्षणः॑ । रु॒द्रस्य॑ । मर्याः॑ । असु॑राः । अ॒रे॒पसः॑ ।

पा॒व॒कासः॑ । शुच॑यः । सूर्याः॑ऽइव । सत्वा॑नः । न । द्र॒प्सिनः॑ । घो॒रऽव॑र्पसः ॥२

ते । जज्ञिरे । दिवः । ऋष्वासः । उक्षणः । रुद्रस्य । मर्याः । असुराः । अरेपसः ।

पावकासः । शुचयः । सूर्याःऽइव । सत्वानः । न । द्रप्सिनः । घोरऽवर्पसः ॥२

“ते मरुतः “दिवः अन्तरिक्षात् “जज्ञिरे प्रादुर्बभूवुः । कीदृशाः । “ऋष्वासः दर्शनीयाः "उक्षणः सेक्तारः । युवान इत्यर्थः । "रुद्रस्य “मर्याः । मर्यशब्दो मनुष्यवाची इह मरुतां मर्यत्वासंभवात्पुत्रा इत्यस्मिन्नर्थे पर्यवस्यति । मरुतां रुद्रपुत्रत्वं च मन्त्रान्तरे स्पष्टम् - आ ते पितर्मरुतां सुम्नमेतु' ( ऋ. सं. २. ३३. १ ) इति । “असुराः शत्रूणां निरसितारः "अरेपसः । रेप इति पापनाम । पापरहिताः “पावकासः सर्वेषां शोधकाः “सूर्याइव “शुचयः दीप्ताः “सत्वानो “न यथा परमेश्वरस्य भूतगणा अतिशायितबलपराक्रमाः तत्सदृशा इत्यर्थः । सत्वान इति भूतगणा उच्यन्ते - अथो ये अस्य सत्वानः ' ( तै. सं. ४. ५. १. ३) इत्यादौ तथा दर्शनात् । “द्रप्सिनः वृष्ट्युदकबिन्दुभिर्युक्ताः । ‘ मरुतः सृष्टां वृष्टिं नयन्ति' (तै. सं. २. ४. १०.२ ) इति श्रुतेः। “घोरवर्पसः । वर्प इति रूपनाम । घोररूपाः । शत्रूणां भयंकररूपा इत्यर्थः । यद्वा । सत्वानो न घोरवर्पसः । यथा भूतगणा भयंकररूपास्तद्वदेतेऽपीत्यर्थः ॥ ऋष्वासः । ‘ ऋषी गतौ । गत्यर्था बुद्ध्यर्था इति अत्र ज्ञानार्थः । ‘ सर्वनिघृष्व ' ( उ. सू. १. १५१ ) इत्यादौ प्रत्ययान्तो निपातितः । ‘ आज्जसेरसुक्' । उक्षणः । ‘ वा षपूर्वस्य निगमे ' इति उपधादीर्घाभावः । अरेपसः । बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । सत्वानः । षद्लृ विशरणगत्यवसादनेषु ।' प्र ईरसद्योस्तुट्च' ( उ. सू. ४. ५२६ ) इति विधीयमानः क्वनिप्प्रत्ययो बहुलवचनात् केवलादपि भवति । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते ॥


युवा॑नो रु॒द्रा अ॒जरा॑ अभो॒ग्घनो॑ वव॒क्षुरध्रि॑गाव॒ः पर्व॑ता इव ।

दृ॒ळ्हा चि॒द्विश्वा॒ भुव॑नानि॒ पार्थि॑वा॒ प्र च्या॑वयन्ति दि॒व्यानि॑ म॒ज्मना॑ ॥३

युवा॑नः । रु॒द्राः । अ॒जराः॑ । अ॒भो॒क्ऽहनः॑ । व॒व॒क्षुः । अध्रि॑ऽगावः । पर्व॑ताःऽइव ।

दृ॒ळ्हा । चि॒त् । विश्वा॑ । भुव॑नानि । पार्थि॑वा । प्र । च्य॒व॒य॒न्ति॒ । दि॒व्यानि॑ । म॒ज्मना॑ ॥३

युवानः । रुद्राः । अजराः । अभोक्ऽहनः । ववक्षुः । अध्रिऽगावः । पर्वताःऽइव ।

दृळ्हा । चित् । विश्वा । भुवनानि । पार्थिवा । प्र । च्यवयन्ति । दिव्यानि । मज्मना ॥३

“युवानः तरुणाः “रुद्राः रुद्रपुत्राः “अजराः जरारहिताः "अभोग्घनः ये देवान् हविर्भिर्न भोजयन्ति तेषां हन्तारः “अधिगावः अधृतगमनाः परैरनिवारितगतयः “पर्वताइव दृढाङ्गाः एवंभूता मरुतः “ववक्षुः स्तोतॄणामभिमतं प्रापयितुमिच्छन्ति । अपि च “विश्वा सर्वाणि “भुवनानि सद्भावं प्राप्तानि “पार्थिवा पृथिव्यां भवानि "दिव्यानि दिवि भवानि च वसूनि “दृळ्हा “चित् दृढान्यपि “मज्मना । मज्मनेति बलनाम । मज्मना शोधकेन बलेन “प्र “च्यावयन्ति प्रचालयन्ति ॥ अभोग्घनः । भोजयन्तीति भोजः । न भोजः अभोजः । तेषां हन्तारः । ‘ बहुलं छन्दसि ' इति हन्तेः क्विप् । झयो होऽन्यतरस्याम् ' ( पा. सू. ८. ४, ६२ ) इति हकारस्य घत्वम् । ‘ इन्हन्पूषार्यम्णां शौ ' ( पा. . ६. ४. १२) इति नियमात् दीर्घाभावः । ववक्षुः । ‘ वह प्रापणे '। अस्मात् इच्छासनि ‘ एकाचः०' इति इट्प्रतिषेधः । द्विर्भावः। ढत्वकत्वषत्वानि । ‘ सन्यतः' इति इत्वाभावश्छान्दसः । लिटि उसि • अमन्त्रे' (पा. सू. ३. १, ३५ ) इति निषेधात् आम्प्रत्ययाभावे । अतो लोपः । इति अकारलोपः । प्रत्ययस्वरः । पादादित्वात् निघाताभावः ॥


चि॒त्रैर॒ञ्जिभि॒र्वपु॑षे॒ व्य॑ञ्जते॒ वक्ष॑स्सु रु॒क्माँ अधि॑ येतिरे शु॒भे ।

अंसे॑ष्वेषां॒ नि मि॑मृक्षुरृ॒ष्टय॑ः सा॒कं ज॑ज्ञिरे स्व॒धया॑ दि॒वो नर॑ः ॥४

चि॒त्रैः । अ॒ञ्जिऽभिः॑ । वपु॑षे । वि । अ॒ञ्ज॒ते॒ । वक्षः॑ऽसु । रु॒क्मान् । अधि॑ । ये॒ति॒रे॒ । शु॒भे ।

अंसे॑षु । ए॒षा॒म् । नि । मि॒मृ॒क्षुः॒ । ऋ॒ष्टयः॑ । सा॒कम् । ज॒ज्ञि॒रे॒ । स्व॒धया॑ । दि॒वः । नरः॑ ॥४

चित्रैः । अञ्जिऽभिः । वपुषे । वि । अञ्जते । वक्षःऽसु । रुक्मान् । अधि । येतिरे । शुभे ।

अंसेषु । एषाम् । नि । मिमृक्षुः । ऋष्टयः । साकम् । जज्ञिरे । स्वधया । दिवः । नरः ॥४

वपुरिति रूपनाम । “वपुषे रूपाय शोभार्थं मरुतः “चित्रैः नानाविधैः “अञ्जिभिः रूपाभिव्यञ्जनसमर्थैराभरणैः स्वशरीराणि “व्यञ्जते व्यक्तं कुर्वन्ति । अलंकुर्वन्तीत्यर्थः । “वक्षःसु भुजान्तरेषु “रुक्मान् रोचमानान् हारान् “अधि "येतिरे उपरि चक्रिरे । किमर्थम् । “शुभे शोभार्थम् । अपि च “एषां मरुताम् “अंसेषु “ऋष्टयः आयुधानि “नि “मिमृक्षुः निमृष्टाः स्थिता बभूवुः । तैरायुधैः सहिताः “नरः नेतारो मरुतः “दिवः अन्तरिक्षात् “स्वधया स्वकीयेन बलेन “साकं सह “जज्ञिरे प्रादुर्बभूवुः ॥ येतिरे ।' यती प्रयत्ने । लिटि ‘ अत एकहल्मध्ये इति एत्वाभ्यासलोपौ । शुभे । ‘ शुभ दीप्तौ । संपदादिलक्षणो भावे क्विप्। सावेकाचः० ' इति चतुर्थ्या उदात्तत्वम् । मिमृक्षुः । ‘मृजूष् शुद्धौ' । सनि ऊदित्वात् इडभावः । ‘ हलन्ताच्च ' इति सनः कित्त्वाद्गुणाभावः । द्विर्वचनादि । सन्यतः' इति इत्वम् । लिटि उसि • अतो लोपः' इति अकारलोपः। जज्ञिरे । ‘ जनी प्रादुर्भावे'। लिटि • गमहन° ' इत्यादिना उपधालोपः ॥


ई॒शा॒न॒कृतो॒ धुन॑यो रि॒शाद॑सो॒ वाता॑न्वि॒द्युत॒स्तवि॑षीभिरक्रत ।

दु॒हन्त्यूध॑र्दि॒व्यानि॒ धूत॑यो॒ भूमिं॑ पिन्वन्ति॒ पय॑सा॒ परि॑ज्रयः ॥५

ई॒शा॒न॒ऽकृतः॑ । धुन॑यः । रि॒शाद॑सः । वाता॑न् । वि॒ऽद्युतः॑ । तवि॑षीभिः । अ॒क्र॒त॒ ।

दु॒हन्ति॑ । ऊधः॑ । दि॒व्यानि॑ । धूत॑यः । भूमि॑म् । पि॒न्व॒न्ति॒ । पय॑सा । परि॑ऽज्रयः ॥५

ईशानऽकृतः । धुनयः । रिशादसः । वातान् । विऽद्युतः । तविषीभिः । अक्रत ।

दुहन्ति । ऊधः । दिव्यानि । धूतयः । भूमिम् । पिन्वन्ति । पयसा । परिऽज्रयः ॥५

“ईशानकृतः स्तोतारमीशानं धनाधिपतिं कुर्वाणाः “धुनयः मेघादीनां कम्पयितारः “रिशादसः रिशानां हिंसकानामत्तारः । यद्वा । रिशतां हिंसतामसितारो निरसितारः । एवंभूता मरुतः “तविषीभिः आत्मीयैर्बलैः “वातान् पुरोवातादीन् “विद्युतः विद्योतमानास्तडितश्च “अक्रत कुर्वन्ति । कृत्वा च “परिज्रयः परितो गन्तारः “धूतयः कम्पयितारो मरुतः “दिव्यानि दिवि भवानि “ऊधः ऊधःस्थानीयान्यभ्राणि “दुहन्ति रिक्तीकुर्वन्ति । जलरहितानि कुर्वन्तीत्यर्थः । तदनन्तरं “भूमिं “पयसा मेघान्निर्गतेनोदकेन जलेन “पिन्वन्ति सिञ्चन्ति ॥ रिशादसः । ‘ रिश हिंसायाम् । इगुपधलक्षणः कः । रिशन्ति हिंसन्तीति रिशाः शत्रवः । तानदन्तीति रिशादसः । असुन्। नित्त्वादाद्युदात्तत्वम् । कृदुतरपदप्रकृतिस्वरत्वम् । यद्वा । रिशच्छब्दात् शत्रन्तात् “ असु क्षेपणे ' इत्यस्मात् क्विप् । व्यत्ययेन पूर्वपदस्य उपधादीर्घः अन्तोदात्तत्वं च । अक्रत । करोतेश्छान्दसो वर्तमाने लुङ् । मन्त्रे घस इति च्लेर्लुक् । ऊधः । ‘सुपां सुलुक् ' इति विभक्तेर्लुक् ॥ ॥ ६ ॥


मरुत्वतीयशस्त्रे ‘ पिन्वन्त्यपः' इत्येषा धाय्या । सूत्रितं च - अग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्याः ' ( आश्व. श्रौ. ५. १४ ) इति ॥

पिन्व॑न्त्य॒पो म॒रुत॑ः सु॒दान॑व॒ः पयो॑ घृ॒तव॑द्वि॒दथे॑ष्वा॒भुव॑ः ।

अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॒मुत्सं॑ दुहन्ति स्त॒नय॑न्त॒मक्षि॑तम् ॥६

पिन्व॑न्ति । अ॒पः । म॒रुतः॑ । सु॒ऽदान॑वः । पयः॑ । घृ॒तऽव॑त् । वि॒दथे॑षु । आ॒ऽभुवः॑ ।

अत्य॑म् । न । मि॒हे । वि । न॒य॒न्ति॒ । वा॒जिन॑म् । उत्स॑म् । दु॒ह॒न्ति॒ । स्त॒नय॑न्तम् । अक्षि॑तम् ॥६

पिन्वन्ति । अपः । मरुतः । सुऽदानवः । पयः । घृतऽवत् । विदथेषु । आऽभुवः ।

अत्यम् । न । मिहे । वि । नयन्ति । वाजिनम् । उत्सम् । दुहन्ति । स्तनयन्तम् । अक्षितम् ॥६

“सुदानवः शोभनदानाः "मरुतः “पयः क्षीरवत् सारवतीः "अपः “पिन्वन्ति सिञ्चन्ति । “आभुवः । आभवन्तीत्याभुव ऋविजः। ते “विदथेषु यज्ञेषु “घृतवत्। यथा घृतं सिञ्चत्येवं मरुतोऽपि वृष्टिं कुर्वन्तीति भावः । तत्र हेतुमाह । “अत्यं “न यथा अश्वं सादिनो विनयन्ति युद्धार्थं शिक्षन्येवं मरुतः “वाजिनं वेगवन्तं मेघं “मिहे वर्षणाय “वि “नयन्ति स्वाधीनं कुर्वन्तीति भावः । विनीय च “स्तनयन्तं गर्जन्तम् “अक्षितम् अक्षीणम् “उत्सम् । उत्सवन्त्यस्मादाप इत्युत्सो मेघः। तं “दुहन्ति रिक्तीकुर्वन्ति ॥ सुदानवः । नुप्रत्ययान्तो दानुशब्द आद्युदात्तः । बहुव्रीहौ ‘ आद्युदात्तं द्व्यच्छन्दसि इत्युत्तरपदाद्युदात्तत्वम् । मिहे । मिह सेचने '। संपदादिलक्षणो भावे क्विप् । 'सावेकाचः० ' इति विभक्तिरुदात्ता । स्तनयन्तम् । ‘ स्तन शब्दे ' । चुरादिरदन्तः । अतो लोपस्य स्थानिवद्भावात् वृद्ध्याद्यभावः ॥


म॒हि॒षासो॑ मा॒यिन॑श्चि॒त्रभा॑नवो गि॒रयो॒ न स्वत॑वसो रघु॒ष्यद॑ः ।

मृ॒गा इ॑व ह॒स्तिन॑ः खादथा॒ वना॒ यदारु॑णीषु॒ तवि॑षी॒रयु॑ग्ध्वम् ॥७

म॒हि॒षासः॑ । मा॒यिनः॑ । चि॒त्रऽभा॑नवः । गि॒रयः॑ । न । स्वऽत॑वसः । र॒घु॒ऽस्यदः॑ ।

मृ॒गाःऽइ॑व । ह॒स्तिनः॑ । खा॒द॒थ॒ । वना॑ । यत् । आरु॑णीषु । तवि॑षीः । अयु॑ग्ध्वम् ॥७

महिषासः । मायिनः । चित्रऽभानवः । गिरयः । न । स्वऽतवसः । रघुऽस्यदः ।

मृगाःऽइव । हस्तिनः । खादथ । वना । यत् । आरुणीषु । तविषीः । अयुग्ध्वम् ॥७

महिष इति महन्नाम। “महिषासः महान्तः । मायेति ज्ञाननाम । “मायिनः प्राज्ञाः ”चित्रभानवः शोभनदीप्तयः “गिरयो “न “स्वतवसः पर्वता इव स्वकीयेन बलेन युक्ताः "रघुष्यदः शीघ्रगमना हे मरुत एवंभूतगुणविशिष्टाः यूयं "हस्तिनः हस्तवन्तः "मृगाइव गजा इव “वना वनानि वृक्षजातानि “खादथ भक्षयथ । प्रभङ्क्थेति यावत् । “यत् यस्मात् “आरुणीषु अरुणवर्णासु वडवासु “तविषीः बलानि “अयुग्ध्वं संयोजितवन्तः । तस्माद्भवतामिव वाहनस्यापि प्रबलत्वात्तत्संयुक्ता भवन्तः सर्वं भञ्जन्तीत्यर्थः ॥ रघुष्यदः । स्यन्दू प्रस्रवणे'। रघु शीघ्रं स्यन्दन्ते गच्छन्तीति रघुष्यदः । ‘ क्विप् च' इति क्विप् । अनिदिताम् ' इति नलोपः । ‘ वालमूललघ्वलम्° ' ( पा. म. ८. २. १८) इति लत्वविकल्पः । कृदुत्तरपदप्रकृतिस्वरत्वम् । खादथ । ‘ खादृ भक्षणे ' । अयुग्ध्वम् । ‘ युजिर् योगे । लुङि च्लेः सिच् । एकाचः० ' इति इट्प्रतिषेधः । ‘ धि च ' (पा. सू. ८. २. २५) इति सकारलोपः । ‘चोः कुः' इति कुत्वम् । अडागम उदात्तः । यद्वृत्तयोगादनिघातः ॥


सिं॒हा इ॑व नानदति॒ प्रचे॑तसः पि॒शा इ॑व सु॒पिशो॑ वि॒श्ववे॑दसः ।

क्षपो॒ जिन्व॑न्त॒ः पृष॑तीभिरृ॒ष्टिभि॒ः समित्स॒बाध॒ः शव॒साहि॑मन्यवः ॥८

सिं॒हाःऽइ॑व । ना॒न॒द॒ति॒ । प्रऽचे॑तसः । पि॒शाःऽइ॑व । सु॒ऽपिशः॑ । वि॒श्वऽवे॑दसः ।

क्षपः॑ । जिन्व॑न्तः । पृष॑तीभिः । ऋ॒ष्टिऽभिः॑ । सम् । इत् । स॒ऽबाधः॑ । शव॑सा । अहि॑ऽमन्यवः ॥८

सिंहाःऽइव । नानदति । प्रऽचेतसः । पिशाःऽइव । सुऽपिशः । विश्वऽवेदसः ।

क्षपः । जिन्वन्तः । पृषतीभिः । ऋष्टिऽभिः । सम् । इत् । सऽबाधः । शवसा । अहिऽमन्यवः ॥८

“प्रचेतसः प्रकृष्टज्ञाना मरुतः “सिंहाइव "नानदति भृशं शब्दं कुर्वन्ति । यथा सिंहा गिरिगह्वरेषु गम्भीरं शब्दं कुर्वन्ति एवं मरुत्सु अप्यागतेषु गम्भीरः शब्द उत्पद्यते इति भावः । तथा “सुपिशः शोभनावयवाः शोभनालंकारा वा । तत्र दृष्टान्तः । “पिशाइव । पिश इति रुरुनाम । यथा रुरवः स्वशरीरगतैः श्वेतबिन्दुभिरलंकृतास्तद्वत् । “विश्ववेदसः सर्वज्ञाः “क्षपः शत्रूणां क्षपयितारः “जिन्वन्तः स्तोतॄन् प्रीणयन्तः “शवसा बलेन “अहिमन्यवः आहननशीलमन्युयुक्ताः । यद्विषयः कोपो जायते तस्य हनने समर्था इत्यर्थः । यद्वा । मननं ज्ञानं मन्युः । अहीनज्ञानाः । उत्कृष्टबुद्धय इत्यर्थः । एवंभूता मरुतः “पृषतीभिः । पृषत्य इति मरुतां वाहनस्याख्या । पृषत्यः श्वेतबिन्द्वङ्किता मृग्य इत्यैतिहासिकाः । नानावर्णा मेघमाला इति नैरुक्ताः। ताभिः “ऋष्टिभिः आयुधैश्च सहिताः सन्तः “सबाधः शत्रुभिर्बाधितान् यजमानान् “समित् समानमेव युगपदेव रक्षितुमागच्छन्तीति शेषः ॥ नानदति । ‘ नद अव्यक्ते शब्दे ' । अस्मात् यङ्लुगन्तात् लट् । पिशाइव। ‘ पिश अवयवै । इगुपधलक्षणः कः । सुपिशः । सुपूर्वात् “ पिश अवयवे' इत्यस्मात् ‘क्विप् च ' इति क्विप् । पृषतीभिः । ‘पृषु सेचने । ‘ वर्तमाने पृषद्वृहन्महज्जगच्छतृवच्च ' ( उ. सू. ३, २४१ ) इति शतृवद्भावात् 'उगितश्च ' इति ङीप् । अत एव ‘शतुरनुमः' इति नद्या उदात्तत्वे प्राप्ते ‘बृहन्महतोरुपसंख्यानम्' इति नियमात् तस्याभावः ॥


रोद॑सी॒ आ व॑दता गणश्रियो॒ नृषा॑चः शूरा॒ः शव॒साहि॑मन्यवः ।

आ व॒न्धुरे॑ष्व॒मति॒र्न द॑र्श॒ता वि॒द्युन्न त॑स्थौ मरुतो॒ रथे॑षु वः ॥९

रोद॑सी॒ इति॑ । आ । व॒द॒त॒ । ग॒ण॒ऽश्रि॒यः॒ । नृऽसा॑चः । शू॒राः॒ । शव॑सा । अहि॑ऽमन्यवः ।

आ । व॒न्धुरे॑षु । अ॒मतिः॑ । न । द॒र्श॒ता । वि॒ऽद्युत् । न । त॒स्थौ॒ । म॒रु॒तः॒ । रथे॑षु । वः॒ ॥९

रोदसी इति । आ । वदत । गणऽश्रियः । नृऽसाचः । शूराः । शवसा । अहिऽमन्यवः ।

आ । वन्धुरेषु । अमतिः । न । दर्शता । विऽद्युत् । न । तस्थौ । मरुतः । रथेषु । वः ॥९

हे “गणश्रियः गणशः श्रयमाणाः सप्तगणरूपेणावस्थिताः "नृषाचः नॄन् यजमानान् हविःस्वीकरणाय सेवमानाः “शूराः शौर्योपेता एवंभूता हे मरुतः “शवसा बलेन “अहिमन्यवः आहननस्वभावकोपयुक्ताः सन्तः “रोदसी द्यावापृथिव्यौ “आ “वदत आ समन्ताच्छब्दयत । युष्मदागमने सति भवदीयशब्देन द्यावापृथिव्यौ पूर्णे कुरुतेति भावः । किंच हे “मरुतः “वः युष्माकं तेजः “वन्धुरेषु । बन्धककाष्ठनिर्मितं सारथेः स्थानं वन्धुरमित्युच्यते । तद्युक्तेषु “रथेषु “आ “तस्थौ आतिष्ठति । अवस्थितं सत्सर्वैर्दृश्यते । तत्र दृष्टान्तद्वयमुच्यते । “अमतिर्न । अमतिरिति रूपनाम । यथा निर्मलं रूपं सर्वैर्दृश्यते। “दर्शता “विद्युन्न । यथा वा दर्शनीया विद्युन्मेघस्था सर्वैर्दृश्यते एवं रथे स्थितानां युष्माकं ज्योतिरपि सर्वैर्दृश्यते इत्यर्थः ॥ वदत। ‘ ऋचि तुनुघ० ' इत्यादिना दीर्घः । नृषाचः । पादादित्वादामन्त्रिताद्युदात्तत्वम् । अमतिः । अम गत्यादिषु । ‘ अमेरतिः ' ( उ. सू. ४. ४९९ ) इति औणादिकः अतिप्रत्ययः । प्रत्ययाद्युदात्तत्वम् । दर्शता । ‘ भृमृदृशि° ' इत्यादिना अतच्प्रत्ययः । चित्त्वादन्तोदात्तत्वम् ।।


वि॒श्ववे॑दसो र॒यिभि॒ः समो॑कस॒ः सम्मि॑श्लास॒स्तवि॑षीभिर्विर॒प्शिन॑ः ।

अस्ता॑र॒ इषुं॑ दधिरे॒ गभ॑स्त्योरन॒न्तशु॑ष्मा॒ वृष॑खादयो॒ नर॑ः ॥१०

वि॒श्वऽवे॑दसः । र॒यिऽभिः॑ । सम्ऽओ॑कसः । सम्ऽमि॑श्लासः । तवि॑षीभिः । वि॒ऽर॒प्शिनः॑ ।

अस्ता॑रः । इषु॑म् । द॒धि॒रे॒ । गभ॑स्त्योः । अ॒न॒न्तऽशु॑ष्माः । वृष॑ऽखादयः । नरः॑ ॥१०

विश्वऽवेदसः । रयिऽभिः । सम्ऽओकसः । सम्ऽमिश्लासः । तविषीभिः । विऽरप्शिनः ।

अस्तारः । इषुम् । दधिरे । गभस्त्योः । अनन्तऽशुष्माः । वृषऽखादयः । नरः ॥१०

“विश्ववेदसः सर्वज्ञाः “रयिभिः धनैः "समोकसः समाननिवासाः समवेता वा । धनाधिपतय इत्यर्थः । “तविषीभिः बलैः संमिश्लासः संमिश्राः । संयुक्ता इत्यर्थः । “विरप्शिनः । महन्नामैतत् । महान्तः । “अस्तारः शत्रूणां निरसितारः “अनन्तशुष्माः अनवच्छिन्नबलाः “वृषखादयः । वृषा इन्द्रः खादिः आयुधस्थानीयो येषां ते तथोक्ताः । यद्वा । वृषा सोमः खादिः खाद्यः पेयो येषां ते । “नरः । नेतारः । एर्वभूता मरुतः । गभस्तिरिति बाहुनाम । गभस्त्योः बाह्वोः “इषुं “दधिरे । शत्रूणां निरसनाय धनुर्बाणादिकमायुधं धारयन्ति ॥ समोकसः । ‘ उच समवाये । असुनि बहुलवचनात् कुत्वमिति ‘ ओक उचः के ' इत्यत्रोक्तम् (का. ७. ३. ६४ )। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ‘ संमिश्लासः । कपिलकादित्वात् लत्वम् । विरप्शिनः । ‘ रप लप व्यक्तायां वाचि । विपूर्वादस्मात् बहुलवचनात् शक्प्रत्ययः । विविधं शब्दं रपन्तीति विरप्शाः स्तोतारः । ते एषां सन्तीति विरप्शिनः । यद्वा । विविधं रपणं विरप्शम् । तदेषामस्तीति । मरुतो हि विविधं शब्दं कुर्वते । इनिप्रत्ययस्वरः । अस्तारः । ताच्छीलिकः तृन् । इडभावश्छान्दसः । नित्त्वादाद्युदात्तत्वम् । अनन्तशुष्माः । नास्त्यन्तोऽस्येति अनन्तः । ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । अनन्तः शुष्मो बलं येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वृषखादयः । ‘ खादृ भक्षणे ' । औणादिक इन्प्रत्ययः । वृषशब्दः कनिन्प्रत्ययान्त आद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ७ ॥


हि॒र॒ण्यये॑भिः प॒विभि॑ः पयो॒वृध॒ उज्जि॑घ्नन्त आप॒थ्यो॒३॒॑ न पर्व॑तान् ।

म॒खा अ॒यास॑ः स्व॒सृतो॑ ध्रुव॒च्युतो॑ दुध्र॒कृतो॑ म॒रुतो॒ भ्राज॑दृष्टयः ॥११

हि॒र॒ण्यये॑भिः । प॒विऽभिः॑ । प॒यः॒ऽवृधः॑ । उत् । जि॒घ्न॒न्ते॒ । आ॒ऽप॒थ्यः॑ । न । पर्व॑तान् ।

म॒खाः । अ॒यासः॑ । स्व॒ऽसृतः॑ । ध्रु॒व॒ऽच्युतः॑ । दु॒ध्र॒ऽकृतः॑ । म॒रुतः॑ । भ्राज॑त्ऽऋष्टयः ॥११

हिरण्ययेभिः । पविऽभिः । पयःऽवृधः । उत् । जिघ्नन्ते । आऽपथ्यः । न । पर्वतान् ।

मखाः । अयासः । स्वऽसृतः । ध्रुवऽच्युतः । दुध्रऽकृतः । मरुतः । भ्राजत्ऽऋष्टयः ॥११

“मरुतः “हिरण्ययेभिः सुवर्णमयैः । यद्वा । हितरमणीयैः “पविभिः स्थानां चक्रैः “पर्वतान् पर्ववतो मेघान् यद्वा शिलोच्चयान् “उज्जिघ्नन्ते ऊर्ध्वं गमयन्ति । स्थानात् प्रच्यावयन्तीत्यर्थः । तत्र दृष्टान्तः । पथ्यः “न। यथा पथि गच्छन् रथो मार्गे आस्थितं तृणवृक्षादिकं चूर्णीकृत्योर्ध्वं नयति गमयति । यद्वा । यथा संयुक्ता गजा मार्गस्थितं वृक्षादिकं भग्नं कुर्वन्ति । कीदृशा मरुतः । “पयोवृधः पयसो वृष्ट्युदकस्य वर्धयितारः । यद्वा पृश्नेः पयसा वर्धमानाः । ‘ पृश्नियै वै पयसो मरुतो जाताः' (तै. सं. २. २. ११. ४ ) । इति श्रूयते । “मखाः । मख इति यज्ञनाम । तद्वन्तः । “अयासः देवयजनदेशं प्रति गन्तारः “स्वसृतः शत्रून्प्रति स्वयमेव सरन्तो गच्छन्तः “ध्रुवच्युतः धुवाणां निश्चलानां पर्वतादीनामपि च्यावयितारः “दुध्रकृतः दुध्रं दुष्टानां धारयितारमात्मानं कुर्वाणाः । यद्वा । दुर्धरमन्यैर्धर्तुमशक्यमात्मानं कुर्वाणाः । “भ्राजदृष्टयः दीप्यमानायुधाः ॥ उज्जिघ्नन्ते । हन्तेर्व्यत्ययेनात्मनेपदम् । ‘ बहुलं छन्दसि ' इति शपः श्लुः । ‘ बहुलं छन्दसि' इति अभ्यासस्य इत्वम् । ‘ गमहन° 'इत्यादिना उपधालोपः । ‘ हो हन्तेः० ' इति घत्वम् । व्यत्ययेन अन्तादेशः । पथ्यः । पथि भवः । भवे छन्दसि ' इति यत् ।' नस्तद्धिते' ( पा. सू. ६. ४. १४४ ) इति टिलोपः । व्यत्ययेनान्तस्वरितत्वम् । यद्वा । छन्दसीवनिपौ° ' इति मत्वर्थीय ईकारः । ‘ उदात्तस्वरितयोर्यणः० ' इति विभक्तेः स्वरितत्वम् । अयासः । अय पय गतौ । अयन्ते इत्ययाः । पचाद्यच् । आज्जसेरसुक्' । दुध्रकृतः । अत्र दुःशब्देन दुष्टा लक्ष्यन्ते । ‘धृञ् धारणे' । दुष्टान् धारयतीति दुध्रः । मूलविभुजादित्वात् (पा. सू. ३. २. ५. २) कप्रत्ययः । यद्वा । ‘ ईषद्दुःसुषु° ' इति दुःशब्दे उपपदे कमणि खल् । गुणाभावश्छान्दसः । तं कुर्वन्तीति दुध्रकृतः । करोतेः “क्विप् च ' इति क्विप् । रेफलोपश्छान्दसः ॥


घृषुं॑ पाव॒कं व॒निनं॒ विच॑र्षणिं रु॒द्रस्य॑ सू॒नुं ह॒वसा॑ गृणीमसि ।

र॒ज॒स्तुरं॑ त॒वसं॒ मारु॑तं ग॒णमृ॑जी॒षिणं॒ वृष॑णं सश्चत श्रि॒ये ॥१२

घृषु॑म् । पा॒व॒कम् । व॒निन॑म् । विऽच॑र्षणिम् । रु॒द्रस्य॑ । सू॒नुम् । ह॒वसा॑ । गृ॒णी॒म॒सि॒ ।

र॒जः॒ऽतुर॑म् । त॒वस॑म् । मारु॑तम् । ग॒णम् । ऋ॒जी॒षिण॑म् । वृष॑णम् । स॒श्च॒त॒ । श्रि॒ये ॥१२

घृषुम् । पावकम् । वनिनम् । विऽचर्षणिम् । रुद्रस्य । सूनुम् । हवसा । गृणीमसि ।

रजःऽतुरम् । तवसम् । मारुतम् । गणम् । ऋजीषिणम् । वृषणम् । सश्चत । श्रिये ॥१२

“घृषुं शत्रूणां बलस्य घर्षकं विनाशयितारं “पावकं सर्वेषां शोधकं “वनिनम् । वनमित्युदकनाम । उदकवन्तम् । वृष्टिप्रदमित्यर्थः । “विचर्षणिं विशेषेण सर्वस्य द्रष्टारं “रुद्रस्य महादेवस्य “सूनुं पुत्रभूतम् । एवंविधं मरुतां समूहं “हवसा आह्वानसाधनेन स्तोत्रेण “गृणीमसि शब्दयामः । स्तुम इत्यर्थः । हे ऋत्विग्यजमानाः यूयमपि “श्रिये ऐश्वर्याय धनार्थं “मारुतं “गणं मरुतां संघं “सश्चत प्राप्नुत । कीदृशम् । “रजस्तुरं पार्थिवस्य पांसोस्त्वरयितारं प्रेरकमित्यर्थः। “तवसं प्रवृद्धं “ऋजीषिणम् । तृतीयसवने हि मरुतः स्तूयन्ते तत्र च ऋजीषमभिषुण्वन्तीति ऋजीषसंबन्धः श्रुतः । अतस्तद्वन्तं “वृषणं कामानां वर्षितारम् ॥ हवसा । ह्वेञः असिप्रत्यये बहुलं छन्दसि' इति संप्रसारणम् । गृणीमसि । “गॄ शब्दे । इदन्तो मसिः । ‘ प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । रजस्तुरम् । रजांसि तुतोर्तीति रजस्तूः । ‘ तुर स्वरणे'। क्विप् च ' इति क्विप् । वृषणम् । वा पपूर्वस्य निगमे ' इति दीर्घाभावः । सश्चत ।। ग्लच्च षस्ज गतौ ' इत्यत्र सश्चिमप्येके इति धातुवृत्तावुक्तम् । गतिकर्मसु च सश्चतीति पठितम् । श्रिये । ‘ सावेकाचः' इति विभक्तेरुदात्तत्वम् ।


प्र नू स मर्त॒ः शव॑सा॒ जनाँ॒ अति॑ त॒स्थौ व॑ ऊ॒ती म॑रुतो॒ यमाव॑त ।

अर्व॑द्भि॒र्वाजं॑ भरते॒ धना॒ नृभि॑रा॒पृच्छ्यं॒ क्रतु॒मा क्षे॑ति॒ पुष्य॑ति ॥१३

प्र । नु । सः । मर्तः॑ । शव॑सा । जना॑न् । अति॑ । त॒स्थौ । वः॒ । ऊ॒ती । म॒रु॒तः॒ । यम् । आव॑त ।

अर्व॑त्ऽभिः । वाज॑म् । भ॒र॒ते॒ । धना॑ । नृऽभिः॑ । आ॒ऽपृच्छ्य॑म् । क्रतु॑म् । आ । क्षे॒ति॒ । पुष्य॑ति ॥१३

प्र । नु । सः । मर्तः । शवसा । जनान् । अति । तस्थौ । वः । ऊती । मरुतः । यम् । आवत ।

अर्वत्ऽभिः । वाजम् । भरते । धना । नृऽभिः । आऽपृच्छ्यम् । क्रतुम् । आ । क्षेति । पुष्यति ॥१३

“स “मर्तः मनुष्यः “शवसा बलेन “जनान् जातान् अन्यान् पुरुषान् “अति अतीत्य “नु क्षिप्रं “तस्थौ प्रतिष्ठितो भवति । हे “मरुतः “वः युष्माकम् “ऊती ऊत्या रक्षणेन “यं पुरुषम् “आवत अरक्षत । अपि च स पुरुषः “अर्वद्भिः अश्वैः साधनभूतैः “वाजम् अन्नं “नृभिः स्वकीयैर्मनुष्यैः “धना धनानि च “भरते संपादयति । तथा “आपृच्छ्यम् आप्रष्टव्यं शोभनं “क्रतुम् अग्निष्टोमादिकर्म “आ “क्षेति आप्नोति । “पुष्यति प्रजया पशुभिः पुष्टो भवति च ॥ ऊती । तृतीयायाः पूर्वसवर्णदीर्घत्वम् । नृभिः । नृ चान्यतरस्याम् ' इति विभक्त्युदात्तत्वप्रतिषेधः । आपृच्छ्यम् । छन्दसि निष्टर्क्य इत्यादौ आङ्पूर्वात् पृच्छतेः क्यच्प्रत्ययान्तो निपात्यते । ग्रहिज्यादिना संप्रसारणम् । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । कृदुत्तरपदप्रकृतिस्वरत्वम् । क्षेति । ‘क्षि निवासगत्योः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । पुष्यति । ‘ पुष पुष्टौ ' । दिवादित्वात् श्यन् । नित्त्वादाद्युदात्तत्वम् । तिङः परत्वात् निघाताभावः ॥


च॒र्कृत्यं॑ मरुतः पृ॒त्सु दु॒ष्टरं॑ द्यु॒मन्तं॒ शुष्मं॑ म॒घव॑त्सु धत्तन ।

ध॒न॒स्पृत॑मु॒क्थ्यं॑ वि॒श्वच॑र्षणिं तो॒कं पु॑ष्येम॒ तन॑यं श॒तं हिमा॑ः ॥१४

च॒र्कृत्य॑म् । म॒रु॒तः॒ । पृ॒त्ऽसु । दु॒स्तर॑म् । द्यु॒ऽमन्त॑म् । शुष्म॑म् । म॒घव॑त्ऽसु । ध॒त्त॒न॒ ।

ध॒न॒ऽस्पृत॑म् । उ॒क्थ्य॑म् । वि॒श्वऽच॑र्षणिम् । तो॒कम् । पु॒ष्ये॒म॒ । तन॑यम् । श॒तम् । हिमाः॑ ॥१४

चर्कृत्यम् । मरुतः । पृत्ऽसु । दुस्तरम् । द्युऽमन्तम् । शुष्मम् । मघवत्ऽसु । धत्तन ।

धनऽस्पृतम् । उक्थ्यम् । विश्वऽचर्षणिम् । तोकम् । पुष्येम । तनयम् । शतम् । हिमाः ॥१४

हे “मरुतः “मघवत्सु हविर्लक्षणधनयुक्तेषु यजमानेषु पुत्रं “धत्तन स्थापयत । दत्तेति यावत् । कीदृशं पुत्रम् । चर्कृत्यं कार्येषु पुनःपुनः पुरस्कर्तव्यम् । सर्वकर्मकुशलमित्यर्थः । “पृत्सु संग्रामेषु “दुष्टरं दुःखेन तरितव्यम् । अजेयमित्यर्थः । “द्युमन्तं दीप्तिमन्तं “शुष्मं शत्रूणां शोषकं बलवन्तं “धनस्पृतं धनानां स्प्रष्टारं धनैः प्रीतं वा “उक्थ्यम् । उक्थं स्तोत्रम् । तदर्हम् । प्रशस्यमित्यर्थः । “विश्वचर्षणिं विशेषेण द्रष्टारं सर्वज्ञम् । एवंविधं “तोकं पुत्रं “तनयं पौत्रं च "शतं “हिमाः हेमन्तर्तूपलक्षितान् शतं संवत्सरान् जीवन्तः सन्तः “पुष्येम पोषयेम । अत्र हिमशब्देन तद्युक्ता हेमन्तर्तवोऽभिधीयन्ते । तथा च ब्राह्मणमेवमाम्नायते- शतं हिमा इत्याह शतं त्वा हेमन्तानिन्धिषीयेति वावैतदाह ' ( तै. सं. १. ५.८.५) इति ॥ चर्कृत्यम्। ‘ प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम् ' ( परिभा. ९३.९) इति न्यायेन करोतेर्यङ्लुगन्तात् “ विभाषा कृवृषोः ' ( पा. सू. ३. १. १२० ) इति क्यप् । तुगागमः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । पृत्सु । ' पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् ' (पा. सू. ६. १. ६३. १ ) इति पृतनाशब्दस्य पृदादेशः । दुष्टरम् । ‘ तॄ प्लवनतरणयोः । ‘ ईषद्दुःसुषु । इति खल् । सुषामादेराकृतिगणत्वात् षत्वम् । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । धत्तन । ‘ तप्तनप्तनथनाश्च ' इति तस्य तनादेशः ।।


ऐकादशिनस्य मारुतस्य पशोर्वपायागस्य • नू ष्ठिरम्' इत्येषा याज्या । सूत्रितं च - ‘ शुची वो हव्या मरुतः शुचीनां नू ष्ठिरं मरुतो वीरवन्तम् ' ( आश्व. श्रौ. ३. ७ ) इति ॥

नू ष्ठि॒रं म॑रुतो वी॒रव॑न्तमृती॒षाहं॑ र॒यिम॒स्मासु॑ धत्त ।

स॒ह॒स्रिणं॑ श॒तिनं॑ शूशु॒वांसं॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥१५

नु । स्थि॒रम् । म॒रु॒तः॒ । वी॒रऽव॑न्तम् । ऋ॒ति॒ऽसह॑म् । र॒यिम् । अ॒स्मासु॑ । ध॒त्त॒ ।

स॒ह॒स्रिण॑म् । श॒तिन॑म् । शू॒शु॒ऽवांस॑म् । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥१५

नु । स्थिरम् । मरुतः । वीरऽवन्तम् । ऋतिऽसहम् । रयिम् । अस्मासु । धत्त ।

सहस्रिणम् । शतिनम् । शूशुऽवांसम् । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥१५

हे “मरुतः “स्थिरं स्थास्नुं “वीरवन्तं वीरैः पुत्रैस्तद्वन्तम् । यद्वा । वीर्योपेतम्। “ऋतीषाहं गन्तॄणां शत्रूणामभिभवितारं एवंविधं “रयिं पुत्रलक्षणं धनम् “अस्मासु “धत्त स्थापयत । “सहस्रिणं “शतिनम् एतत्संख्याकधनवन्तं अत एव “शूशुवांसं प्रवृद्धम् । अपि चास्माकं रक्षणाय धिया बुद्ध्या कर्मणा वा प्राप्तधनो मरुद्गणः प्रातःकाले “जगम्यात् आगच्छतु ॥ नू ष्ठिरम् । ‘ ऋचि तुनुध° ' इति दीर्घः । पूर्वपदात् ' इति षत्वम् । ऋतीषाहम् । ऋ गतौ । कर्तरि क्तिच् । षह अभिभवे । ‘ छन्दसि सहः' इति ण्विप्रत्ययः । ‘ अन्येषामपि दृश्यते ' इति पूर्वपदस्य दीर्घत्वम् । सुषामादित्वात् षत्वम् । शूशुवांसम् । टुओश्वि गतिवृद्धयोः' । लिटः क्वसुः । ‘ विभाषा श्वेः ' (पा. सू. ६. १. ३०) इति संप्रसारणम् । द्विर्वचने तुजादित्वात् अभ्यासस्य दीर्घत्वम् । ‘ वस्वेकाजाद्धसाम्' इति नियमात् इडभावः । प्रत्ययस्वरः ॥ ॥ ८ ॥ ॥ ११ ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१











"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.६४&oldid=327731" इत्यस्माद् प्रतिप्राप्तम्