कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः ०६

← प्रश्नः ०५ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः ०६
हिरण्यकेशिः/सत्याषाढः
प्रश्नः ०७ →

6.1 अथ षष्ठः प्रश्नः । (तत्र प्रथमः पटलः ।)

याजमानं व्याख्यास्यामः ।
समस्ते क्रतावर्थं श्रूयमाणं यजमानः कामयते ।
तथा नित्येषु यज्ञाङ्गेषु यानि तु कामयतिः श्रावयति ।
यथाऽऽघारस्योर्ध्वतायां नीचैस्तायां च ।
अर्थवादा इतरे ।
तथान्येषु यज्ञाङ्गेषु पुरीषवतीं करोति प्रजयैवैनं पशुभिः पुरीषवन्तं करोति यद्यूपं मिनोति मुवर्गस्य लोकस्य प्रज्ञात्या इषे त्वोर्जे त्वेति शाखामाच्छिनत्तीषमेवोर्जं यजमाने दधातीति ।
द्रव्यप्रकल्पनं यजमानस्य दक्षिणादानं ब्रह्मचर्यं जपाश्च ।
प्रत्यगाशिषो मन्त्रानकर्मकरणाञ्जपति ।
तथोपदिश्यमानानुपतिष्ठतेऽनुमन्त्रयतेऽभिमन्त्रयतेऽभिमृशति जपतीति च ।
यावदुक्तं कर्माणि करोति ।
यावदुक्तं पत्न्याः कर्माणि ब्रह्मचर्यं जपाश्च ।
दर्शपूर्णमासयोर्याजमानं व्याख्यास्यामः ।
पर्वणि यजमानः केशश्मश्रूणि वापयते ।
पौर्णमास्यां प्रातराशे जायापती सर्पिर्मिश्रमश्नीतः ।
यदन्यन्मांसान्माषेभ्यश्च ।
न सुहितौ स्याताम् ।
प्राग्वत्सापाकरणादमावास्यायां कामं सुहितौ स्याताम् ।
अग्निं गृह्णामि सुरथमित्यन्वाधीयमानेषु जपति ।
इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञं प्रब्रवीमीदमह- मिन्द्रज्येष्ठेभ्यो रुद्रेभ्यो यज्ञं प्रब्रवीमीदिमहं वरुणज्येष्ठेभ्य आदित्येभ्यो यज्ञं प्रब्रवीमीत्यन्वाहितेषु ।
बर्हिषा पूर्णमासे व्रतमुपैति वत्सैरमावास्यायाम् ।
अशनमग्न्यन्वाधानं व्रतोपायनमित्येवमनुपूर्वाण्येके समामनन्ति ।
अग्न्यन्वाधानमशनं व्रतोपायनमित्येके ।
प्रणीतासु प्रणीयमानास्वासन्नेषु हविःषु चैतौ साधारणौ कालौ ।
विद्युदसीत्यप उपस्पृश्य ।
अपरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य पयस्वतीरोषधय इत्यप आचामति ।
देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु त्रिरेकादशा इह माऽवत । इदꣳ शकेयं यदिदं करोम्यात्मा करोत्यात्मन इदं करिष्ये भेषजमिदं मे विश्वभेषजा । अश्विना प्रावतं युवमिति देवता उपतिष्ठते ।
समुद्रं मनसा ध्यायन्सम्राडसि व्रतपा असि, व्रतानां व्रतपतिरसि व्रतमारभे तत्ते प्रब्रवीमि तच्छ केयं तेन शकेयं तेन राध्यासमित्यादित्यमुपतिष्ठते ।
अग्ने व्रतपते व्रतं चरिष्यामीति ब्राह्मणोऽग्निमुपतिष्ठते ।
वायो व्रतपत इति वायुमादित्य व्रतपत इत्यादित्यं व्रतानां व्रतपत इति व्रतपतिम् ।
एते साधारणा ऋतेऽग्नेः ।
पर्वणि यजमानः स्वयमग्निहोत्रं जुहोति ।.। १ ।।
यवाग्वाऽमावास्यायाꣳ संनयन् ।
तस्या उच्छेणमातञ्चनार्थं निदधाति ।
नानृतं वदति न माꣳसमश्नाति न स्त्रियमुपैति नैताꣳ रात्रिमश्नाति ।
आरण्यस्य सायमश्नाति ।
आमार्गादा मधुन आप्राशातिकादित्येकेषाम् ।
आरण्यायोपवसन्नपोऽश्नीयान्न वा किंचन ।
उभावग्नी उपस्तृणते देवता उपवसन्तु मे ।
अहं ग्राम्यानुपवसापि मह्यं गोपतये पशूनिति परिस्तीर्यमाणेषु जपति ।
आहवनीयागारे गार्हपत्यागारे वा संविशति ।
अमावास्यायां रात्रिं जागर्ति ।
अपि वा यथा शक्नुयात्तथा कुर्यात् ।
उपरि त्वेव न शयीत ।
कामं वोपरि शयीत ।
व्रतचारी त्वेव स्यात् ।
श्वोभूते ।
भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमहे इति ब्रह्मिष्ठं व्रह्माणं वृत्वा ।
अपरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्यापरेण ब्रह्मसदनमुपविशति ।
आसꣳस्थानादन्वास्ते ।
यजमान वाचं यच्छेत्युच्यमाने बाचं यच्छत्या हविष्कृतः ।
भूश्च कश्च वाक्चर्क्च गौश्च बट्च खं च धूश्च नूश्च पूश्चैकाक्षराः पूर्दशमा विराजो या इदं विश्वं भुवनं व्यानशुस्ता नो देवीस्तरसा संविदानाः स्वस्ति यज्ञं नयत प्रजानतीरिति प्रणीताः प्रणीयमाना अनुमन्त्रयते ब्रह्मपूताः स्थ को वो युनक्ति स वो युनक्त्वति साद्यमानाः ।
कस्त्वा युनक्ति स त्वा युनक्त्विति यज्ञं युनक्ति ।
सर्वमनुवीक्षते ।
यजमान इरिर्निर्वप्स्यामीत्युच्यमान ॐ निर्वपेति प्रत्याहाग्निꣳ होतारमिह तꣳ हुव इति हविर्निरुप्यमाणमनुमन्त्रयते निरुप्तं निर्वपणार्थं वा पात्रम् ।। २ ।।
इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठे प्रश्ने प्रथमः पटलः ।। १ ।।

6.2 अथ षष्ठे प्रश्ने द्वितीयः पटलः ।
इदं तस्मै हर्म्यं करो्मि यो वो देवाश्चरति ब्रह्मचर्यम् । मेधावी दिक्षु मनसा तपस्व्यन्तर्दूतश्चरति मानुषीष्विति वेदिदेशमभिमृशति ।
चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय मह्यं धुक्ष्व यजमानाय का मान्। वेदेन वेदिं बृहतीमविन्दन्सा पृथिव्यां प्रयतां पार्थि- वानि ।तस्यां बर्हिः प्रथताꣳ साध्वन्तरहिꣳस्रा णः पृथिवी देव्यस्तु । वेदेन वेदिमिति वेदेन वेदिꣳ संमृज्यमानाम् । अभिमन्त्रयते । वेदेनेति पठितो मन्त्र आध्वर्यवे ।
यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः । यः श्रुतेन हृदयेनेष्णता च तस्येन्द्रवज्रेण शिरच्छिनद्मीति स्तम्बयजुर्ह्रियमाणम् ।
यदुद्धन्तो जिहिꣳसिम पृथिवीमोधधीरपः । अध्वर्यवस्फ्यकृतस्फ्येनान्तरिक्षं मोरुपाव तस्मात् ।
यदुद्धन्तो जिहिꣳसिम जीवमस्या वेदिं चकृमा मनसा देवयन्तः ।
मा तेन हेड उपगाम भूम्याः शिवा नो विश्वैर्भुवनेभिरस्त्विति स्फ्येनोत्तमां त्वचमुद्धन्यमानाम् ।
बृहस्पते परिगृहाण वेदिमिति परिग्राहयोः ।
भूमिर्भ्रूत्वा महिमानं पुपोष ततो देवी वर्धयते पयाꣳसि । यज्ञिया यज्ञं वि च यन्ति शं चौषधीराप इह शक्वरीश्चेति कृताम् ।
ईडेऽन्यक्रतूरहमपो देवीरुपब्रुवे दिवा नक्तं च सस्रुषीरपस्वरीरिति प्रोक्षणीरासाद्यमानाः ।
आज्यमसीत्याज्यमवेक्षते यथाऽध्वर्युरद्भिराज्यमाज्येनापः सम्यक्पुनीत सवितुः पवित्रैः । ता देवीः शक्वरीः शाक्वरेणेमं यज्ञमवत संविदाना इत्याज्यमपश्चोत्पूयमानाः ।
पञ्चानां त्वा वातानामित्येतैराज्यानि गृह्यमाणान्यशिश्रेम बर्हिरन्तः पृथिव्याꣳ सꣳरोहयन्त ओषधीर्विवृक्णा: । यासां मूलमुदवधी: स्फ्येन शिवा नस्ताः सुहवा भवन्त्वित्यन्तर्वेदि बर्हिरासाद्यमानम् ॥ ३॥ सुमनसो यजमानाय सन्त्वोषधीराप इह शक्वरीश्च । वृष्टिद्यावापर्जन्य एना विरोहयतु हिरण्यवर्णाः शतवल्शा अदब्धा इति बर्हिः प्रोक्ष्यमाणमूर्णा मृदु प्रथमानꣳ स्योनं देवेभ्यो जुष्टꣳ सदनाय बर्हिः । सुवर्गे लोके यजमानꣳ हि धेहि मां नाकस्य पृष्ठे परमे व्योमन्निति बर्हिः स्तीर्यमाणम् ।
चतुःशिखण्डा युवति: सुपेशा घृतप्रतीका वयुनानि वस्ते । सा स्तीर्यमाणा महते सौभगाय सा मे धुक्ष्व यजमानाय कामानिति बर्हिषा वेदिꣳ स्तीर्यमाणाम् ।
शिवा च मे शग्मा चैधि स्योना च मे सुषदा चैध्यूर्जस्वती च मे पयस्वती चैघि सूपचरणा च मे स्वधिचरणा चैधीषमूर्जं मे पिन्वस्व ब्रह्मतेजो मे पिन्वस्व क्षत्त्रमोजो मे पिन्वस्व विशं पुष्टिं मे पिन्वस्वाऽऽयुरन्नाद्यं मे पिन्वस्व प्रजां पशून्मे पिन्वस्वेति स्तीर्णाम् ।
अस्मिन्यज्ञ उपभूय इन्नु मे विक्षोभाय परिधीन्दधामि । धर्ता धरुणो धरीयानग्निर्द्वेषाꣳसि
निरितो नु दाता इति परिधीन्परिधीयमानात् ।
ध्रुवोऽसि ध्रुवोऽहꣳ सजातेषु भूयासमिति च ।
युनज्मि त्वां यन्मे अग्न इति द्वाभ्यामग्निं परिधीयमानम् ।
तेजिष्ठा ते तपना या च रोचना प्रत्योषन्तीस्तनुवो यास्ते अग्ने ताभिर्वर्माण्यभितो व्ययस्व मा त्वा दभन्यातुधानाः पिशाचा इति परिधितम् ।
विच्छिनद्मि विधृतीभ्याꣳ सपत्नान्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । विशो यन्त्राभ्यां विधमाम्येनानहꣳ स्वानामुत्तमोऽसानि देवाः । विशो यन्त्रे नुदमाने अरातिं विश्वं पाप्मानममतिं दुर्मरायुम् । सीदन्ती देवी सुकृतस्य लोके धृती स्थो विधृती स्वधृती प्राणान्मयि धारयतं प्रजां मयि धारयतं पशून्मयि धारयतमिति विधृती साद्यमाने ॥ ४ ॥ अयं प्रस्तर उभयस्य धर्त्ता धर्त्ता प्रयाजानामुतानूयाजानाम् । स दाधार समिधो विश्वरूपास्तस्मिन्स्रुचो अध्यासादयामीति विधृत्योः प्रस्तरꣳ साद्यमानम् ।
आरोह पथो जुहु देवयानान्यत्रर्षयः प्रथमजा ये पुराणाः । हिरण्यपक्षाजिरासंभृताङ्गो वहासि मा सुकृतां यत्र लोकाः । जुहूरसि घृताची गायत्रियाम्नी कविभिर्जुषाणा । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युपदेवानाग्नेयेन शर्मणा दैव्येनेति जुहूमवाहं बाध उपभृता सपत्नाञ्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । दोहै यज्ञꣳ सुदुघामिव धेनुमहमुत्तरो भूयासमधरे मत्सपत्नाः । सुभृदस्युपभृद्घृताची त्रैष्टुभेन छन्दसा विश्ववेदः । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युपदेवा नैन्द्रेण शर्मणा दैव्येनेत्युपभृतं यो मा वाचा मनसा दुर्मरायुर्हृदारातीयादभिदासदग्ने । इदमस्य चित्तमधरं ध्रुवाया अहमुत्तरो भूयासमधरे मत्सपत्नाः । ध्रुवाऽसि धरणी धनस्य पूर्णा जागतेन छन्दसा विश्ववेदः। अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युपदेवान्वैश्वदेवेन शर्मणा दैव्येनेति ध्रुवाꣳ स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिः सुवर्गे लोके दिवि सीद पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्नाः । अयꣳ स्रुवो अभिजिहर्ति होमान्छतक्षरं छन्दसाऽऽनुष्टुभेन । सर्वा यज्ञस्य समनक्तु विष्ठा बार्हस्पत्येन शर्मणा दैव्येनेति स्रुवमियꣳ स्थाली घृतस्य पूर्णा छिन्नपयाः शतधार उत्सः। मारुतेन शर्मणा दैव्येनेत्याज्यस्थालीम् ॥५॥ यज्ञोऽसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयताꣳ शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीरित्याग्नेयं प्रजापतिरसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयताꣳ शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीरित्यग्नीषोमीयं यो नः कनीय इह कामयाता अस्मिन्यज्ञे यजमानाय मह्यम् । अप तमिन्द्राग्नी भुवनां नुदे तामहं प्रजां वीरवतीं विदेयेत्यैन्द्राग्नम् ।
यस्त आत्मा पशुषु प्रविष्ट इति सांनाय्य आसाद्यमाने ।
इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवोऽचिकित्सन् । तेन देवा अवतोपमामिहेषमूर्जं यशः सह ओजः सनेयꣳ शृतं मयि श्रयतामिति शृतं यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधि नोन्महेन्द्रं दधि मां धिनोत्विति दधि ।
अयं यज्ञः समसदद्धविष्मानृचा साम्ना यजुषा देवताभिः । तेन लोकान्सूर्यवतो जयेमेन्द्रस्य सख्यममृतत्वमश्यामिति सꣳसन्नान्यभिमृशति ॥ ६ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठप्रश्ने द्वितीयः पटलः ॥२॥

6.3 अथ षष्ठप्रश्ने तृतीयः पटलः ।
विहव्यस्याष्टाभिः पौर्णमास्याꣳ हवीꣳष्यासन्नान्यभिमृशति चतुर्होत्रा च ।
(+ पञ्चहोत्रैवामावास्यायामङ्गिरसो माऽस्य यज्ञस्य प्रातरनुवाकैरवन्त्वित्यनूच्यमानासु सामिधेनीषु जपति दशहोतारं पुरस्तात्सामिधेनीनामुपरिष्टाद्वा व्याचक्षीत समिद्धो अग्निराहुतः स्वाहाकृतः पिपर्तु नः । स्वगादेवेभ्य इदं नम इति समिद्धमग्निमुच्छुष्मो अग्न इति च मनोऽसि प्राजापत्यमिति स्रुवाधारमनुमन्त्रयते वागसीति स्रुच्यं देवाः पितरो देवा योऽहमस्मि स सन्यजे यस्यास्मि न तमन्तरेमि स्वं म इष्टꣳ स्वं दत्तꣳ स्वं पूर्तꣳ स्वꣳ श्रान्तꣳ स्वꣳ हुतं तस्य मेऽग्निरुपद्रष्टा वायुरुपश्रोताऽऽदित्योऽनुख्याता द्यौः पिता पृथिवी माता प्रजापतिर्बन्धुर्य एवास्मि स सन्यजे यस्यास्मि न तमन्तरेमीति होतृप्रवरेऽध्वर्युप्रवरे च जपति मां देवेष्वाश्रावयाऽऽयुषे वर्चस इत्यध्वर्युप्रवरे वैशेषिकं चतुर्होतारं पुरस्तात्प्रयाजानामुपरिष्टाद्वा व्याचक्षीत वसन्तमृतूनां प्रीणामीत्येतैः प्रयाजानाꣳ हुतꣳ हुतमनुमन्त्रयतेऽग्निश्चक्षुष्माꣳस्तस्याहं देवयज्यया चक्षुष्मान्भूयासमित्याग्नेयस्याऽऽज्यभागस्य सोमश्चक्षुष्माꣳस्तस्याहं देवयज्यया चक्षुष्मान्भूयासमिति सौम्यस्याग्नीषोमयोरहमिति समस्तानुमन्त्रणमेके समामनन्ति पञ्चहोतारं पुरस्ताद्धविषामवदानानामुपरिष्टाद्वा व्याचक्षीताग्नेरहं देवयज्ययाऽन्नादो भूयासमित्याग्नेयस्य दब्धिरसीत्युपाꣳशुयाजस्याग्नीषोमयोरहमित्यग्नीषोमीयस्येन्द्राग्नियोरहमित्यैन्द्राग्नस्येन्द्रस्याहमित्यैन्द्रस्य महेन्द्रस्याहमिति माहेन्द्रस्याग्नेः स्विष्टकृतोऽहमिति स्विष्टकृतोऽग्निर्मा दुरिष्टात्पात्विति च सुरूपवर्षवर्ण एहीतीडामाह्रियमाणां प्रतीक्षते ॥ ७ ॥ इड एह्यदित एहि भूयस्येहि श्रेयस्येहि वसीयस्येहि चित्त एहि दधिष एहीत्युपाꣳशूपहवे सप्त देवगवीर्जपति चिदसि मनासि वस्वी रन्ती रमतिः सूनरी सूनृतेत्युच्चैरुपहवे सप्त मनुष्यगवीर्जपति विश्वा त्वं भूताऽनुप्राणिहि विश्वा त्वा भूताऽनुप्राणन्तु भूरस्यायुरसीष्टिरसि सुरूपवर्षवर्ण एहीमान्भद्रान्दुर्याꣳ अभ्येहि मामनुव्रतान्यु शीर्षाणि मृड्ढ्वꣳ सा नः प्रियासु प्रतूर्त्तिः प्रिया नः सुहृन्नः प्रियवती मघोनी जुष्ट एहि रन्त एहि रमत एहि सूनृत एहि सुहवाम एहि सह रायस्पोषेण देवीर्देवैरभि मा निवर्तध्वꣳ स्योना स्योनेन घृतेन मा समुक्षत नम एतदुपदं भिषगृषिर्ब्रह्मा यद्ददौ समुद्रादुदञ्चन्निव स्रुचावागग्रे विप्रस्य तिष्ठति शृङ्गेभिर्दशभिर्दिशन्नित्युच्चैरुपहवे वायविडा ते मातेति होतारमीक्षमाणो वायुं मनसा ध्यायेदुपहूतोऽयं यजमान इत्युच्यमान उपहूतः पशुमानसानीति जपत्यस्मास्विन्द्र इन्द्रियं दधात्विति चेडाया अहं देवयज्यया पुष्टिमान्पशुमान्भूयासमिडे भागं जुषस्व नो जिन्व गा जिन्वार्वतस्तस्यास्ते भक्षिवाण: स्याम सर्वात्मानः सर्वगणाः । इडा धेनुः सहवत्सा न आगादूर्जं दुहाना पयसा प्रपीना । सा नो अन्नेन हविषोत गोभिरिडा जिन्वतां पयसाऽभ्यस्मानित्युपहूतामिडां व्याख्याता मार्जनी ।
ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसद्दिशां क्लृप्तिरसि दिशो मे कल्पन्तां कल्पन्तां मे दिशो दैवीश्च मानुषीश्चाहोरात्रे मे कल्पेतामर्धमासा मे कल्पन्तां मासा मे कल्पन्तामृतवो मे कल्पन्ताꣳ संवत्सरो मे कल्पतां क्लृप्तिरसि कल्पतां म आशानां त्वाऽशापालेभ्यश्चतुर्भ्यो अमृतेभ्य इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयमिति प्रतिदिशं व्यूहति भजतां भागी भागं मा भागोभक्तनिरभागं भजामोऽपस्पिन्वौषधीर्जिन्व द्विपात्पाहि चतुष्पादव दिवो वृष्टिमेरय ब्राह्मणानामिदꣳ हविः सोम्यानाꣳ सोमपीथिनां निर्भक्तो ब्राह्मणो नेहाब्राह्मणस्यास्तीति च ॥ ८ ॥ इदं ब्रह्मण इदꣳ होतुरिदमध्वर्योरिदमग्नीध इति चतुर्धा व्यादिशति । आग्नीध्रप्रथमान्व्यादेशानेके समामनन्ति ।
इयꣳ स्थाल्यमृतस्य पूर्णा सहस्रधार उत्सो अक्षीयमाणः । स दाधार पृथिवीमन्तरिक्षं दिवं च तेनौदनेनातितराणि मृत्युमित्यन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति प्रजापतेर्भागोऽसीति च ।
दक्षिणसद्भ्य उपहर्तवा इत्युच्यमाने दक्षिणत एतेत्यृत्विजः संप्रेष्यति ।
ब्राह्मणा अयं व ओदन इति दक्षिणतः परिक्रान्तेभ्यस्तं चतुर्धा व्युद्धृत्यै ददाति । एषा ते अग्ने समित्तया वर्धस्व चाऽऽच प्यायस्व वर्धिषीमहि च वयमा च प्यासिषीमहि । यं ते अग्न आवृश्चाम्यहं वाक्षिपितश्चरन् । प्रजां च तस्य मूलं च । नीचैर्देवा निवृश्चत । अग्ने यो नो भिदा सति समानो यश्च निष्ट्यः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचन । यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् । सर्वाꣳस्तानग्ने संदह याꣳश्चाहं द्वेष्मि ये च मामित्यनूयाजसमिधमाधीयमानाम् ।
वेदिर्बर्हिः शृतꣳ हविरिध्मः परिधयः स्रुचः । आज्यं यज्ञ रुचो यजुर्याज्याश्च वषट्काराः सं मे सन्नतयो नमन्तामिध्मसंनहने हुत इतीध्मसंनहने हुते । अङ्गिरसो माऽस्य यज्ञस्य प्रातरनुवाकैरहौषुरित्यनूयाजेषु जपति
सप्तहोतारं पुरस्तादनूयाजानामुपरिष्टाद्वा व्याचक्षीत बर्हिषोऽहं देवयज्यया प्रजावान्भूयासमित्येतैरनूयाजानाꣳ हुतꣳ हुतमनुमन्त्रयते वाजस्य मा प्रसवेनेति द्वाभ्याꣳ स्रुचौ व्यूह्यमाने ॥९॥
वसून्देवान्यज्ञेनापिप्रेयꣳ रुद्रान्देवान्यज्ञेनापिप्रेयमादित्यान्देवान्यज्ञेनापिप्रेयमिति परिधीनज्यमानान्समङ्क्तां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः । समिन्द्रेण विश्वेभिर्देवेभिरङ्क्तां दिव्यं नभो गच्छतु यत्स्वाहेति स्रुक्षु प्रस्तरमज्यमानमपिप्रेड्यज्ञो यज्ञमयाङ्देवाꣳ अरंकृतः सोमः । तं मित्रो वरुणो
अर्यमा रायस्योषा यजमानं विशन्त्विति प्रस्तरस्य तृणमपात्तम् ।
अग्नेरहमुज्जितिमनुज्जेषमितिसूक्तवाकेन होता यां यां देवतामभिव्याहरति तां तां यजमानोऽनुमन्त्रयते ।
यर्हि होता यजमानस्य नाम गृह्णीयात्तर्हि ब्रूयादेमा अग्मन्नाशिषो दोहकामा इति ।
सा मे सत्याऽऽशीर्देवेषु भूयान्मन्यान्मन्यतमाज्जुष्टाज्जुष्टतमादरैडता मनसा तच्छ केयं यज्ञो दिवꣳ रोहतु यज्ञो दिवं गच्छतु यो देवयानः पन्थास्तेन यज्ञो देवाꣳ अप्येत्वित्याशीष्षु जपति ।
अदो म आगम्यादिति यत्कामयते तस्य नाम गृह्णाति ।
रोहितेन त्वाऽग्निर्देवतां गमयत्त्वित्येतैः प्रस्तरमवसृष्टम् ।
दिवः खीलोऽवततः पृथिव्या अध्युत्थितः । तेनासहस्रकाण्डेन द्विषन्तं तापयामसि द्विषन्नस्ताप्यतां बहुमानागास्तप्यौषधय इति प्रस्तरस्य तृणमनुप्रहृतम् ।
विष्णोः शंयोरहमिति शंयुवाके ।
वि ते मुञ्चामि रशना इति द्वाभ्यामग्निं परिधिषु प्रह्रियमाणेषु ।
इष्टो यज्ञो भृगुभिर्द्रविणोदा यतिभिराशीर्दा वसुभिराशीर्वाꣳ अथर्वभिः । तस्य मेष्टस्य वीतस्य द्रविणमागम्याद्वसुर्यज्ञो वसुमान्यज्ञस्तस्य मा यज्ञस्य वसोर्वसुमतो वस्विहाऽऽगच्छत्वदो म आगच्छत्विति सꣳस्रावभागान्यत्कामयते तस्य नाम गृह्णाति ।
वेदोऽसि वित्तिरसीतिवेदमन्तर्वेद्यासन्नमभिमृशति ।
विदेयेत्यस्य पुरस्तादुपरिष्टाद्वा यद्यद्भ्रातृव्यस्याभिध्यायेत्तस्य नाम गृह्णीयात्तदेवास्य सर्वं वृङ्क्त इति विज्ञायते ॥१०॥
इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठे याजमानप्रश्ने तृतीयः पटलः॥३॥

6.4 अथ षष्ठप्रश्ने चतुर्थः पटलः ।
पत्नीसंयाजेषु सोमस्याहं देवयज्यया सुरेता रेतो धिषीयेति सोमस्य त्वष्टुरहं देवयज्यया पशूनाꣳ रूपं पुषेयमिति त्वष्टुर्देवानां पत्नीनामहं देवयज्यया प्रजनिषीय प्रजया च पशुभिश्चेति देवपत्नी राकाया अहं देवयज्यया प्रजावान्भूयासमिति राकां सिनीवाल्या अहं देवयज्यया पशुमान्भूयासमिति सिनीवालीं कुह्वा अहं देवयज्यया पुष्टिमान्भूयासमिति कुहूमग्निर्गृहपतिर्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया प्रतिष्ठावान्भूयासमित्यग्निं गृहपतिं देवानां पत्नीरग्निर्गृहपतिरिति समस्तानुमन्त्रणमेके समामनन्ति ।
इडाऽस्माननुवस्तान्घृतेन यस्याः पदे पुनते देवयन्तः। वैश्वानरी शक्वरी वावृधानोपयज्ञमस्थित वैश्वदेवीत्याज्येडाम् ।
या सरस्वती यशोभगीना तस्यै ते स्वाहेति फलीकरणहोमे हूयमाने मुखं विमृष्टे । या सरस्वती वेशभगीना तस्यै ते स्वाहेति हुते मुखं विमृष्टे ।
वेदोऽसि वित्तिरसीति वेदꣳ होत्रा पत्न्यै प्रदीयमानम् ।
वेदोऽसि वेदसे त्वा वेदो मे विन्देति वा ।
घृतवन्तं कुलायिनमिति वेदमुपस्थेऽस्यमानम् ।
वेदोऽसि वेदो म आहर तृप्तस्त्वं तृप्तोऽहं प्रजया पशुभिर्भूयासमिति वा ।
त्वया वेदिं विविदुः पृथिवीं त्वया यज्ञो जायते विश्वदानिः । अच्छिद्रं यज्ञमन्वेषि विद्वान्त्वया होता संतनोत्यर्धमासानिति वेदꣳ स्तीर्यमाणम् ।
अग्नेऽदब्धायो इति समिष्टयजुः ।
दिवः खीलोऽवततः पृथिव्या अध्युत्थितः तेनासहस्रकाण्डेन द्विषन्तꣳ शोचयामसि द्विषन्मे बहु शोचत्वोषधे मो अहꣳ शुचमिति बर्हिरनुप्रहृतम् ।
सं यज्ञपतिराशिषेति ॥ ११॥ यजमानभागं प्राश्नाति शृतस्य दध्नश्च ब्राह्मणोऽश्नाति न वैश्यराजन्याविदꣳ हविः प्रजननं मे अस्त्विति शृतस्य दधिक्राव्णो अकारिषमिति दध्नः ।
अन्तर्वेदि प्रणीतासु मार्जयते ।
अध्वर्युश्चास्मै संततां धारा स्रावयति सदसि सन्मे भूया इत्यानीयमानासु जपति । प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तामिति प्रतिदिशं व्युत्सिञ्चति समुद्रं वः प्रहिणोम्यक्षिताः स्वां योनिमपिगच्छत । अच्छिद्रः प्रजया भूयासं मा परासेचिमत्पय इति शेषं निनयति।
यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्धि सरस्वतीति मुखं विमृष्टे।
अत्र यजमानभागप्राशनमेके समामनन्ति ।
अत एवोपोत्थाय विष्णोः क्रमोऽसीति चतुरो विष्णुक्रमान्क्रामति दक्षिणेन प्रक्रम्य सव्येनानुप्रक्रामति न सव्येन दक्षिणमतिक्रामति नाऽऽहवनीयमतिक्रामत्युत्तरमुत्तरं ज्यायाꣳसं तिष्ठꣳश्चतुर्थं जपति ।
उद्यन्नद्य मित्रमहः सपत्नान्मे अनीनशः। दिवैनान्विद्युता जहि निम्रोचन्नधरान्कृधि । उद्यन्नद्य वि नो भज पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे तस्य नो देहि सूर्य । उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् । हृद्रोगं मम सूर्य हरिमाणं च नाशय । शुकेषु मे हरिमाणꣳ रोपणाकासु दध्मसि । अथो हारिद्रवेषु मे हरिमाणं निदध्मसि । उदगादयमादित्यो विश्वेन सहसा सह । द्विषन्तं मम रन्धयन्मो अहं द्विषतो रधम् । यो नः शपादशपतो यश्च नः शपतः शपात् । उषाश्च तस्मै निम्रुक्च सर्वपापꣳ समूहताम् । यो नः सपत्नो यो रणो मर्तो भिदासति देवाः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचनेति ॥१२॥
आदित्यमुपतिष्ठतेऽगन्म सुवः सुवरगन्मेति च ।
इदमहममुं भ्रातृव्यमाभ्यो दिग्भ्योऽस्यै दिव इति यं द्वेष्टि तस्य वधं मनसा ध्यायति ।
यद्यभिचरेदिदमहममुष्याऽऽमुष्यायणस्य प्राणं नि ऐन्द्रीमावृतमन्वावर्त इति प्रदक्षिणमावर्तते पुण्या भवन्तु या लक्ष्मीः पराभवन्तु याः पापीरिति दक्षिणमꣳसमभिपर्यावर्तते ।
तेजोऽसीत्याहवनीयमुपपर्यावर्तते ।
समहं प्रजयेत्युपतिष्ठते ।
समिद्धो अग्न इत्युपसमिन्धे ।
वसुमान्यज्ञ इत्युपतिष्ठते।
अग्ने वह्ने स्वदितुं नस्तनये पितुं पच । विभुꣳ शं तोकाय तनुवे स्योन इति दक्षिणाग्निमुपतिष्ठतेऽग्न आयूꣳष्यग्ने पवस्वेत्याग्निपावमानीभ्यां गाईपत्यमुपतिष्ठतेऽग्ने गृहपत इति च तामाशिषमाशासे तन्तवे ज्योतिष्मतीमित्यजातपुत्रो ब्रूयात् ।
तामाशिषमाशासेऽमुष्मै ज्योतिष्मतीमिति जातपुत्रः ।
बहुपुत्रः सर्वेषां पुत्राणां नामान्यनुद्रुत्य ज्योतिष्मतीमित्यन्ततो वदति ।
ज्योतिषे तन्तवे त्वाऽसावनु मा ज्योतिषा तन्वित्यन्तराऽग्नी निषीदति । वेदतृणान्युपस्थ आधाय ये देवा यज्ञहन इत्यन्तर्वेद्यासीनोऽतीमोक्षाजपति ।
कस्त्वा युनक्ति स त्वा विमुञ्चत्विति यज्ञं विमुञ्चति सर्वमनुवीक्षतेऽग्ने व्रतपते व्रतमचारिषमित्येतैर्व्रतं विसृजते यज्ञो बभूव स आबभूवेति यज्ञस्य पुनरालम्भं जपति गोमाꣳ अग्नेऽविमाꣳअश्वी यज्ञ इति प्राङुत्क्रम्य जपति ॥ १३ ॥
यज्ञ शं च ते यज्ञ नमो नमश्च ते यज्ञ शिवेन मे संतिष्ठस्वं स्योनेन मे संतिष्ठस्व सुभूतेन मे संतिष्ठस्व ब्रह्मवर्चसेन मे संतिष्ठस्व यज्ञस्यर्धिमनु संतिष्ठस्वोप ते यज्ञ नम उप ते नम उप ते नम इति जपति ।
वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागामप्सु श्रद्धेत्यप उपस्पृश्य यथेतं प्रतिनिष्क्रामति ।
ब्राह्मणाꣳस्तर्पयितवा इति संप्रेष्यति ।
एवं विहितं प्रवसतोऽपि याजमानम् ।
यस्यामस्य दिश्यग्नयो भवन्ति तां दिशमभिमुखो मन्त्राञ्जपति ।
अध्वर्युः कर्माणि करोति ।
अन्यान्यभिमर्शनात् ।।
यजमानो मन्त्राञ्जपत्यन्यान्व्यादेशनात् ।
एवं विहितमिष्टिपशुबन्धानां याजमानम् ।
यथाविकारमनुमन्त्रणाः ।
इन्द्रस्य वैमृधस्याहं देवयज्ययाऽसपत्नो भूयासꣳ सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयं पूष्णोऽहं देवयज्यया पुष्टिमान्पशुमान्भूयासमदित्या अहं देवयज्यया प्रजनिषीय प्रजया च पशुभिश्च द्यावापृथिव्योरहं देवयज्ययोभयोर्लोकयोर्ऋध्यासं भूमानं प्रतिष्ठां गमेयमर्यम्णोऽहं देवयज्यया स्वर्गं लोकं पुषेयं विश्वेषां देवानामहं देवयज्यया प्राणैः सायुज्यं गमेयमिन्द्रस्येन्द्रियावतोऽहं देवयज्ययेन्द्रियावी पशुमान्भूयासमिन्द्रस्य त्रातुरहं देवयज्यया त्रातो भूयासमिति प्रत्यक्षाम्नाता अनुमन्त्रणाः ॥ १४ ॥
इति हिरण्यकेशिसूत्रे षष्ठे याजमानप्रश्ने चतुर्थः पटलः ॥४॥
.
6.5 अथ षष्ठप्रश्ने पञ्चमः पटलः ।
अग्न्याधेयस्य याजमानं व्याख्यास्यामः ।
पुरस्ताद्ब्राह्मौदनिकात्केशश्मश्रूणि वापयते नखानि निकृन्तते दतो धावते स्नात्यहतं वासः परिधत्ते ।
ब्रह्मौदनं प्राशितवद्भ्यो वरं ददाति ।
आहितासु समित्सु मिथुनावसिक्तरेतसौ ददाति ।
न प्रयाति न प्रवसति।
नास्याग्निं गृहाद्धरन्ति ।
अन्यतश्च नाऽऽहरन्ति ।
शिल्पैरेताꣳ रात्रिं जागर्ति ।
शल्कैरग्निमिन्धान उभौ लोकौ सनेमहम्। उभयोर्लोकयोर्ऋद्ध्वाऽतिमृत्युं तराम्यहमिति शल्कैस्ताꣳ रात्रिमग्निमिन्धे ।
मही विश्पत्नी सदने ऋतस्यार्वाची एतं धरुणे रयीणाम् । अन्तर्वत्नी जन्यं जातवेदसमध्वराणां जनयथः पुरोगामीत्यरणी प्रदीयमाने प्रतीक्षत आरोहतं दशतꣳ शक्वरीर्ममर्तेनाग्न आयुषा वर्चसा सह । ज्योग्जीवन्त उत्तरामुत्तराꣳ समां दर्शमहं पूर्णमासं यज्ञं यथा यजा इति प्रतिगृह्णात्यृत्वियवती स्थो अग्निरेतसौ गर्भं दधाथां ते वामहं ददे तत्सत्यं यद्वीर बिभृथो वीरं जनयिष्यथः । ते मत्प्रातः प्रजनयिष्येथे ते मा प्रजाते प्रजनयिष्यथः । प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोक इति प्रतिगृह्याभिमन्त्रयते ।
आत्मन्नाग्निं गृह्णीते यथाऽध्वर्युरिदमहमनृतात्सत्यमुपैमि सत्यान्मानुषमुपैमि मानुषाद्दैव्यमुपैमि दैवीं वाचं यच्छामीति वाचं यच्छति मजापतेस्त्वा प्राणेनाभि प्राणिमि पूष्णः पोषेण मह्यम् । दीर्घायुत्वाय शतशारदाय शतꣳ शरद्भ्य आयुषे वर्चसे जीवात्वै पुण्यायेति जातमभिप्राणित्यहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेद इति जातमभिमन्त्र्य वरं ददाति ।
वाचं विसृजतेऽत्र क्षौमे वाससी परिदधाते यजमानः पत्नी च ।
ते अपवृत्तेऽग्न्याधेयेऽध्वर्यवे दत्तो याभ्यां याभ्यां व्याहृतीभ्यां येन येन यथर्ष्याधानेन याभ्यां याभ्याꣳ सार्पराज्ञीभ्यां येन येन च घर्मशिरसा दधाति सर्वत्र तेन तेनोपतिष्ठते ॥ १५ ॥

दर्शपूर्णमासः

सुगार्हपत्यो विदहन्नरातीरुषसः श्रेयसीः श्रेयसीर्दधत् । अग्ने सपत्नाꣳ अपबाधमानो रायस्पोषमिषमूर्जमस्मामु धेहीत्याहितं गार्हपत्यमुपतिष्ठत इमा उ मामुपतिष्ठन्तु राय आभिः प्रजाभिरिह संवसेय । इहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेद इति मध्यदेशे ह्रियमाणमभिमन्त्रयते समयार्धे वरं ददात्यानशे व्यानशे सर्वमायुर्व्यानश इत्याहितमाहवनीयमुपतिष्ठते।
ये ते अग्ने शिवे तनुवौ विराट्च स्वराट्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे तनुवौ सम्राट्चाभिभूश्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे तनुवौ विभूश्च परिभूश्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे तनुवौ प्रभ्वी च मभूतिश्च ते मा विशतां ते मा जिन्वतां यास्ते अग्ने शिवास्तनुवस्ताभिस्त्वा दध इति शिवाभिस्तनूभिराहितमाहवनीयमुपतिष्ठते स्निक्च स्नीहितिश्च स्निहितिश्च सदाम्नी चामतिश्चानाहुतिश्च निर्ऋतिरेतास्ते अग्ने घोरास्तनुवोऽमर्त्यो मर्त्यस्तान्गच्छन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति पुरस्तात्पूर्णाहुतेर्घोराभिरुपतिष्ठते पूर्णाहुतौ वरं ददात्युपरिष्टात्पूर्णाहुतेः शिवाभिरुपस्थाय ।
विराजक्रमैरुपतिष्ठतेऽथर्वपितुं मे गोपायान्नं प्राणेन संमितम् । त्वया गुप्ता इषमूर्जं मदन्तः शतं जीवेम शरदः सवीरा इति दक्षिणाग्निं नर्य प्रजां मे गोपाय मूलं लोकस्य संततिम् । आत्मनो हृदयान्निर्मितां ता ते परिददाम्यहमिति गार्हपत्यꣳ शꣳस्य पशून्मे गोपाय विश्वरूपं धनं वसु । गृहाणां पुष्टिमानन्दं ताꣳस्ते परिददाम्यहमित्याहवनीयꣳ सप्रथसभां मे गोपायेन्द्रियं भूतिवर्धनम् । विश्वजनस्य छायां तां ते परिददाम्यहमिति स प्रथ सभां मे गोपाय ये च सभ्याः सभासदः। तानिन्द्रियावतः कुरु सर्वमायुरुपासतामिति सभ्यमहे बुध्निय मन्त्रं मे गोपाय श्रियं च यशसा सह । अहये बुध्नियाय मन्त्रं श्रियै यशः परिददाम्यहमित्यावसथ्यं पञ्चधाऽग्नीन्व्यक्रामद्विराट्सृष्टा प्रजापतेः ।
ऊर्ध्वारोहद्रोहिणी योनिरग्नेः प्रतिष्ठितिरिति सर्वान् ।
यत्रास्मै ॥ १६ ।। शतमक्षान्प्रयच्छति तेषु कृतं विजित्य सभासद्भ्यः प्रयच्छति ते यज्जयन्ति तदुभयमन्नꣳ सꣳस्कृत्य ब्राह्मणान्भोजयति ।
आग्नेयस्य दक्षिणाकालेऽजं पूर्णपात्रमुपबर्हणꣳ सार्वसूत्रमश्वꣳ रथं वासः षङ्गा द्वादश चतुर्विꣳशतिरपरिमिता वर्धमाना ददाति तासां धेनुरनड्वान्मिथुनौ चाऽऽदिष्टरूपाण्यजं पूर्णपात्रमुपबर्हणं चाग्नीधे ददात्यश्वं ब्रह्मणे धेनुꣳ होत्रे गार्हपत्यदेशेऽनड्वाहमाहवनीयदेशेऽध्वर्यवे शेषः साधारणस्त्रिंꣳशन्माने पूर्वयोः पवमान हविषोर्हिरण्ये दक्षिणां ददाति चत्वारिꣳशन्मानमुत्तमे धेनुमादित्ये।
आधानप्रभृति यावज्जीवं नानृतं वदेत् ।
नास्य ब्राह्मणोऽनाश्वान्गृहे वसेत् ।
सूर्योढमतिथिं वसत्यै नापरुन्ध्यात् ।
न नक्तमन्यत्रान्नाद्दद्यात् ।
अन्नं ददन्नक्तमदयीत ।
नर्बीषपक्वस्याश्नीयात् ।।
या अन्तर्नाव्या आपस्तासां नाश्नीयात् ।
रजतꣳ हिरण्यं बर्हिषि न दद्यात् ।
क्लिन्नं दारु नाभ्यादध्यादभ्यादध्याद्वा ।
स्वकृत इरिणे प्रदरे वा नावस्येत् ।
हिंकृत्य वाग्यतः स्त्रियं संभवेत् ।
व्याहरेद्वा।
नैतस्मिन्संवत्सरे पशुनाऽनिष्ट्वाऽनादिष्टो माꣳसं भक्षयेत् ।
यदि भक्षयेन्मनसाऽग्निभ्यः प्रहिणोमि भक्षं मम वाचा तं सह भक्षयन्तु । अप्रमाद्यन्नप्रमत्तश्चरामि शिवेन मनसा सह भक्षयतेत्युक्त्वाऽऽदिष्टो भक्षयति । द्वादशरात्रमजस्रेष्वग्निष्वाज्येन स्वयमग्निहोत्रं जुहोति।
अहतं वासो वस्ते ।
काममन्यो जुहुयात् ।
व्रतचारी त्वेव स्यात् ।
स्वयं त्रयोदशीं जुहोति ।
यां प्रथमामग्निहोत्राय दुहन्ति साऽग्निहोत्रस्य दक्षिणा।
मिथुनौ गावावन्वारम्भणीयायां ददात्युभयीः पुनराधेय अग्न्याधेयिकीर्दत्त्वा पौनराधेयिकीर्ददाति पुनर्निष्कृतो रथः पुनरुत्स्यूतं वासः पुनरुत्सृष्टोऽनवाञ्शतमानं च हिरण्यं पुनराधेयस्य दक्षिणाऽपि वा पौनराधेयिकीरेव दद्यादिति पैङ्ग्यब्राह्मणम् ॥ १७ ॥
इति सत्याषाढहिरण्यकशिसूत्रे षष्ठप्रश्ने पञ्चमः पटलः ॥५॥

6.6 अथ षष्ठप्रश्ने षष्ठः पटलः ।
विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषामेति विहारमभ्येति ।
यदग्ने यानि कानि चेति प्रतिमन्त्रमाहवनीये वर्षिष्ठमिध्ममादधाति ।
उद्धरेत्युद्ध्रियमाणमभिमन्त्रयते ।
उद्धरणप्रभृति नाश्नीयादाहोमाद्विद्युदसीत्यप उपस्पृश्यापरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य दक्षिणत उपविशति पत्नी पत्न्या लोक इडाऽसि व्रतभृदहं नावुभयोर्व्रतं चरिष्याम्यादित्य व्रतभृदहं नावुभयोर्व्रतं चरिष्यामि सुरूपेऽहं नावुभयोर्व्रतं चरिष्यामीड एहि मयि श्रयस्वेति यदग्निहोत्र्यां व्रतं तदात्मन्कुरुते ।
श्रद्ध एहि सत्येन त्वाऽऽह्वयामीत्याहूयमानामियमसि तस्यास्तेऽग्निर्वत्सः सा मे स्वर्गं च लोकमुभयं च धुक्ष्वेति दुह्यमानामोमुन्नेष्याम्युन्नयामीति वोच्यमाने हविर्देवानामसि मृत्योर्मेsभयꣳ स्वस्ति मेऽस्त्वभयं मे अस्त्वित्युपाꣳशूक्त्वोमुन्नयेत्युच्चैः प्रत्याहोन्नीयमाने तिष्ठति न चंक्रम्यते वाचं यच्छत्याहोमादुन्नीत उपविशति ।
उत्तरामाहुतिमुपोत्थाय कवातिर्यङ्ङिव।
आहवनीयमुपतिष्ठते सर्वैरुपस्थानैः ।
उपप्रयन्तो अध्वरमिति षड्भिस्तासामग्नीषोमीयया पूर्वपक्ष उपतिष्ठेतैन्द्राग्न्याऽपरपक्षे ।
अग्नीषोमाविमꣳ सुम इत्यग्नीषोमीयोभा वामिन्द्राग्नी इत्यैन्द्राग्नी तयोः ।
परस्ताद्विहव्यस्याऽऽदितश्चतसृभिरुपतिष्ठते ।
तासामुपरिष्टादग्न आयूꣳषि पवस इति षड्भिराग्निपावमानीभिः।
संवत्सरे गार्हपत्यमुपतिष्ठत आयुर्दा अग्नेऽस्यायुर्मे देहीति चतुर्भिराहवनीयं चित्रावसो स्वस्ति ते पारमशीयेति द्विरावर्तयत्यसौ स्वस्ति तेऽस्त्वसौ स्वस्ति तेऽस्त्विति सर्वेषां पुत्राणां नामानि गृह्णाति द्विर्द्विरैकैकस्य ।
अंग्नेः समिदस्यभिशस्त्या मा पाहि सोमस्य समिदसि परस्या म एहि यमस्य समिदसि मृत्योर्मा पाहीत्येतैस्तिस्रः समिध आदध्यादिन्धानास्त्वा शतꣳ हिमा इति चतुर्थीम् ।
वयꣳ सोम व्रते तव मनस्तनूषु बिभ्रतः । प्रजावन्तो अशीमहीति मुखं विमृष्टे सं त्वमग्ने सूर्यस्य वर्चसागथा इति च ।
संपश्यामि प्रजा अहमिति ॥ १८ ॥ मनुष्यानुपतिष्ठतेऽम्भस्याम्भो वो भक्षीयेति पशून्रेवती रमध्वमित्यन्तराऽग्नी तिष्ठञ्जपति सꣳहिताऽसि विश्वरूपीरिति गामालभते वत्सं वोप त्वाऽग्ने दिवे दिव इति षड्भिर्गायत्रीभिर्द्विपदाभिर्गार्हपत्यमुपतिष्ठत ऊर्जा वः पश्याम्यूर्जा मा पश्यतेति गोष्ठं भुवनमसि सहस्रपोषं पुषिसहस्रपोषस्येशिषे तस्यास्ते भूयिष्ठभाजो भूयास्मेति पुनरेव गामालभते वत्सं वा महित्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधर्षं वरुणस्य । नहि तेषाममाचन नाध्वसु वारणेषु। ईशे रिपुरघशꣳसः। ते ह पुत्रासो अदितेः शर्म यच्छन्त्वजस्रम् । प्रदाशुषे वार्याणीति माहित्रेण तृचेनोपतिष्ठते तत्सवितुर्वरेण्यमिति सावित्र्या सोमानꣳ स्वरणमित्येषा सोमानꣳ स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य औशिजः। योरेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः । स नः सिषक्तु यस्तुरः। मा नः शꣳसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य । रक्षा णो ब्रह्मणस्पत इति ब्राह्मणस्पत्याभिरुपतिष्ठते कदाचन स्तरीरसि कदाचन प्रयुच्छसीति द्वे परि त्वाऽग्ने पुरं वयमित्येषा परि ते दूढभो रथोऽस्माꣳ अश्नोतु विश्वतः । येन रक्षसि दाशुष इति पर्यावर्त्यान्तत उपतिष्ठते ।
दूढभवतीमुत्तमामेके समामनन्ति निमृदोऽसि न्यहं तं मृधासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति पुरस्तात्प्रपदेनावगृह्णीयाद्यदि श्रेयसा स्पर्धेत प्रभूरसि प्राहं तमभिभूयासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति दक्षिणतः पदोऽवगृह्णीयाद्यदि सदृशेन स्पर्धेताभिभूरस्यभ्यहं तमभिभूयासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति पश्चात्पार्ष्ण्यावगृह्णीयाद्यदि पापीयसा स्पर्धेत ॥ १ꣳ ॥ पूषा मा पशुपाः पातु पूषा मा पथिपाः पातु पूषा माऽधिपाः पातु पूषा माऽधिपतिः पात्विति जपित्वा प्राची दिगग्निर्देवता यो मैतस्यै दिशोभिदासादग्निꣳ स ऋच्छत्वग्निर्मे तस्यै दिशो गोपायतु दक्षिणा दिगिन्द्रो देवता यो मैतस्यै दिशोभिदासादिन्द्रꣳ स ऋच्छत्विन्द्रो मे तस्यै दिशो गोपायतु प्रतीची दिङ्मरुतो देवता यो मैतस्यै दिशो भिदासान्मरुतः स ऋच्छतु मरुतो मे तस्यै दिशो गोपायन्तु उदीची दिङ्मित्रावरुणौ देवता यो मैतस्यै दिशो भिदासान्मित्रावरुणौ स ऋच्छतु मित्रावरुणौ मे तस्यै दिशो गोपायेताम् । ऊर्ध्वा दिग्बृहस्पतिर्देवता यो मैतस्यै दिशो भिदासाद्बृहस्पतिꣳ स ऋच्छतु बृहस्पतिर्मे तस्यै दिशो गोपायतु । इयं दिगदितिर्देवता यो मैतस्यै दिशो भिदासाददितिꣳ स ऋच्छत्वदितिर्मे तस्यै दिशो गोपाय
त्विति दिश उपस्थाय धर्मो मा धर्मिणः पातु विधर्मो मा विधर्मिणः पात्वायुश्च प्रायुश्च चक्षुश्च विचक्षुश्च प्राणश्चापानश्च प्राञ्चावाञ्चोरुग उरुगोऽर्कस्य ते वयं वाचा संभक्तेन गमेम ह्यच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेदि दिव्याद्धाम्नो मा छित्सि मामायुषा ज्योतिषे तन्तवे त्वाऽसावनु मा ज्योतिषा तन्वित्यन्तराऽग्नी तिष्ठञ्जपत्यग्न आयुꣳष्यग्ने पवस्वेत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठतेऽग्ने गृहपत इति च तामाशिषमाशासे तन्तवे ज्योतिष्मतीमित्यजातपुत्रो ब्रूयात्तामाशिषमाशासेऽमुष्मै ज्योतिष्मतीमिति जातपुत्रो बहुपुत्रा सर्वेषां पुत्राणां नामान्यनुद्रुत्य ज्योतिष्मतीमित्यन्ततो वदति सायꣳ सायमुपतिष्ठते॥२०॥
अपि वा दिवैतत् ।
भूर्भुवः सुवः सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः
सुवर्चा वर्चसा सुपोषः पोषैरिति वा काममैन्द्रो वित्तादिति
वा श्रद्धा मे मा व्यगादिति वा भर्तुं वः शकेयमिति वा ।
तत्सर्वं कृताकृतम् ।
प्रातरवनेकेन प्रातरुपस्थेयः।
तत्राधिश्रित उन्नीयमाने वा।
विहव्यस्याऽऽदितश्चतसृभिरुपस्थाय ।
अपां पत इति त्रीनुदकाञ्जलीन्निनयति प्रतिषिक्ता अरातय इति त्रिः परिषिञ्चति कालाय वां जैत्रियाय वामिति पाणी प्रक्षालयत इदमहं दुरद्मन्यां नि:प्लावयामीत्यप आचम्य निष्ठीवति भ्रातृव्याणाꣳ सपत्नानामिति पुनरेव पाणी प्रक्षालयत इन्द्रियवतीमद्याहं वाचमुद्यासमिति यथारूपं प्राणायतनानि संमृज्योत्तरेणानुवाकेनोपतिष्ठते तत्रार्वाग्वसोः स्वस्ति ते पारमशीयेति त्रिरावर्तयत्यसौ स्वस्ति तेऽस्त्वसौ स्वस्ति तेऽस्त्विति सर्वेषां पुत्राणां नामानि गृह्णाति त्रिरेकैकस्य पुरस्तादग्नीषोमीया-
द्विहव्यस्योत्तराभिश्चतसृभिरुपस्थायानुवाकशेषेणोपतिष्ठते ।
तस्मात्पुरा प्रातरग्निहोत्रे नोपावरोहेदित्येकेषाम् ।
अग्नेस्तृणान्यपचिनोति तेजस्वी ब्रह्मवर्चसी भवतीति विज्ञायते ॥ २१ ॥
इति सत्याषाढहिरण्यकशिसूत्रे षष्ठप्रश्ने षष्ठः पटलः॥६॥
.
6.7 अथ षष्ठप्रश्ने सप्तमः पटलः ।
ऋते गृहस्य प्रवासं व्याख्यास्यामः।
अग्नीन्समाधेहीति संप्रेष्यति प्रवत्स्यन्भास्वत उपतिष्ठते मम नाम प्रथमं जातवेद इति चतसृभिराहवनीयं पशून्मे शꣳस्य पाहि तान्मे गोपायास्माकं पुनरागमादित्याहवनीयमुपस्थायाभिप्राण्याग्ने सहस्राक्षेत्युपतिष्ठते प्रजां मे नर्य पाहि तां मे गोपायास्माकं पुनरागमादिति गार्हपत्यमुपस्थायाभिप्राण्याग्ने गृहपत इत्युपतिष्ठतेऽन्नं मे बुध्न्य पाहि तन्मे गोपायास्माकं पुनरागमादिति दक्षिणाग्निमुपस्थायाभिप्राण्याग्ने वह्न इत्युपस्थाय विराजक्रमैरुपतिष्ठते यथा पुरस्तादिमान्मे मित्रावरुणा गृहान्गोपायतं युवम् । अविनष्टानविहृतान्पुषैनानभिरक्षत्वस्माकं पुनरागमादित्यन्तराऽग्नी तिष्ठञ्जपति मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मां तस्थुर्नो अरातयः । उदस्माꣳ उत्तरान्नयाग्ने घृतेनाऽऽहुत । रायस्पोषेण सꣳसृज प्रजया च बहून्कृधीति प्रक्रामति सकाशेऽग्नीनां वाचं यच्छत्यसकाशे विसृजते व्रतकालेषु व्रतं चरति ।
ऋतुं प्रत्युपतिष्ठते ।
यद्यनुपस्थिताग्निरापद्यते प्रवासः ।
इहैव सं तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि । तिरो मा सन्तमायुर्मा प्रहासीज्ज्योतिषा वो वैश्वानरेणोपतिष्ठ इत्युपतिष्ठते ।
प्रोष्य ।
समिधो धारयन्विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषामेति विहारमभ्येत्य सकाशेऽग्नीनां वाचं यच्छति सकाशे विसृजतेऽग्नीन्समाधेहीति संप्रेष्यति ॥ २२ ॥ ज्वलत उपतिष्ठते नमस्ते अस्तु मीढुषे नमस्त उपसद्वने । अग्ने शुम्भस्व तन्वा सं मा रय्या सꣳसृजेत्युपसमिन्धेऽग्नेः समिदस्यभिशस्त्या मा पाहीत्येतैस्त्रिभिस्तिस्रः समिध आदध्यादिन्धानास्त्वा शतꣳ हिमा इति चतुर्थी मनो ज्योतिर्जुषतामित्यध्वर्युराहुतिं जुहोति यदि दशमीमतिप्रवसति मम नाम तव च जातवेद इति चतसृभिराहवनीयं पशून्मे शꣳस्याजुगुपस्तान्मे पुनर्देहीत्याहवनीयमुपस्थायाभ्यपान्याग्ने सहस्राक्षेत्युपतिष्ठते प्रजां मे नर्याजुगुपस्तां मे पुनर्देहीति गार्हपत्यमुपस्थायाभ्यपान्याग्ने गृहपत इत्युपतिष्ठतेऽन्नं मे बुध्न्याजुगुपस्तन्मे पुनर्देहीति दक्षिणाग्निमुपस्थायाभ्यपान्याग्ने वह्न इत्युपस्थाय विराजक्रमैरुपतिष्ठते यथा पुरस्तादिमान्मे मित्रावरुणा गृहानजुगुपतं युवम् । अविनष्टानविहृतान्पूषैनानभ्यपराक्षीदास्माकं पुनरागमादित्यन्तराऽग्नी तिष्ठञ्जपति गोपायाजुगुप इति सर्वत्रानुषजति गोपायेति वा ।
अथैकेषां विज्ञायते कः श्रेयाꣳसं विषुप्तं बोधयिष्यतीत्यप्रादुष्कृतानामेवोपस्थानꣳ स्यादभयंकराभयं मे कुरु स्वस्ति मेऽस्तु प्रवत्स्यामीति प्रवत्स्यन्नभयंकराभयं मेऽकार्षीः स्वस्ति मेऽस्तु प्रावात्स्यमिति प्रोष्य ॥ २३ ॥ गृहा मा विभीत मा वेपीढ्वमूर्जं बिभ्रत एमसि । ऊर्जं बिभ्रद्वसुवनिः सुमेधा गृहानेमि मनसा मोदमानः । येषामभ्येति प्रवसन्येषु सौमनसो बभुः । गृहानुपह्वयामहे ते नो जानन्तु जानतः । उपहूता इह गाव उपहूता अजावयः । अथो अन्नस्य कीलाल उपहूतो गृहेषु नः । उपहूता भूरिसखाः सखायः स्वादु संमुदः। अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा । ऊर्जस्वन्तः पयस्वन्त इरावन्तो ह सामुदः । अनश्या अतृष्या गृहा मास्मद्बिभीतनेति गृहानभ्येति क्षेमाय वः शान्त्यै प्रपद्ये शिवꣳ शग्मꣳ शंयोः शंयोरिति प्रविशति न तदहरागतः कलहं करोति गृहानहꣳ सुमनसः प्रपद्ये वीरघ्नो वीरतमः सुशेवान् । इरां वहन्तः सुमनस्यमानास्तेष्वहꣳ सुमनाः संविशामीति संविशति विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विष इति भार्याꣳ समीक्षते ॥ २४ ॥
इति सत्याषाढहिरण्यकोशिसूत्रे षष्ठप्रश्ने सप्तमः पटलः ॥७॥

6.8 अथ षष्ठप्रश्नेऽष्टमः पटलः ।
आग्रयणेष्टौ वत्सं प्रथमजं ददाति नानातन्त्रे श्यामाके बभ्रुं पिङ्गलं मधुपर्कं मधुमन्थं दधिमन्थं क्षीरौदनस्य वा पात्रं क्षौमं वासो वर्षाधृतं भद्रान्नः श्रेयः समनैष्ट देवा इति व्रीहीणां प्राश्नात्यग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिरिति श्यामाकानामेतमु त्यं मधुना संयुतं यवꣳ सरस्वत्या अधिमनाऽवचर्कृषुः । इन्द्र आसीत्सीरपतिः शतक्रतु: कीनाशा आसन्मरुतः सुदानव इति यवानाम् ।
यथाविकारं पशावेकादश प्रयाजाननुमन्त्रयते ।
चतुरश्चतुर्भिरादितश्चतुर्थस्यानुमन्त्रणेन दुरःप्रभृतीꣳश्चतुर उत्तमेनेतरान् ।
स्वर्विदसि स्वर्वित्त्वा स्वरिहि स्वर्मह्यं स्वः पशुभ्यो लोकविदसि लोकं वित्त्वा लोकमिहि लोकं मह्यं लोकं पशुभ्यो गातुविदसि गातुं वित्त्वा गातुमिहि गातुं मह्यं गातुं पशुभ्यो नाथविदसि नाथं वित्त्वा नाथमिहि नाथं मह्यं नाथं पशुभ्यो न वा उवेतन्म्रियस आशानां त्वा विश्वा आशा इति पशौ संज्ञप्यमाने जपति हुतायां वपायां परं ददाति तिस्रो वा दक्षिणा नयेत् ।
यथाविकारं पशावेकादशानूयाजाननुमन्त्रयते त्रीꣳस्त्रीनेकैकेन प्रथमेन दशममुत्तमेनोत्तमम् ।
शृङ्गाणीवेच्छृङ्गिणाꣳ संददृश्रिरे चषालवन्तः स्वरवः पृथिव्याम् । ते देवासः स्वरवस्तस्थिवाꣳसो नमः सखिभ्यः सन्नान्माऽवगातेति ॥ २५ ॥ हुतꣳ स्वरुमुपतिष्ठत आशासानः सुवीर्यमिति संꣳस्थिते यूपम् । चातुर्मास्येष्वनड्वाहमनडुहो वा हिरण्यं वैश्वानरे ददाति धेनुं पार्जन्ये यथाविकारं नव प्रयाजाननुमन्त्रयते चतुरश्चतुर्भिरादितश्चतुर्थस्यानुमन्त्रणेन दुरःप्रभृतीꣳश्चतुर उत्तमेनोत्तमं वत्सं प्रथमजं वैश्वदेवे ददाति यथाविकारं नवानूयाजाननुमन्त्रयते त्रीꣳस्त्रीनेकैकेन ।
तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासमिति सर्वत्र केशेषूप्यमानेषु जपति चतुरो मासान्नानृतं वदति न माꣳसमश्नाति न स्त्रियमुपैति नोपर्यास्ते जुगुप्सेतानृतात्प्राङ्शेते न मध्वश्नाति नाञ्जीत नाभ्यञ्जीतर्तौ जायामुपेयात्सर्वेषां चातुर्मास्यानामेतान्यन्तरालव्रतानि भवन्ति धेनुं वरुणप्रघासेषु ददात्यृषभं प्रवयसꣳ साकमेधेषु यस्य रवते जुहोति तमेव पौर्णादर्व्येऽश्वꣳ श्वेतमादित्ये गां वा श्वेतꣳ षड्गवं द्वादशगवं वा सीरमुष्टारौ वोष्टारं वाऽन्यतरꣳ शुनासीरीयेऽश्वꣳ श्वेतꣳ सौर्ये गां वा श्वेतं तदभावेऽगौः श्वेतः स्याच्छ्वेतः स्यात् ॥ २६ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठप्रश्नेऽष्टमः पटलः ॥८॥
इति हिरण्यकेशिसूत्रे षष्ठः प्रश्नः॥६॥

६५० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । चातुर्मास्यानां द्विरावृत्तिः सर्वेषां भवति संवत्सरद्वयेन पुनश्च वैश्वदेवपर्वमात्रं चातुर्मास्यमध्ये भवति । तत ऊर्ध्वमाषाढमासो भवति तस्मिन्प्राप्ते वरुणप्रधासैन यष्टव्यं तं मासमतिक्रम्य श्रावण्यां वरुणप्रघासैर्यष्टव्यं चैयामुएकमे तु संवत्सरत्रयमभ्यस्य पुनश्चैयां वैश्वदेवेनेष्ट्वा श्रावण्यां वरुणप्रयासरेवं चैत्रमारभ्यर्तुत्रयं भाद्रपदे भवति ततो मासमतिक्रम्य कार्तिके साकमेधैर्यजेत् । अनेन प्रकारेण पञ्च संवत्सरान्यजति । ततोऽपि फलभम्नो द्विस्त्रिी पञ्चसंवत्सराणि चातुर्मास्यानि यनेत । तथा च पञ्च दश पञ्चदश वा त्रयः प्रयोगा विकल्पेन भवन्ति । अभ्यासः प्रश्नसमाप्त्यर्थः । इति सत्यापाढहिरण्यकशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवै. जयन्त्यां पञ्चमप्रश्ने शुनासीरीयः षष्ठः पटलः ॥ ६ ॥ इति हिरण्यकशिसूत्रव्याख्यायां महादेवकृतयां प्रयोगवैजयन्त्यां पञ्चमश्चातुर्मास्यप्रश्नः।

6.1 अथ षष्ठः प्रश्नः । (तत्र प्रथमः पटलः ।) । ऋग्वेदायुपविष्टेषु सानकर्मसु कर्तता । होत्रादेः परिभाष्यायाध्वयोर्याजुषकर्मसु ॥ १ ॥ निरूपिता ब्रह्मणोऽपि हवियज्ञेषु तेषु तु । प्रधानकर्तृदंपत्योः फलाप्राप्ति निवारयन् ॥१॥ संकल्पादेव कर्तृत्वमनयोर्मुख्यमादिशन् । फलं च सर्वकर्मस्वत्रैवान्यच्च प्रसङ्गतः ॥ ३॥ किंचिद्युक्त्वा हविर्यज्ञयाजमानं सविस्तरम् । होत्रादिवेदसंज्ञाभिर्विहितेष्वपि कर्मम् ॥ ४ ॥ होत्रादिकर्तृनियमापवादेन निरूप्यते । लिङ्गाद्वाक्याद्विशेषाभिधानाच्छ्रुत्या च बाधने ॥५॥ सन्ति सामान्य संज्ञायाः षष्ठे प्रश्ने प्रतिज्ञया । अवैतानिककर्माणि सब्रह्माण्यपि चविनाम् ॥६॥ साध्यानि तेषु चोत्सत्किर्तृगामि फलं स्थितम् । न्यायवैदग्भ्यविज्ञेयं याजमानमितीरितुम् || ७ || २ ४९४ सत्यापाविरचितं श्रौतसूत्र- [६ षष्ठप्रश्ने- प्रतिज्ञाकरणं तावदादौ सर्वस्य तन्यते । हपियज्ञे दर्शपूर्णमासादौ तन्निरूप्यते ॥ ८ ॥

याजमानं व्याख्यास्यामः ।

यद्यपि पन देवपूजासमतिकरणदानेवितिधात्वनुशासनसूत्रेण यती पूजाद्यर्थस्य लटः शतृशानचाविति सूत्रेण लडादेशशानच्प्रत्ययान्तत्य व्युत्पत्त्या यजमानशब्देन देवपूनादिकर्मणः कर्ताऽऽत्मनेपदार्थाच्च फलभोक्ता प्रतीयते तथाऽपि याग(यो) रूढया पविक्साध्ये कर्मणि फलमोक्ता यः स एव प्रतीयते । पूर्तेषु यजत्यर्थेष्वपि यजमान- शब्दप्रयोगात् । देवपूजाकर्तर्यदर्शनाच्च । तस्गादक्षिणा प्रवृत्तत्विकर्तृके कर्मणि यः फलभोक्ता स एव यजमानशब्दवाच्यः । नच कर्ममात्रफलभोक्तरि दृश्यते प्रयोग उपनयनादिषु सामयाचारिकेष्वपि च फलभोक्तरि प्रयोगाभावात् । तयोः फलमोक्त्रोः कर्म तद्यानमानम् । पत्न्या अपि फलं भोक्तृत्वस्याऽऽधानप्रश्ने निरूपित्तत्वात् । यद्यपि तत्तदविहितानि वैतानिकानि होतवेदादिसंज्ञामिहोत्रादिनियतकर्तृकाप्येवेति स्था- पितं तथाऽपि विशेषप्रमागस्तद्बाधेन दंपत्योरपि कचित्कर्तृत्व प्राप्तं तन्निरूप्यत इत्यर्थः । तत्र फलप्रापकं यजमानमात्रानुष्ठेयं प्रमाणमाह-

समस्ते क्रतावर्थं श्रूयमाणं यजमानः कामयते ।

समस्ते नियतेऽनियते च साङ्गे कतौ क्रतुशब्दपुरस्कारेणविग्विधिभिविहितात्विक र्तृके कर्मणि । दर्श पूर्णमासयोश्चत्वार स्विज इत्यादिनाऽग्निहोत्रस्य यज्ञक्रतोरेवमन्तेन दर्शपूर्णमास चातुर्मास्यपश्वग्निहोत्राणामक्रतुरूपाणामपि क्रतुशब्देन गौणेनाप्युपात्ताना- मिह ग्रहणं, ज्योतिष्टोमस्य तु मुख्यत्वेनोपात्तस्य यागविशेष एव सपशुके सोमाख्ये ऋतुशब्दो यातिकप्रसिद्ध्या रूढो वेदे च वाजपेये सर्वे यज्ञकतवोऽवरुध्यन्त इत्यादी बतोऽन्यत्र पञ्चमहायज्ञेषु यज्ञसत्रशब्दवद्गौणः । प्रकृते मुख्यमात्रग्रहणे हविर्यज्ञयाज. मानकर्मविधानं विरुध्येत तस्माङ्गोणमुख्यानां ग्रहणम् । यज्ञं व्याख्यास्याम इत्यत्र विधिल- क्षणानि कर्माणि कर्ममिनिःश्रेयसमित्यादौ च प्रयुक्तयज्ञशब्दकर्मशब्दावपहाय ऋतुशब्द प्रयुञ्जानेनाऽऽचार्येणविक्साध्यान्येव कर्माणि क्रतुशब्देन गृहीतानीति गम्यते । अर्थ ममेदं भ्यादित्यध्यते तदर्थ फलमिति यावत् । कतौ प्रयोजनतया साध्यत्वेन प्रयोजकोऽर्थः । तं क्रती साध्यं विधिश्रुत्येष्टसाधनयोग्यपरया नियतेषु निःश्रेयसलिङ्गसहकृतया विश्व. जिदादौ स्वर्ग रात्रिसत्रादौ प्रतिष्ठादिकं कामादिपदवद्वाक्यसहकृतथा व वायव्यर श्वेतमालभेत भूतिकाम इत्यादी भूत्यादिकमर्थत्वेनाऽऽवेदितं यजमानः कामयते । नच वर्तमानापदेशादनुवादः कामस्येति वाच्यम् । निष्प्रयोजनवादानर्थक्यमेव स्यात् । तस्मा- कामयतेति विधौ प्रयोगोऽप्राप्तत्वात् । नच फलकामनायां विधिरस्ति । कामनेच्छा । न १प्र०पटळ: ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । सा वस्तु सौन्दर्यज्ञानादेव जायते नतु विधिना । विधिहि न फले प्रवर्तकः । अत एव फलांशे भावनायास्तु प्रत्ययो न विधायक इत्युक्तं तस्मात्फलसाधने विधिरिति वाच्यम् । तत्र वाचिको यः कामाभिनयोऽप्राप्तः स एव कामयतो विहितोऽतो यनमान एवे. त्ययं नियमोऽपि युज्यते । नानावेदगतं फलं तथाऽपि नस्विग्भिः संकल्पनीयं समा- रूयाया बाधात् । अत एव यो यक्ष्य इत्युक्त्वेत्यत्राऽऽत्मनेपदं श्रूयते । उक्त्वेत्यनेन संकल्पस्य वाचिकत्वमुक्तं तदेव प्रथमं यजमानकर्म श्रुत्यैवोक्तं पुरुषरूपप्राप्तं तेन यज्ञे प्रवर्तमानत्वेन यजमानो नत्वनारब्धयज्ञो यजमानः स्याकिंतु यक्ष्यमाणः । अतोऽनेन यज्ञेन यक्ष्य इति कृतवाचिकसंकल्पोऽङ्गप्रासमानो येन ऋतुना यक्ष्य इति कृतसं- कल्पः । तत्र श्रूयमाणं फलमपि कामविषयत्वेनानुवदेदमुकाम इति तद्वाक्यशेषत्वेना- न्यथा सिध्यतः फलस्थानन्वये संकल्पवाक्यमसमर्थ स्यात् । यागेन भावयिष्य इत्युक्ते किमित्याकाक्षा जायते तत्पूरणायामुककाम इति वक्तव्यमित्यर्थः । अत एवान्यफ- लकर्मणि चविक त्वविधानाय यजतीति परस्मैपदनिर्देशो नहि प्रयत्नपरिस्पन्दाश्रयत्व . मात्रेण मुख्य कर्तृत्वं संभवति । स्वतन्त्रः कर्तेति पाणिनिस्मरणात्स्वातन्त्र्यं भोक्तरेष मुख्यं तत्प्रेरितेषु तु स्वातन्य गोगं विवक्षित दर्शयितुं यतीति परस्मैपदप्रयोगः। सूत्रकृताऽप्यूग्वेदेन होता करोतीत्यादौ परस्मैपदप्रयोगेणान्यप्रेरितत्वं दर्शितं, नहि परार्थफले कणि परेणाप्रवर्तितः प्रवर्तते । ननु स कथं फलभोक्ता स्यात्प्रधानकर्मणोऽ. कर्ता यतो नच वैदिक कर्मणि स्वातन्त्र्यमात्रेण कर्तृता । तथा च जैमिनिः पूर्वपक्ष- सिद्धान्तावाह शास्त्रफळ प्रयोक्तरि तल्लक्षणात्वादिति सूत्रेण । सर्व कर्म फलमोक्त्रैव कर्तव्यमिति प्रा(त्यभिधा)य राद्धान्तितम्- उत्सर्गे वा प्रधान स्यादिति । सर्वस्य सास्य कर्मणो हि अविसाध्यत्वेऽपि यागमात्रप्रधान तत्पल्या कर्तव्यमेतावता तत्फलप्राप्तिः । अत एव कात्यायनः-प्रधानस्वामी फलभागादिति । तेनापि द्रव्यदे. बतात्यागो याग इत्युक्तम् । तस्मात्प्रधानमात्रकर्तृत्वेन कर्मफलं तस्येति युक्तम् । भव- पक्षे तु त्यागप्रधानता प्रथमपटले निराकृता । प्रधान यागो होतृकतृको होमोऽ. ध्वर्युकर्तृक इति होतृकर्तृक इति स्थितं स्वातन्त्र्यमात्रेण कर्तुः कर्मफलं स्यादिति चेत् । उच्यते--यः प्रधानस्य कर्ता सोऽङ्गानामिति परिभाषितत्वाबागस्य प्रधा- नस्य यनमानकर्तृकत्वे तु पनमानकर्तृकत्वमङ्गानामपि स्यादिति समास्याभिर्न- स्विकर्तृताऽपि स्यात् । अतो न प्रधानकर्ता यनमान इष्टः सूत्रकृता । तस्माद- न्यतोऽप्रवृत्तः फलाय संकल्पेन प्रवृत्त एव स्वतन्त्रः कर्ताऽन्यो नेति सूत्रतात्पर्यम् । नचान्येन कृतस्यान्यः फलभोक्ताऽतिप्रसङ्गापत्तेरिति वाच्यम् । यथा यजमानेन त्यागे कृते प्रधाने यनमानपत्न्या अपि फलम् । तत्केन हेतुना संकल्पनेति वाच्यम् । तत्राऽऽपस्तम्बसमाधिरिति समः समाधिविधिः । यथाऽङ्गेषु कर्तुरन्यस्मिन्नपि यज. मानेऽपूर्वमुत्पद्यते तद्वत्प्रधानं पूर्वमपि संकल्पकर्तर्येव स्यात्तत्फलं चेति नातिप्रसङ्गः । सत्याषाढविरचितं श्रौतसूत्रं- [६ षष्ठमने- यथा लोके राजादिः संकल्पमात्रेण राज्यं भुङ्क्ते प्रेरित राज्यग्रहणाय प्रधानादिभिः कृत. ग्रहणमपि विहितेष्वपि देवताप्रतिष्ठादिपूर्तेषु प्रतिष्ठाप्रधानेषु त्यागासंभवाद्रुमपादावपि तधात्वात्संकल्पमात्रेणविकृतस्य प्रधानकर्मणो यजमान एवापूर्वमेव तस्य फलं च भव- तीति न किंचिदनुपपन्नम् । एवं वा सूत्रयोजना-समस्ते साझे कर्मक्रतौ यो यक्ष्य इत्यनुवादेन वचनाभिनयेन चोनीतेन यक्ष्य इति संकल्पे यद्यपि फलं तथाऽपि विधि- वाक्ये कतौ श्रूयमाणं यजमान एव कामयतेऽनेन यश्य इति वाक्य इदमनेन फलं कामय इति वाक्यशेषण कामयते । तस्माद्यज्ञारम्प एवानेन कर्मणा यक्ष्ये यावज्जीवमित्यादि यथासंभवमुक्त्वाऽनेन निःश्रेयसं कामय इत्यादि तत्तत्कामनानुसारेण वदेत् । यथोक्त- मापस्तम्बेनापि क्रत्वादी कतुकामं कामयेत यज्ञानादौ यज्ञाङ्गकाममिति । समस्ते साङ्गेऽपि ऋतौ साध्यत्वेनेष्टं श्रावयेदित्युक्तं तच्च यज्ञारम्भे प्रधानफलमकारम्भे चाङ्गफल- मित्युक्तं भवति । ननु नियतेष्वङ्गेषु विधिश्रुतिमात्रेण न फलं निःश्रेयस कल्प्यं नापि रात्रिसत्रन्याये. माऽऽर्थवादिकम् । नापि विश्वजिन्यायेन स्वर्गफलम् । किंतु नियताङ्गानि प्रधानेन स्वफलसियर्थ कर्थभावाकाक्षिगृहीतानि न पृथक्फलाकाङ्क्षाणि तथाऽपि अत्या कामपदवत्याऽनन्यार्थया च यत्रापि फलमङ्गेष्वनङ्गेषु चास्ति तत्रापि कामना कचित्विनिष्ठाऽपि श्रूयते तत्र किमृत्विनां फलमथवा यजमानस्यैव । यजमानफलेऽपि संकल्पोऽत्रविजां यजमानस्येति निर्णयार्थमाह-

तथा नित्येषु यज्ञाङ्गेषु यानि तु कामयतिः श्रावयति ।

तुशमेनोत्सर्गबाधो न सर्वत्रा वर्थवादैः फलफसना । नाप्यनेषु फलश्रुतिरर्थवाद एवेति । किंतु नित्येषु फलनिरपेक्षया विधिश्रुत्या फलवत्प्रधानाङ्गेषु तथा निय- तेषु फलामावेऽपि नियमेनानुष्ठेयेषु यज्ञाङ्गेषु यज्ञफलवत्तया फलवत्सू । ननु किमयं नित्येष्विति यज्ञाङ्गेषु हि नियमेनानुष्ठानं तद्यज्ञानग्रहणेनैव सिद्ध- मिति चेत् । न । वैकल्पिकं यत्राङ्गमस्ति तथाऽतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णातीति पाक्षिके षोडशियागे फलार्थतयैव प्रवृत्तिर्नान्यथा यज्ञस्य तेन विना ह्यवैगुण्यात् । तस्माद्वैगुण्यपरिहारार्थमनुष्ठीयमानं निस्पमित्यर्थः । तेष्वप्यन्य- तःसिद्धस्य स्थानेष्वपि यानि चार्थरूपाणि स(पू)सूत्रेऽर्थमिति पदं व्युत्पन्नमर्यत इति फलमुक्तं तत्र नपुंसकनिर्देशेन जातिवाचिनोपदिष्टस्यान्न(ब) व्यक्तिवाचकेन बहुवच- नान्तेन नपुंसकलिङ्गेन परामर्शो यानीति । यान्यर्थमानानि पुरुषेण नित्या साध्यानि कामयतिर्धातुः श्रावयति अभिधयैव बोधयति तान्येवाङ्गफलानि नान्यानि तान्येव यनमान एव कामयते सर्वानुषङ्गः । अयमभिप्रायः-यज्ञाङ्गेवपि श्रुत्याऽनन्यपरया १. च.ट, ठ, "स्ति या। ह प्र.पटळ:] महादेवकृतवैजयन्तीब्याख्यासमेतम् । बोधितानि फलान्येव न सा श्रुतिरपवाद एवाननेष्वपि च किं वक्तव्यं यानि फलं विना नानुष्ठेयानि तत्रार्थवाद एवाननुष्ठानलक्षणमप्रामाण्यं स्याद्विधेः । तस्माद्भयत्रापि नार्थवादता किंतु फलार्थ तैव । अत्र कामयतिरू(रु)पलक्षणमिच्छाविषयत्व(स्वे) नार्थप्र. तिपादकानां शब्दानाम् । बुभूषति] तितीपत्यनयोः साक्षादेकार्थकत्वात् । इतरार्थनं. प्रत्ययस्यापि समानार्थत्वात् । अभिचरन्नामयाच्यादिशब्दानामनिष्टार्थानामपि विधिषु न श्रुत्यावेदितार्थस्यापूर्वस्येष्टस्य साध्यस्याऽऽवेदकानामिच्छाविषयत्वं विना सांध्यत्वा- संभवादवश्यमांक्षिप्तेच्छाविषयत्वमपि वोधयतामुपलक्षणम् । तान्यङ्गानङ्गफलानि यन. नस्य कर्मणां स्वतन्त्रकर्तुरेव । तथाऽप्यध्वर्यादिकामना श्रूयते तथाऽपि नावदियः स्वार्थतया साधयितुमीशते शास्त्रफलं च कर्मणां स्वतन्त्रकर्तुरेवेति न्यायात् । नह्यनेन प्रवर्तितस्य कर्मणः फलमन्यस्य स्यात् । यदप्यन्यस्य प्रपाप्रवर्तनादिषु कर्मसु तृप्तिः फलमन्येष्वप्यस्ति तथाऽपि न तद्विधिफलम् । किंतु तदानुषङ्गिक विधिफलं करेवेति न व्यभिचारः । तथा च यान्कामयेत यजमानानिति तथा यं कामयेत सर्वमायुरियादिति पनमानकाम्यमेव फलं नाध्वर्युकाममनिच्छतो यजमानस्य फलं स्यात् । एवमृत्विनामपि क्वचित्वकामनाविषयत्वेन स्वफलता दृश्यते । तत्रापि यदि यजमान एवानेन कर्मणा म विनां फलं भूयादिति कामयते तदैव नान्यदा । तदेतत्स यानीत्यनेन दर्शितम् । तथा यं कामयेत प्रमायुकः स्यादित्यादेरपि न फलपरता मानत्वाभावात् । अध्वर्युणाs. निष्ट काम्यमानमपि न यजमानप्रयुक्तेन कर्मणा भवतीत्युक्तम् । यथा यजमानायानिष्ट कामयते तागेवेति । तथा न कार्यमित्यर्थवादः । यत्र तु कामनाप्समानार्थपदैरबोधितं तत्काम्यमानमपि नाङ्गफलमित्यपि कामयतिरित्यनेनोक्तम् । श्रावयतीत्यनेन कामादि. पदनोभितमपि यद्यभिधया न प्रतिपाद्यते फित्वन्द्यतेऽभिधायाः पदान्तरेण प्रतिबन्धात् । तत्रापि न फळताऽपि त्वर्थवाद एव । यथा त्रिष्टुभा परिदध्यादिन्द्रियं वै त्रिष्टुगिन्द्रि- यकामः खलु वै राजन्यो यनत इति तथा जगत्येत्यपि । अत्र खलुनैपदानां हेतुत्वे- नामिधाप्रतिबन्धादनुवादेनार्थवादीव । यदि कामयेत ब्रह्मवर्चसमस्त्विति गायत्रिया परिदध्यादिति फलपरतवात्र नार्थवादता । अत्र फलवन्त्यनानि क्रियानातिद्रव्यगुणाः । क्रिया तावत्-भाधानेऽग्नये मगिनेऽष्टाकपालेष्टिः । सा नित्या च काम्या च । तथा राका सिनीवाली पत्नीसंयानभागौ । जातिर्यावत्पालाशं ब्रह्मवर्चतकामस्य यूपं कुर्यात् । द्रव्यमपि-द्रव्यमग्निहोत्रहोमे पयः । गुमः-यूपे त्रिरस्निपञ्चारस्नित्वं च । एषां संयो- गपृथक्त्वन्यायेन यागाङ्गता । तथाऽनङ्गान्यपि क्रत्वाश्रितानि चतुर्धा कुड्यागः पत्नीसंयानेषु । जातिः-यदि कामयेत ब्रह्मवर्चसमस्त्विति गायत्रिया परिदध्या- दिति परिधानी[या]यां गायत्रीत्वम् । द्रव्यम् –कांस्यमृन्मये प्रशयनाश्रिते । गुणः- १च. ट. तयाऽपि । ६२ • सत्यापाविरचितं श्रौतसूत्र- [६ पप्रभे- आभार उच्चनीचते । एतेषां कत्वङ्मत्वावेदकं प्रमाणं नास्ति । यदि प्रकरणेनाशत्वं तदा वाक्यमेदः स्यात्सकृच्छ्रुतस्य वाक्यस्य । उदाहरति-

यथाऽऽघारस्योर्ध्वतायां नीचैस्तायां च ।

ऊर्धमाघारयेत्स्वर्गकामस्य न्यश्च वृष्टि कामस्येति यथा यजमान एव कामयते तथा थान्कामयेत यजमानान्समावत्येनानिति व्याहृतिविधाने स्थान विशेषलक्षणो गुणो यश. मानफळा विधीयमानो यजमानेनैव कामयितव्यः संकल्पनेत्यर्थः । एतत्सूत्रे नियमविधानेन फलितां परिसंख्यां दर्शयति-

अर्थवादा इतरे ।

आधारस्येत्यनुकर्षः । आचारगतगुणविध्यर्थवादा इतरेऽनन्यथासिद्धया श्रुत्यैवाऽऽ. वेदितार्थप्रापका विध्युद्देशान्तर्गतास्तेऽतोऽन्ये वाक्यशेषा विध्यदेशानन्तर्गताः सन्तः पृथगपि वाक्यार्थ प्रतिपादयन्तो वाक्यैकवाक्यतां गच्छन्तोऽर्थवादाः स्तायका न फल. प्रापका इत्यर्थः । ब्रह्ममीमांसकानामिव वाक्यैकवाक्यताऽर्थवादानामिष्टा सूत्रकृतामवा- न्तरवाक्यार्थेऽपि प्रामाण्यस्वीकारातत्तु(नतु)नैमिनीयानामिव पदैकवाक्यता । यथा संततमाघारयतीत्यत्र प्राणानामन्नाद्यस्य संतत्या इत्येवमादयोऽर्थवाद आधार- पोस्तथाऽन्येष्वपि नियतेषु यज्ञाङ्गेषु प्रकारान्तरसिद्धा अर्थवादा एवेत्याह-

तथान्येषु यज्ञाङ्गेषु पुरीषवतीं करोति प्रजयैवैनं पशुभिः पुरीषवन्तं करोति यद्यूपं मिनोति मुवर्गस्य लोकस्य प्रज्ञात्या इषे त्वोर्जे त्वेति शाखामाच्छिनत्तीषमेवोर्जं यजमाने दधातीति ।

शाखान्तरीय वाक्यम् । इनीति नानाप्रकाराणामर्थवादानां पूर्वदर्शितानां ग्रहणार्थम् ।

द्रव्यप्रकल्पनं यजमानस्य दक्षिणादानं ब्रह्मचर्यं जपाश्च ।

याणाङ्गभूतं द्रव्यं सिद्ध नात्यादिना पश्चादकत्वेन तत्तद्वेदविहितमपि नस्विम्मिः संकरप्यं तत्। नहि तत्र तत्र वेदे संपादन विधीयतेऽपि तु सिद्धस्याङ्गताऽतो द्रव्यप्र. कल्पनं पूर्वमर्थसिद्धं तत्तु स्वार्थसिद्ध्यर्थ यजमान एवं कुर्यात् । नहि त ऋत्विनो दक्षि. णालोभेन प्रवृत्ताः स्वयं व्ययं कर्तुं प्रभवन्ति । अत आज्यत्रीहिपशुतण्डुलगोनावादीनां संपादनं यानमानं मनमानः स्वद्रव्यत्ययेन साक्षाद्वाऽन्येन वा संपादयेत् । अत्र पजन मानप्रणं पुनः संकल्पे प्रवर्तमानस्य द्रव्यप्रकल्पकत्वं मा भूकिंतु संकल्पापूर्वमेव यक्ष्यमाणस्येति । पजमानपदं द्रव्यप्रकल्पनपदेन न संबद्धमिति पुनरागमैरेव संबन्धो . १५. झ. म. या नित्येषु। १५ पटकः] महादेवकृतबैजयन्तींव्याख्यासमेतम् । यथा स्यादिति सप्रयोजनं दक्षिणादित्रयेण संवध्यत उत्तरत्रानुवर्तते च । दक्षिणादान स्वत्वत्यागरूपं नास्वामिनः संभवति । सामर्थ्यमपि श्रुत्यो बाध्यतेऽनङ्वान्होत्रा देय इत्यादिना । भष्टाङ्गमैथुनत्यागो ब्रह्मचर्य तथनमानसंस्कार एव समारूपायाः साम- येन बाधात् । ऋस्विजां हि ब्रह्मचर्यामावेऽपि कर्तृत्वसंभवात् । तस्माद्दीक्षासंस्कार- वस्वामिनः संस्कार इति भवत्यदृष्टार्थः संस्कारो यजमानस्यैव । अत एव लिन समाख्यानाधे पति योऽस्यासनाधास्यमानो भवति स एतां रात्रि ब्रह्मचर्य परतीत्य- पब्रिह्मचर्यविधानम् । यत्र कुत्रापि वेदे पठितानां मन्त्राणां जपं पन्या अपि । वक्ष्यति च धर्मेषु नहि प्रवसति यजमाने पल्या नैमिसिकेषु दानेषुः स्तेयमुपदिशन्तीति तस्या भपि स्वाम्यमस्त्येवेति प्रवसति यजमाने दक्षिणादानं पत्न्याऽपि कार्य वरो देयः । छिन्दस्माणि दयादित्यादिना विहित स्कन्नादिनिमित्तं दानमपि दक्षिणाशब्देन. प्रदेय- मात्रग्रहणात् । जपानां विधिसिद्धं दर्शयति-

प्रत्यगाशिषो मन्त्रानकर्मकरणाञ्जपति ।

यजमान इत्यनुवर्तते । मन्त्रप्रयोक्कुरात्मानं प्रतिपाद्यत्वमागच्छन्तीति प्रतीच इष्टप्रा- धनास्ताः प्रतिपाद्यत्वेन येषां मन्त्राणां ते तथा प्रत्यक्षं मह्यं स्यादित्यात्मगामित्वम् । आशिष इष्टप्राप्तिप्रार्थनारूपार्थवादा उपलक्षणम् । तान्मयान्यजमानो अपति । यम- मान एव जपत्येवेति चोभयं नियम्यते । तेन नपस्तथाचादृष्टार्थ चातुस्वयं पाणिनिस्मृ- सिन्यायेन सिद्धमसिद्धमितीत्यविहितानां अपार्थतया विधिपतीत्येव कल्प्यों यजमान कर्तृकः साक्षादित्यर्थः फलति । प्रत्यक्षमपविधिविहितानां विनियोग नपतीति चेत्यनेन वक्ष्यत्यतो ज्ञायतेऽत्र विधिः कल्प्य इति । अयमाशयः -अध्ययनविधिनोत्पादितानां मन्त्राणां स्वार्थावबोधद्वारा फलवत्कर्मसाधनानां यज्ञकर्मार्था मन्त्रा इति परिभाषासूत्रेण सर्वमन्त्राणां यज्ञानुष्ठानार्थत्वमुक्तम् । तत्र येषां विनियोनको विधिर्नास्ति ते केन प्रमाणेन यज्ञकर्मार्थाः स्युः । भतस्त्वध्ययनविधिनैव ते सामान्येन विनियुक्ता एष । तेषां विशेषविद्याकाक्षिणां प्रत्यगाशीस्वलक्षणलिङ्गेन स्वस्यानुपम को अप एक विधेयत्वेन साध्यो धात्वों नान्यो योग्यः स्यात् । ननु शेषस्य विनिधानमित्यादिसूत्रै- रविनियुक्ता सा विनियोगलिङ्गेन वदता दशतयी सामव्यतिरिक्तानामपि मन्त्राणां सूष्णीकेषु प्राकृतेषु यजुरिति सूत्रेण विनियुक्तस्वान्नतेभ्योऽन्ये मन्त्राः सन्ति । येषां मपे विनियोगः कल्प्य इत्युच्यते । अत्राऽऽहाकर्मकरणानिति । कर्ममाझा चेष्टा तस्यां करणत्वेन प्रतीतास्ते कर्मकरणास्ते हि तूष्णीकक्रियासु प्राकृतासु १क, ग. "सान वा। विनियुक्त- ५०० सत्याषाढविरचितं श्रौतसूत्र- [६ षष्ठभे-- विहितास्वव प्रत्यगाशिषोऽपि मन्त्रप्साकाङ्क्षा लिङ्गेन तत्र क्रियाप्रति- पादनत्वलक्षणेन गच्छन्त्येव । प्रत्यगाशीलिंगं च विधिकल्पकमभिभूय श्रुति- विधेयक्रियामेव क्रियाप्रतिपादनलिङ्गेनाप्यकल्पनालाभाच्च न संनाथेम गच्छन्ति । पे त्वकर्म करणास्तेषां तूष्णीकाः क्रियाः प्रति गमने सामर्थ्य नास्ति । यद्यपि तदभावाकाङ्क्षास्तथाऽपि ते न केवलप्रत्यगाशीःपराः क्रियाया भप्रतिपा- दकाः कथं क्रियामभिधया प्राप्नुवन्ति । नचात्र वाह्मणविहितत्त्वमस्ति येन यथोपदिष्टं ब्राह्मणवन्त इति सूत्रेण लक्षणयाऽपि क्रियाप्रतिपादकाः स्युः । तस्मात्तेषा- मध्ययनविधिवलेन स्वसाध्यजपविधिकल्पकत्वमेव युक्तम् । नानुचारितस्य कर्माङ्ग- त्वमध्ययनविधिनाऽऽवे वितुं किंतूचारणेनोल्पन्नस्याभिव्यक्तस्यैव वा, इदानी दृष्ट चाप्त. मवति तदुचारणेन विधेयेन साक्षादपूर्वमेव वाच्यं संस्कार्यार्थस्याप्रतीतः । नच मन्त्र जपतीत्यस्ति द्वितीयानिर्दिष्टं संस्कार्यमिति वाच्यम् । मन्त्रस्यान्यत्र विनियोक्ष्यमाणत्वामावाद्वितीयया नेप्सिततमत्व किंतु कारकत्वमात्रमवगम्यने ह्याकरि चेति पाणिनिस्मृतेः । तस्मान्न द्रव्यमाने चादृष्टमाधेयशब्दापरपर्यायं मनयत्तद्वा- राऽपूर्वोत्पादक किंतु साक्षात्कलभोक्तार स्वामिन्येवौत्सर्गिक मन्त्रोच्चारणक्रिययाऽपूर्व जन्यते । वैधकर्मणां फलाशाप्तनं मुख्यं फलं स्वामिन्येव स एव मामिष्टमिदं भूयादिति कामयितुं योग्यो नविक् । तस्यान्यफलशासने यद्यपि यां कांचनाऽऽशिषमृत्विगाशास्ते तां यजमानस्येति तथाऽपि यजमानफलशासने मन्त्रवाच्ये मह्यमिदं भूयादिति गौणमेव । नचाभिधाबाधेऽन्यविनियोजकं प्रमाणमस्ति । समाख्यायास्तु लिङ्गेन बाधान्मुख्यवृत्त्या भोक्तवोच्चारणे कर्ता यजमानो यागेन फलं साधयितुं प्रवृत्तः फलापूर्वाश्रयत्वयो. ग्यमात्मानं दीक्षयेव करोत्यपूर्वेण संस्कृतम् । एवं च दीक्षणीयेष्टिवदेव नप. स्याऽऽरादुपकारकत्वेऽपि यजमानसंस्कारकत्वमुपपद्यते । स्वसंस्कारव्यतिरिक्त कर्मणि प्रतिनिधिः प्रवसतो यजमानस्यत्विग्वक्ष्यते । नपत्य संस्कारकत्वान्न तत्र प्रति- निधिरिति स्वस्यैव प्रवसतो जपो वक्ष्यते । तदेवं जपस्याऽऽरादुपकारकत्वे संपा- दित एवोपपद्यत इति युक्तमुत्पश्यामः । तस्मादृग्वेदादिप्तमाख्याप्राप्तात्वि. न्यबाधेन .. यत्र यत्र मत्रपाठस्तत्र तत्र कर्मसमीपे जपः कार्यः । द्रव्यप्रकाशनेन प्रत्यगाशीप्रार्थनं यत्र मन्त्रेषु स्यात्तत्र तत्र तत्तयजन्य क्रिययोपलक्षिते काळे कर्तव्यस्तत्तत्कर्माणतया । तत्र पाठादुत्कर्षोऽपि मन्त्रे वान्तर लिङ्गेनानुज्ञातः पाठात्तस्य प्रबलत्वात् । ये च क्रियाकरणद्वारा प्रत्यगाशी:परास्तत्र क्रिया विनाऽऽशी प्राप्त्यामावा. क्रियालिङ्कमेव . प्रबलं तेन तूष्णीकेषु प्राकृतेषुः तत्तत्विकर्मसु प्रत्यक्त्वमारोप्य गोण्याऽपि वृत्त्या प्रवर्तन्ते । ये प्रत्यगाशिषः श्रुत्या क्रियायां विनियुक्तास्तेषां लिङ्ग श्रुत्या सुतरां बाधितामिति गौण्या वृत्या क्रियापरत्वम् । तथाचानपन्यूज सामस्विति १प्र०पटळ:] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५०१ पाणिनिना वक्ष्यमाणन्यायमूलमाश्रित्योकमैकश्चत्यमपि बाधितमिति जपे चातुः स्वर्यपपि सिद्धमस्याध्वर्युपाठेन । एवं च परिभाषिते यजमानकर्तृके जपे सति परिभाषितन्यायेन शब्दान्तरोधित कर्मभेदेष्वपि तत्तद्विधिविहितप्वपि केषुचिज्जपधर्म यजमानकर्तृकत्वं पातिदिशति-

तथोपदिश्यमानानुपतिष्ठतेऽनुमन्त्रयतेऽभिमन्त्रयतेऽभिमृशति जपतीति च ।

मपतीति चेत्यन्तेन विधिनातेनोपदिश्यमानानपि प्रत्यगाशिषो मन्त्रास्तत्तदुपदिष्टविशे- घेण विशिष्ट कर्मान्तरविनियुक्तानपि तथा नपति यजमान एव । न तु तां कियां साधनत या तु तत्तद्वेदविहितया तृतीयया श्रुत्या भासमानानाप्युत्विाजपं प्रयुनते(?) । अत्र चातुःस्वयं- माशी परत्वेन यजमानकर्तृकत्वं चातिदिश्यते जपे विहिते यजमानकर्तृत्वमित्यर्थः । अयं भावः-पद्यपि चोपतिष्ठत इत्यादिना कर्मभेदोऽस्ति जपे तु प्रयोगभेदस्तथाऽपि न तेन तत्क- ममाधनतया प्रतीयमाना मन्त्राः प्रत्यगाशी:परत्वं जहति । क्रियामंशभूतां प्रति तृतीयया न साधनत्वमुच्यते किंतु प्रत्यगाशीःशासनं प्रत्येव प्राधान्यादंशात्तद्वारा तेषामकत्वात् । उपतिष्ठत इत्यादिना विशिष्टाभिधानेऽपि विशेषणांशानां क्रियारूपाणामपि मन्त्रोचार- णेन सहभाविनामयोग्यत्वान्न मन्त्रसाध्यत्वम् । नहि हस्ताञ्जलिकरणमुपस्थानेऽनुसंधानमः नुमन्त्रणेऽभिमुखीयाचनमभिमन्त्रणे हस्तेन स्पर्शनीममर्शने मन्त्रान्ते च क्रियते किंतु पूर्वमारब्धं सहमत्रोच्चारणेऽनुवर्तते तत्कयं मन्त्रसाध्यं स्यात् । मन्त्रैरप्रतिपाद्यत्वाच । नहि ताः क्रिया मन्त्रवर्णेषु दृश्यन्ते । तस्मान्मन्त्रप्रतिपाद्याशीःप्रतिपादनसाधनत्वेनैव तृतीयोपपद्यते । अर्थस्तुतिरवान्तरवाक्यार्थोऽयं स्तुत्वाऽऽशिषामाशासनं महावाक्याः । तदेव विधेयं मन्त्रप्रतिपाद्यत्वेन । स्तुतिस्तदङ्गमिति न तेन विरुध्यते तेन चात्र तेषां संस्कार्यत्वेन द्वितीयेति वाच्यम् । उपस्थाने तावद्वारवाद्यर्थानां द्वितीयानिर्दिष्टानामपि कर्मासमवेतत्वात् । भान्यादीनां कर्मसमवेतानामपि न संस्कार्यत्वं वैरूप्यापत्तेः । किंच तेभ्यः फलाशासनप्राप्तये तेषामर्थानामुपस्थानं स्तुतिरेव स्तुतिविषयत्वेन द्वितीया निर्दिष्टा । अपि च स्तुतिर्हि गुणकीर्तनं गुणिकर्तिनस्तोत्र शस्त्रवत् । उपस्थाने स्तुतित्वं स्पष्टमेव दृश्यते तेऽभिमस्तुवन्स एभ्यः स्तुतो रात्रियाः सोऽग्निमस्तौत्स एनः स्तुत इत्यादौ नाप्युपस्थानस्य स्तुतिरूपत्वेन स्तुतत्वात् । एतेष्वेवार्यवादेषु स्तुत्या फलप्राप्ति- मपि दर्शयति पशुनिराजत्ते देवाः पवित्वा कामा भकुर्वतेति । स एन५ स्तुतः सुवर्ग लोकमममयदिति । किंचाऽऽहिताग्ने राशीदग्निमुपतिष्ठत इत्यत्रापि चाऽऽशी:प- रमेवोपस्थानम् । तत्रार्थस्तुतिर नतु द्वितीयया गुणी प्रतिपाद्यभूतेन संस्कार्य तस्प्रतिपाद्यं च गुणाश्रयत्वेन नतु प्राधान्येन । एवमनुमन्त्रणादिष्वपि स्तुत्यत्वन द्वितीया नतु संस्कार्थत्वेनेप्सिततमत्वात् । किंवकथितं चेति विषयत्वेन ५०२ सस्याषाढविरचितं श्रौतसूत्र- [१ षष्ठप्रभे- माधनस्वमात्रमाह । किंवानुमन्त्रणे हुतं द्रव्यं द्वितीपानिर्दिष्टं स्तुतिस्तु सद्देवतानामा शीरथी दृश्यते तेभ्य एव फलशासनात्-भग्नेरहं देवयम्ययाऽऽनादो भूयास- मित्याहाग्नि देवानामन्नादस्तेनैवान्नाद्यमात्मन्धत्त इति ब्रह्मणे च । यद्यप्यन्नादौ द्रव्यस्य संस्कार्य[व]मपि संभाव्यते तथाऽपि न तन्मश्रप्रकाश्यत्वेनापि अपूर्वक्रिया- मंशभूतां प्रत्येव स्थानतु मन्त्रप्रतिपादनं प्रत्यपि । भाशीःपरत्वमतात् । तदभगेनैवा. र्थस्य संस्कार्यत्वोपपत्तेः । नतु प्राधान्येन । अत एव प्रवसतो यानमाने जपवदेवोप. स्थानादीनामपि स्वसंस्कारकर्मत्वेन तन्मन्त्राः स्वयमेव जपतीति वक्ष्यति । संस्कार्य यदि द्रव्यं स्यात्तदा परार्थानामध्वर्युकर्तृ[क]त्वेन प्रतिनिधिः स्यात् । न तान्यारा. दुपकारकाण्येवोपस्थानादीनि सन्ति न क्रियापराणि स्तुतिक्जपरूपाण्येव । ननु कथमत्र विशिष्टो जपो विधेय उपतिष्ठत इत्यादिषु अपत्वाप्रतीतेः । प्रतीतौ च न तृतीयानिर्दिष्टमन्प्रसंवन्धः स्यात् । उच्यते-उपान्मन्त्रकरण इति पाणिनिसूत्रेणोपति- ष्ठत इत्यात्मनेपदं विहितं मप्रसाध्यं करणं यस्य तत्कर्म मन्त्रकरणम् । उपपूर्वकस्ति- ष्ठतिः परिधानवाची मन्त्रोच्चारणं विधेयम् । अर्थप्रतिपादनं तु सामर्थ्यात् । अथवाऽर्थ. प्रतिपादनं विधेयमुच्चारणं तु सामर्थ्यादिति न्यायादन्यतरस्यैकस्य विधायकत्वे प्राप्ते नप एव सूत्रकारेण विधीयते । प्राथम्यात्पुरुषयत्नसाक्षात्साध्यत्वाच्च । प्रति. पादनं न साक्षात्पुरुषव्यापारेण शब्दव्यापारत्वात्सत्येवोच्चारणे साक्षात्पुरुषप्रयत्नसाध्ये विधिगोचरे सति पश्चात्प्रतिपादनपरम्परया पुरुषजन्यमर्थात् । अत एव सूत्रकृता संव- न्धार्थमेव मन्त्राणामुपदिश्यमानानां द्वितीयया निर्देशः कृतः । तत्र मन्त्रेणोपतिष्ठत इत्यत्र तृतीयाऽर्थप्राप्तप्रतिपादनसाधनतानुवादिकेति मत्वा मनामन्त्रस्य विषयत्वेन साधा. नत्वं विना याऽऽक्षिप्ता द्वितीयोपदेशे दर्शितोपरि(?) निति । भकथितं चेति सूत्रेणैव । विहिताऽपि । तथा चाप(?)उत्थायाञ्जलिपुटं कृत्वा मन्त्रं नपन्मन्त्रोऽङ्गवाचका(!) स्तुवन्नात्र प्रतिपादयेदिति । मन्त्रेणानुमन्त्रयत इत्यत्रापि द्रव्यमनुसंधाय मन्त्रं नपन्म. श्रेण द्रव्यदेवताः स्तुवन्नित्यादि समानम् । मन्त्रयतिधातुः स्वाभिप्रायाविष्करणप्रति- पादकवचने प्रसिद्ध उपसर्गभेदाद्विशिष्ट वर्तते । अभिमन्त्रयतेऽत्रापि अभिमुखो मृत्वा द्रव्यं पश्यन्मन्त्र जपन्मन्त्रेण द्रव्यमेव स्तुवन्नित्यादि समानम् । अभिमृशतीत्यत्रापि द्रव्यं स्पृशन्मन्त्रमुच्चारयन्मन्त्रार्थ मन्त्रेण स्तुवन्नित्यादि समानम् । सर्वत्र प्रत्यगाशीयो मुख्ययैव वृत्त्या यजमानस्य नपतेरुपतिष्ठत इत्यादीनां च जपवाचकत्वेऽपि शब्दान्तरे- रर्थभेदात्कर्मभेदो ज्ञेयः । यथा धात्वनुशासनसूत्रेषु यज दाने हु दाने डुदादान इत्यादिना समानार्थत्वविधानेऽपि रूढ्याऽर्थभेदादपर्यायत्वेन शब्दान्तरैः कर्मभेद एक- मत्रापि । तत्र यजत्यादिषु कृतमेव व्याख्यानं प्रथमे परिभाषापटले । तद्वतत्रैवोपतिष्ठत इत्यादीनामपीति युक्ततरं सूत्रम् । नपोऽपि श्रुत्यैवेति सर्वमतदातम् । चकार इति: करणस्य प्रत्येकसंबन्धार्थः। 1 १५०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५०३

यावदुक्तं कर्माणि करोति ।

यजमान एव । उपस्थानादिजपानामङ्गभूतानि कर्माण्यपि यावदुक्तमनतिक्रम्य करोति । प्रत्यगाशीमन्त्रैरुत्सर्गेण जपस्तैः कर्माणि यावद्विहितान्येव करोति यजमानो नतु यत्र यत्रापि । तथा प्रणीताप्रणयनादीनां याजमाने श्रुतत्वाधनमानककत्वे प्राप्ते पुनरपीतेन सूत्रं योज्यम् । अस्माभिर्यावत्कर्तव्यं यजमानस्योच्यते तावदेव तेन कार्य न यजमानकाण्डविहितं सर्वम् । अयमभिप्रायः-प्रणीताप्रणयनादिकमाध्वर्यवेऽपि विधीयते नचोमाम्यामेकं कर्म कर्तुं शक्यमतोऽध्वर्युणा कृते यजमानकृतमिव भवतीति न यानमानबाधोऽत्यन्तं भवति, यजमानेन कृते तु नाध्वर्युणा कृतमिति सर्वथाऽऽध्वर्य- चवाधः स्यात् । प्रणीतादिप्रणयने प्रणीतादिप्रकाशकमन्त्राणां जपेऽपि याजमानत्वोप- पत्तिः । आज्यावेक्षणादिसंस्काराणामुभयकर्तृ कत्वं विधानात्सिध्यतीति । ननु ताई यथा भारद्वाजेनोक्तं यत्र क चोपतिष्ठतेऽनुमन्त्रयत इति चोदयेयजमान एव तत्कुर्या. दिति यथोक्तमेवं वक्तव्यं अपतीत्यध्याहारेण किमर्थमुक्तमिति चेत् । उच्यते-एवमु. च्यमाने करणमन्त्रतैव स्यात् । अस्तु का हानिरिति चेत् । न । आध्वयंवमेव तदा स्यात् । ननु वचनाद्याजमानं भवेत् । न । तस्य न्यायमूलत्वाच्यायासंभवे याज. मानं न स्यात्। न्यायश्च फलमात्राशासनपरत्वे हि फळापूर्वाधानसामर्थ्य जपापूर्वेण यज. माने भवति दीक्षणीये वा यदि करणमन्त्रः स्यात्तदा न तथा । ततस्तु स्यादाविज्यमपि। किंच प्रवसति यजमानेऽध्वयोरेव स्यात्परार्येषु तस्य प्रतिनिधित्वाङ्गीकारात् । स्वसं. स्कारवे प्रतिनिधिरिति याजमानमेव । तत्रामात्रलोपेऽनाज्ञातजपादिविष्णुस्मर- मादिना समाधिर्भवेत् । प्रधानं च जपस्तु प्रवसताऽपि कार्यः । उपस्थानादौ तु मानसी क्रियाऽङ्गं सा यजमानेनैव कर्तुं शक्येति युक्तमुत्पश्यामः । जपत्वेन विधाने चाध्ययनस्वरधर्मताऽपि साध्यते । तथाच पाणिनिनैकश्रुतिरात्संबुद्धौ पज्ञकर्मण्यजप- न्यूज सामस्वितिस्मरणात् । सूत्रकारेण तु न्यायादेव साधितमध्ययनस्वरधर्मत्वम् । कथम् । भधीतिपठत्योरिव नपतेरुच्चारणप्राधान्यात् । यादशमध्ययन उचारणं ताहगेव जपति. नाऽमिहितम् । करणमत्रत्वे तु यावताऽर्थस्मृति यते तावानेव करणत्वेनापेक्षितो तु विहित एकश्रुत्या पार्थप्रत्यायनान्नान स्वराः । यद्यपि बहुजोहो प्रकृत्या पूर्वपदमि. त्यादिषु स्वरस्याप्यर्थज्ञानेऽनतोक्ता साऽपि पाठावसरेऽनिर्णयार्थमुपायोऽपि नाङ्गम. तस्तत्रैव निश्चितार्थेन मन्त्रेण क्रिया साध्या । अत एवोक्तं यज्ञकर्मणोति । शस्त्रेषु करणमत्रत्वाभावेऽप्यकश्रुत्यं वचनात् । शंसतीति विधेर्देवतागुणप्रकाश- कत्वमात्रेण पर्यवसानम् । उक्तं चाकरणमत्रत्वम् । अपि वा स्तौतिशंसती १.८, 'वमेव । ५०४ सत्यापाठविरचितं श्रौतसूत्र- [१ षष्ठप्रग्ने न प्रधानकर्मणो स्यातामिति प्रधानकर्मता प्रकाशनमात्रप्राधान्यानोच्चारणप्राधान्यात् । शास्त्रेषचारणमङ्गमेव करणमत्रेष्विव । स्तोत्रेषु साम्ना स्तुवीतेति गौतिषु सामा. रुपेति नैमिनिनोक्तत्वादानं च स्वरमाध्यमेवेति. साम्ना गीत्या संस्कृताभिमग्नि- देवतागुणान्प्रकाशयेदिति स्तोतेः पर्यवसानात्करणमन्त्रेषु मन्त्रसाध्यक्रियया स्तोत्रश- नयोरर्थप्रकाशनेन जसे तूच्चारणेनापूर्वोत्पत्तिरिति विधिसामर्थन प्रकृतिश्रुत्याऽनुगृही- तेनावगम्यत इति चतुरश्रम् । सपनोपस्थानादिषु जपत्वे सत्यपि चासाधारण्येन व्यपदेशा भवन्तीति न्यायानागृहीतविशेषेण विशेष्ये बुद्धिरिति चोपसर्गविशिष्ठ(तु. भिर्विशिष्टमेव वाच्यमिति विशिष्टानामेव व्यपदेश उपस्थानमनुमन्त्रणमामिमन्त्रणमभि- मर्शनमिति केवले पूर्वोत्पादके मन्त्रोचारणे तु जप इति व्यपदेशो धारणार्थेऽध्ययन- मिति दयविलक्षणे च मन्त्रपाठ इत्युच्चारणप्रधानता तु सर्वत्र न व्यभिचरतीति युक्ततरं सूत्रमिति ।

यावदुक्तं पत्न्याः कर्माणि ब्रह्मचर्यं जपाश्च ।

दंपत्योरविशेषेण प्राप्तानि यजमानकर्माणि पत्न्या नियम्यन्ते । कुतः । यदि पानमानं कर्म सर्व तस्या अपि स्यात्तदा पत्न्यवेक्षन इत्यनर्थकं स्यादतो ज्ञायते यावदुक्तमेव तया कार्यम् । अत्र यावदुक्कमेव कर्माणीति नियमो नतु यावदुक्तं कर्माण्येवेति न ब्रह्मचर्यजपपरिसंख्येति वक्तुमुक्तं ब्रह्मचर्य जपाश्चेति । ब्रह्मचर्य तयन- 1 मानस्य ब्रह्मचर्येणार्थात्तस्या अपि सिद्धमेव तथाऽपि मनोविकारमपि निरुध्या(न्ध्या)- दिति वक्तं पुनर्वचनम् । पत्नीप्रत्यगाशिषां मन्त्राणां याजमाने च न विनियोग इति तेषां लिङ्गेन नपार्थोऽयमारम्भः । जपशब्देनोपस्थानादिकमपि स्वस्याः प्रत्यगाशिषां नियम्यते ।

दर्शपूर्णमासयोर्याजमानं व्याख्यास्यामः ।

दर्शपूर्णमासादय एव हविर्यज्ञा उकास्तेष्वेव यानमान व्याचिख्यासितम् । तथाऽपि पूर्वतनं याजमानं सर्वकर्मसाधारणमिति वक्तुं दर्शपूर्णमासयोरित्त्युक्तम् । पूर्वतनं प्रसङ्गेन सर्वामित्यर्थः । दर्शपूर्णमासयोाख्यास्याम इत्येतावता सिद्धे यानमान. ग्रहणं दर्शपूर्णमासशब्देन कालग्रहणं मा भूदिति । तेन वपन विधीयमानं न काल- मात्रे विधीयतेऽपि तु यजमानस्य संकल्पस्य सर्वाङ्गपूर्वभावित्वेनाभिधानायष्ट प्रवृत्तस्यैव तदङ्गतया कार्य नतु दैवात्कमशक्तेन दर्शपूर्णमासौ विच्छिन्नौ(!) नष्टाग्नि- नाऽपि या कार्यम् । उत्तरसूत्रे यनमानग्रहणं पत्न्या व्युदासार्थम् ।

पर्वणि यजमानः केशश्मश्रूणि वापयते ।

प्रथम एव पर्वणि यथा स्यादित्येवमथं पुनः पर्वणीति चैकवचनं च प्रथमपर्वसं- स्कृत उमयत्राधिकारीत्युभयप्रयोगसाध्यत्वादपूर्वस्य । अत एव वैखानसः-पूर्वस्मिन्वणि ५०५ FA १५०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । पौर्णमासेन यक्ष्य इत्युक्त्वा केशश्मश्रूणि वापयित्वोपवासति । दर्शेन यक्ष्य इत्युक्त्वो- पवसतीति । संकल्पानन्तरं पौर्णमास्यामेव वपनमिष्टं तदङ्गस्वेन । केचित्तु पावत्पर्यन्तं* प्रयोगसमाप्तिस्तावद्वपनस्य काल इति ज्ञापयितुं पर्वग्रहणमित्याहुः । केशाञ्छिरोगता- न्मुखगतानि श्मभूणि नापितेन वापयते । अत्र केशशब्दप्राथम्यमजन्तस्वेन नतु कमार्थम् । क्रमस्तु श्मश्रूण्यग्ने वापयतेऽथोपपक्षावथ केशानथ नखानि सव्यस्य हस्तस्य कनिष्ठादि ततो दक्षस्यैवं पादयोः ।

पौर्णमास्यां प्रातराशे जायापती सर्पिर्मिश्रमश्नीतः ।

पूर्वसूत्रे व्युदस्ता पत्नी पुनर्गृहोता । प्रातराशः प्रातर्भोसनं, प्रथममोजमे रूटोऽयं शब्दः प्रातराश इति नतु प्रातरेवेति । तेनाध्वर्यवे य उदित आदित्ये गार्हपत्यादाह. पनीयमित्यादिनोक्तोऽन्वाधानस्य प्रातःकालो न बाधितः प्रातरवाधानस्येष्टत्वात् । कालस्त्वनियतः । सत्यां सुधि भोजननियमः । तत्र सपिमिश्रता कर्माङ्गत्वेन नियम्यते, भोजन चेच्छात एव, तनासत्यां क्षुधि कालबाधेऽपि सर्पिमिश्रत्वं न बाध्यते वचनादु. भयोरपि नियमः । तच्छिकेऽदनीये प्राप्त परिसंचष्टे--

यदन्यन्मांसान्माषेभ्यश्च ।

उमयोः परिसंख्यानादनिषिद्धं भोक्तव्यम् ।

न सुहितौ स्याताम् ।

मातितृप्तौ भवतः।

प्राग्वत्सापाकरणादमावास्यायां कामं सुहितौ स्याताम् ।

पूर्णमासे भोजनकालानियमोऽत्र नियमः । पक्षान्तं कर्म निवर्य वैश्वदेवं तु साग्निकः ।। तु पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः ॥ इति । क्रमेण ततो भोजनं वत्सापाकरणं व्रतं च । अत्रापि सपिमिश्रताऽनुवर्तते यद. म्यदिति छ । अत्र पिण्डपितृयज्ञमासिककर्तुरपराहे भोजनानन्तरं वत्सापाकरणं कात्यायनोक्तम् । अत्रापि पूर्ववदेव । सर्पिषोऽमावे दध्रा पयसा वेत्यापस्तम्ब- वैखानसी।

अग्निं गृह्णामि सुरथमित्यन्वाधीयमानेषु जपति ।

यथालिङ्ग देवतारूपेप्वग्निविात शेषः । अहिर्बुनियो नियच्छवित्यन्तान्यथालि. समन्वाधाने विहितांस्तथैव नपति तीन प्रविश्यानेणाऽऽहवनीयं गतः स्वायतन उपविष्टः। .

  • अत्र पर्यन्तशब्दोऽधिकः। ५०६

सत्याषाढविरचितं श्रौतसूत्र- [६ षष्ठप्रश्वे--

इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञं प्रब्रवीमीदमहमिन्द्रज्येष्ठेभ्यो रुद्रेभ्यो यज्ञं प्रब्रवीमीदिमहं वरुणज्येष्ठेभ्य आदित्येभ्यो यज्ञं प्रब्रवीमीत्यन्वाहितेषु ।

जपतीत्यनुषङ्गः ।

बर्हिषा पूर्णमासे व्रतमुपैति वत्सैरमावास्यायाम् ।

बर्हिषा तदाहरणेन सह वत्सापाकरणेन सहेति ज्ञेयम् ।

अशनमग्न्यन्वाधानं व्रतोपायनमित्येवमनुपूर्वाण्येके समामनन्ति ।

पौर्णमास्यामनियतकालं प्राप्त भोजनम् । तत्रेदमुच्यते सत्यां क्षुधि काळे भोननं ततोऽन्वाधानं न प्रातरेव । ततो व्रतं व्यवधानेनैव बहिषा पूर्णमासे व्रतमुपैतीत्युक्तम् । तस्य विकल्पनमन्यन्वाधानमनन्तरमेव व्रतोपायनमेकेषामित्यर्थः । ततस्तु श्वोभूने बहि- राहरणपक्षेऽयमेव क्रमः।

अग्न्यन्वाधानमशनं व्रतोपायनमित्येके ।

अनुपूर्वाण्येवेत्यर्थः । असंनयतोऽप्येवमेव ।

प्रणीतासु प्रणीयमानास्वासन्नेषु हविःषु चैतौ साधारणौ कालौ ।

पर्वतयेऽप्येतयोः कालयोबतोपायनं विकल्पत इत्यर्थः । अब साधारणमात्पू- योः पक्षयोर्व्यवस्थितो विकल्पः क्रमेण पर्वद्वय इति गम्यते । व्रतोपायनमेव दर्शयति-

विद्युदसीत्यप उपस्पृश्य ।

अत्राग्निहोत्रोकेन मयि श्रद्धेत्यन्तेन ।

अपरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य पयस्वतीरोषधय इत्यप आचामति ।

सरसमेत्यन्तः । आचामति प्राश्नाति । ततो बहिःशुद्धयर्थमाचमनम् ।

देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु त्रिरेकादशा इह माऽवत । इदꣳ शकेयं यदिदं करोम्यात्मा करोत्यात्मन इदं करिष्ये भेषजमिदं मे विश्वभेषजा । अश्विना प्रावतं युवमिति देवता उपतिष्ठते ।

प्रयस्त्रिंशदेवता उपतिष्ठते दक्षिणातिकान्त एव । 0 १५ पटलः ] महादेवकृतवैजयन्तीब्याख्यासमेतम् । ५०७

समुद्रं मनसा ध्यायन्सम्राडसि व्रतपा असि, व्रतानां व्रतपतिरसि व्रतमारभे तत्ते प्रब्रवीमि तच्छकेयं तेन शकेयं तेन राध्यासमित्यादित्यमुपतिष्ठते ।

समुद्रध्यानं कुर्यादित्येव । तदुक्तं सूत्रान्तरे व्रतमुवैष्यन्समुद्रं मनसा ध्यायतीति सम्राउसि वित्यमुपतिष्ठते ।

अग्ने व्रतपते व्रतं चरिष्यामीति ब्राह्मणोऽग्निमुपतिष्ठते ।

सध्यत्तमित्यन्तः।

वायो व्रतपत इति वायुमादित्य व्रतपत इत्यादित्यं व्रतानां व्रतपत इति व्रतपतिम् ।

अग्नि देवानां व्रतपतिरिति श्रुतेरग्निमुपतिष्ठते । व्रतं परिष्यामीतिः त्रिष्वप्यनुषकः ।

एते साधारणा ऋतेऽग्नेः ।

अमेरुपस्थानमन्त्रं विनाऽन्ये मन्त्राः क्षत्रियवैश्ययोब्राह्मणस्यापीत्यर्थः । यद्यस्तमितः स्यादाहवनीयमेवाऽऽदित्योपस्थानेनोपतिष्ठते । विकृत्यनुष्ठानेन दैवान्मानुषाद्वा ब्रतोपायनं सूर्यास्तमये स्यात्तदाऽऽदित्योपस्थान (न)मन्त्रेणाऽऽहवनीयमेवोपतिष्ठेत तत्राऽऽदित्यस्य प्रविष्टत्वात् ।

पर्वणि यजमानः स्वयमग्निहोत्रं जुहोति ।। १ ।।

स्वयमेवेति यजमानः प्रारब्धप्रयोग एव पर्वणि अधिकृताधिकारोऽयं पर्वणीति घुनर्वचनात्सायं प्रातश्च नियमः। पर्वणीति ग्रहणमग्निहोत्रस्य प्राप्तस्यैव पर्वणि नियमार्ष नतु दर्शपूर्णमासाङ्गतया याजमान विधीयत इति दर्शयितुम् ।

यवाग्वाऽमावास्यायाꣳ संनयन् ।

स्वयं यजमान इत्यनुवर्तते । द्रव्यं वैकल्पिक नियम्यते यवाग्वैवेति । संनयन्नित्येक वक्तव्येऽमावास्याग्रहणं प्रतिपदि संज्ञातः प्रातर्मा भूत्तत्र नित्येनैव द्रव्येण भरद्वाज आहास्याममावास्यायां रात्रि कुमारा न पयः पिबन्ति यवाग्वाऽस्यैतां रात्रिमग्निहोत्रं हुत्वेति । अत्र कुमाराणां पयःप्रतिषेधः सानाय्ये सर्वगवां दोहरिधिनिमित्तः । अतः संनयत एव रात्रावमावास्यायां रात्रि कुमारा न पयः पिबन्ति यवः ग्वाऽस्यता होमः । तत्रापि पर्वणि स्वयमेवातस्तु यवागूहोमो नासंनयतः । तदाह कात्यायनः-यवाग्वाऽ- ग्निहोत्रहोमः संनयतस्तां रात्रिमिति । ननु पौर्णमास्यां संनयतो यवाम्बा न रात्रौ होमः स्यादिति चेन्न । गवां सांनाय्यार्थदोहाद्यत्र यवानाऽग्निहोत्रमिति नियमः । नच प्रात- रपि स्यादिति । रात्रि न पयः पिबन्तीति प्रातरग्निहोत्री विनाऽन्यातां दीहः । १च. ट. यां यवाग्वा हो'। ३, ४. छ, 'यमित्येवा। - सस्याषाढविरचितं श्रौतसूत्र- [१ षष्ठप्रश्ने-

तस्या उच्छेणमातञ्चनार्थं निदधाति ।

तस्या यवाग्वा ययाऽमिहोत्रं यस्याश्चतुरुन्नयनेनाग्निहोत्रं हुतं तस्या उच्छेषणमग्नि- होत्रहवणीगतं भक्षणलोपेनाऽऽतञ्चनार्थमिति प्रयोजनकथनेनेदमुक्तं नोच्छेषणप्रतिपत्ति- रियं तेनोच्छेषणनाशे प्रतिनिधिनाऽऽतञ्चनमित्युक्तमेव । नचाऽऽनश्चनार्थ यवाग्वा होमः पुनर्युक्त आतञ्चनार्थं जुहुयादित्यविधानात् । स च स्वविधिप्राप्त एव संनयति यजमा. नेऽमावास्यायां यवाग्वा नियम्यतेऽत एव तस्या उच्छेषणमनुनिष्पन्नमेवाऽऽतश्चनार्थमि- त्युक्तम् । तेन यदुक्तं बौधायनेनोच्छेषणार्थ पुनम इति तत्प्रत्युक्तं न्यायशास्त्र. विरोधात् ।

नानृतं वदति न माꣳसमश्नाति न स्त्रियमुपैति नैताꣳ रात्रिमश्नाति ।

भनृतक्दनस्य प्रतिषेधे सत्येवानवाहिताग्नेः पुनर्वचनं कर्माङ्गत्वख्यापनार्थम् । तेन प्रमादादनृतवदने तदैव प्रायश्चित्तं कृत्वाऽग्रिमं कर्म कर्तव्यमिति दर्शितम् । न मांसमि- त्यपि भोजनव्यतिरेकेणापि प्रतिषिध्यते पूर्वे तु प्रातराशे व्यञ्जनत्वेन प्राप्तस्य प्रतिषेधः । अयं तु पुनरन्योऽपि प्राप्तस्य फलादेरिव । अथवा मासिकादिकर्तुः श्राद्धानसशेष- भक्षणं प्राप्तं तत्रापि मांसव्यतिरिक्तमेव शेष भक्षयेदिति निषेधसिद्धिः।

आरण्यस्य सायमश्नाति ।

सायं ययभाति तदाऽऽरण्यस्याश्नाति । ग्राम्यपरिसंख्यार्थमिदम् । क्रमप्राप्तेऽपि सायंमोनने सायंग्रहणं द्वितीयभोजनस्योपलक्षणार्थ तेनैते प्रयो विकल्पा आरण्याशन- मम्पशनमनशनं चेति द्वितीयभोजन एव । दैवात्प्रातराशे सायमुत्कृष्टेऽपि नैते विकल्पा भवन्ति किंतु प्रातराशः पूर्ववदेव भवतीति प्रयोजनम् ।

आमार्गादा मधुन आप्राशातिकादित्येकेषाम् ।

मृगमांसं मधु वर्जयित्वाऽन्यदारण्यस्यानाति । आवधौ । एकेषां प्राशातिक च धर्मयित्वाऽन्यदारण्यकम् । प्राशातिक धान्यमपामार्गबीनसशमिति भाष्यकारमतिः । कोशीधान्यमित्यन्ये ।

आरण्यायोपवसन्नपोऽश्नीयान्न वा किंचन ।

आरण्यायाऽऽरण्यमुपवसन्वर्ज [यन्नपस्ता अपि नाभीयादिति तृतीयः पक्षः ।

उभावग्नी उपस्तृणते देवता उपवसन्तु मे । अहं ग्राम्यानुपवसापि मह्यं गोपतये पशूनिति परिस्तीर्यमाणेषु जपति ।

परिस्तीर्यमाणेप्वग्निषु सकृन्मन्त्रः । उपस्तीर्यः पूर्वश्चेति ब्राह्मणे द्वयोर्ग्रहणं क्रमा प्राधान्यात् । नेता रात्रिमन्नातीति पाठः केवळसूत्रपुस्तकेम्वेव । A १५०पटलः ] महादेवकृतबैजयन्तीव्याख्यासमेतम् । ५०९

आहवनीयागारे गार्हपत्यागारे वा संविशति ।

भगारमपवरकस्तत्र विश्नामति शेत इत्यर्थः ।

अमावास्यायां रात्रिं जागर्ति ।

स्पष्टम्।

अपि वा यथा शक्नुयात्तथा कुर्यात् ।

सष्टम् ।

उपरि त्वेव न शयीत ।

उपरि खट्टादौ ।

कामं वोपरि शयीत ।

अत्रापि पूर्वेण विकल्पः।

व्रतचारी त्वेव स्यात् ।

तस्पतहतं नानृतं वदेन माश्समभीयान स्त्रियमुपेयादिति बतानि चरेत् ।

श्वोभूते ।

गतम् ।

भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमहे इति ब्रह्मिष्ठं ब्रह्माणं वृत्वा ।

उत्कर इति सूत्रान्तरे । ब्रह्म वेदस्तन्निष्ठं तदध्यापनार्यविचारपरं च ।

अपरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्यापरेण ब्रह्मसदनमुपविशति ।

स्वसदने । गतार्थम् । आहवनीयाभिमुख इति भरद्वानादयः । अत्राऽऽसीन एष कर्माणि करोति ।

आसꣳस्थानादन्वास्ते ।

विहारान्न गच्छतीत्यर्थः । संस्थानपपर्यन्तम् । आपस्तम्बादिमिरित ऊर्ममयमेव संचर इति लौकिके संचारेऽग्रेणाऽऽहवनीयम् ।

यजमान वाचं यच्छेत्युच्यमाने बाचं यच्छत्या हविष्कृतः ।

विष्फलीप्रैषे वाचं विसनते । व्याख्यातमेतदाध्वर्यवे ।

भूश्च कश्च वाक्चर्क्च गौश्च बट्च खं च धूश्च नूश्च पूश्चैकाक्षराः पूर्दशमा विराजो या इदं विश्वं भुवनं व्यानशुस्ता नो देवीस्तरसा संविदानाः स्वस्ति यज्ञं नयत प्रजानतीरिति प्रणीताः [१ छपने- ५१० सत्याषाढविरचितं श्रौतसूत्र-

प्रणीयमाना अनुमन्त्रयते ब्रह्मपूताः स्थ को वो युनक्ति स वो युनक्त्वति साद्यमानाः ।

स्वयम् ।

कस्त्वा युनक्ति स त्वा युनक्त्विति यज्ञं युनक्ति ।

एतव्याचष्टे-

सर्वमनुवीक्षते ।

सर्व विहारमित्यापस्तम्बादयः ।

यजमान हविर्निर्वप्स्यामीत्युच्यमान ॐ निर्वपेति प्रत्याहाग्निꣳ होतारमिह तꣳ हुव इति हविर्निरुप्यमाणमनुमन्त्रयते निरुप्तं निर्वपणार्थं वा पात्रम् ।। २ ।।

इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठे प्रश्ने प्रथमः पटलः ।। १ ।।

निरुप्यमाणमेकैकमन्यत्सकृत् । अत्र प्रणवस्त्रिमात्रः । ओमम्यादान इति पाणि- निना लुतविधानात् । इति हिरण्यकेशिसूत्रव्याख्यायो महादेवकृतायां प्रयोगवैजयन्यां षष्ठे याजमानमश्ने प्रथमः पटलः ॥१॥


6.2 अथ षष्ठे प्रश्ने द्वितीयः पटलः ।

इदं तस्मै हर्म्यं करो्मि यो वो देवाश्चरति ब्रह्मचर्यम् । मेधावी दिक्षु मनसा तपस्व्यन्तर्दूतश्चरति मानुषीष्विति वेदिदेशमभिमृशति ।

वेदिस्थलं हस्तेन स्पृशञ्जपति । एवं यत्राभिमुशतीति तत्र सर्वत्र ज्ञेयम् । इत ऊवं द्वितीयया कर्मनिदेशेऽमिमन्त्रयत इत्यनुकर्षणीयं व्यवहितमपि । कुतः । योग्य. स्वात् । इदं तस्मा इति प्रत्यक्षेण पुरोऽवस्थितं निर्दिशत्यत्रैवाभिमृशतीत्युक्तं चतुःशि- खण्डेत्यादौ न तथा निर्देशोऽस्ति तस्मान्नामिमृशतीत्यध्याहारः । भरद्वाजादय एषु विनियोगमभिमन्नयत इत्येव पठन्ति । अनुमन्त्रयत इति तु प्रायेणाग्नौ प्रक्षिप्त एव प्रयु- ज्यते तस्मात्प्रकृतमभिमन्त्रयत इत्येवानुषञ्जनीयम् । परिस्तोर्यमाणेष्वित्यत्र नानुषञ्जनी- यम् । सप्तम्या निर्दिष्टे तु जपतीत्येव । १.स. ग. च.ट. उ. . मनिमः। 1 २द्वि पटलः] महादेवकृतवैजयन्तीव्याख्यासमेसम् ।

चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय मह्यं धुक्ष्व यजमानाय का मान्। वेदेन वेदिं बृहतीमविन्दन्सा पृथिव्यां प्रयतां पार्थि- वानि ।तस्यां बर्हिः प्रथताꣳ साध्वन्तरहिꣳस्रा णः पृथिवी देव्यस्तु । वेदेन वेदिमिति वेदेन वेदिꣳ संमृज्यमानाम् ।

अभिमन्त्रयते । वेदेनेति पठितो मन्त्र आध्वर्यवे ।

यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः । यः श्रुतेन हृदयेनेष्णता च तस्येन्द्रवज्रेण शिरच्छिनद्मीति स्तम्बयजुर्ह्रियमाणम् ।

भमिमन्त्रयते।

यदुद्धन्तो जिहिꣳसिम पृथिवीमोधधीरपः । अध्वर्यवस्फ्यकृतस्फ्येनान्तरिक्षं मोरुपाव तस्मात् । यदुद्धन्तो जिहिꣳसिम जीवमस्या वेदिं चकृमा मनसा देवयन्तः । मा तेन हेड उपगाम भूम्याः शिवा नो विश्वैर्भुवनेभिरस्त्विति स्फ्येनोत्तमां त्वचमुद्धन्यमानाम् ।

अमिमन्यते ।

बृहस्पते परिगृहाण वेदिमिति परिग्राहयोः ।

जपति । ब्रह्मत्वं पठितो देव्यस्त्वित्यन्त एवं योग्यत्वात् ।

भूमिर्भ्रूत्वा महिमानं पुपोष ततो देवी वर्धयते पयाꣳसि । यज्ञिया यज्ञं वि च यन्ति शं चौषधीराप इह शक्वरीश्चेति कृताम् ।

अमिमाश्रयते । कृतां वेदिम् ।

ईडेऽन्यक्रतूरहमपो देवीरुपब्रुवे दिवा नक्तं च सस्रुषीरपस्वरीरिति प्रोक्षणीरासाद्यमानाः ।

अमिमन्त्रयते ।

आज्यमसीत्याज्यमवेक्षते यथाऽध्वर्युरद्भिराज्यमाज्येनापः सम्यक्पुनीत सवितुः पवित्रैः । ता देवीः शक्वरीः शाक्वरेणेमं यज्ञमवत संविदाना इत्याज्यमपश्चोत्पूयमानाः ।

सकदेव । अध्वर्योरन्यमन्त्रास्त्रय आदितोऽधिका विहिताः । ततस्तूमयोः समाना एवातो याजमाने पश्चानामित्यावर्तते । अन्यथाऽन्तिमावृत्तौ विसंवादमुभयोः स्यात् । विशेषु चतुर्थस्य काम्ये सप्तदश कामयित्वेति ज्ञेयम् । ५१२ सत्यापाढविरचितं श्रौतसूर्य- [ षष्ठप्रश्न

पञ्चानां त्वा वातानामित्येतैराज्यानि गृह्यमाणान्यशिश्रेम बर्हिरन्तः पृथिव्याꣳ सꣳरोहयन्त ओषधीर्विवृक्णा: । यासां मूलमुदवधी: स्फ्येन शिवा नस्ताः सुहवा भवन्त्वित्यन्तर्वेदि बर्हिरासाद्यमानम् ॥ ३॥ सुमनसो यजमानाय सन्त्वोषधीराप इह शक्वरीश्च । वृष्टिद्यावापर्जन्य एना विरोहयतु हिरण्यवर्णाः शतवल्शा अदब्धा इति बर्हिः प्रोक्ष्यमाणमूर्णा मृदु प्रथमानꣳ स्योनं देवेभ्यो जुष्टꣳ सदनाय बर्हिः । सुवर्गे लोके यजमानꣳ हि धेहि मां नाकस्य पृष्ठे परमे व्योमन्निति बर्हिः स्तीर्यमाणम् ।

प्रतिधातु मन्त्रावृत्तिः ।

चतुःशिखण्डा युवति: सुपेशा घृतप्रतीका वयुनानि वस्ते । सा स्तीर्यमाणा महते सौभगाय सा मे धुक्ष्व यजमानाय कामानिति बर्हिषा वेदिꣳ स्तीर्यमाणाम् ।

बेदि मध्यमेन धातुना ।

शिवा च मे शग्मा चैधि स्योना च मे सुषदा चैध्यूर्जस्वती च मे पयस्वती चैघि सूपचरणा च मे स्वधिचरणा चैधीषमूर्जं मे पिन्वस्व ब्रह्मतेजो मे पिन्वस्व क्षत्त्रमोजो मे पिन्वस्व विशं पुष्टिं मे पिन्वस्वाऽऽयुरन्नाद्यं मे पिन्वस्व प्रजां पशून्मे पिन्वस्वेति स्तीर्णाम् ।

अमिमन्त्रयते । वेदि पूर्वेष्वनुषः । परेवमिमन्त्रयत इत्येव ।

अस्मिन्यज्ञ उपभूय इन्नु मे विक्षोभाय परिधीन्दधामि । धर्ता धरुणो धरीयानग्निर्द्वेषाꣳरसि निरितो नु दाता इति परिधीन्परिधीयमानात् ।

परिधीन्दधामीति बहुवचनेन संसृष्टद्रव्यत्वाच सकृदेव सर्वानुमत्रणम् । तथैवोक मरवानेन सर्वानिति । वैखानसेनाऽऽवृत्तिरुक्ता यं(?)न्यायेन । अतः सूत्रकृता प्रथमत एव विनियोगमभिधाय ततो ध्रुवोऽसीत्युक्तं, तस्मात्प्रत्येकमावृत्तिवचनमित- रापेक्ष प्रत्येकमेव परिधीयमानत्वात् ।

ध्रुवोऽसि ध्रुवोऽहꣳ सजातेषु भूयासमिति च ।

प्रतिमनमेकैकम् । तथैवोक्तमापस्तम्बमरद्वानाम्याम् ।

युनज्मि त्वां यन्मे अग्न इति द्वाभ्यामग्निं परिधीयमानम् ।

तृतीयपरिधेः पूर्वमेव सूर्यस्त्वेत्यनेनापि परिधानस्यैव करिष्यमाणत्वात्तस्माद्वा पूर्व युकम् । . क, ग. च.ट, क. ण, त्वा ब्रह्मणाय । रवि० पटल] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

तेजिष्ठा ते तपना या च रोचना प्रत्योषन्तीस्तनुवो यास्ते अग्ने ताभिर्वर्माण्यभितो व्ययस्व मा त्वा दभन्यातुधानाः पिशाचा इति परिधितम् ।

परिहितमिति का पाठः । परिहितं व्याकरणसिद्धम् । परिधित छान्दसम् ।

विच्छिनद्मि विधृतीभ्याꣳ सपत्नान्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । विशो यन्त्राभ्यां विधमाम्येनानहꣳ स्वानामुत्तमोऽसानि देवाः । विशो यन्त्रे नुदमाने अरातिं विश्वं पाप्मानममतिं दुर्मरायुम् । सीदन्ती देवी सुकृतस्य लोके धृती स्थो विधृती स्वधृती प्राणान्मयि धारयतं प्रजां मयि धारयतं पशून्मयि धारयतमिति विधृती साद्यमाने ॥ ४ ॥ अयं प्रस्तर उभयस्य धर्त्ता धर्त्ता प्रयाजानामुतानूयाजानाम् । स दाधार समिधो विश्वरूपास्तस्मिन्स्रुचो अध्यासादयामीति विधृत्योः प्रस्तरꣳ साद्यमानम् ।

इस ऊर्ध्व स्थालीमित्यन्तं साबमानां सायमानमिति यथायोगं क्षेयम् ।

आरोह पथो जुहु देवयानान्यत्रर्षयः प्रथमजा ये पुराणाः । हिरण्यपक्षाजिरासंभृताङ्गो वहासि मा सुकृतां यत्र लोकाः । जुहूरसि घृताची गायत्रियाम्नी कविभिर्जुषाणा । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युपदेवानाग्नेयेन शर्मणा दैव्येनेति जुहूमवाहं बाध उपभृता सपत्नाञ्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । दोहै यज्ञꣳ सुदुघामिव धेनुमहमुत्तरो भूयासमधरे मत्सपत्नाः । सुभृदस्युपभृद्घृताची त्रैष्टुभेन छन्दसा विश्ववेदः । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युपदेवा नैन्द्रेण शर्मणा दैव्येनेत्युपभृतं यो मा वाचा मनसा दुर्मरायुर्हृदारातीयादभिदासदग्ने । इदमस्य चित्तमधरं ध्रुवाया अहमुत्तरो भूयासमधरे मत्सपत्नाः । ध्रुवाऽसि धरणी धनस्य पूर्णा जागतेन छन्दसा विश्ववेदः। अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युपदेवान्वैश्वदेवेन शर्मणा दैव्येनेति ध्रुवाꣳ स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिः सुवर्गे लोके दिवि सीद पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्नाः । अयꣳ स्रुवो अभिजिहर्ति होमान्छतक्षरं छन्दसाऽऽनुष्टुभेन । सर्वा यज्ञस्य समनक्तु विष्ठा बार्हस्पत्येन शर्मणा दैव्येनेति स्रुवमियꣳ [१ षष्ठप्रश्नै- - + ५१४ सत्यापादविरचितं श्रौतसूत्र-

स्थाली घृतस्य पूर्णा छिन्नपयाः शतधार उत्सः। मारुतेन शर्मणा दैव्येनेत्याज्यस्थालीम् ॥५॥ यज्ञोऽसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयताꣳ शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीरित्याग्नेयं प्रजापतिरसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयताꣳ शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीरित्यग्नीषोमीयं यो नः कनीय इह कामयाता अस्मिन्यज्ञे यजमानाय मह्यम् । अप तमिन्द्राग्नी भुवनां नुदे तामहं प्रजां वीरवतीं विदेयेत्यैन्द्राग्नम् ।

भासन्नमिति त्रिषु ज्ञेयम् । सानाय्य आसाद्यमान इति विशेषस्य वक्ष्यमाणत्वात् ।

यस्त आत्मा पशुषु प्रविष्ट इति सांनाय्य आसाद्यमाने ।

जपति ।

इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवोऽचिकित्सन् । तेन देवा अवतोपमामिहेषमूर्जं यशः सह ओजः सनेयꣳ शृतं मयि श्रयतामिति शृतं यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधि नोन्महेन्द्रं दधि मां धिनोत्विति दधि ।

एतदन्तमभिमन्त्रयते।

अयं यज्ञः समसदद्धविष्मानृचा साम्ना यजुषा देवताभिः । तेन लोकान्सूर्यवतो जयेमेन्द्रस्य सख्यममृतत्वमश्यामिति सꣳसन्नान्यभिमृशति ॥ ६ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठप्रश्ने द्वितीयः पटलः ॥२॥

सश्सन्नानीति बहुवचनेन सर्वाणि गृह्यन्ते । तथैवोक्तमापस्तम्बभरद्वाजाम्यामपि सर्वाणि हवीसीति । प्रधानाङ्गानि गृह्यन्ते । ससन्नानीति समुपसर्गस्य ग्रहणं श्रुत्य. नुविधानेन । नतु संसादयतीति विधिना कानिचित्सादितानि सन्ति किंतु सादयत्या- सादयतीति । अथवा समुदायापन्नानि सन्ति सन्नानीति सामान्यमुभयेष्वप्यस्तीति युक्तम् । तथाचाऽऽज्यसमुदाय एक इतरसमुदाय एक इति प्रत्येक मन्त्रावृत्तिः । भभिमृशति सकृत्ततस्तथैवान्यं संसन्नानीतिप्रयोगसामर्थ्यात् । इसि सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां मयोगवैजयन्त्यां षष्ठे याजमानमने द्वितीयः पटलः ॥२॥ १०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५१५

6.3 अथ षष्ठप्रश्ने तृतीयः पटलः ।

विहव्यस्याष्टाभिः पौर्णमास्याꣳ हवीꣳष्यासन्नान्यभिमृशति चतुर्होत्रा च ।

ममाग्ने वर्च इत्यनुवाकस्याऽऽदितोऽष्टामित्रग्भिर्मा नो रीरिषो मा परादा इत्यः तामिः

(+ पञ्चहोत्रैवामावास्यायामङ्गिरसो माऽस्य यज्ञस्य प्रातरनुवाकैरवन्त्वित्यनूच्यमानासु सामिधेनीषु जपति दशहोतारं पुरस्तात्सामिधेनीनामुपरिष्टाद्वा व्याचक्षीत समिद्धो अग्निराहुतः स्वाहाकृतः पिपर्तु नः । स्वगादेवेभ्य इदं नम इति समिद्धमग्निमुच्छुष्मो अग्न इति च मनोऽसि प्राजापत्यमिति स्रुवाधारमनुमन्त्रयते वागसीति स्रुच्यं देवाः पितरो देवा योऽहमस्मि स सन्यजे यस्यास्मि न तमन्तरेमि स्वं म इष्टꣳ स्वं दत्तꣳ स्वं पूर्तꣳ स्वꣳ श्रान्तꣳ स्वꣳ हुतं तस्य मेऽग्निरुपद्रष्टा वायुरुपश्रोताऽऽदित्योऽनुख्याता द्यौः पिता पृथिवी माता प्रजापतिर्बन्धुर्य एवास्मि स सन्यजे यस्यास्मि न तमन्तरेमीति होतृप्रवरेऽध्वर्युप्रवरे च जपति मां देवेष्वाश्रावयाऽऽयुषे वर्चस इत्यध्वर्युप्रवरे वैशेषिकं चतुर्होतारं पुरस्तात्प्रयाजानामुपरिष्टाद्वा व्याचक्षीत वसन्तमृतूनां प्रीणामीत्येतैः प्रयाजानाꣳ हुतꣳ हुतमनुमन्त्रयतेऽग्निश्चक्षुष्माꣳस्तस्याहं देवयज्यया चक्षुष्मान्भूयासमित्याग्नेयस्याऽऽज्यभागस्य सोमश्चक्षुष्माꣳस्तस्याहं देवयज्यया चक्षुष्मान्भूयासमिति सौम्यस्याग्नीषोमयोरहमिति समस्तानुमन्त्रणमेके समामनन्ति पञ्चहोतारं पुरस्ताद्धविषामवदानानामुपरिष्टाद्वा व्याचक्षीताग्नेरहं देवयज्ययाऽन्नादो भूयासमित्याग्नेयस्य दब्धिरसीत्युपाꣳशुयाजस्य अग्नीषोमयोरहमित्यग्नीषोमीयस्येन्द्राग्नियोरहमित्यैन्द्राग्नस्येन्द्रस्याहमित्यैन्द्रस्य महेन्द्रस्याहमिति माहेन्द्रस्याग्नेः

  • अत्र सर्वटीकापुस्तकेषु अत्रत्यक पत्रं शुटितमित्येवोपलब्धम् । + धनुश्विद्वान्तर्गत टीकापुः

सकेषु नास्ति । 2 - सत्याषाढविरचितं श्रौतसूत्र- [१ षष्ठमने-

स्विष्टकृतोऽहमिति स्विष्टकृतोऽग्निर्मा दुरिष्टात्पात्विति च सुरूपवर्षवर्ण एहीतीडामाह्रियमाणां प्रतीक्षते ॥ ७ ॥ इड एह्यदित एहि भूयस्येहि श्रेयस्येहि वसीयस्येहि चित्त एहि दधिष एहीत्युपाꣳशूपहवे सप्त देवगवीर्जपति चिदसि मनासि वस्वी रन्ती रमतिः सूनरी सूनृतेत्युच्चैरुपहवे सप्त मनुष्यगवीर्जपति विश्वा त्वं भूताऽनुप्राणिहि विश्वा त्वा भूताऽनुप्राणन्तु भूरस्यायुरसीष्टिरसि सुरूपवर्षवर्ण एहीमान्भद्रान्दुर्याꣳ अभ्येहि मामनुव्रतान्यु शीर्षाणि मृड्ढ्वꣳ सा नः प्रियासु प्रतूर्त्तिः प्रिया नः सुहृन्नः प्रियवती मघोनी जुष्ट एहि रन्त एहि रमत एहि सूनृत एहि सुहवाम एहि सह रायस्पोषेण देवीर्देवैरभि मा निवर्तध्वꣳ स्योना स्योनेन घृतेन मा समुक्षत नम एतदुपदं भिषगृषिर्ब्रह्मा यद्ददौ समुद्रादुदञ्चन्निव स्रुचावागग्रे विप्रस्य तिष्ठति शृङ्गेभिर्दशभिर्दिशन्नित्युच्चैरुपहवे वायविडा ते मातेति होतारमीक्षमाणो वायुं मनसा ध्यायेदुपहूतोऽयं यजमान इत्युच्यमान उपहूतः पशुमानसानीति जपत्यस्मास्विन्द्र इन्द्रियं दधात्विति चेडाया अहं देवयज्यया पुष्टिमान्पशुमान्भूयासमिडे भागं जुषस्व नो जिन्व गा जिन्वार्वतस्तस्यास्ते भक्षिवाण: स्याम सर्वात्मानः सर्वगणाः । इडा धेनुः सहवत्सा न आगादूर्जं दुहाना पयसा प्रपीना । सा नो अन्नेन हविषोत गोभिरिडा जिन्वतां पयसाऽभ्यस्मानित्युपहूतामिडां व्याख्याता मार्जनी ।)

मनो ज्योतिरिति माननगा।

ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसद्दिशां क्लृप्तिरसि दिशो मे कल्पन्तां कल्पन्तां मे दिशो दैवीश्च मानुषीश्चाहोरात्रे मे कल्पेतामर्धमासा मे कल्पन्तां मासा मे कल्पन्तामृतवो मे कल्पन्ताꣳ संवत्सरो मे कल्पतां क्लृप्तिरसि कल्पतां म आशानां त्वाssशापालेभ्यश्चतुर्भ्यो अमृतेभ्य इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयमिति प्रतिदिशं व्यूहति भजतां भागी भागं मा भागोभक्तनिरभागं भजा - ५ तृपटलः ] महादेवकृतपैजयन्तीच्याख्यासमेतम् । ५१७

मोऽपस्पिन्वौषधीर्जिन्व द्विपात्पाहि चतुष्पादव दिवो वृष्टिमेरय ब्राह्मणानामिदꣳ हविः सोम्यानाꣳ सोमपीथिनां निर्भक्तो ब्राह्मणो नेहाब्राह्मणस्यास्तीति च ॥ ८ ॥

अत्रापि जपति न्यू(न्यु)ोति ज्ञेयम् । अथवा विभज्योहति अमिमृशश्नपति । अन्यथा प्रत्येक मन्त्रयोविनियोगः कथं स्यान्नहि ब्यूढस्य पुनर्वृहनम् । अतः प्रत्येक मन्त्रसाध्यं जपादृष्टं नान्यत् । एवं पूर्वमपीति चेति सर्वत्र तेन न सरेतदन्तैश्चतुर्धा- करणानि पूर्वादिदिक्कमेण प्रतिदिशं सारयति । किं तु म्यू (ब्यू)ह्म स्पृशन्सकन्मन्त्रं नपतीत्यर्थः।

इदं ब्रह्मण इदꣳ होतुरिदमध्वर्योरिदमग्नीध इति चतुर्धा व्यादिशति ।

चतुर्धाकरणानि पूर्वादिदिक्कृतानि न्यूढान्यभिमृश्य व्यादिशतीति श्रुतेः । अध्व. गुणा चतुर्धाकृतानि यजमानेन न्यूढानि स एवाभिमृश्याभिमर्शनपूर्वकं मन्त्राञ्जप्त्वे- (पित्वे)त्यर्थः । हस्तेनाभिमश्याऽऽदिशति निर्दिशति तत्तहत्विक्संबन्धिरवेन निवेद. यति । ततस्तु संबन्धज्ञानजन्येन दृष्टेनैव प्रयोजनेन ज्ञानविषयाणां चतुर्धाकरणानां दृष्टः संस्कारो नह्यनिर्दिष्टानि ततत्तदृस्विक्संबन्धेनाज्ञा[ना] नि तैरादातुं शक्यानि ।

आग्नीध्रप्रथमान्व्यादेशानेके समामनन्ति ।

आग्नीधः प्रथमो येषु व्यादेशेषु ते तथा । इदमग्नीध इदं ब्रह्मण इति क्रमेणेत्यर्थः ।

इयꣳ स्थाल्यमृतस्य पूर्णा सहस्रधार उत्सो अक्षीयमाणः । स दाधार पृथिवीमन्तरिक्षं दिवं च तेनौदनेनातितराणि मृत्युमित्यन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति प्रजापतेर्भागोऽसीति च ।

प्रथमे विकृतिषु पथार्थमहो द्वितीये तु नोहः प्रजापतिमागमात्रतेन सर्वत्राभिधान संभवात् ।

दक्षिणसद्भ्य उपहर्तवा इत्युच्यमाने दक्षिणत एतेत्यृत्विजः संप्रेष्यति ।

अध्वर्युगोच्यमाने । ऋत्विग्रहणान्न शमितः प्रेपर्ण दक्षिणामागश्च ।

ब्राह्मणा अयं व ओदन इति दक्षिणतः परिक्रान्तेभ्यस्तं चतुर्धा व्युद्धृत्यै ददाति । एषा ते अग्ने समित्तया वर्धस्व चाऽऽच प्यायस्व वर्धिषीमहि च वयमा च प्यासिषीमहि । यं ते अग्न आवृ

१ च. सादयः। ३ क. ग. च. ठ. ण.0 न । ३ क. ख. ग. च. ट... ख पात्रेषु । [१ षष्ठप्रश्चे- - 2 सत्यापाढविरचितं श्रौतसूत्र-

श्चाम्यहं वाक्षिपितश्चरन् । प्रजां च तस्य मूलं च । नीचैर्देवा निवृश्चत । अग्ने यो नो भिदा सति समानो यश्च निष्ट्यः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचन । यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् । सर्वाꣳस्तानग्ने संदह याꣳश्चाहं द्वेष्मि ये च मामित्यनूयाजसमिधमाधीयमानाम् ।

अभिमन्त्रयत इति शेषः।

वेदिर्बर्हिः शृतꣳ हविरिध्मः परिधयः स्रुचः । आज्यं यज्ञ रुचो यजुर्याज्याश्च वषट्काराः सं मे सन्नतयो नमन्तामिध्मसंनहने हुत इतीध्मसंनहने हुते ।

जपति ।

अङ्गिरसो माऽस्य यज्ञस्य प्रातरनुवाकैरहौषुरित्यनूयाजेषु जपति सप्तहोतारं पुरस्तादनूयाजानामुपरिष्टाद्वा व्याचक्षीत बर्हिषोऽहं देवयज्यया प्रजावान्भूयासमित्येतैरनूयाजानाꣳ हुतꣳ हुतमनुमन्त्रयते वाजस्य मा प्रसवेनेति द्वाभ्याꣳ स्रुचौ व्यूह्यमाने ॥ꣳ॥

अभिमन्त्रयते ।

वसून्देवान्यज्ञेनापिप्रेयꣳ रुद्रान्देवान्यज्ञेनापिप्रेयमादित्यान्देवान्यज्ञेनापिप्रेयमिति परिधीनज्यमानान्समङ्क्तां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः । समिन्द्रेण विश्वेभिर्देवेभिरङ्क्तां दिव्यं नभो गच्छतु यत्स्वाहेति स्रुक्षु प्रस्तरमज्यमानमपिप्रेड्यज्ञो यज्ञमयाङ्देवाꣳ अरंकृतः सोमः । तं मित्रो वरुणो अर्यमा रायस्योषा यजमानं विशन्त्विति प्रस्तरस्य तृणमपात्तम् ।

अमिमन्त्रयते ।

अग्नेरहमुज्जितिमनुज्जेषमितिसूक्तवाकेन होता यां यां देवतामभिव्याहरति तां तां यजमानोऽनुमन्त्रयते ।

तां तां यजमानः सन्ननुमन्त्रयते । तथाच यावत्य इष्टा देवतास्ताः सर्वा अपि शाखान्तरीयपाठेनानुमन्यते । तथाचाऽऽह भाष्यकार:- अग्नेरहमिति । यथालिङ्गं देवता अनुमन्नयत इति लाघवेन वक्तव्ये यां यां देवतामभिव्याहरति ता तामिति 1 १ क. स्व. ग. च. ट, ठण. तियां। २. ढ, 'के हों। ३ क. स. ग, घ, ट. ठ.. 'वतो होतामि। तपटल:] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५१९ वचनं यस्या यस्या अस्ति होतुरभिव्याहरणं तस्यास्तस्या अनुमन्त्रणं यथा स्यादिति । तेनोपांशुयानस्याऽऽन्यपानां चासत्यपि तैत्तिरीयकपाठे कार्यमनुमन्त्रणम् । पाठः शाखान्तरीयोऽनुमेयः । केचिदपांशुयानापपानां तद्विकाराणां सवनदेवतानां च न कुर्वन्ति पाठाभावात् । तेषामाचार्यप्रयत्नानर्थक्यं स्यात् । ऐन्द्राग्नस्य निपिवदग्नीषोमी. यस्य परिदानवत्तेषां शाखान्तरे पाठसद्भाव इति भगवतः सत्याषाढस्यामिप्रायः।

यर्हि होता यजमानस्य नाम गृह्णीयात्तर्हि ब्रूयादेमा अग्मन्नाशिषो दोहकामा इति ।

याह यदा ताई तदा ब्रह्मवर्चस म आगम्यादित्यन्तः ।

सा मे सत्याऽऽशीर्देवेषु भूयान्मन्यान्मन्यतमाज्जुष्टाज्जुष्टतमादरैडता मनसा तच्छ केयं यज्ञो दिवꣳ रोहतु यज्ञो दिवं गच्छतु यो देवयानः पन्थास्तेन यज्ञो देवाꣳ अप्येत्वित्याशीष्षु जपति ।

आशीष्षु होत्राऽऽयुराशास्त इत्यादिषूच्यमानासु जपति।

अदो म आगम्यादिति यत्कामयते तस्य नाम गृहाति ।

स्वर्गो माऽऽगम्यादित्यादिना यत्कामयते तस्य कामो यसो माऽऽगम्याद्विष्णुभ- तिर्माऽऽगम्याद्ब्रह्मज्ञानं माऽऽगम्यादिति यद्रोचते तस्य नामानेन प्रकारेण गृह्णीयात् ।

रोहितेन त्वाऽग्निर्देवतां गमयत्त्वित्येतैः प्रस्तरमवसृष्टम् ।

आहवनीयेऽवसृष्टमनुमन्त्रयते त्रिभिः । इतः परमपि द्वितीयानिर्दिष्टं यद्यप्नौ प्रक्षिप्तं तर्हि तत्रानुमन्त्रयत इत्यनुषञ्जनीयमन्यत्र द्वितीयान्तेऽमिमन्त्रयत इति तथैव ६. भरद्वाजोपदेशात् ।

दिवः खीलोऽवततः पृथिव्या अध्युत्थितः । तेनासहस्रकाण्डेन द्विषन्तं तापयामसि द्विषन्नस्ताप्यतां बहुमानागास्तप्यौषधय इति प्रस्तरस्य तृणमनुप्रहृतम् ।

आहवनीये।

विष्णोः शंयोरहमिति शंयुवाके ।

जपति । गमेयमित्यन्तः।

वि ते मुञ्चामि रशना इति द्वाभ्यामग्निं परिधिषु प्रह्रियमाणेषु ।

आहवनीयमभिमन्त्रयते।

इष्टो यज्ञो भृगुभिर्द्रविणोदा यतिभिराशीर्दा वसुभिराशीर्वाꣳ अथर्वभिः । तस्य मेष्टस्य वीतस्य द्रविणमागम्याद्वसुर्यज्ञो वसुमा

१ ख. च. ट. उ. 'से माऽऽग° । २ क. ख. ग. क. च. ट, ठ. 'पाजु । ३ क. ग. क. स.म.क. स. प. मारे। क. ग. च. 2. स. ग. दो माग । ऽऽऽ [१ षष्ठप्रो- ५२० सत्याषाढविरचितं श्रौतसूत्र-

न्यज्ञस्तस्य मा यज्ञस्य वसोर्वसुमतो वस्विहाऽऽगच्छत्वदो म आगच्छत्विति सꣳस्रावभागान्यत्कामयते तस्य नाम गृह्णाति ।

संस्थावाननुमन्त्रयते । अन्यत्पूर्ववत् ।

वेदोऽसि वित्तिरसीतिवेदमन्तर्वेद्यासन्नमभिमृशति ।

मासन्नं कृत्वाऽभिमुशति ।

विदेयेत्यस्य पुरस्तादुपरिष्टाद्वा यद्यद्भ्रातृव्यस्याभिध्यायेत्तस्य नाम गृह्णीयात्तदेवास्य सर्वं वृङ्क्त इति विज्ञायते ॥१०॥

इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठे याजमानप्रश्ने तृतीयः पटलः॥३॥

in विदेयेति पदस्य पूर्व पश्चाद्वा भ्रातृव्यस्य यद्यदभिध्यायेन्ममास्स्विति तस्य नाम गृह्णीयापाप्मनो व्यावृत्ति विदेयेति ज्ञेयम् । अर्थवादोऽन्यो विश्वासार्थः । इति सत्यापादहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैः जयन्यां षष्ठे याजमानमश्ने तृतीयः पटलः ॥३॥


6.4 अथ षष्ठप्रश्ने चतुर्थः पटलः ।

पत्नीसंयाजेषु सोमस्याहं देवयज्यया सुरेता रेतो धिषीयेति सोमस्य त्वष्टुरहं देवयज्यया पशूनाꣳ रूपं पुषेयमिति त्वष्टुर्देवानां पत्नीनामहं देवयज्यया प्रजनिषीय प्रजया च पशुभिश्चेति देवपत्नी राकाया अहं देवयज्यया प्रजावान्भूयासमिति राकां सिनीवाल्या अहं देवयज्यया पशुमान्भूयासमिति सिनीवालीं कुह्वा अहं देवयज्यया पुष्टिमान्भूयासमिति कुहूमग्निर्गृहपतिर्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया प्रतिष्ठावान्भूयासमित्यग्निं गृहपतिं देवानां पत्नीरग्निर्गृहपतिरिति समस्तानुमन्त्रणमेके समामनन्ति ।

यपत्र चस्वार एव पत्नीसंयाजास्तदा समस्तानमन्त्रणम् । सौम्य(सोम)स्य स्पष्टुरित्यु- मयत्र हुतमिति ज्ञेयम् । अन्यत्र यद्यपि देवतास्तथाऽपि हुतमिति । . । १ क. ख, ग, च, ट, ठ, ण, सौम्यस्य । ५२१ . ४५०पटलः: महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

इडाऽस्माननुवस्तान्घृतेन यस्याः पदे पुनते देवयन्तः। वैश्वानरी शक्वरी वावृधानोपयज्ञमस्थित वैश्वदेवीत्याज्येडाम् ।

आभिमन्त्रयते।

या सरस्वती यशोभगीना तस्यै ते स्वाहेति फलीकरणहोमे हूयमाने मुखं विमृष्टे । या सरस्वती वेशभगीना तस्यै ते स्वाहेति हुते मुखं विमृष्टे ।

हस्तेनानुलोमं मार्टि । अग्नयेऽदव्यायवेऽशीततनव इदम् । विश्वेभ्यो देवेभ्य इहम् ।

वेदोऽसि वित्तिरसीति वेदꣳ होत्रा पत्न्यै प्रदीयमानम् ।

अभिमन्त्रयते होत्रा पत्न्यै प्रदीयमानम् । सनेयमित्यन्तः ।

वेदोऽसि वेदसे त्वा वेदो मे विन्देति वा ।

पूर्वस्य विकल्पार्थः।

घृतवन्तं कुलायिनमिति वेदमुपस्थेऽस्यमानम् ।

पल्या उपस्थे क्षिप्यमाणं वेदममिमन्त्रयते । वाजिनमित्यन्तः ।

वेदोऽसि वेदो म आहर तृप्तस्त्वं तृप्तोऽहं प्रजया पशुभिर्भूयासमिति वा ।

गतम् ।

त्वया वेदिं विविदुः पृथिवीं त्वया यज्ञो जायते विश्वदानिः । अच्छिद्रं यज्ञमन्वेषि विद्वान्त्वया होता संतनोत्यर्धमासानिति वेदꣳ स्तीर्यमाणम् ।

होत्रा गार्हपत्यात् ।

अग्नेऽदब्धायो इति समिष्टयजुः ।

अनुमन्त्र यते । स्वाहान्तो मन्त्रः सकृदेव । समिष्टयजुर्नानात्वेऽप्यन्ते । वातायेदम् । अत्र नानादेवता पदानि श्रूयन्ते तथाऽप्युक्तमार्यवे तज्ज्ञेयम् ।

दिवः खीलोऽवततः पृथिव्या अध्युत्थितः तेनासहस्रकाण्डेन द्विषन्तꣳ शोचयामसि द्विषन्मे बहु शोचत्वोषधे मो अहꣳ शुचमिति बर्हिरनुप्रहृतम् ।

अनुमन्यते । १ घ. अ. द. प्ररियमाणम् । [६ षष्ठप्रश्भे-- a ५२२ सत्याषाढविरचितं श्रौतसूत्रं-

सं यज्ञपतिराशिषेति ॥ ११॥ यजमानभागं प्राश्नाति शृतस्य दध्नश्च ब्राह्मणोऽश्नाति न वैश्यराजन्याविदꣳ हविः प्रजननं मे अस्त्विति शृतस्य दधिक्राव्णो अकारिषमिति दध्नः ।

स्पष्टम् ।

अन्तर्वेदि प्रणीतासु मार्जयते ।

उत्तरार्थमिदम् ।

अध्वर्युश्चास्मै संततां धारा स्रावयति सदसि सन्मे भूया इत्यानीयमानासु जपति ।

प्रणीतासु स्राव्यमाणास्वध्वर्युणा।

प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तामिति प्रतिदिशं व्युत्सिञ्चति समुद्रं वः प्रहिणोम्यक्षिताः स्वां योनिमपिगच्छत । अच्छिद्रः प्रजया भूयासं मा परासेचिमत्पय इति शेषं निनयति।

प्रणीताशेषं वेद्याम् ।

यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्धि सरस्वतीति मुखं विमृष्टे।

हस्तेन ।

अत्र यजमानभागप्राशनमेके समामनन्ति ।

स्पष्टमन्यत् ।

अत एवोपोत्थाय विष्णोः क्रमोऽसीति चतुरो विष्णुक्रमान्क्रामति दक्षिणेन प्रक्रम्य सव्येनानुप्रक्रामति न सव्येन दक्षिणमतिक्रामति नाऽऽहवनीयमतिक्रामत्युत्तरमुत्तरं ज्यायाꣳसं तिष्ठꣳश्चतुर्थं जपति ।

अतो यजमानायवनादेवोत्थाय नान्यत्र स्थितः । दक्षिणपादेनाग्रे प्रक्रम्य सव्येन तदनूत्तरमुत्तरं प्रक्रमणं ज्यायो दीर्घ त्रीण्येव चतुर्थे प्रक्रमणं नास्ति तृतीये प्रक्रमणे तिष्ठश्चतुर्थं विष्णोः क्रमोऽसि शत्रूयत इति जपति ।

उद्यन्नद्य मित्रमहः सपत्नान्मे अनीनशः। दिवैनान्विद्युता जहि निम्रोचन्नधरान्कृधि । उद्यन्नद्य ५५०पटक महादेवकृतवजयन्तीव्याख्यासमेतम् । ५२६

वि नो भज पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे तस्य नो देहि सूर्य । उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् । हृद्रोगं मम सूर्य हरिमाणं च नाशय । शुकेषु मे हरिमाणꣳ रोपणाकासु दध्मसि । अथो हारिद्रवेषु मे हरिमाणं निदध्मसि । उदगादयमादित्यो विश्वेन सहसा सह । द्विषन्तं मम रन्धयन्मो अहं द्विषतो रधम् । यो नः शपादशपतो यश्च नः शपतः शपात् । उषाश्च तस्मै निम्रुक्च सर्वपापꣳ समूहताम् । यो नः सपत्नो यो रणो मर्तो भिदासति देवाः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचनेति ॥१२॥ आदित्यमुपतिष्ठतेऽगन्म सुवः सुवरगन्मेति च ।

घेहीत्यन्तः।

इदमहममुं भ्रातृव्यमाभ्यो दिग्भ्योऽस्यै दिव इति यं द्वेष्टि तस्य वधं मनसा ध्यायति ।

द्विष्म इत्यन्तः।

यद्यभिचरेदिदमहममुष्याऽऽमुष्यायणस्य प्राणं निवेष्टयामीति दक्षिणपादस्य पार्ष्ण्या निवेष्टयति।

अमुष्येति षष्यन्तं नाम शत्रोगृह्णाति । अमुष्यायणस्येति यस्यापत्यं तस्य तद्धिता- न्तम् । अयज्ञसंयुक्तमिदं न यज्ञाङ्गम् ।

ऐन्द्रीमावृतमन्वावर्त इति प्रदक्षिणमावर्तते पुण्या भवन्तु या लक्ष्मीः पराभवन्तु याः पापीरिति दक्षिणमꣳसमभिपर्यावर्तते ।

दक्षिणस्कन्धमभिलक्षीकृत्याऽऽवते ।

तेजोऽसीत्याहवनीयमुपपर्यावर्तते ।

प्रसव्यमाहवनीयमुपाभिपर्यावर्तते ।

समहं प्रजयेत्युपतिष्ठते ।

आहवनीयम् । पोष इत्यन्तः।

समिद्धो अग्न इत्युपसमिन्धे ।

दीयासमित्यन्तः 2 ५२४ सत्याषाढविरचितं श्रौतसूत्रं- [६ षष्ठप्रने

वसुमान्यज्ञ इत्युपतिष्ठते।

भूयासमित्यन्तः।

अग्ने वह्ने स्वदितुं नस्तनये पितुं पच । विभुꣳ शं तोकाय तनुवे स्योन इति दक्षिणाग्निमुपतिष्ठतेऽग्न आयूꣳष्यग्ने पवस्वेत्याग्निपावमानीभ्यां गाईपत्यमुपतिष्ठतेऽग्ने गृहपत इति च तामाशिषमाशासे तन्तवे ज्योतिष्मतीमित्यजातपुत्रो ब्रूयात् ।

ब्रूयादुच्चैरविद्यमानपुत्रः ।

तामाशिषमाशासेऽमुष्मै ज्योतिष्मतीमिति जातपुत्रः ।


विद्यमानपुत्रः।

बहुपुत्रः सर्वेषां पुत्राणां नामान्यनुद्रुत्य ज्योतिष्मतीमित्यन्ततो वदति ।

तामाशिषमाशासेऽमुष्मा असुकशर्मणेऽमुकशर्मणे ज्योतिष्मतीमिति ।

ज्योतिषे तन्तवे त्वाऽसावनु मा ज्योतिषा तन्वित्यन्तराऽग्नी निषीदति ।

ज्योतिषे तन्तवे त्वेत्युक्त्वा नाम गृह्णाति ज्येष्ठस्य संबुद्ध्याऽमुकशर्मन्निति ।

वेदतृणान्युपस्थ आधाय ये देवा यज्ञहन इत्यन्तर्वेद्यासीनोऽतीमोक्षाजपति ।

अतिमोक्षमन्त्रान् । उपस्थो दक्षिणं जानु सव्ये कृत्वा पादयोः पाण्यौँ व्यत्यासेन संक्नोः समीपे नयेदेष उपस्थो गोमुखासनमिति प्रसिद्धं योगशास्त्रे ।

कस्त्वा युनक्ति स त्वा विमुञ्चत्विति यज्ञं विमुञ्चति सर्वमनुवीक्षतेऽग्ने व्रतपते व्रतमचारिषमित्येतैर्व्रतं विसृजते यज्ञो बभूव स आबभूवेति यज्ञस्य पुनरालम्भं जपति गोमाꣳ अग्नेऽविमाꣳअश्वी यज्ञ इति प्राङुत्क्रम्य जपति ॥ १३ ॥

प्राची दिशमुत्क्रम्य।

यज्ञ शं च ते यज्ञ नमो नमश्च ते यज्ञ शिवेन मे संतिष्ठस्वं स्योनेन मे संतिष्ठस्व सुभूतेन मे संतिष्ठस्व ब्रह्मवर्चसेन मे संतिष्ठस्व यज्ञस्यर्धिमनु संतिष्ठस्वोप ते यज्ञ नम उप ते नम उप ते नम इति जपति ।

१ क, ख, ग,च. ट, ठ. ण. 'नोऽतिमो। ४५०पटल] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५२५ f स्पष्टम् । । स्पष्टम् ।

वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागामप्सु श्रद्धेत्यप उपस्पृश्य यथेतं प्रतिनिष्क्रामति ।

स्पष्टम् ।

ब्राह्मणाꣳस्तर्पयितवा इति संप्रेष्यति ।

बहुवचनादधिकांस्तर्पयति भक्ष्यभोज्यादिपरिवेषणेन । अष्टौ दश वेति वैखानसः । तथा पशौ शतमिति । तर्पयतेति प्रेषोऽध्वर्यु प्रत्यन्यं पाकसंस्कर्तारं वा प्रति । आत्मानं प्रत्येवेति राद्धान्तः ।

एवं विहितं प्रवसतोऽपि याजमानम् ।

प्रवार तस्यापि याजमानं भवत्येव ।

यस्यामस्य दिश्यग्नयो भवन्ति तां दिशमभिमुखो मन्त्राञ्जपति ।

याजमानमत्रान् । स्पष्टम् ।

अध्वर्युः कर्माणि करोति ।

यद्यपि न यजमानस्य प्रतिनिधिस्तथाऽपि परार्थे ह्यस्त्येव प्रतिनिधिरतो यान्यन्या. र्थानि तानि समन्त्राण्येव कुर्यादध्वर्युः । स्वामित्वप्रयुक्तसंस्कारेषु न प्रतिनिधिरित्येवमु. पपादितम् । कर्तृत्वे त्वस्त्येव प्रतिनिधिरिति भावः ।

अन्यान्यभिमर्शनात् ।

अभिमर्शनं वेदेहविषां च तद्विनाऽन्यानि, दर्शितमभिमर्शनं जपाङ्गमिति । यद्ययं करणमन्त्रः स्यात्तदाऽध्वर्योरेव समन्त्रं कर्म स्यात् । न मन्त्री जपपूर्वभाव्यङ्गम् । अत एवाभिमृश्य जपतीत्येतद्वलेन व्याख्यातम् । जपस्य वेदिसंस्कारत्वात्तस्मादमिमर्शन- स्याङ्गत्वं संस्कारकं जपं प्रत्येव संस्कारस्य यजमानार्थत्वान्नाभिमर्शनं परार्थ किं तु नपस्य पूर्वभाव्यङ्गं तदर्थं सदपि यजमानसंस्कार एव । तस्याङ्गभूतस्य लोपेऽपि प्रधानार्थान्मन्त्राञ्जपेदेवेत्याह-

यजमानो मन्त्राञ्जपत्यन्यान्व्यादेशनात् ।

व्यादेशनं चतुर्धाकरणानामिदं ब्रह्मण इत्यादि । तदभिमृश्यैवेदमित्यादिकमित्युक्त- मेव । तत्राभिमर्शनसद्भावेऽपि तस्य व्यादेशनाङ्गता व्यादेशनं च परार्थमतोऽभिमर्शन- मपि कृत्वाऽध्वर्युरेवेदमित्यादिशति करणमन्त्रत्वाभावेऽपि करणमन्नवदेव द्रव्यसंस्कार- मन्त्राणामपि परार्थत्वादध्वर्युप्रतिनिधित्वमस्त्येव । तेन तान्न यजमानो जपतीत्यर्थः । अध्न पिन्वस्वेत्यादिनपोऽपि व्यादेशनाङ्गं ब्राह्मणानामिद हविरितिलिङ्गात् । ततस्तु व्यादेशनशब्देन तदङ्गमन्त्रजपो लक्ष्यते । सोऽप्यध्वर्युणैव कार्य इत्येवं नाऽऽशङ्कनी. यं जपस्य साक्षायजमानसंस्कारत्वात्तेनैव कार्यः । ओं निर्वपेत्यस्य स्थानेऽग्ने हविनि. १ क. ख. ग. च. ट, ठ, ण, यस्यां दिश्यस्याम । on a - तत्र ५२६ सत्पाषाढविरचितं श्रौतसूर्य- [६ षष्ठपने- प्स्यामौत्युक्तमेव । युष्मदर्थ प्रत्यादेशो दक्षिणत एतेति ब्राह्मणा अयं व ओदन इति चाध्वयुरेव भूपते भुवनपत इति ब्रह्मवरणमध्वर्युणा समन्त्र कार्य न जप इत्यर्थः । ओं निपेत्यपि । आदेशनमादन्यान्मन्त्रानित्यर्थः । स्पष्टीकृतं भाष्यकृता-अध्वर्युणा कर्तव्यानि । तानि वक्ष्यामः । ब्रह्मवरणम् । अमे हविः । इदं ब्रह्मण इति व्यादेशनम् । दक्षिणत एत ब्राह्मणा अयं व भोदन इति दानमन्त्रः । ब्राह्मणाश्स्तर्पयितवा इति श्रेषश्च । आत्मानं प्रत्यपि परार्थत्वात् । अथामन्त्रकाण्यध्वर्युकर्तव्यानि । प्रस्तरधारणम् । इडारम्भः । इडापाशनम् । प्रतिदिश व्यूहनं च । प्रणीतासु मार्जनं समिन्धनं च । अथ प्रवसता यजमानेन सर्वे मन्त्रा अपितव्याः प्रयोगकमेण । अध्वर्युकृतानि याजमानानि वर्जयित्वा । यथा ब्रह्मवरणम् । ओ निपेत्यादि । अध्वर्युवानि । यजमान वाचं यच्छ । यजमान हविनिर्वस्यामि । वर्षतु ते पर्जन्य इत्येतानि । एतयोरपि यजमान स्मृत्वा जप इत्येव न्याय्यम् । अन्या- ळ्यादेशनादित्यभिधानात्प्रतिदिशं व्यूहनमध्वर्युः । जपो यानमान बति ज्यादेशन समन्त्रमेवेदं ब्रह्मण इत्यादिकमध्वयोः । अन्यथा सूत्रविरोधः स्यात् ।

एवं विहितमिष्टिपशुबन्धानां याजमानम् ।

एवं विकृतेष्टिषु निरूढादिपशुबन्धेषु चेदमेव वैशेषिकं तत्र तत्रैवोक्तम् ।

यथाविकारमनुमन्त्रणाः ।

अग्नेरहं देवयज्ययेति यद्यपि देवतामात्रं श्रूयते तथाऽपि तस्य हुतस्यानुमन्त्रणनित्यु- तमेव । हविष एव विकारेणानुमन्त्रणमन्त्रा ज्ञेया नतु द्विदेवतस्य द्विदेवत एकदेवतस्यै- कदेवत्य इति, इन्द्रस्य चेन्द्रियावीति किंतु हविःसामान्यात् । अनुमन्त्रणमन्त्रो यो यस्य हविषो विकारस्तस्य तस्य तेनाविकृतेनोहितेन वा। अपवादमाह-

इन्द्रस्य वैमृधस्याहं देवयज्ययाऽसपत्नो भूयासꣳ सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयं पूष्णोऽहं देवयज्यया पुष्टिमान्पशुमान्भूयासमदित्या अहं देवयज्यया प्रजनिषीय प्रजया च पशुभिश्च द्यावापृथिव्योरहं देवयज्ययोभयोर्लोकयोर्ऋध्यासं भूमानं प्रतिष्ठां गमेयमर्यम्णोऽहं देवयज्यया स्वर्गं लोकं पुषेयं विश्वेषां देवानामहं देवयज्यया प्राणैः सायुज्यं गमेयमिन्द्रस्येन्द्रियावतोऽहं देवयज्ययेन्द्रियावी

१च.कृतीटि। ५५०पटलः ] महादेवकृतपैजयन्तीव्याख्यासमेतम् । ५२७

पशुमान्भूयासमिन्द्रस्य त्रातुरहं देवयज्यया त्रातो भूयासमिति प्रत्यक्षाम्नाता अनुमन्त्रणाः ॥ १४ ॥

इति हिरण्यकेशिसूत्रे षष्ठे याजमानप्रश्ने चतुर्थः पटलः ॥४॥इति हिरण्यकेशिसूत्रे षष्ठे याजमानप्रश्ने चतुर्थः पटलः ॥४॥

एतेषु हविःषु प्रकृतितोऽतिदेशेन प्राप्ता अनुमन्त्रणमन्त्रास्तषामनारम्य प्रत्यक्षवचनैः प्राप्तैर्बाधः । एते मन्त्रा लिङ्गेन यत्र यत्र यस्य प्रतिपाद्या देवता तत्र हविषि पुरोडाशे चरावामिक्षायां वा प्राप्नुवन्ति । नतु विकारेवन्यदेवताकेषु तेषु दर्शपूर्णमासाम्यामेवा- तिदेशात् । निरूपितमेतत् । इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैज- यन्त्यां षष्ठे याजमानप्रश्ने चतुर्थः पटलः॥४॥

6.5 अथ षष्ठप्रश्ने पञ्चमः पटलः ।

अग्न्याधेयस्य याजमानं व्याख्यास्यामः ।

स्पष्टम् ।

पुरस्ताद्ब्राह्मौदनिकात्केशश्मश्रूणि वापयते नखानि निकृन्तते दतो धावते स्नात्यहतं वासः परिधत्ते ।

प्रथमब्रह्मौदनात्पूर्व स्पष्टमन्यत् ।

ब्रह्मौदनं प्राशितवद्भ्यो वरं ददाति ।

वरोऽनाढ्यस्य गुञ्जाद्वयं सुवर्णमृत्विग्भ्यः ।

आहितासु समित्सु मिथुनावसिक्तरेतसौ ददाति ।

अभ्यज्याऽऽहितासु तेभ्य एव स्त्रीपुंसौ पूर्वमसिक्तमगतं रेतो ययोस्ताहशो गावौ ददाति ।

न प्रयाति न प्रवसति।

सगृहो न प्रयाति विना गृहेण प्रवासस्तमपि न करोति ।

नास्याग्निं गृहाद्धरन्ति ।

अस्य यजमानस्य गृहादन्ये नाग्निं नयन्ति ।

अन्यतश्च नाऽऽहरन्ति ।

तदीया अन्यतोऽपि नाऽऽनयन्ति । लौकिकाग्निप्रतिषेधोऽन्यस्य तु हरणं न प्राप्तमेव ।

शिल्पैरेताꣳ रात्रिं जागर्ति ।

एतां रात्रिं यस्यामोदिते सूर्य आहवनीयमावास्यन्भवति । शिल्पैर्वीणावेणुमृदङ्गा- दिमिनिद्रामतिवाहयति । क M२८ संत्यापादविरचितं श्रौतसूत्र- [प्रश्ने

शल्कैरग्निमिन्धान उभौ लोकौ सनेमहम्। उभयोर्लोकयोर्ऋद्ध्वाऽतिमृत्युं तराम्यहमिति शल्कैस्ताꣳ रात्रिमग्निमिन्धे ।

मालोदनिकमग्निं शरुकैः काष्ठतक्षणीतं करोति । सकृन्मन्त्रस्तूष्णीमनन्तरं, रात्रि मिति कालावनारत्यन्तसंयोग इति वचनासंततम् |

मही विश्पत्नी सदने ऋतस्यार्वाची एतं धरुणे रयीणाम् । अन्तर्वत्नी जन्यं जातवेदसमध्वराणां जनयथः पुरोगामीत्यरणी प्रदीयमाने प्रतीक्षत आरोहतं दशतꣳ शक्वरीर्ममर्तेनाग्न आयुषा वर्चसा सह । ज्योग्जीवन्त उत्तरामुत्तराꣳ समां दर्शमहं पूर्णमासं यज्ञं यथा यजा इति प्रतिगृह्णात्यृत्वियवती स्थो अग्निरेतसौ गर्भं दधाथां ते वामहं ददे तत्सत्यं यद्वीर बिभृथो वीरं जनयिष्यथः । ते मत्प्रातः प्रजनयिष्येथे ते मा प्रजाते प्रजनयिष्यथः । प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोक इति प्रतिगृह्याभिमन्त्रयते ।

सकृदेव पूर्व मन्त्राः।

आत्मन्नाग्निं गृह्णीते यथाऽध्वर्युरिदमहमनृतात्सत्यमुपैमि सत्यान्मानुषमुपैमि मानुषाद्दैव्यमुपैमि दैवीं वाचं यच्छामीति वाचं यच्छति मजापतेस्त्वा प्राणेनाभि प्राणिमि पूष्णः पोषेण मह्यम् । दीर्घायुत्वाय शतशारदाय शतꣳ शरद्भ्य आयुषे वर्चसे जीवात्वै पुण्यायेति जातमभिप्राणित्यहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेद इति जातमभिमन्त्र्य वरं ददाति ।

भातमग्निममि उपरि नासया श्वास मुञ्चति ।

वाचं विसृजतेऽत्र क्षौमे वाससी परिदधाते यजमानः पत्नी च ।

परिदधाते इति द्विवचनेन याजमाने दंपत्योरेव ग्रहणे पुनर्निर्देशो यजमानद्वित्व- शङ्कानिवृत्त्यर्थः ।

ते अपवृत्तेऽग्न्याधेयेऽध्वर्यवे दत्तो याभ्यां याभ्यां व्याहृतीभ्यां येन येन यथर्ष्याधानेन याभ्यां ११० पटलः ]. मदादेवकृतवैजयन्तीव्याख्यासमेतम् ।

याभ्याꣳ सार्पराज्ञीभ्यां येन येन च घर्मशिरसा दधाति सर्वत्र तेन तेनोपतिष्ठते ॥ १५ ॥

स्पष्टम् ।

सुगार्हपत्यो विदहन्नरातीरुषसः श्रेयसीः श्रेयसीर्दधत् । अग्ने सपत्नाꣳ अपबाधमानो रायस्पोषमिषमूर्जमस्मामु धेहीत्याहितं गार्हपत्यमुपतिष्ठत इमा उ मामुपतिष्ठन्तु राय आभिः प्रजाभिरिह संवसेय । इहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेद इति मध्यदेशे ह्रियमाणमभिमन्त्रयते समयार्धे वरं ददात्यानशे व्यानशे सर्वमायुर्व्यानश इत्याहितमाहवनीयमुपतिष्ठते।

समयाभोंदिते सूर्ये परं ददाति ।

ये ते अग्ने शिवे तनुवौ विराट्च स्वराट्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे तनुवौ सम्राट्चाभिभूश्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे तनुवौ विभूश्च परिभूश्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे तनुवौ प्रभ्वी च मभूतिश्च ते मा विशतां ते मा जिन्वतां यास्ते अग्ने शिवास्तनुवस्ताभिस्त्वा दध इति शिवाभिस्तनूभिराहितमाहवनीयमुपतिष्ठते स्निक्च स्नीहितिश्च स्निहितिश्च सदाम्नी चामतिश्चानाहुतिश्च निर्ऋतिरेतास्ते अग्ने घोरास्तनुवोऽमर्त्यो मर्त्यस्तान्गच्छन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति पुरस्तात्पूर्णाहुतेर्घोराभिरुपतिष्ठते पूर्णाहुतौ वरं ददात्युपरिष्टात्पूर्णाहुतेः शिवाभिरुपस्थाय ।

ये ते अग्ने शिवे तनुवावित्याद्युक्ताभिः पुनः।

विराजक्रमैरुपतिष्ठतेऽथर्वपितुं मे गोपायान्नं प्राणेन संमितम् । त्वया गुप्ता इषमूर्जं मदन्तः शतं जीवेम शरदः सवीरा इति दक्षिणाग्निं नर्य प्रजां मे गोपाय मूलं लोकस्य संततिम् । आत्मनो


६० [६ षष्ठप्रभे- . ५३० सत्वाषाढविरचितं श्रौतसूत्र-

हृदयान्निर्मितां ता ते परिददाम्यहमिति गार्हपत्यꣳ शꣳस्य पशून्मे गोपाय विश्वरूपं धनं वसु । गृहाणां पुष्टिमानन्दं ताꣳस्ते परिददाम्यहमित्याहवनीयꣳ सप्रथसभां मे गोपायेन्द्रियं भूतिवर्धनम् । विश्वजनस्य छायां तां ते परिददाम्यहमिति स प्रथ सभां मे गोपाय ये च सभ्याः सभासदः। तानिन्द्रियावतः कुरु सर्वमायुरुपासतामिति सभ्यमहे बुध्निय मन्त्रं मे गोपाय श्रियं च यशसा सह । अहये बुध्नियाय मन्त्रं श्रियै यशः परिददाम्यहमित्यावसथ्यं पञ्चधाऽनीन्व्यक्रामद्विराट्सृष्टा प्रजापतेः । ऊर्ध्वारोहद्रोहिणी योनिरग्नेः प्रतिष्ठितिरिति सर्वान् ।

अग्नीनमकृत् । स्वशाखाविराजक्रमाणातैर्विकल्पः ।

यत्रास्मै ॥ १६ ।। शतमक्षान्प्रयच्छति तेषु कृतं विजित्य सभासद्भ्यः प्रयच्छति ते यज्जयन्ति तदुभयमन्नꣳ सꣳस्कृत्य ब्राह्मणान्भोजयति ।

व्याख्यातमेतदाधान एव ।

आग्नेयस्य दक्षिणाकालेऽजं पूर्णपात्रमुपबर्हणꣳ सार्वसूत्रमश्वꣳ रथं वासः षङ्गा द्वादश चतुर्विꣳशतिरपरिमिता वर्धमाना ददाति तासां धेनुरनड्वान्मिथुनौ चाऽऽदिष्टरूपाण्यजं पूर्णपात्रमुपबर्हणं चाग्नीधे ददात्यश्वं ब्रह्मणे धेनुꣳ होत्रे गार्हपत्यदेशेऽनड्वाहमाहवनीयदेशेऽध्वर्यवे शेषः साधारणस्त्रिंꣳशन्माने पूर्वयोः पवमान हविषोर्हिरण्ये दक्षिणां ददाति चत्वारिꣳशन्मानमुत्तमे धेनुमादित्ये।

व्याख्यातमेतदाधनान्त एव ।

आधानप्रभृति यावज्जीवं नानृतं वदेत् ।

अत्र भाष्यकार: शब्दानुनमन्त च शब्दान्ते सारस्वताष्टिभंगवता पतजलि. नोक्ता । अर्थानो प्रातपत्येत्र । आचमनव्यातिनपविष्णुस्मरणानि सर्वत्र समुच्ची. यन्ते । .प. स.अ. 'नयोहि । 1 न १५० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

नास्य ब्राह्मणोऽनाश्वान्गृहे वसेत् ।

अकृतमोजनो ब्राह्मणोऽस्याऽऽहिताग्नेहे न बसेदिति यथा स्यात्तथाऽऽहितामिः कुर्यात्तस्यैव व्रतं यावज्जीवमित्यनुवर्तते न ब्राह्मणस्य । तस्माद्वसत्ययं ब्राह्मण आमते तस्य सत्यां भोजनेच्छायामन्त्रं दद्यादेव तदभावेऽन्यत्क्षुन्निवारकं दद्यात्तदसंभवे तु माण्य- कारेणोक्तं व्याहृतिजपो ब्राह्मणभोजनं चेति वाधूल इति ।

सूर्योढमतिथिं वसत्यै नापरुन्ध्यात् ।

अस्तमितसूर्यमतिथि पूर्व यस्य स्थितिनास्ति सोऽतिथिः । कश्चनापि यदि वासा प्राप्तोऽस्थापरोध निवारणं न कार्य निवासार्थ स्थलं यथायोग्यं दातव्यमेवेत्यर्थः । अत्रापि वाधूलोक्तमेवाकरणे प्रायश्चित्तम् ।

न नक्तमन्यत्रान्नाद्दद्यात् ।

अन्नादन्यन्नक्तं रात्रौ न दद्यात् । हिरण्यधान्यादि गवादि च म रात्रौ दयास्पर स्वत्वापादनं न कुर्यात् । अहोपरागादौ पुण्यकाले रात्रौ संकल्प्य श्वोभूते पात्रसात्कु- यादिति गम्यते । केचित्तु दानमात्रस्यापि प्रतिषेधं व्याचक्षते । अत्राग्नये व्रतपतये पुरो- डाशमष्टाकपालं निवपेच आहितानिः सन्नवत्यमिव चरेदेतदेव प्रायश्चित्तमुक्तमापदि त्वाइतिरिति । अन्नं रात्रौ देयमित्युक्त तत्राप्याह-

अन्नं ददन्नक्तमदयीत ।

दीयमानमप्यन्नं नक्तं गृह एवादयीत भोजयेत् । न बहिर्नेतुं दद्यात् । अदयीतेति पाठोऽनेकसूत्रगतो व्याख्यातो मया भाष्यकृता तु न दयीतेति पाठो ब्याकृतः । दय, दाने परस्वत्वापादनं दानं तेन लक्षितं गृहाहहिर्नयनं तन्न कुर्यादित्य मिप्रायेण व्याख्यातं स एवार्थो यस्त्वदयीतति पाठोक्तः ।

नर्बीषपक्वस्याश्नीयात् ।।

गर्तादौ स्थापितं फलादिकमुपरिष्टाव्यवधानेनाग्निना पक्कं यत्तहबीषपर्क तन्नाश्नीयादि. त्येके व्याचक्षते । निरुतामिप्रायेणान्येव्याचक्षते । निरुक्ते हि पृथिवीवचनो निरुक्त ऋब्बी- षकारोपधोऽयं तैत्तिरीयसूत्रकारैः पठ्यते । कात्यायनेन तु सकारोपधस्तत्रोभयो। रपि पृथिव्येव वाच्या तया पक्कस्तद्गतेनाग्निनोष्मणेति यावत्तथा च योऽयमबीसः प्रधिव्या- मग्निरिति, भाष्यकारेण तु पाठ ऋजीषपक्वस्येत्युपलब्धो व्याख्यात ऋजोषमुद्धृतसारं तक्रपिण्यादि तन्नाश्नीयादिति । बोषमित्यय पाठस्तत्तिरीयकसूत्रेषु सर्वत्रास्मत्सूत्रे च दृश्यते युक्तश्च । नहि किंचिनीषेण पच्यते तेनापि कर्मधारय अनीषशब्दात्पशा ब्दस्य पूर्वनिपातः स्यात्तस्मादृबीपमित्येवायं पाठश्च । षशब्द । १३२ सत्याषाढविरचितं श्रौतसूत्रं- [६षष्ठप्र-

या अन्तर्नाव्या आपस्तासां नाश्नीयात् ।

नावि नौकायामन्तर्भवाः स्थापिता वा पतिता वा छिद्रः प्रविष्टा वा तासां प्राशनं न कुर्यात् । पात्रान्तरव्यवधानस्थितानां न दोषः । आपस्तम्बोऽन्त व्यपा नाभीया- दित्याह । नावि स्थित्वेति चार्थः संभवति । अतो नाव्यानामपां नाश्नीयावन्तश्चापा नाभीयादर्थान्नाव्यन्तरपि किमप्युदकं न प्राश्नीयादित्यर्थः ।

रजतꣳ हिरण्यं बर्हिषि न दद्यात् ।

यत्र हिरण्यं देयत्वेनोक्तं गवादिप्रत्याम्नायत्वेन वा प्राप्तं तत्र रजतं न देयं किंतु सुवयेत्यर्थः । बर्हिषि यज्ञे श्रौते कर्मणीति यावत् ।

क्लिन्नं दारु नाभ्यादध्यादभ्यादध्याद्वा ।

अग्नाविति शेषः । किन्नमुदकेन । अभ्याध्याच तदन्यस्यालाभ इति व्याख्येयम- न्यथा सूत्रद्वयमनर्थकमेव स्यात् ।

स्वकृत इरिणे प्रदरे वा नावस्येत् ।

स्वभावोखरे देशे नावस्येदवसानमवस्थानं न कुर्यात् । प्रदरो भूमिगतस्तत्रापि ।

हिंकृत्य वाग्यतः स्त्रियं संभवेत् ।

हिमिति कृत्वा पश्चास्त्रियं गच्छेत् ।

व्याहरेद्वा।

न न्याहरेद्वेत्यर्थः।

नैतस्मिन्संवत्सरे पशुनाऽनिष्ट्वाऽनादिष्टो माꣳसं भक्षयेत् ।

रोगतः प्राप्ते मांसभक्षणे निरूढेनाङ्गपशुना वाऽनिष्ट्वा नैतस्मिनसंवत्सरे मांस भक्ष. येत् । आदिष्टो भक्षयेदपि।

यदि भक्षयेन्मनसाऽग्निभ्यः प्रहिणोमि भक्षं मम वाचा तं सह भक्षयन्तु । अप्रमाद्यन्नप्रमत्तश्चरामि शिवेन मनसा सह भक्षयतेत्युक्त्वाऽऽदिष्टो भक्षयति ।

ब्राझणैरादिष्टो भक्षयेदनिष्ट्वाऽपि पशुना ।

द्वादशरात्रमजस्रेष्वग्निष्वाज्येन स्वयमग्निहोत्रं जुहोति।

सत्रिशब्दोऽहोरात्रे प्रयुज्यते । अत्राऽऽरम्भविधिस्त्वाध्वयंव एवोक्तस्तथा कृत्वाऽऽ. रमप्रभूति - द्वादशरात्रं सायंप्रातश्चतुर्विशतिहोमानाज्येन स्वयमग्रिहोत्रं जुहोति । अनसता तु विधेया द्वादश दिनानि । व्रतमाह- i १५.च Q १५० पटलः । महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

अहतं वासो वस्ते ।

द्वादशरात्रमहतमप्रच्छिन्नाप्रमरजकधौतमहतम् ।

काममन्यो जुहुयात् ।

स्वयमित्यस्य विकल्पः।

व्रतचारी त्वेव स्यात् ।

न मांसमश्नीयान्न स्त्रियमुपेयादित्यर्थः ।

स्वयं त्रयोदशीं जुहोति ।

स्वयमेवेत्यर्थः । त्रयोदर्शी रात्रि पयतेति यावत् ।

यां प्रथमामग्निहोत्राय दुहन्ति साऽग्निहोत्रस्य दक्षिणा।

प्रयोदश्यामग्निहोत्राय यां गां दुहन्ति तां गां दद्यात् । पूर्व यद्यन्यो जुहुयात्तस्मै । अंथवाऽऽरम्भेऽग्निहोत्रस्य वाऽध्वर्युस्तस्मै । माष्ये तु आधानादूर्ध्व द्वादशाहमाश्वपदि. कधारणमिति बौधायनाश्वलानयोरिष्टम् । द्वादशाहमाश्वपदिकमान धारयेदिति श्रुतेः । केचित्पवमानेष्टेः परं द्वादशाहमिति व्याचक्षते तदन्तत्त्वादग्निसिद्धेः । शाट्यायनके द्वादशाहधारणं स्वयंहोमाज्यहोमाश्च श्रुता इति सत्यापाढेनाऽऽचार्येण होमः प्रधानमे. वोपदिष्टम् । मतोऽग्निहोत्रोपकमात्परमिति । मध्येऽन्वारम्भणीयाप्राप्तौ तेष्वेवाग्निषु कार्या पौर्णमासी च । केचित्तु यत्र द्वादशाहावकाशस्तत्र धारणमेव । यत्रापोऽव- काशो नक्षत्राधानादौ तत्राऽऽरम्भणीयायां न धारणम् । पौर्णमास्याधानेऽवकाशामा. वान्न धारणमिति वर्णयन्ति । तदयुक्तम् । संकोचे कारणाभावात् । स्यादेतत् । सेप्ट्य . पवृज्येति वचनं संकोचकमिति । न तस्य सांवत्सरादिकल्पव्यावृत्तिपरत्वात् । सोमा- धानेनानसा इति भारद्वाजः । अस्माकमजनधारणस्य होमप्रधानत्वादुदवसानीयायां तदूर्व द्वादशाहधारणम् । आश्वपदिक एव होमा इतरेषामजम्लत्वादजस्र इति वक्तव्ये बहुवचननिशस्य प्रयोजनं पक्षहोमसमारोपणनिषेधो होमप्रधानतादेव । द्वितीयाधाने नाजस्रादिधर्माः। प्रोषिते यजमाने सर्वप्रायश्चितं कृत्वाऽजस्रष्वेवाऽऽज्यहोमः कर्तव्यः । द्वादशाहात्परं प्रणयनं च । केचित्प्रत्यागते त्रातभति चेच्छन्ति । तेषां तदहः प्राय- श्चित्तं त्रयोदश्यां प्रातर्दुत्वाऽग्नित्यागः । अहा० ते । वाम होति । अत्राप्यनसत्व. माज्यहोमश्च । यो प्र. क्षिणा । अध्वर्यवे देया प्रथममिति वचनात् । प्रथमहोमः पयमा । ततः परमाज्येन । अथवा हादशाहादूर्भ या सायहोमः स पयसा प्राथम्य. स्यापेक्षितत्वात् । मिथुदाति । अग्निहोत्रदर्शपूर्णमासयोर्यथाकालपारम्भे पवमानेष्टि- । क. ग. च. ट. द. मामि । २ च. 'नेषु ना। ३ ख. छ, 'भृतं । O ५३४. सत्यापाठविरचितं श्रौतसूत्र- [६षष्ठप्रश्न- रिति वाधूलः । अनन्तरे मुख्यकाल एवाऽऽरम्भः । उभा०दक्षिणा । परिवा ब्राह्मणम् । अनड्वान्दक्षिणेति श्रुत्यन्तरमितिमाष्यग्रन्थः ।

मिथुनौ गावावन्वारम्भणीयायां ददात्युभयीः पुनराधेय अग्न्याधेयिकीर्दत्त्वा पौनराधेयिकीर्ददाति पुनर्निष्कृतो रथः पुनरुत्स्यूतं वासः पुनरुत्सृष्टोऽनवाञ्शतमानं च हिरण्यं पुनराधेयस्य दक्षिणाऽपि वा पौनराधेयिकीरेव दद्यादिति पैङ्ग्यब्राह्मणम् ॥ १७ ॥

इति सत्याषाढहिरण्यकशिसूत्रे षष्ठप्रश्ने पञ्चमः पटलः ॥५॥

पुनरित्यादि बौधायनेन व्याख्यातम् । पुनर्निष्कृतो रथो दक्षिणेति पुनःसंस्कृत एषां भवति पुनरुत्स्यूतं वासः पुनःसंस्कृतमेव तत् । पुनरुत्सृष्टोऽनड्वानित्यतशीर्ण एवैष उक्तो भवति । अत्राऽऽहानुग्रहमापस्तम्बः-यदीतराणि न विद्यरत्नप्यनड्वाहमेव प्रदद्यादनडुहि ह वा एते कामा अतश्च भूयास इति पैङ्गायनिब्राह्मणमितीति ॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयो. गवैजयन्त्यां पष्ठे याजमानपने पञ्चमः पटलः ॥५॥

6.6 अथ षष्ठप्रश्ने षष्ठः पटलः ।

अग्न्याधेयः समाप्तः । अग्निहोत्रस्य याजमान व्याख्यास्यामः स्वयमिध्ममाहरन् ।

अन्येनाऽऽहतमपि विहारं प्रत्यानयति स्वयमेव ।

विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषामेति विहारमभ्येति ।

स्पष्टम् ।

यदग्ने यानि कानि चेति प्रतिमन्त्रमाहवनीये वर्षिष्ठमिध्ममादधाति ।

आहवनीये वर्षिष्ठमन्येषु ततोऽल्पीयांसमल्पीयांसमिध्यमादधाति प्रत्यृचमेकैकस्मिन् ।

उद्धरेत्युद्ध्रियमाणमभिमन्त्रयते ।

स्वयंहोमेऽनुमन्त्रणमन्य प्रति प्रेषः प्रेषित उद्धरतीत्याध्वर्यव उक्तत्वात् । अत्रोद्धर- १ च. एष। ३. क. ख. ग. अ. स. अ. द. ट. धमा'। ३ क. ख, ग, ट, ठ, ण. ममुम। १५ पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । णानन्तरमिधमाधाने वक्तव्ये द्वादशरात्रमजलेवाग्निहोत्रं जुहोतीति विधानमेव पूर्वमुक्तं तिन त्रयोदशीमारभ्योद्धृत आधानमिध्माधानमसिध्यतीति दर्शिनम् ।

उद्धरणप्रभृति नाश्नीयादाहोमाद्विद्युदसीत्यप उपस्पृश्यापरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य दक्षिणत उपविशति पत्नी पत्न्या लोक इडाऽसि व्रतभृदहं नावुभयोर्व्रतं चरिष्याम्यादित्य व्रतभृदहं नावुभयोर्व्रतं चरिष्यामि सुरूपेऽहं नावुभयोर्व्रतं चरिष्यामीड एहि मयि श्रयस्वेति यदग्निहोत्र्यां व्रतं तदात्मन्कुरुते ।

अग्निहोज्यां गवि ब्रतं तृणपर्णादि मु(उ)क्तं तदात्मनि भावयेत् ।

श्रद्ध एहि सत्येन त्वाऽऽह्वयामीत्याहूयमानामियमसि तस्यास्तेऽग्निर्वत्सः सा मे स्वर्गं च लोकमुभयं च धुक्ष्वेति दुह्यमानामोमुन्नेष्याम्युन्नयामीति वोच्यमाने हविर्देवानामसि मृत्योर्मेsभयꣳ स्वस्ति मेऽस्त्वभयं मे अस्त्वित्युपाꣳशूक्त्वोमुन्नयेत्युच्चैः प्रत्याहोन्नीयमाने तिष्ठति न चंक्रम्यते वाचं यच्छत्याहोमादुन्नीत उपविशति ।

अनय इ. ओषधीम्य इ० प्रजापतय इ० प्रातः सूर्यायेदं ।

उत्तरामाहुतिमुपोत्थाय कवातिर्यङ्ङिव।

ईषत्प्राङ्मुख आहवनीयाभिमुखश्चेषत्कवातिर्यडिव ।

आहवनीयमुपतिष्ठते सर्वैरुपस्थानैः ।

यावन्त्युपस्थानानि वैकल्पिकानि त सरनादेश आहवनीयमेव । उत्तरामाहुति- मित्यविशेषविधानादुभयकालमप्यनादेशे ।

उपप्रयन्तो अध्वरमिति षड्भिस्तासामग्नीषोमीयया पूर्वपक्ष उपतिष्ठेतैन्द्राग्न्याऽपरपक्षे ।

तासां मध्येऽयं ते योनिरित्येतस्याः पूर्वमग्नीषोमीया यथापाठमैन्द्राग्न्या ।

अग्नीषोमाविमꣳ सुम इत्यग्नीषोमीयोभा वामिन्द्राग्नी इत्यैन्द्राग्नी तयोः ।

तयोर्मध्ये पूर्वमुक्तयोरनापामाययेन्द्र न्येति अर्थ ते योनिरिति षष्ट्योपस्थायेत्यर्थः । सच. स. भ. उ. द. पाया। ३ क. ग... च. श. म. ट. ठ, द. "ति चोच्य । सत्यापाढविरचितं श्रौतसूत्रं- [प्रो-

परस्ताद्विहव्यस्याऽऽदितश्चतसृभिरुपतिष्ठते ।

ममान इत्येताभिरधिवोचता म इत्यन्ताभिः ।

तासामुपरिष्टादग्न आयूꣳषि पवस इति षड्भिराग्निपावमानीभिः।

आहवनीयमेव । एताभिरेव पुनः संवत्सरे ।

संवत्सरे गार्हपत्यमुपतिष्ठत आयुर्दा अग्नेऽस्यायुर्मे देहीति चतुर्भिराहवनीयं चित्रावसो स्वस्ति ते पारमशीयेति द्विरावर्तयत्यसौ स्वस्ति तेऽस्त्वसौ स्वस्ति तेऽस्त्विति सर्वेषां पुत्राणां नामानि गृह्णाति द्विर्द्विरैकैकस्य ।

यज्ञशर्मनस्वस्ति तेऽस्तु द्विः ।

अग्नेः समिदस्यभिशस्त्या मा पाहि सोमस्य समिदसि परस्या म एहि यमस्य समिदसि मृत्योर्मा पाहीत्येतैस्तिस्रः समिध आदध्यादिन्धानास्त्वा शतꣳ हिमा इति चतुर्थीम् ।

प्रत्यति।

वयꣳ सोम व्रते तव मनस्तनूषु बिभ्रतः । प्रजावन्तो अशीमहीति मुखं विमृष्टे सं त्वमग्ने सूर्यस्य वर्चसागथा इति च ।

पुनः।

संपश्यामि प्रजा अहमिति ॥ १८ ॥ मनुष्यानुपतिष्ठतेऽम्भस्याम्भो वो भक्षीयेति पशून्रेवती रमध्वमित्यन्तराऽग्नी तिष्ठञ्जपति सꣳहिताऽसि विश्वरूपीरिति गामालभते वत्सं वोप त्वाऽग्ने दिवे दिव इति षड्भिर्गायत्रीभिर्द्विपदाभिर्गार्हपत्यमुपतिष्ठत ऊर्जा वः पश्याम्यूर्जा मा पश्यतेति गोष्ठं भुवनमसि सहस्रपोषं पुषिसहस्रपोषस्येशिषे तस्यास्ते भूयिष्ठभाजो भूयास्मेति पुनरेव गामालभते वत्सं वा महित्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधर्षं वरुणस्य । नहि तेषाममाचन नाध्वसु वारणेषु। ईशे रिपुरघशꣳसः। ते ह पुत्रासो अदितेः शर्म यच्छन्त्वजस्रम् । प्रदाशुषे वार्याणीति माहित्रेण[] तृचेनोपतिष्ठते

च. इत्यादिमि । १ घ. 4. ट. इ. "गेश्या ।ई। ६१० पटलः] महादेवकृतवेजयन्तीव्याख्यासमेतम् । ५३७

तत्सवितुर्वरेण्यमिति सावित्र्या सोमानꣳ स्वरणमित्येषा सोमानꣳ स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य औशिजः। योरेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः । स नः सिषक्तु यस्तुरः। मा नः शꣳसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य । रक्षा णो ब्रह्मणस्पत इति ब्राह्मणस्पत्याभिरुपतिष्ठते कदाचन स्तरीरसि कदाचन प्रयुच्छसीति द्वे परि त्वाऽग्ने पुरं वयमित्येषा परि ते दूढभो रथोऽस्माꣳ अश्नोतु विश्वतः । येन रक्षसि दाशुष इति पर्यावर्त्यान्तत उपतिष्ठते ।

पर्यावर्त्य परि त्वाऽग्न इति पूर्वपठितथा विपरीत इत्यस्या अनन्तरमुपतिष्ठते तथा शाखान्तरे पाठात् । यथादर्शिते पाठेऽपि प्रमाणमाह-

दूढभवतीमुत्तमामेके समामनन्ति निमृदोऽसि न्यहं तं मृधासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति पुरस्तात्प्रपदेनावगृह्णीयाद्यदि श्रेयसा स्पर्धेत प्रभूरसि प्राहं तमभिभूयासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति दक्षिणतः पदोऽवगृह्णीयाद्यदि सदृशेन स्पर्धेताभिभूरस्यभ्यहं तमभिभूयासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति पश्चात्पार्ष्ण्यावगृह्णीयाद्यदि पापीयसा स्पर्धेत ॥ १ꣳ ॥ पूषा मा पशुपाः पातु पूषा मा पथिपाः पातु पूषा माऽधिपाः पातु पूषा माऽधिपतिः पात्विति जपित्वा प्राची दिगग्निर्देवता यो मैतस्यै दिशोभिदासादग्निꣳ स ऋच्छत्वग्निर्मे तस्यै दिशो गोपायतु दक्षिणा दिगिन्द्रो देवता यो मैतस्यै दिशोभिदासादिन्द्रꣳ स ऋच्छत्विन्द्रो मे तस्यै दिशो गोपायतु प्रतीची दिङ्मरुतो देवता यो मैतस्यै दिशो भिदासान्मरुतः स ऋच्छतु मरुतो मे तस्यै दिशो गोपायन्तु उदीची दिङ्मित्रावरुणौ देवता यो मैतस्यै दिशो भिदासान्मित्रावरुणौ स ऋच्छतु मित्रावरुणौ मे तस्यै दिशो गोपायेताम् । ऊर्ध्वा दिग्बृहस्पतिर्देवता यो मैतस्यै दिशो भिदासाद्बृहस्पतिꣳ स ऋच्छतु बृहस्पतिर्मे तस्यै दिशो गोपायतु । इयं दिगदितिर्देवता यो मैतस्यै दिशो भिदासाददितिꣳ स ऋच्छत्वदितिर्मे तस्यै दिशो गोपाय - 2 ५३८ सत्याषाढविरचितं श्रौतसूत्र- [१ षष्ठप्रश्न-

त्विति दिश उपस्थाय धर्मो मा धर्मिणः पातु विधर्मो मा विधर्मिणः पात्वायुश्च प्रायुश्च चक्षुश्च विचक्षुश्च प्राणश्चापानश्च प्राञ्चावाञ्चोरुग उरुगोऽर्कस्य ते वयं वाचा संभक्तेन गमेम ह्यच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेदि दिव्याद्धाम्नो मा छित्सि मामायुषा ज्योतिषे तन्तवे त्वाऽसावनु मा ज्योतिषा तन्वित्यन्तराऽग्नी तिष्ठञ्जपत्यग्न आयुꣳष्यग्ने पवस्वेत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठतेऽग्ने गृहपत इति च तामाशिषमाशासे तन्तवे ज्योतिष्मतीमित्यजातपुत्रो ब्रूयात्तामाशिषमाशासेऽमुष्मै ज्योतिष्मतीमिति जातपुत्रो बहुपुत्रा सर्वेषां पुत्राणां नामान्यनुद्रुत्य ज्योतिष्मतीमित्यन्ततो वदति सायꣳ सायमुपतिष्ठते॥२०॥

उत्थाय । उत्तरस्या आहृत्याः समीपेऽनन्तरमेवोत्थाय स्वयं होमे प्राक्प्राशनात् । उपप्रयन्त इति षडचस्तैत्तिरीयके समानाताः । पैङ्गके तासां याऽग्नीषोमीया तां पञ्चमी कृत्वा षड्भिः पूर्वपक्ष उपतिष्ठते । ऐन्द्राग्नी पञ्चमी कृत्वा यथापाठं षड्भिरपरपक्षे यं त इत्यस्याः पुरस्ताद्विहव्यस्य . ममाग्न इत्यादि. तश्चतसभिरुपतिष्ठते । तासां विहन्यानामुपरिष्टादग्न भायूषि पवस इति षभिः प्रथमे गार्हपत्यमुपस्थाय संवत्सरे संवत्सरे तामिरुपतिष्ठते नान्तराले । केचिदाहुः षड्- मिरुत्तराभिरितिश्रुतेनित्यत्वाद्द्वादशभिरुपस्थानं नित्यं संवत्सरान्त आवृत्तिरिति, तत्र युक्त ग्राह्यम् । संवत्सर आमिपावमानीभिरुपस्थानस्य नियतत्वात्तस्य च पूर्वाभिः संव- न्धात्संवत्सरे संवत्सरे नियतं महोपस्थानं सर्वस्मिन्पक्षे कार्यम् । तत आयुर्दा वादा- स्तनूपा अग्न इति चतुर्मिराहवनीयमुपतिष्ठते । चतुर्थे मन्त्रे च यचित्रावसो स्वस्ति ते पारमशीयेति तद्विरावर्तयति । तदनन्तरं देवदत्तशर्मनस्वस्ति तेऽस्तु यज्ञदत्तशर्मन् स्वस्ति तेऽस्तु इति द्वितिरेकैकस्य नाम गृह्णाति । अग्नेः सोमस्य यमस्येन्धाना इति सर्वेष्वग्निषु समिध आधायोपतिष्ठते । अम्भस्थेति मनुष्यान्पशूनपि । रेवतीरिति गाई. पत्याहवनीययोमध्ये तिष्ठञ्जपति । सशहिताऽसोति गामग्निहोत्रीमालभते वसं वा यस्याः पयसा होमः । इदम्प त्वति तिस्रो गाययोऽसे त्वं न इति तिस्रो द्विपदः । ताभिः षड्भिर्गार्हपत्यमुपतिष्ठते । ऊर्जा व इति गोष्ठगतान्पशनुपतिष्ठते । भुक्नमसी- ति पूर्ववत् । महित्रीणामको अस्त्विति तृचेनाऽऽहवनीयमुपतिष्ठते । तत्सवितुर्वरेण्यं सोमानं योरेवान्यो मा नः शंस इति सावित्रिया ब्राह्मणस्पत्याभिश्वाऽऽहननीयमेवोप- तिष्ठते । कदाचन स्तरीरसि कदाचन प्रयुच्छसि परि वाऽग्ने परि ते दूढम इत्येतेना- नुक्रमेणाऽऽहवनीयमेवोपस्थायात्रैव तिष्ठन्पूषा मेति नपित्वा प्राची दिगिति यथालिङ्गं दिश उपस्थायान्तराऽनी तिष्ठन्धर्मो मेति जपति । अत्र ज्येष्ठस्य नामग्रहणम् । अग्न , T १५०पटल: ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५३९ आयुख्यग्ने पवस्वाग्ने गृहपत इति तिमृमिर्गार्हपत्यमुपतिष्ठते तामाशिषममुष्मै बहुपुत्र. स्तामाशिषमाशासे देवदत्तशर्मणे ब्रह्मदत्तशर्मणे यज्ञदत्तशर्मणे ज्योतिष्मतीमिति । उपप्र. पन्त इत्येवमादिना ज्योतिष्मतीमित्यन्तेनोभयकालं प्राप्ते विकल्पः। सायं सायमुपति- छत इति अत्र सायं सायमिति सूत्रेण सायं सायमेवेत्यवधारणं सायमेवोपस्थानं न प्रातरित्युक्तम् । अत्र वाशब्दामावः श्रुत्यनुविधानात् । अग्निहोत्रं जुहोतीत्यविशेषे. जोपस्थान विधाय पुनर्नक्तमुपतिष्ठते न प्रातरिति विहितप्रतिषिद्धत्वाद्विकल्पः । एवं सूत्रेऽप्युभयत्र प्राप्तः पुनः सायमिति ग्रहणात्सायमेव न प्रातरित्यसिध्यतीति सायं नियतं प्रातर्विकल्पः। अत्रैवोपस्थान प्रातरत्राप्युपस्थानान्याह विकल्पेन-

अपि वा दिवैतत् ।

पक्ष्यमाणेषूपस्थानेषु दिवा विकल्पोऽपि वेत्यनेनोक्तः ।

भूर्भुवः सुवः सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैरिति वा काममैन्द्रो वित्तादिति वा श्रद्धा मे मा व्यगादिति वा भर्तुं वः शकेयमिति वा ।

स्पष्टम् ।

तत्सर्वं कृताकृतम् ।

कालद्वयोपस्थानं कर्तव्यं न कर्तव्यं वेत्यर्थः । तथा च श्रुतिरुपस्थेयोऽमिरित्युपक्रम्य तस्मान्नोपस्थेय इत्युक्त्वाऽपि वदति तस्मादुपस्पेय इति विहितमतिषिद्धत्वादुपस्थाने विकल्पः । उपस्थानपक्षेऽपि महोपस्थानेन नक्तं भूरित्यादिचतुर्णामेकेन दिवोपस्थान न वा दिवेति नक्तमुपतिष्ठते न प्रातरहरुपतिष्ठत इति श्रुतयः प्रमाणम् । चतुर्मिः सह विकल्पान्तरमाह-

प्रातरवनेकेन प्रातरुपस्थेयः।

मातरवनेक इति कर्मनामधेय तद्गतैरेव मन्त्रैरुपस्थेयः । आहवनीयोऽनादेशे।

तत्राधिश्रित उन्नीयमाने वा।

भग्निहोत्रहविष्यधिश्रिते वोन्नीयमाने वाऽये वक्ष्यमाण कार्यमित्यर्थः ।

विहव्यस्याऽऽदितश्चतसृभिरुपस्थाय ।

ममाने वर्च इत्यादिभिराहवनीयमुपस्थाय ।

अपां पत इति त्रीनुदकाञ्जलीन्निनयति प्रतिषिक्ता अरातय इति त्रिः परिषिञ्चति कालाय वां जैत्रि

१च. 'शिर्ष व्यात् । तामाः सेऽमु १२ घ. द. वा यदे । ३ च. 'हरहरु । ५४० . सत्याषाढविरचितं श्रौतसूत्र- [६ षष्ठभे-

याय वामिति पाणी प्रक्षालयत इदमहं दुरद्मन्यां नि:प्लावयामीत्यप आचम्य निष्ठीवति भ्रातृव्याणाꣳ सपत्नानामिति पुनरेव पाणी प्रक्षालयत इन्द्रियवतीमद्याहं वाचमुद्यासमिति यथारूपं प्राणायतनानि संमृज्योत्तरेणानुवाकेनोपतिष्ठते तत्रार्वाग्वसोः स्वस्ति ते पारमशीयेति त्रिरावर्तयत्यसौ स्वस्ति तेऽस्त्वसौ स्वस्ति तेऽस्त्विति सर्वेषां पुत्राणां नामानि गृह्णाति त्रिरेकैकस्य पुरस्तादग्नीषोमीयाद्विहव्यस्योत्तराभिश्चतसृभिरुपस्थायानुवाकशेषेणोपतिष्ठते ।

प्रत्यञ्जलि मन्त्रावृत्तिः प्रतिप्रतिषेकं पुरस्ताद्देवीः पडुरिति चतसृभिः । स्पष्टमन्यत् । शाखान्तरीयमन्त्राणां पाठस्त्वापस्तम्बन दर्शितः- :-अपां पते येषां भागः सत एकत्री. नुदकाजलीन्निनयति । प्रतिषिक्ता अरातयः प्रतिषिक्ता अरातय इति त्रिभूमौ परिषिच्य कालाय वां मैत्रियाय वामौद्भत्रियाय वामनायाय. वामवनेनिने सुकृताय पामिति पाणी प्रक्षालयते । इदमहं दुरमन्यां निःप्लावयामोत्याचम्यं निष्ठिवने मन्त्रः । भ्रातृव्या. गार सपत्नानामहं भूयासमुत्तमः । अपां मेत्रादिवोदकमिति हस्ती प्रक्षाल्य । अनि मस्तु नास्मत्सूत्रकृता विनियुक्तः । आपस्तम्बेन च विनियुक्तः श्रियं धातमयि धेहि श्रियो माऽधिपति कुरु । विशामीशानो मघवेन्दो मा यशसा नयेदिति जपित्वाऽग्नय- ब्युष्टा देवं ब्रूतावीच्छपथजम्मनीम्न आपो ममिवि प्राणिजन्नस्मन्सु(?)शपथार अधी- त्याचम्येति मन्त्रद्वयमधिकमापस्तम्बीयम् । इन्द्रियावतीमद्याहं वाचमुद्यास वाचं दीर्धा- णोच्छिन्नोऽदब्धो गोपाः सकृन्नासापुटे अनस्त्रं दैव्यं ज्योतिः सौपणं चक्षुः, चक्षुषी संशृती को देवश्रुतौ कौँ केशा बहिः शिखाप्रस्तरे शिखां यथास्थानं कस्पषम हृदयादौ मा मा हासिष्टेति सर्वाण्यङ्गानि । एवं यथालिङ्गमङ्गानि संमृश्य, इत उर्व सर्वाग्न्युप- स्थानं तन्नास्मत्सूत्रकृतोक्तम् । वोऽसि वर्षों मयि घेडायुकृतायुपत्नीस्वधा वो गोप्रि- योगेस्थ गोपायत मा रक्षतमात्मसदौ मेस्थामोनः कश्चित्प्रघान्मा प्रमेष्मयुपप्रत्नमुप भूर्भुवः सुवरायुमें यच्छति सर्वानुपस्थायेत्यापस्तम्बोयम् । उत्तरणानुवाकेनाऽऽहवनीय- मुपतिष्ठते । उपप्रयन्त इत्यनुवाकेन तच्छाखावामुत्तरो भवति तस्मिन्ननुवाके चित्रावसो , क. ख. ना. 2. ठ, ण, ययायतनं। २ घ, र, च. द. मृशत उत्त। ३ झ, भ, ढ, त्रिविर । ४. ब. मीय या विइ । ५ घ. 'या विह। ६ च.ट. वजूता । च. "मिव प्रा। च. सुश्रुतौ। ७स०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५४१ स्वस्तीत्यस्मात्पूर्वः पुत्राणां नामान्येकैकं त्रिरावर्तयेत्पूर्ववत् । तत्रापि विशे विश इत्य. स्मादनन्तरं पूर्वपक्षेऽग्नीषोमाविमश्सुम इत्यपरपक्ष उमा वामिन्द्राग्नी इत्युपस्थायायं ते योनिरिति अनुवाकशेषेणोपतिष्ठते । वर्माजठरान्नादामद्यास्मिञ्जने भूयासमननादास योऽस्मान्द्वेष्टि कवी मातारश्वा मापशुमन्तामामय ।

तस्मात्पुरा प्रातरग्निहोत्रे नोपावरोहेदित्येकेषाम् ।

अग्निहोत्रेऽपरानेः पुरतो नोदित्येकेषां शाखिना मते नोपस्थेय इत्यर्थः । केचिद्याजमानं सर्वमपि निवर्तत इति व्याचक्षते ।

अग्नेस्तृणान्यपचिनोति तेजस्वी ब्रह्मवर्चसी भवतीति विज्ञायते ॥ २१ ॥

इति सत्याषाढहिरण्यकशिसूत्रे षष्ठप्रश्ने षष्ठः पटलः॥६॥

अग्नेराहवनीयात्तृणानि परिस्तरणानि निर्गमय्य स्थापयतीत्यर्थः । विज्ञायते श्रुतौ । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैज- यन्त्यां षष्ठे याजमानप्रश्ने षष्ठः पटलः॥६॥


6.7 अथ षष्ठप्रश्ने सप्तमः पटलः ।

ऋते गृहस्य प्रवासं व्याख्यास्यामः।

विनाऽग्निमिया च प्रवासम् ।

अग्नीन्समाधेहीति संप्रेष्यति प्रवत्स्यन्भास्वत उपतिष्ठते मम नाम प्रथमं जातवेद इति चतसृभिराहवनीयं पशून्मे शꣳस्य पाहि तान्मे गोपायास्माकं पुनरागमादित्याहवनीयमुपस्थायाभिप्राण्याग्ने सहस्राक्षेत्युपतिष्ठते प्रजां मे नर्य पाहि तां मे गोपायास्माकं पुनरागमादिति गार्हपत्यमुपस्थायाभिप्राण्याग्ने गृहपत इत्युपतिष्ठतेऽन्नं मे बुध्न्य पाहि तन्मे गोपायास्माकं पुनरागमादिति दक्षिणाग्निमुपस्थायाभिप्राण्याग्ने वह्न इत्युपस्थाय विराजक्रमैरुपतिष्ठते यथा पुरस्तादिमान्मे मित्रावरुणा गृहान्गोपायतं युवम् । अवि-

१ च. शेषः । वि'। २ च. 'मादद्या' । ३ क. ग. च. ट. द. . स्मि जने । टीकापु' स्तकेषु °स्य पशून्मे पा' इति पाठः । ५ च. ढ. 'रुणौ । [१ षष्ठप्रश्ने- सत्याषाढविरचितं श्रौतसूत्र-..

नष्टानविहृतान्पुषैनानभिरक्षत्वस्माकं पुनरागमादित्यन्तराऽग्नी तिष्ठञ्जपति मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मां तस्थुर्नो अरातयः । उदस्माꣳ उत्तरान्नयाग्ने घृतेनाऽऽहुत । रायस्पोषेण सꣳसृज प्रजया च बहून्कृधीति प्रक्रामति सकाशेऽग्नीनां वाचं यच्छत्यसकाशे विसृजते व्रतकालेषु व्रतं चरति ।

उद्धरणप्रभृति नाश्नीयादाहोमादित्यादिवतं विद्युदसीत्याद्यपि यजमानसंस्कारो जपश्चेडाऽसीति हविर्देवानामिति चोपस्थानानि च दर्शपूर्णमासवत्सर्वं ज्ञेयम् । उप- स्थाने समिदाधानमध्वर्युरेव । गवालम्भस्तु लुप्यते परार्थत्वात् । विहाराभिमुखो मन्त्रा. ञ्जपतीति सूत्रान्तरम् । तथाऽऽह भरद्वाजः-एवं विहितमेवास्य प्रवसतोऽप्युपस्थाने परिसंमृश्यं कर्माणि चाध्वर्युस्तानि कुर्याद्यजमानो मन्त्राजपेदिति ।

ऋतुं प्रत्युपतिष्ठते ।

प्रवासविलम्बे प्रत्युतु प्रवासोपस्थानं कुर्यान्मासद्वये मासद्वय इत्यर्थः ।

यद्यनुपस्थिताग्निरापद्यते प्रवासः ।

दैवान्मानुषाद्वाऽग्नीननुपस्थाय प्रवसति तदाऽग्रे वक्ष्यमाणमुपस्थानम् ।

इहैव सं तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि । तिरो मा सन्तमायुर्मा प्रहासीज्ज्योतिषा वो वैश्वानरेणोपतिष्ठ इत्युपतिष्ठते ।

यत्र तिष्ठति तत्रैव विहाराभिमुखः । सकृदेव प्रत्येत्याभयंकरेणोपस्थानम् ।

प्रोष्य ।

प्रवासादागत्य।

समिधो धारयन्विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषामेति विहारमभ्येत्य सकाशेऽग्नीनां वाचं यच्छति सकाशे विसृजतेऽग्नीन्समाधेहीति संप्रेष्यति ॥ २२ ॥ ज्वलत उपतिष्ठते नमस्ते अस्तु मीढुषे नमस्त उपसद्वने । अग्ने शुम्भस्व तन्वा सं मा रय्या सꣳसृजेत्युपसमिन्धेऽग्नेः समिदस्यभिशस्त्या मा पाहीत्येतैस्त्रिभिस्तिस्रः समिध आदध्यादिन्धानास्त्वा शतꣳ हिमा इति चतुर्थी मनो ज्योतिर्जुषतामित्यध्वर्युराहुतिं जुहोति यदि दशमीमतिप्रवसति मम नाम तव च जातवेद इति चतसृभिराहवनीयं पशून्मे शꣳस्याजुगुपस्तान्मे ७० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

पुनर्देहीत्याहवनीयमुपस्थायाभ्यपान्याग्ने सहस्राक्षेत्युपतिष्ठते प्रजां मे नर्याजुगुपस्तां मे पुनर्देहीति गार्हपत्यमुपस्थायाभ्यपान्याग्ने गृहपत इत्युपतिष्ठतेऽन्नं मे बुध्न्याजुगुपस्तन्मे पुनर्देहीति दक्षिणाग्निमुपस्थायाभ्यपान्याग्ने वह्न इत्युपस्थाय विराजक्रमैरुपतिष्ठते यथा पुरस्तादिमान्मे मित्रावरुणा गृहानजुगुपतं युवम् । अविनष्टानविहृतान्पूषैनानभ्यपराक्षीदास्माकं पुनरागमादित्यन्तराऽग्नी तिष्ठञ्जपति गोपायाजुगुप इति सर्वत्रानुषजति गोपायेति वा ।

सष्टम् ।

अथैकेषां विज्ञायते कः श्रेयाꣳसं विषुप्तं बोधयिष्यतीत्यप्रादुष्कृतानामेवोपस्थानꣳ स्यादभयंकराभयं मे कुरु स्वस्ति मेऽस्तु प्रवत्स्यामीति प्रवत्स्यन्नभयंकराभयं मेऽकार्षीः स्वस्ति मेऽस्तु प्रावात्स्यमिति प्रोष्य ॥ २३ ॥ गृहा मा विभीत मा वेपीढ्वमूर्जं बिभ्रत एमसि । ऊर्जं बिभ्रद्वसुवनिः सुमेधा गृहानेमि मनसा मोदमानः । येषामभ्येति प्रवसन्येषु सौमनसो बभुः । गृहानुपह्वयामहे ते नो जानन्तु जानतः । उपहूता इह गाव उपहूता अजावयः । अथो अन्नस्य कीलाल उपहूतो गृहेषु नः । उपहूता भूरिसखाः सखायः स्वादु संमुदः। अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा । ऊर्जस्वन्तः पयस्वन्त इरावन्तो ह सामुदः । अनश्या अतृष्या गृहा मास्मद्बिभीतनेति गृहानभ्येति क्षेमाय वः शान्त्यै प्रपद्ये शिवꣳ शग्मꣳ शंयोः शंयोरिति प्रविशति न तदहरागतः कलहं करोति गृहानहꣳ सुमनसः प्रपद्ये वीरघ्नो वीरतमः सुशेवान् । इरां वहन्तः सुमनस्यमानास्तेष्वहꣳ सुमनाः संविशामीति संविशति विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विष इति भार्याꣳ समीक्षते ॥ २४ ॥

इति सत्याषाढहिरण्यकोशिसूत्रे षष्ठप्रश्ने सप्तमः पटलः ॥७॥

स. म. द. "रुणी गृ । २ च. द. पायरिवति । ३ क. ग. क. ८, ण, बारवतः । [१ षष्ठप्रो- सत्याषाढविरचितं श्रौतसूत्र- अप्रादुष्कृतोपस्थानपक्षेऽथेकेषामित्यादिनोक्कमेवानुपस्थिताग्नेः प्रवसत आगतस्योप- स्थानं प्रोष्येत्यादि तु समान प्रवासादागतस्य । संविशतीति धर्ममात्रभ् । स्पष्टमन्यत् । मनस्वती तु होतव्याऽयुणा याजमानकाण्डे पठिता । सा च प्रादुष्कृतोपस्थानान्त- गतेति नाभयंकरोपस्थानेनापोहत्युपस्थान इत्याह माव्यकृत् । अन्ये तु होमार्थमृधृते मनस्वीमिच्छन्ति तथाऽजलेऽम्याह्वनीये । ऋत्वतिप्रवासे नातपती व्रातभृती वा। संवत्सरातिप्रवासे पवित्रेष्टिराश्वलायनभरद्वाजाभ्यामुक्ता । वैश्वानरी बौधायनेन मनस्वत्या समुच्चयः । सर्वत्राग्नीन्विहाय दंपत्योरुभयोः प्रवासे त्वाधानं स्मयते- विहायानीन्सभार्यश्चेत्सीमामुल्लब्ध गच्छति । होमकालात्यये तस्य पुनराधानमिष्यते ॥ इति । बहुमायस्यैकस्या अपि संनिधौ न दोषः । तथा-असमक्ष हि दंपत्योहातव्यं नरिवगादिना । द्वयोरप्यप्तमक्ष चेद्भवेदुतमनर्थकम् ॥ इति । प्रवसति यजमाने मार्यायां रजस्वलायां तु तामपरुध्य होतव्यमिति भाष्यकृत् । तपेष्टिस्तु शद्धायामित्याह । अन्ये तु तामपरुध्यवष्टिमिच्छन्ति । नित्येष्टेः करणमुक्तं स्मृतिमिरिति तामपाध्यैवेष्टव्यमिति त्वाः । अत्र भाष्यकृतोक्त तथा संध्ययोर्नदी. तरणे सीमालङ्घने वाऽऽधानं तया समारोप्याग्नीन्प्रयाणे सीमानद्यतिक्रमे परन्यरणी अन्वारभते । आपत्काले तु समस्यापि होम उक्तो भरद्वाजेन । पर्वणि सायं सायं यावन्तः सायं होमा आगामिचतुर्दशीसायहोममभिव्याप्य तावन्ति चतुरुन्नीयकस्यामेव समिधि तन्त्रेण होमः । प्रातरपि पुनस्तावन्ति चतुरुन्नीय शेषं पूर्ववत् । अत्यापदि सायं वा प्रातभियहोमान्परिगणय्योन्नयाम्युन्नेष्यामीत्युमयं प्रत्येवं चतुरुन्नीय प्रातश्चे. प्रथमां सौरों द्वितीयामाग्नेयीं सायं चेद्विपरीत हुत्वा शेषं तन्त्रेण सौर्यमाग्नेय हवि. रिति संनमति विपरीतं वा हुता शेषं समाप्य प्रयाति पर्वणः प्रातमथित्वा प्रातःसायं. होमो, इष्टिः पशुश्च यदि पर्वणि न भन्येत्तत ऊर्ध तन्तुमतीष्टिोमातिक्रमप्रायश्चित्तं च द्वितीयपर्वपर्यन्तं तत्राप्यशक्ये मन्थने चाऽऽधानमेव । इति सत्यापाढहिरण्यकशिस्त्रव्याख्यायां महादेवकृतायां प्रयोगवैजयन्त्या षष्ठे याजमानमश्ने प्रवासाख्यः सप्तमः पटलः ॥ ७ ॥

6.8 अथ षष्ठप्रश्नेऽष्टमः पटलः ।

आग्रयणेष्टौ वत्सं प्रथमजं ददाति नानातन्त्रे श्यामाके बभ्रुं पिङ्गलं मधुपर्कं मधुमन्थं दधिमन्थं क्षीरौदनस्य वा

१च, नापी है'। २ क. ख. ग, ठ. ठ, ण, 'जेना। । म. पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

पात्रं क्षौमं वासो वर्षाधृतं भद्रान्नः श्रेयः समनैष्ट देवा इति व्रीहीणां प्राश्नात्यग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिरिति श्यामाकानामेतमु त्यं मधुना संयुतं यवꣳ सरस्वत्या अधिमनाऽवचर्कृषुः । इन्द्र आसीत्सीरपतिः शतक्रतु: कीनाशा आसन्मरुतः सुदानव इति यवानाम् ।

प्राभातीति संबन्धः । प्रथमजो वत्सः संवत्सरमध्ये प्रथमतः संवत्सरप्रवृत्तिरेका- ष्टकातः फाल्गुनीतश्चैत्रीतो वा समानतन्त्र एकैव सा दक्षिणा । बभ्रुः कपिलः. पिङ्गलः पिङ्गाक्ष एवं द्विरूपो गौः । दधि मधु घृतमापः सक्तवो वा मधुपर्कः । मधुना युक्ता सक्तवी मधुमन्धः । दध्ना युक्ता दधिमन्थः । क्षारयुक्तस्यौदनस्य पूर्णपात्रं सोमं वास उक्तं वर्षाकाले धृतम् । स्पष्टमन्यत् ।

यथाविकारं पशावेकादश प्रयाजाननुमन्त्रयते ।

यो यस्य प्रयानस्य विकारः स तस्यानुमन्नणेन । तदेव स्पष्टयन्नाह-

चतुरश्चतुर्भिरादितश्चतुर्थस्यानुमन्त्रणेन दुरःप्रभृतीꣳश्चतुर उत्तमेनेतरान् ।

संख्यायुक्तेषु प्रयानादिषु विकृतौ यत्राधिकसंख्याऽभ्यासेन पूरणीया तत्र चतुर्थ- पञ्चमयोर्मध्ये विकाराः श्रूयन्तेऽतस्ते चतुर्थपश्चमयोरेव विकाराः सांनिध्यादित्यभिप्राये- णेदमुक्तं चतुरश्चंतुभिरादितो यथाप्रकृति चत्वारश्चतुर्पस्य विकारा नवमाधानय उत्त- मस्य देवता याज्योक्ता अग्निपदान्ताः ।

स्वर्विदसि स्वर्वित्त्वा स्वरिहि स्वर्मह्यं स्वः पशुभ्यो लोकविदसि लोकं वित्त्वा लोकमिहि लोकं मह्यं लोकं पशुभ्यो गातुविदसि गातुं वित्त्वा गातुमिहि गातुं मह्यं गातुं पशुभ्यो नाथविदसि नाथं वित्त्वा नाथमिहि नाथं मह्यं नाथं पशुभ्यो न वा उवेतन्म्रियस आशानां त्वा विश्वा आशा इति पशौ संज्ञप्यमाने जपति हुतायां वपायां परं ददाति तिस्रो वा दक्षिणा नयेत् ।

वरं धेनुम् । याः काश्चितितो वा गाः । वरे न दक्षिणाधर्म इति केचित् । उभय- त्राप्यस्त्येव दक्षिणाधर्म इति सर्वमतं, नयेहयात् ।

यथाविकारं पशावेकादशानूयाजाननुमन्त्रयते

त्रीꣳस्त्रीनेकैकेन प्रथमेन दशममुत्तमेनोत्तमम् ।

प्रथमः प्राकृतः स्पष्टः । तस्यैवाभ्यासो देशमः । स्विष्टकृत्तु प्राकृतवदेकादशः सत्यापातविरचितं श्रौतसूत्र- [(षष्ठप्रो- प्रतीयतेऽतो नियती द्वौ । ततो नवावशिष्यन्ते । तत्र तेषु त्रयस्त्रयः प्राकृतप्रथमानु- मन्त्रणेन प्रथमस्य प्राकृतत्वात्तत्समीपस्यौ द्वौ वैकृतौ प्रथमस्य विकासै । तथाच त्रीन्प्र- थाप्रधमानुमन्त्रणेनानमन्त्रयते । ततोऽवशिष्टानां क्रमेण विनियोगे प्राप्तेऽष्टमस्य स्पष्टस्य नराशंसस्य स्विष्ट कृतिकारत्वं वक्तुमयुक्तं क्रमस्य लिऊन बाधादतो नराशंसारपूर्व वैकृतःश्चतुर्थप्रभृतिचत्वारः क्रमेण द्वौ नराशंसस्य द्वावन्यौ स्विष्टकृतः । एवं च नराशं. सेन सह त्रीन्द्रितीयेनानुमन्त्रणेन नवमः परिशेषान्नराशंसानन्तरत्वान्न विष्टकृतो निकारः । एवं च षष्ठसप्तमनवमांस्त्रीस्तृतीयेनानुमत्रमेन तथा श्री स्रोनेकैकेनेत्युपपत्र स्थापिकारमेकादशानुयानानिति स्थितेऽपि पुनः प्रथमेन दशमभित्युदाहरणत्वेन प्रद. शितम् । तेन प्रथमाष्टमयोरपि निर्णयः सिद्धः । ततस्तु सप्तांनामवशिष्टानां पूर्वोत. कमानन्तर्थन्यायेन यथाविकार विनियोग इत्यर्थः ।

शृङ्गाणीवेच्छृङ्गिणाꣳ संददृश्रिरे चषालवन्तः स्वरवः पृथिव्याम् । ते देवासः स्वरवस्तस्थिवाꣳसो नमः सखिभ्यः सन्नान्माऽवगातेति ॥ २५ ॥ हुतꣳ स्वरुमुपतिष्ठत आशासानः सुवीर्यमिति संꣳस्थिते यूपम् ।

उपतिष्ठने।

चातुर्मास्येष्वनड्वाहमनडुहो वा हिरण्यं वैश्वानरे ददाति धेनुं पार्जन्ये यथाविकारं नव प्रयाजाननुमन्त्रयते चतुरश्चतुर्भिरादितश्चतुर्थस्यानुमन्त्रणेन दुरःप्रभृतीꣳश्चतुर उत्तमेनोत्तमं वत्सं प्रथमजं वैश्वदेवे ददाति यथाविकारं नवानूयाजाननुमन्त्रयते त्रीꣳस्त्रीनेकैकेन ।

कृतन्याख्यानमाध्वयो।

तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासमिति सर्वत्र केशेषूप्यमानेषु जपति चतुरो मासान्नानृतं वदति न माꣳसमश्नाति न स्त्रियमुपैति नोपर्यास्ते जुगुप्सेतानृतात्प्राङ्शेते न मध्वश्नाति नाञ्जीत नाभ्यञ्जीतर्तौ जायामुपेयात्सर्वेषां चातुर्मास्यानामेतान्यन्तरालव्रतानि भवन्ति धेनुं वरुणप्रघासेषु ददात्यृषभं प्रवयसꣳ

१.t. 'ग. 'मानु। ८ पट] महादेवकृतवैजयन्त व्याख्यासमेतम् ।

साकमेधेषु यस्य रवते जुहोति तमेव पौर्णादर्व्येऽश्वꣳ श्वेतमादित्ये गां वा श्वेतꣳ षड्गवं द्वादशगवं वा सीरमुष्टारौ वोष्टारं वाऽन्यतरꣳ शुनासीरीयेऽश्वꣳ श्वेतꣳ सौर्ये गां वा श्वेतं तदभावेऽगौः श्वेतः स्याच्छ्वेतः स्यात् ॥ २६ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठप्रश्नेऽष्टमः पटलः ॥८॥

इति हिरण्यकेशिसूत्रे षष्ठः प्रश्नः॥६॥

नोपरि मनकादावास्ते । प्राचीनशिराः शेते । प्रवयसं वृद्धम् । यस्य शम्दे पूर्मा- । दर्पण जुहोति तमेव वृषभं तस्य दक्षिणां ददाति भयो । पमि- गोभिर्युक्तो हलो द्वादशभिर्वा । उष्टारो ()वोष्टारा(१)महान्बलीवर्दः । तदभावे श्वतस्य गोरमावे स्वगौरन्यः श्वेतोऽनो मेषो वा । गोरजस्य मेषस्य च परस्परप्रतिनि. । विभावो विध्यपराधप्रश्ने च वक्ष्यते । अभ्यासः प्रभसमाप्त्यर्थः । इति हिरण्यकेशिमूत्रव्याख्यायां महादेवकत्तायां प्रयोगवैज- यन्त्यां षष्ठे याजमानप्रश्न आग्रयणपशुचातुर्मास्यपाज- मानबष्टमः पटलः ॥८॥ इति हिरण्यकेशिवम्याल्या पहा प्रभः ॥ ६ ॥ समाप्तेयं महादेवकतप्रयोगबैजयन्तीव्याख्या। म.भ..ना२. पं. राम बेताब..... धारावा।

  1. शुक्लयजुर्वेदः/अध्यायः ०३ वा.सं. ३.३३, मैत्रायणीसंहिता/काण्डं १/प्रपाठकः ०५ मै.सं. १.५.४