कूर्मपुराणम्-उत्तरभागः/चतुश्चत्वारिंशत्तमोऽध्यायः

  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः



सूत उवाच
अन्यच्च तीर्थप्रवरं जप्येश्वरसमीपतः ।
नाम्ना पञ्चनदं पुण्यं सर्वपापप्रणाशनम् ।। ४४.१

त्रिरात्रमुषितस्तत्र पूजयित्वा महेश्वरम् ।
सर्वपापविशुद्धात्मा रुद्रलोके महीयते ।। ४४.२

अन्यच्च तीर्थप्रवरं शंकरस्यामितौजसः ।
महाभैरवमित्युक्तं महापातकनाशनम् ।। ४४.३

तीर्थानां च परं तीर्थं वितस्ता परमा नदी ।
सर्वपापहरा पुण्या स्वयमेव गिरीन्द्रजा ।। ४४.४

तीर्थं पञ्चतपो नाम शंभोरमिततेजसः ।
यत्र देवादिदेवेन शक्रार्थे पूजितो भवः ।। ४४.५

पिण्डदानादिकं तत्र प्रेत्यानन्तफलप्रदम् ।
मृतस्तत्रापि नियमाद् ब्रह्मलोके महीयते ।। ४४.६

कायावरोहणं नाम महादेवालयं शुभम् ।
यत्र माहेश्वरा धर्मा मुनिभिः संप्रवर्त्तिताः ।। ४४.७

श्राद्धं दानं तपो होम उपवासस्तथाऽक्षयः ।
परित्यजति यः प्राणान् रुद्रलोकं स गच्छति ।। ४४.८

अन्यच्च तीर्थप्रवरं कन्यातीर्थमिति श्रुतम् ।
तत्र गत्वा त्यजेत् प्राणाँल्लोकान् प्राप्नोति शाश्वतान् ।। ४४.९

जामदग्न्यस्य तु शुभं रामस्याक्लिष्टकर्मणः ।
तत्र स्नात्वा तीर्थ वरे गोसहस्रफलं लभेत् ।। ४४.१०

महाकालमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् ।
गत्वा प्राणान् परित्यज्य गाणपत्यमवाप्नुयात् ।। ४४.११

गुह्याद् गुह्यतमं तीर्थं नकुलीश्वरमुत्तमम् ।
तत्र सन्निहितः श्रीमान् भगवान् नकुलीश्वरः ।। ४४.१२

हिमवच्छिखरे रम्ये गङ्गाद्वारे सुशोभने ।
देव्या सह महादेवो नित्यं शिष्यैश्च संवृतः ।। ४४.१३

तत्र स्नात्वा महादेवं पूजयित्वा वृषध्वजम् ।
सर्वपापैर्विमुच्येत मृतस्तज्ज्ञानमाप्नुयात् ।। ४४.१४

अन्यच्च देवदेवस्य स्थानं पुण्यतमं शुभम् ।
भीमेश्वरमिति ख्यातं गत्वा मुञ्चति पातकम् ।। ४४.१५

तथान्यच्चण्डवेगायाः संभेदः पापनाशनः ।
तत्र स्नात्वा च पीत्वा च मुच्यते ब्रह्महत्यया ।। ४४.१६

सर्वेषामपि चैतेषां तीर्थानां परमा पुरी ।
नाम्ना वाराणसी दिव्या कोटिकोट्‌ययुताधिका ।। ४४.१७

तस्याः पुरस्तान्माहात्म्यं भाषितं वो मया त्विह ।
नान्यत्र लभ्यते मुक्तिं र्योगेनाप्येकजन्मना ।। ४४.१८

एते प्राधान्यतः प्रोक्ता देशाः पापहरा नृणाम् ।
गत्वा संक्षालयेत् पापं जन्मान्तरशतैः कृतम् ।। ४४.१९

यः स्वधर्मान् परित्यज्य तीर्थसेवां करोति हि ।
न तस्य फलते तीर्थमहि लोके परत्र च ।। ४४.२०

प्रायश्चित्ती च विधुरस्तथा यायावरो गृही ।
प्रकुर्यात् तीर्थसंसेवां ये चान्यस्तादृशा जनाः ।। ४४.२१

सहाग्निर्वा सपत्नीको गच्छेत् तीर्थानि यत्नतः ।
सर्वपापविनिर्मुक्तो यथोक्तां गतिमाप्नुयात् ।। ४४.२२

ऋणानि त्रीण्यपाकृत्य कुर्वन्वा तीर्थसेवनम् ।
विधाय वृत्तिं पुत्राणां भार्यां तेषु विधाय च ।। ४४.२३

प्रायश्चित्तप्रसङ्गेन तीर्थमाहात्म्यमीरितम् ।
यः पठेच्छृणुयाद् वाऽपि मुच्यते सर्वपातकैः ।। ४४.२४

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुष्चत्वारिंशोऽध्यायः ।। ४४ ।।