कौटिलीय अर्थशास्त्रं ५
Book | Chapt | Infliction of secret punishment
- 05.1.01 दुर्गराष्ट्रयोः कण्टकशोधनं उक्तम्
- 05.1.02 राजराज्ययोर्वक्ष्यामः
- 05.1.03 राजानं अवगृह्य उपजीविनः शत्रुसाधारणा वा ये मुख्याः तेषु गूढपुरुषप्रणिधिः कृत्यपक्ष उपग्रहो वा सिद्धिः यथा उक्तं पुरस्ताद्, उपजापोऽपसर्पो वा यथा पारग्रामिके वक्ष्यामः
- 05.1.04 राज्य उपघातिनः तु वल्लभाः संहता वा ये मुख्याः प्रकाशं अशक्याः प्रतिषेद्धुं दूष्याः तेषु धर्मरुचिरुपांशुदण्डं प्रयुञ्जीत
- 05.1.05 दूष्यमहामात्रभ्रातरं असत्कृतं सत्त्री प्रोत्साह्य राजानं दर्शयेत्
- 05.1.06 तं राजा दूष्यद्रव्य उपभोगातिसर्गेण दूष्ये विक्रमयेत्
- 05.1.07 शस्त्रेण रसेन वा विक्रान्तं तत्र एव घातयेद् भ्रातृघातकोऽयम् इति
- 05.1.08 तेन पारशवः परिचारिकापुत्रश्च व्याख्यातौ
- 05.1.09 दूष्यंमहामात्रं वा सत्त्रिप्रोत्साहितो भ्राता दायं याचेत
- 05.1.10 तं दूष्यगृहप्रतिद्वारि रात्रावुपशयानं अन्यत्र वा वसन्तं तीक्ष्णो हन्ता ब्रूयाद् हतोऽयं दायकामुकः इति
- 05.1.11 ततो हतपक्षं उपगृह्य इतरं निगृह्णीयात्
- 05.1.12 दूष्यसमीपस्था वा सत्त्रिणो भ्रातरं दायं याचमानं घातेन परिभर्त्सयेयुः
- 05.1.13 तं रात्रौ इति समानम्
- 05.1.14 दूष्यमहामात्रयोर्वा यः पुत्रः पितुः पिता वा पुत्रस्य दारान् अधिचरति, भ्राता वा भ्रातुः, तयोः कापटिकमुखः कलहः पूर्वेण व्याख्यातः
- 05.1.15 दूष्यमहामात्रपुत्रं आत्मसम्भावितं वा सत्त्री राजपुत्रः त्वं, शत्रुभयाद् इह न्यस्तोऽसि इत्युपजपेत्
- 05.1.16 प्रतिपन्नं राजा रहसि पूजयेत् प्राप्तयौवराज्यकालं त्वां महामात्रभयान्नाभिषिञ्चामि इति
- 05.1.17 तं सत्त्री महामात्रवधे योजयेत्
- 05.1.18 विक्रान्तं तत्र एव घातयेत् पितृघातकोऽयम् इति
- 05.1.19 भिक्षुकी वा दूष्यभार्यां सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसन्दध्यात्
- 05.1.20 इत्याप्यप्रयोगः
- 05.1.21 दूष्यमहामात्रं अटवीं परग्रामं वा हन्तुं कान्तारव्यवहिते वा देशे राष्ट्रपालं अन्तपालं वा स्थापयितुं नागरस्थानं वा कुपितं अवग्राहितुं सार्थातिवाह्यं प्रत्यन्ते वा स-प्रत्यादेयं आदातुं फल्गुबलं तीक्ष्णयुक्तं प्रेषयेत्
- 05.1.22 रात्रौ दिवा वा युद्धे प्रवृत्ते तीक्ष्णाः प्रतिरोधकव्यञ्जना वा हन्युः अभियोगे हतः इति
- 05.1.23 यात्राविहारगतो वा दूष्यमहामात्रान् दर्शनायाह्वयेत्
- 05.1.24 ते गूढशस्त्रैः तीक्ष्णैः सह प्रविष्टा मध्यमकक्ष्यायां आत्मविचयं अन्तःप्रवेशनार्थं दद्युः
- 05.1.25 ततो दौवारिकाभिगृहीताः तीक्ष्णाः दूष्यप्रयुक्ताः स्म इति ब्रूयुः
- 05.1.26 ते तद्ऽभिविख्याप्य दूष्यान् हन्युः
- 05.1.27 तीक्ष्णस्थाने चान्ये वध्याः
- 05.1.28 बहिर्विहारगतो वा दूष्यान् आसन्नावासान् पूजयेत्
- 05.1.29 तेषां देवीव्यञ्जना वा दुःस्त्री रात्रावावासेषु गृह्येत इति समानं पूर्वेण
- 05.1.30 दूष्यमहामात्रं वा सूदो भक्षकारो वा ते शोभनः इति स्तवेन भक्ष्यभोज्यं याचेत, बहिर्वा क्वचिद् अध्वगतः पानीयम्
- 05.1.31 तद्.उभयं रसेन योजयित्वा प्रतिस्वादने तावेव उपयोजयेत्
- 05.1.32 तद्ऽभिविख्याप्य रसदौ इति घातयेत्
- 05.1.33 अभिचारशीलं वा सिद्धव्यञ्जनो गोधाकूर्मकर्कटककूटानां लक्षण्यानां अन्यतमप्राशनेन मनोरथान् अवाप्स्यसि इति ग्राहयेत्
- 05.1.34 प्रतिपन्नं कर्मणि रसेन लोहमुसलैर्वा घातयेत् कर्मव्यापदा हतः इति
- 05.1.35 चिकित्सकव्यञ्जनो वा दौरात्मिकं असाध्यं वा व्याधिं दूष्यस्य स्थापयित्वा भैषज्याहारयोगेषु रसेनातिसन्दध्यात्
- 05.1.36 सूदारालिकव्यञ्जना वा प्रणिहिता दूष्यं रसेनातिसन्दध्युः
- 05.1.37 इत्युपनिषत्प्रतिषेधः
- 05.1.38 उभयदूष्यप्रतिषेधः तु
- 05.1.39 यत्र दूष्यः प्रतिषेद्धव्यः तत्र दूष्यं एव फल्गुबलतीक्ष्णयुक्तं प्रेषयेत्, गच्छ, अमुष्मिन् दुर्गे राष्ट्रे वा सैन्यं उत्थापय हिरण्यं वा, वल्लभाद् वा हिरण्यं आहारय, वल्लभकन्यां वा प्रसह्यानय, दुर्गसेतुवणिक्पथशून्यनिवेशखनिद्रव्यहस्तिवनकर्मणां अन्यतमद् वा कारय राष्ट्रपाल्यं अन्तपाल्यं वायश्च त्वा प्रतिषेधयेन्न वा ते साहाय्यं दद्यात् स बन्धव्यः स्यात् इति
- 05.1.40 तथैव इतरेषां प्रेषयेद् अमुष्याविनयः प्रतिषेद्धव्यः इति
- 05.1.41 तं एतेषु कलहस्थानेषु कर्मप्रतिघातेषु वा विवदमानं तीक्ष्णाः शस्त्रं पातयित्वा प्रच्छन्नं हन्युः
- 05.1.42 तेन दोषेण इतरे नियन्तव्याः
- 05.1.43 पुराणां ग्रामाणां कुलानां वा दूष्याणां सीमाक्षेत्रखलवेश्ममर्यादासु द्रव्य उपकरणसस्यवाहनहिंसासु प्रेक्षाकृत्य उत्सवेषु वा समुत्पन्ने कलहे तीक्ष्णैरुत्पादिते वा तीक्ष्णाः शस्त्रं पातयित्वा ब्रूयुः एवं क्रियन्ते येऽमुना कलहायन्ते: इति
- 05.1.44 तेन दोषेण इतरे नियन्तव्याः
- 05.1.45 येषां वा दूष्याणां जातमूलाः कलहाः तेषां क्षेत्रखलवेश्मान्यादीपयित्वा बन्धुसम्बन्धिषु वाहनेषु वा तीक्ष्णाः शस्त्रं पातयित्वा तथैव ब्रूयुः अमुना प्रयुक्ताः स्मः इति
- 04.4.46 तेन दोषेण इतरे नियन्तव्याः
- 05.1.47 दुर्गराष्ट्रदूष्यान् वा सत्त्रिणः परस्परस्यावेशनिकान् कारयेयुः
- 05.1.48 तत्र रसदा रसं दद्युः
- 05.1.49 तेन दोषेण इतरे नियन्तव्याः
- 05.1.50 भिक्षुकी वा दूष्यराष्ट्रमुख्यं दूष्यराष्ट्रमुख्यस्य भार्या स्नुषा दुहिता वा कामयते इत्युपजपेत्
- 05.1.51 प्रतिपन्नस्याभरणं आदाय स्वामिने दर्शयेत् असौ ते मुख्यो यौवन उत्सिक्तो भार्यां स्नुषां दुहितरं वाऽभिमन्यते इति
- 05.1.52 तयोः कलहो रात्रौ इति समानम्
- 05.1.53 दूष्यदण्ड उपनतेषु तु - युवराजः सेनापतिर्वा किञ्चिद् अपकृत्यापक्रान्तो विक्रमेत
- 05.1.54 ततो राजा दूष्यदण्ड उपनतान् एव प्रेषयेत् फल्गुबलतीक्ष्णयुक्तान् इति समानाः सर्व एव योगाः
- 05.1.55 तेषां च पुत्रेष्वनुक्षियत्सु यो निर्विकारः स पितृदायं लभेत
- 05.1.56 एवं अस्य पुत्रपौत्रान् अनुवर्तते राज्यं अपास्तपुरुषदोषम्
- 05.1.57ab स्वपक्षे परपक्षे वा तूष्णीं दण्डं प्रयोजयेत् |
- 05.1.57chd आयत्यां च तदात्वे च क्षमावान् अविशङ्कितः ( इति)
Chapt | Replenishment of the treasurय्
- 05.2.01 कोशं अकोशः प्रत्युत्पन्नार्थकृच्छ्रः सङ्गृह्णीयात्
- 05.2.02 जनपदं महान्तं अल्पप्रमाणं वाऽदेवमातृकं प्रभूतधान्यं धान्यस्यांशं तृतीयं चतुर्थं वा याचेत, यथासारं मध्यं अवरं वा
- 05.2.03 दुर्गसेतुकर्मवणिक्पथशून्यनिवेशखनिद्रव्यहस्तिवनकर्म उपकारिणं प्रत्यन्तं अल्पप्रमाणं वा न याचेत
- 05.2.04 धान्यपशुहिरण्यादि निविशमानाय दद्यात्
- 05.2.05 चतुर्थं अंशं धान्यानां बीजभक्तशुद्धं च हिरण्येन क्रीणीयात्
- 05.2.06 अरण्यजातं श्रोत्रियस्वं च परिहरेत्
- 05.2.07 तद् अप्यनुग्रहेण क्रीणीयात्
- 05.2.08 तस्याकरणे वा समाहर्तृपुरुषा ग्रीष्मे कर्षकाणां उद्वापं कारयेयुः
- 05.2.09 प्रमादावस्कन्नस्यात्ययं द्विगुणं उदाहरन्तो बीजकाले बीजलेख्यं कुर्युः
- 05.2.10 निष्पन्ने हरितपक्वादानं वारयेयुः, अन्यत्र शाककटभङ्गमुष्टिभ्यां देवपितृपूजादानार्थं गवार्थं वा
- 05.2.11 भिक्षुकग्रामभृतकार्थं च राशिमूलं परिहरेयुः
- 05.2.12 स्वसस्यापहारिणः प्रतिपातोऽष्टगुणः
- 05.2.13 परसस्यापहारिणः पञ्चाशद्गुणः सीताऽत्ययः, स्ववर्गस्य, बाह्यस्य तु वधः
- 05.2.14 चतुर्थं अंशं धान्यानां षष्ठं वन्यानां तूललाक्षाक्षौमवल्ककार्पासरौमकौशेयकौषधगन्धपुष्पफलशाकपण्यानां काष्ठवेणुमांसवल्लूराणां च गृह्णीयुः, दन्ताजिनस्यार्धम्
- 05.2.15 तद् अनिसृष्टं विक्रीणानस्य पूर्वः साहसदण्डः
- 05.2.16 इति कर्षकेषु प्रणयः
- 05.2.17 सुवर्णरजतवज्रमणिमुक्ताप्रवालाश्वहस्तिपण्याः पञ्चाशत्कराः
- 05.2.18 सूत्रवस्त्रताम्रवृत्तकंसगन्धभैषज्यशीधुपण्याश्चत्वारिंशत्कराः
- 05.2.19 धान्यरसलोहपण्याः शकटव्यवहारिणश्च त्रिंशत्कराः
- 05.2.20 काचव्यवहारिणो महाकारवश्च विंशतिकराः
- 05.2.21 क्षुद्रकारवो बन्धकीपोषकाश्च दशकराः
- 05.2.22 काष्ठवेणुपाषाणमृद्भाण्डपक्वान्नहरितपण्याः पञ्चकराः
- 05.2.23 कुशीलवा रूपाजीवाश्च वेतनार्धं दद्युः
- 05.2.24 हिरण्यकरं कर्मण्यान् आहारयेयुः, न च एषां कञ्चिद् अपराधं परिहरेयुः
- 05.2.25 ते ह्यपरिगृहीतं अभिनीय विक्रीणीरन्
- 05.2.26 इति व्यवहारिषु प्रणयः
- 05.2.27 कुक्कुटसूकरं अर्धं दद्यात्, क्षुद्रपशवः षड्भागं, गोमहिषाश्वतरखर उष्ट्राश्च दशभागम्
- 05.2.28 बन्धकीपोषका राजप्रेष्याभिः परमरूपयौवनाभिः कोशं संहरेयुः
- 05.2.29 इति योनिपोषकेषु प्रणयः
- 05.2.30 सकृद् एव न द्विः प्रयोज्यः
- 05.2.31 तस्याकरणे वा समाहर्ता कार्यं अपदिश्य पौरजानपदान् भिक्षेत
- 05.2.32 योगपुरुषाश्चात्र पूर्वं अतिमात्रं दद्युः
- 05.2.33 एतेन प्रदेशेन राजा पौरजानपदान् भिक्षेत
- 05.2.34 कापटिकाश्च एनान् अल्पं प्रयच्छतः कुत्सयेयुः
- 05.2.35 सारतो वा हिरण्यं आढ्यान् याचेत, यथा उपकारं वा, स्ववशा वा यद् उपहरेयुः
- 05.2.36 स्थानच्छत्रवेष्टनविभूषाश्च एषां हिरण्येन प्रयच्छेत्
- 05.2.37 पाषण्डसङ्घद्रव्यं अश्रोत्रिय उपभोग्यं देवद्रव्यं वा कृत्यकराः प्रेतस्य दग्धगृहस्य वा हस्ते न्यस्तं इत्युपहरेयुः
- 05.2.38 देवताऽध्यक्षो दुर्गराष्ट्रदेवतानां यथास्वं एकस्थं कोशं कुर्यात्, तथैव च उपहरेत्
- 05.2.39 दैवतचैत्यं सिद्धपुण्यस्थानं औपपादिकं वा रात्रावुत्थाप्य यात्रासमाजाभ्यां आजीवेत्
- 05.2.40 चैत्य उपवनवृक्षेण वा देवताऽभिगमनं अनार्तवपुष्पफलयुक्तेन ख्यापयेत्
- 05.2.41 मनुष्यकरं वा वृक्षे रक्षोभयं प्ररूपयित्वा सिद्धव्यञ्जनाः पौरजानपदानां हिरण्येन प्रतिकुर्युः
- 05.2.42 सुरुङ्गायुक्ते वा कूपे नागं अनियतशिरस्कं हिरण्य उपहारेण दर्शयेत्
- 05.2.43 नागप्रतिमायां अन्तश्छन्नायां चैत्यच्छिद्रे वल्मीकच्छिद्रे वा सर्पदर्शनं आहारेण प्रतिबद्धसंज्ञं कृत्वा श्रद्दधानानां दर्शयेत्
- 05.2.44 अश्रद्दधानानां आचमनप्रोक्षणेषु रसं उपचार्य देवताऽभिशापं ब्रूयात्, अभित्यक्तं वा दंशयित्वा
- 05.2.45 योगदर्शनप्रतीकारेण वा कोशाभिसंहरणं कुर्यात्
- 05.2.46 वैदेहकव्यञ्जनो वा प्रभूतपण्यान्तेवासी व्यवहरेत
- 05.2.47 स यदा पण्यमूल्ये निक्षेपप्रयोगैरुपचितः स्यात् तदा एनं रात्रौ मोषयेत्
- 05.2.48 एतेन रूपदर्शकः सुवर्णकारश्च व्याख्यातौ
- 05.2.49 वैदेहकव्यञ्जनो वा प्रख्यातव्यवहारः प्रहवणनिमित्तं याचितकं अवक्रीतकं वा रूप्यसुवर्णभाण्डं अनेकं गृह्णीयात्
- 05.2.50 समाजे वा सर्वपण्यसन्दोहेन प्रभूतं हिरण्यसुवर्णं ऋणं गृह्णीयात्, प्रतिभाण्डमूल्यं च
- 05.2.51 तद् उभयं रात्रौ मोषयेत्
- 05.2.52 साध्वीव्यञ्जनाभिः स्त्रीभिर्दूष्यान् उन्मादयित्वा तासां एव वेश्मस्वभिगृह्य सर्वस्वान्याहरेयुः
- 05.2.53 दूष्यकुल्यानां वा विवादे प्रत्युत्पन्ने रसदाः प्रणिहिता रसं दद्युः
- 05.2.54 तेन दोषेण इतरे पर्यादातव्याः
- 05.2.55 दूष्यं अभित्यक्तो वा श्रद्धेयापदेशं पण्यं हिरण्यनिक्षेपं ऋणप्रयोगं दायं वा याचेत
- 05.2.56 दासशब्देन वा दूष्यं आलम्बेत, भार्यां अस्य स्नुषां दुहितरं वा दासीशब्देन भार्याशब्देन वा
- 05.2.57 तं दूष्यगृहप्रतिद्वारि रात्रावुपशयानं अन्यत्र वा वसन्तं तीक्ष्णो हत्वा ब्रूयात् हतोऽयं अर्थकामुकः इति
- 05.2.58 तेन दोषेण इतरे पर्यादातव्याः
- 05.2.59 सिद्धव्यञ्जनो वा दूष्यं जम्भकविद्याभिः प्रलोभयित्वा ब्रूयात् अक्षयहिरण्यं राजद्वारिकं स्त्रीहृदयं अरिव्याधिकरं आयुष्यं पुत्रीयं वा कर्म जानामि इति
- 05.2.60 प्रतिपन्नं चैत्यस्थाने रात्रौ प्रभूतसुरामांसगन्धं उपहारं कारयेत्
- 05.2.61 एकरूपं चात्र हिरण्यं पूर्वनिखातं प्रेताङ्गं प्रेतशिशुर्वा यत्र निहितः स्यात्, ततो हिरण्यं अस्य दर्शयेद् अत्यल्पम् इति च ब्रूयात्
- 05.2.62 प्रभूतहिरण्यहेतोः पुनरुपहारः कर्तव्य इति स्वयं एव एतेन हिरण्येन श्वोभूते प्रभूतं औपहारिकं क्रीणीहि इति
- 05.2.63 स तेन हिरण्येनाउपहारिकक्रये गृह्येत
- 05.2.64 मातृव्यञ्जनया वा पुत्रो मे त्वया हतः इत्यवकुपिता स्यात्
- 05.2.65 संसिद्धं एवास्य रात्रियागे वनयागे वनक्रीडायां वा प्रवृत्तायां तीक्ष्णा विशस्याभित्यक्तं अतिनयेयुः
- 05.2.66 दूष्यस्य वा भृतकव्यञ्जनो वेतनहिरण्ये कूटरूपं प्रक्षिप्य प्ररूपयेत्
- 05.2.67 कर्मकरव्यञ्जनो वा गृहे कर्म कुर्वाणः स्तेनकूटरूपकारक उपकरणं उपनिदध्यात्, चिकित्सकव्यञ्जनो वा गरं अगदापदेशेन
- 05.2.68 प्रत्यासन्नो वा दूष्यस्य सत्त्री प्रणिहितं अभिषेकभाण्डं अमित्रशासनं च कापटिकमुखेनाचक्षीत, कारणं च ब्रूयात्
- 05.2.69 एवं दूष्येष्वधार्मिकेषु च वर्तेत, न इतरेषु
- 05.2.70ab पक्वं पक्वं इवारामात् फलं राज्याद् अवाप्नुयात् |
- 05.2.70chd आत्मच्छेदभयाद् आमं वर्जयेत् कोपकारकम् ( इति)
Chapt | Salaries of state servants
- 05.3.01 दुर्गजनपदशक्त्या भृत्यकर्म समुदयपादेन स्थापयेत्, कार्यसाधनसहेन वा भृत्यलाभेन
- 05.3.02 शरीरं अवेक्षेत, न धर्मार्थौ पीडयेत्
- 05.3.03 ऋत्विग्ऽअचार्यमन्त्रिपुरोहितसेनापतियुवराजराजमातृराजमहिष्योऽष्टचत्वारिंशत्साहस्राः
- 05.3.04 एतावता भरणेनानास्पद्यत्वं अकोपकं च एषां भवति
- 05.3.05 दौवारिकान्तर्वंशिकप्रशास्तृसमाहर्तृसंनिधातारश्चतुर्विंशतिसाहस्राः
- 05.3.06 एतावता कर्मण्या भवन्ति
- 05.3.07 कुमारकुमारमातृनायकपौरव्यावहारिककार्मान्तिकमन्त्रिपरिषद्राष्ट्रान्तपालाश्च द्वादशसाहस्राः
- 05.3.08 स्वामिपरिबन्धबलसहाया ह्येतावता भवन्ति
- 05.3.09 श्रेणीमुख्या हस्त्य्ऽश्वरथमुख्याः प्रदेष्टारश्चाष्टसाहस्राः
- 05.3.10 स्ववर्गानुकर्षिणो ह्येतावता भवन्ति
- 05.3.11 पत्त्य्ऽश्वरथहस्त्य्ऽध्यक्षा द्रव्यहस्तिवनपालाश्च चतुःसाहस्राः
- 05.3.12 रथिकानीकस्थचिकित्सकाश्वदमकवर्धकयो योनिपोषकाश्च द्विसाहस्राः
- 05.3.13 कार्तान्तिकनैमित्तिकमौहूर्तिकपौराणिकसूतमागधाः पुरोहितपुरुषाः सर्वाध्यक्षाश्च साहस्राः
- 05.3.14 शिल्पवन्तः पादाताः सङ्ख्यायकलेखकादिवर्गश्च पञ्चशताः
- 05.3.15 कुशीलवाः त्वर्धतृतीयशताः, द्विगुणवेतनाश्च एषां तूर्यकराः
- 05.3.16 कारुशिल्पिनो विंशतिशतिकाः
- 05.3.17 चतुष्पदद्विपदपरिचारकपारिकर्मिकाउपस्थायिकपालकविष्टिबन्धकाः षष्टिवेतनाः, आर्ययुक्तारोहकमाणवकशैलखनकाः सर्व उपस्थायिनश्च
- 05.3.18 आचार्या विद्यावन्तश्च पूजावेतनानि यथाऽर्हं लभेरन् पञ्चशतावरं सहस्रपरम्
- 05.3.19 दशपणिको योजने दूतो मध्यमः, दश उत्तरे द्विगुणवेतन आयोजनशताद् इति
- 05.3.20 समानविद्येभ्यः त्रिगुणवेतनो राजा राजसूयादिषु क्रतुषु
- 05.3.21 राज्ञः सारथिः साहस्रः
- 05.3.22 कापटिक उदास्थितगृहपतिकवैदेहकतापसव्यञ्जनाः साहस्राः
- 05.3.23 ग्रामभृतकसत्त्रितीक्ष्णरसदभिक्षुक्यः पञ्चशताः
- 05.3.24 चारसञ्चारिणोऽर्धतृतीयशताः, प्रयासवृद्धवेतना वा
- 05.3.25 शतवर्गसहस्रवर्गाणां अध्यक्षा भक्तवेतनलाभं आदेशं विक्षेपं च कुर्युः
- 05.3.26 अविक्षेपो राजपरिग्रहदुर्गराष्ट्ररक्षावेक्षणेषु च
- 05.3.27 नित्यमुख्याः स्युरनेकमुख्याश्च
- 05.3.28 कर्मसु मृतानां पुत्रदारा भक्तवेतनं लभेरन्
- 05.3.29 बालवृद्धव्याधिताश्च एषां अनुग्राह्याः
- 05.3.30 प्रेतव्याधितसूतिकाकृत्येषु च एषां अर्थमानकर्म कुर्यात्
- 05.3.31 अल्पकोशः कुप्यपशुक्षेत्राणि दद्यात्, अल्पं च हिरण्यम्
- 05.3.32 शून्यं वा निवेशयितुं अभ्युत्थितो हिरण्यं एव दद्यात्, न ग्रामं ग्रामसञ्जातव्यवहारस्थापनार्थम्
- 05.3.33 एतेन भृतानां अभृतानां च विद्याकर्मभ्यां भक्तवेतनविशेषं च कुर्यात्
- 05.3.34 षष्टिवेतनस्याढकं कृत्वा हिरण्यानुरूपं भक्तं कुर्यात्
- 05.3.35 पत्त्य्ऽश्वरथद्विपाः सूर्य उदये बहिः सन्धिदिवसवर्जं शिल्पयोग्याः कुर्युः
- 05.3.36 तेषु राजा नित्ययुक्तः स्यात्, अभीक्ष्णं च एषां शिल्पदर्शनं कुर्यात्
- 05.3.37 कृतनर इन्द्राङ्कं शस्त्रावरणं आयुधागारं प्रवेशयेत्
- 05.3.38 अशस्त्राश्चरेयुः, अन्यत्र मुद्राऽनुज्ञातात्
- 05.3.39 नष्टंविनष्टं वा द्विगुणं दद्यात्
- 05.3.40 विध्वस्तगणनां च कुर्यात्
- 05.3.41 सार्थिकानां शस्त्रावरणं अन्तपाला गृह्णीयुः, समुद्रं अवचारयेयुर्वा
- 05.3.42 यात्रां अभ्युत्थितो वा सेनां उद्योजयेत्
- 05.3.43 ततो वैदेहकव्यञ्जनाः सर्वपण्यान्यायुधीयेभ्यो यात्राकाले द्विगुणप्रत्यादेयानि दद्युः
- 05.3.44 एवं राजपण्ययोगविक्रयो वेतनप्रत्यादानं च भवति
- 05.3.45 एवं अवेक्षितायव्ययः कोशदण्डव्यसनं नावाप्नोति
- 05.3.46 इति भक्तवेतनविकल्पः
- 05.3.47ab सत्त्रिणश्चायुधीयानां वेश्याः कारुकुशीलवाः |
- 05.3.47chd दण्डवृद्धाश्च जानीयुः शौचाशौचं अतन्द्रिताः ( इति)
Chapt | Proper conduct fora dependant
- 05.4.01 लोकयात्राविद् राजानं आत्मद्रव्यप्रकृतिसम्पन्नं प्रियहितद्वारेणाश्रयेत
- 05.4.02 यं वा मन्येत यथाऽहं आश्रय ईप्सुरेवं असौ विनय ईप्सुराभिगामिकगुणयुक्तः इति, द्रव्यप्रकृतिहीनं अप्येनं आश्रयेत, न त्वेवानात्मसम्पन्नम्
- 05.4.03 अनात्मवा हि नीतिशास्त्रद्वेषाद् अनर्थ्यसंयोगाद् वा प्राप्यापि महद् ऐश्वर्यं न भवति
- 05.4.04 आत्मवति लब्धावकाशः शास्त्रानुयोगं दद्यात्
- 05.4.05 अविसंवादाद्द् हि स्थानस्थैर्यं अवाप्नोति
- 05.4.06 मतिकर्मसु पृष्ठः तदात्वे चायत्यां च धर्मार्थसंयुक्तं समर्थं प्रवीणवद् अपरिषद्भीरुः कथयेत्
- 05.4.07 ईप्सितः पणेत धर्मार्थानुयोगं अविशिष्टेषु बलवत्संयुक्तेषु दण्डधारणं मत्संयोगे तदात्वे च दण्डधारणं इति न कुर्याः, पक्षं वृत्तिं गुह्यं च मे न उपहन्याः, संज्ञया च त्वां कामक्रोधदण्डनेषु वारयेयम् इति
- 05.4.08 आदिष्टः प्रदिष्टायां भूमावनुज्ञातः प्रविशेत्, उपविशेच्च पार्श्वतः संनिकृष्टविप्रकृष्टः परासनम्
- 05.4.09 विगृह्य कथनं असभ्यं अप्रत्यक्षं अश्रद्धेयं अनृतं च वाक्यं उच्चैरनर्मणि हासं वातष्ठीवने च शब्दवती न कुर्यात्
- 05.4.10 मिथः कथनं अन्येन, जनवादे द्वन्द्वकथनं, राज्ञो वेषं उद्धतकुहकानां च, रत्नातिशयप्रकाशाभ्यर्थनं, एकाक्ष्य्.ओष्ठनिर्भोगं भ्रुकुटीकर्म वाक्यावक्षेपणं च ब्रुवति, बलवत् संयुक्तविरोधं, स्त्रीभिः स्त्रीदर्शिभिः सामन्तदूतैर्द्वेष्यपक्षावक्षिप्तान् अर्थ्यैश्च प्रतिसंसर्गं एकार्थचर्यां सङ्घातं च वर्जयेत्
- 05.4.11ab अहीनकालं राजार्थं स्वार्थं प्रियहितैः सह |
- 05.4.11chd परार्थं देशकाले च ब्रूयाद् धर्मार्थसंहितम्
- 05.4.12ab पृष्टः प्रियहितं ब्रूयान्न ब्रूयाद् अहितं प्रियम् |
- 05.4.12chd अप्रियं वा हितं ब्रूयात्शृण्वतोऽनुमतो मिथः
- 05.4.13ab तूष्णीं वा प्रतिवाक्ये स्याद् वेष्यादींश्च न वर्णयेत् |
- 05.4.13chd अप्रिया अपि दक्षाः स्युः तद्भावाद् ये बहिष्कृताः
- 05.4.14ab अनर्थ्याश्च प्रिया दृष्टाश्चित्तज्ञानानुवर्तिनः |
- 05.4.14chd अभिहास्येष्वभिहसेद् घोरहासांश्च वर्जयेत् ( इति)
- 05.4.15ab परात् सङ्क्रामयेद् घोरं न च घोरं परे वदेत् |
- 05.4.15chd तितिक्षेतात्मनश्चैव क्षमावान् पृथिवीसमः
- 05.4.16ab आत्मरक्षा हि सततं पूर्वं कार्या विजानता |
- 05.4.16chd अग्नाविव हि सम्प्रोक्ता वृत्ती राजा उपजीविनाम्
- 05.4.17ab एकदेशं दहेद् अग्निः शरीरं वा परं गतः |
- 05.4.17chd स-पुत्रदारं राजा तु घातयेद् अर्धयेत वा ( इति)
Chapt | Proper behaviour for a courtier
- 05.5.01 नियुक्तः कर्मसु व्ययविशुद्धं उदयं दर्शयेत्
- 05.5.02 आभ्यन्तरं बाह्यं गुह्यं प्रकाश्यं आत्ययिकं उपेक्षितव्यं वा कार्यं इदं एवम् इति विशेषयेच्च
- 05.5.03 मृगयाद्यूतमद्यस्त्रीषु प्रसक्तं न एनं अनुवर्तेत प्रशंसाभिः
- 05.5.04 आसन्नश्चास्य व्यसन उपघाते प्रयतेत, पर उपजापातिसन्धान उपधिभ्यश्च रक्षेत्
- 05.5.05 इङ्गिताकारौ चास्य लक्षयेत्
- 05.5.06 कामद्वेषहर्षदैन्यव्यवसायभयद्वन्द्वविपर्यासं इङ्गिताकाराभ्यां हि मन्त्रसंवरणार्थं आचरति प्राज्ञः
- 05.5.07 दर्शने प्रसीदति, वाक्यं प्रतिगृह्णाति, आसनं ददाति, विविक्तो दर्शयते, शङ्कास्थाने नातिशङ्कते, कथायां रमते, परिज्ञाप्येष्ववेक्षते, पथ्यं उक्तं सहते, स्मयमानो नियुङ्क्ते, हस्तेन स्पृशति, श्लाघ्ये न उपहसति, परोक्षं गुणं ब्रवीति, भक्ष्येषु स्मरति, सह विहारं याति, व्यसनेऽभ्युपपद्यते, तद्भक्तीन् पूजयति, गुह्यं आचष्टे, मानं वर्धयति, अर्थं करोति, अनर्थं प्रतिहन्ति - इति तुष्टज्ञानम्
- 05.5.08 एतद् एव विपरीतं अतुष्टस्य, भूयश्च वक्ष्यामः
- 05.5.09 सन्दर्शने कोपः, वाक्यस्याश्रवणप्रतिषेधौ, आसनचक्षुषोरदानं, वर्णस्वरभेदः, एकाक्षिभ्रुकुट्य्.ओष्ठनिर्भोगः, स्वेदश्वासस्मितानां अस्थान उत्पत्तिः, परमन्त्रणं, अकस्माद्व्रजनं, वर्धनं अन्यस्य, भूमिगात्रविलेखनं, अन्यस्य उपतोदनं, विद्यावर्णदेशकुत्सा, समदोषनिन्दा, प्रतिदोषनिन्दा, प्रतिलोमस्तवः, सुकृतानवेक्षणं, दुष्कृतानुकीर्तनं, पृष्ठावधानं, अतित्यागः, मिथ्याऽभिभाषणं, राजदर्शिनां च तद्वृत्तान्यत्वम्
- 05.5.10 वृत्तिविकारं चावेक्षेताप्यमानुषाणाम्
- 05.5.11 अयं उच्चैः सिञ्चति इति कात्यायनः प्रवव्राज, क्रौञ्चोऽपसव्यम् इति कणिङ्को भारद्वाजः, तृणम् इति दीर्घश्चारायणः, शीता शाटी इति घोटमुखः, हस्ती प्रत्यौक्षीत् इति किञ्जल्कः, रथाश्वं प्राशंसीत् इति पिशुनः, प्रतिरवणे शुनः पिशुनपुत्रः
- 05.5.12 अर्थमानावक्षेपे च परित्यागः
- 05.5.13 स्वामिशीलं आत्मनश्च किल्बिषं उपलभ्य वा प्रतिकुर्वीत
- 05.5.14 मित्रं उपकृष्टं वाऽस्य गच्छेत्
- 05.5.15ab तत्रस्थो दोषनिर्घातं मित्रैर्भर्तरि चाचरेत् |
- 05.5.15chd ततो भर्तरि जीवे वा मृते वा पुनराव्रजेत् ( इति)
Chapt | Continuance of the kingdom Continuous sovereigntय्
- 05.6.01 राजव्यसनं एवं अमात्यः प्रतिकुर्वीत
- 05.6.02 प्राग् एव मरणाबाधभयाद् राज्ञः प्रियहित उपग्रहेण मासद्विमासान्तरं दर्शनं स्थापयेद् देशपीडाऽपहं अमित्रापहं आयुष्यं पुत्रीयं वा कर्म राजा साधयति इत्यपदेशेन
- 05.6.03 राजव्यञ्जनं अरूपवेलायां प्रकृतीनां दर्शयेत्, मित्रामित्रदूतानां च
- 05.6.04 तैश्च यथा उचितां सम्भाषां अमात्यमुखो गच्छेत्
- 05.6.05 दौवारिकान्तर्वंशिकमुखश्च यथा उक्तं राजप्रणिधिं अनुवर्तयेत्
- 05.6.06 अपकारिषु च हेडं प्रसादं वा प्रकृतिकान्तं दर्शयेत्, प्रसादं एव उपकारिषु
- 05.6.07 आप्तपुरुषाधिष्ठितौ दुर्गप्रत्यन्तस्थौ वा कोशदण्डावेकस्थौ कारयेत्, कुल्यकुमारमुख्यांश्चान्यापदेशेन
- 05.6.08 यश्च मुख्यः पक्षवान् दुर्गाटवीस्थो वा वैगुण्यं भजेत तं उपग्राहयेत्
- 05.6.09 बह्व्ऽअबाधं वा यात्रां प्रेषयेत्, मित्रकुलं वा
- 05.6.10 यस्माच्च सामन्ताद् आबाधं पश्येत् तं उत्सवविवाहहस्तिबन्धनाश्वपण्यभूमिप्रदानापदेशेनावग्राहयेत्, स्वमित्रेण वा
- 05.6.11 ततः सन्धिं अदूष्यं कारयेत्
- 05.6.12 आटविकामित्रैर्वा वैरं ग्राहयेत्
- 05.6.13 तत्कुलीनं अपरुद्धं वा भूंय्.एकदेशेन उपग्राहयेत्
- 05.6.14 कुल्यकुमारमुख्य उपग्रहं कृत्वा वा कुमारं अभिषिक्तं एव दर्शयेत्
- 05.6.15 दाण्डकर्मिकवद् वा राज्यकण्टकान् उद्धृत्य राज्यं कारयेत्
- 05.6.16 यदि वा कश्चिन् मुख्यः सामन्तादीनां अन्यतमः कोपं भजेत तं एहि, राजानं त्वा करिष्यामि इत्यावाहयित्वा घातयेत्
- 05.6.17 आपत्प्रतीकारेण वा साधयेत्
- 05.6.18 युवराजे वा क्रमेण राज्यभारं आरोप्य राजव्यसनं ख्यापयेत्
- 05.6.19 परभूमौ राजव्यसने मित्रेणामित्रव्यञ्जनेन शत्रोः सन्धिं अवस्थाप्यापगच्छेत्
- 05.6.20 सामन्तादीनां अन्यतमं वाऽस्य दुर्गे स्थापयित्वाऽपगच्छेत्
- 05.6.21 कुमारं अभिषिच्य वा प्रतिव्यूहेत
- 05.6.22 परेणाभियुक्तो वा यथा उक्तं आपत्प्रतीकारं कुर्यात्
- 05.6.23 एवं एकाइश्वर्यं अमात्यः कारयेद् इति कौटिल्यः
- 05.6.24 न एवम् इति भारद्वाजः
- 05.6.25 प्रम्रियमाणे वा राजन्यमात्यः कुल्यकुमारमुख्यान् परस्परं मुख्येषु वा विक्रमयेत्
- 05.6.26 विक्रान्तं प्रकृतिकोपेन घातयेत्
- 05.6.27 कुल्यकुमारमुख्यान् उपांशुदण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात्
- 05.6.28 राज्यकारणाद्द् हि पिता पुत्रान् पुत्राश्च पितरं अभिद्रुह्यन्ति, किं अङ्ग पुनरमात्यप्रकृतिर्ह्येकप्रग्रहो राज्यस्य
- 05.6.29 तत् स्वयं उपस्थितं नावमन्येत
- 05.6.30 स्वयं आरूढा हि स्त्री त्यज्यमानाऽभिशपति इति लोकप्रवादः
- 05.6.31ab कालश्च सकृद् अभ्येति यं नरं कालकाङ्क्षिणम् |
- 05.6.31chd दुर्लभः स पुनः तस्य कालः कर्म चिकीर्षतः
- 05.6.32 प्रकृतिकोपकं अधर्मिष्ठं अनैकान्तिकं च एतद् इति कौटिल्यः
- 05.6.33 राजपुत्रं आत्मसम्पन्नं राज्ये स्थापयेत्
- 05.6.34 सम्पन्नाभावेऽव्यसनिनं कुमारं राजकन्यां गर्भिणीं देवीं वा पुरस्कृत्य महामात्रान् संनिपात्य ब्रूयात् अयं वो निक्षेपः, पितरं अस्यावेक्षध्वं सत्त्वाभिजनं आत्मनश्च, ध्वजमात्रोऽयं भवन्त एव स्वामिनः, कथं वा क्रियताम् इति
- 05.6.35 तथा ब्रुवाणं योगपुरुषा ब्रूयुः कोऽन्यो भवत्पुरोगाद् अस्माद् राज्ञश्चातुर्वर्ण्यं अर्हति पालयितुम् इति
- 05.6.36 तथा इत्यमात्यः कुमारं राजकन्यां गर्भिणीं देवीं वाऽधिकुर्वीत, बन्धुसम्बन्धिनां मित्रामित्रदूतानां च दर्शयेत्
- 05.6.37 भक्तवेतनविशेषं अमात्यानां आयुधीयानां च कारयेत्, भूयश्चायं वृद्धः करिष्यति इति ब्रूयात्
- 05.6.38 एवं दुर्गराष्ट्रमुख्यान् आभाषेत, यथाऽर्हं च मित्रामित्रपक्षम्
- 05.6.39 विनयकर्मणि च कुमारस्य प्रयतेत
- 05.6.40 कन्यायां समानजातीयाद् अपत्यं उत्पाद्य वाऽभिषिञ्चेत्
- 05.6.41 मातुश्चित्तक्षोभभयात् कुल्यं अल्पसत्त्वं छात्रं च लक्षण्यं उपनिदध्यात्
- 05.6.42 ऋतौ च एनां रक्षेत्
- 05.6.43 न चात्मार्थं कञ्चिद् उत्कृष्टं उपभोगं कारयेत्
- 05.6.44 राजार्थं तु यानवाहनाभरणवस्त्रस्त्रीवेश्मपरिवापान् कारयेत्
- 05.6.45ab यौवनस्थं च याचेत विश्रमं चित्तकारणात् |
- 05.6.45chd परित्यजेद् अतुष्यन्तं तुष्यन्तं चानुपालयेत्
- 05.6.46ab निवेद्य पुत्ररक्षाऽर्थं गूढसारपरिग्रहान् |
- 05.6.46chd अरण्यं दीर्घसत्त्रं वा सेवेतारुच्यतां गतः
- 05.6.47ab मुख्यैरवगृहीतं वा राजानं तत्प्रियाश्रितः |
- 05.6.47chd इतिहासपुराणाभ्यां बोधयेद् अर्थशास्त्रवित्
- 05.6.48ab सिद्धव्यञ्जनरूपो वा योगं आस्थाय पार्थिवम् |
संबंधित कड़ियाँ
सम्पाद्यताम्- कौटिलीय अर्थशास्त्रं
- कौटिलीय अर्थशास्त्रं १
- कौटिलीय अर्थशास्त्रं २
- कौटिलीय अर्थशास्त्रं ३
- कौटिलीय अर्थशास्त्रं ४
- कौटिलीय अर्थशास्त्रं ५
- कौटिलीय अर्थशास्त्रं ६
- कौटिलीय अर्थशास्त्रं ७
- कौटिलीय अर्थशास्त्रं ८
- कौटिलीय अर्थशास्त्रं ९
- कौटिलीय अर्थशास्त्रं १०
- कौटिलीय अर्थशास्त्रं ११
- कौटिलीय अर्थशास्त्रं १२
- कौटिलीय अर्थशास्त्रं १३
- कौटिलीय अर्थशास्त्रं १४
- कौटिलीय अर्थशास्त्रं १५