कौटिलीय अर्थशास्त्रं ६

  Book |      मण्डलयोनिः षष्ठं अधिकरणम्
    Chapt |      षण्ँअवतितमं प्रकरणं - प्रकृतिसम्पदः
  • 06.1.01 स्वाम्य्ऽमात्यजनपददुर्गकोशदण्डमित्राणि प्रकृतयः
  • 06.1.02 तत्र स्वामिसम्पत्
  • 06.1.03 महाकुलीनो दैवबुद्धिसत्त्वसम्पन्नो वृद्धदर्शी धार्मिकः सत्यवाग् अविसंवादकः कृतज्ञः स्थूललक्षो महा उत्साहोऽदीर्घसूत्रः शक्यसामन्तो दृढबुद्धिरक्षुद्रपरिषत्को विनयकाम इत्याभिगामिका गुणाः
  • 06.1.04 शुश्रूषाश्रवणग्रहणधारणविज्ञान ऊहापोहतत्त्वाभिनिवेशाः प्रज्ञागुणाः
  • 06.1.05 शौर्यं अमर्षः शीघ्रता दाक्ष्यं च उत्साहगुणाः
  • 06.1.06 वाग्मी प्रगल्भः स्मृतिमतिबलवान् उदग्रः स्व्ऽवग्रहः कृतशिल्पोऽव्यसनो दण्डनाय्युपकारापकारयोर्दृष्टप्रतीकारी ह्रीमान् आपत्प्रकृत्योर्विनियोक्ता दीर्घदूरदर्शी देशकालपुरुषकारकार्यप्रधानः सन्धिविक्रमत्यागसम्यमपणपरच्छिद्रविभागी संवृतोऽदीनाभिहास्यजिह्मभ्रुकुटीक्षणः कामक्रोधलोभस्तम्भचापल उपतापपैशुन्यहीनः शक्लः स्मित उदग्राभिभाषी वृद्ध उपदेशाचार इत्यात्मसम्पत्
  • 06.1.07 अमात्यसम्पद् उक्ता पुरस्तात्
  • 06.1.08 मध्ये चान्ते च स्थानवान् आत्मधारणः परधारणश्चापदि स्वारक्षः स्वाजीवः शत्रुद्वेषी शक्यसामन्तः पङ्कपाषाण उषरविषमकण्टकश्रेणीव्यालमृगाटवीहीनः कान्तः सीताखनिद्रव्यहस्तिवनवान् गव्यः पौरुषेयो गुप्तगोचरः पशुमान् अदेवमातृको वारिस्थलपथाभ्यां उपेतः सारचित्रबहुपण्यो दण्डकरसहः कर्मशीलकर्षकोऽबालिशस्वाम्य्ऽवरवर्णप्रायो भक्तशुचिमनुष्य इति जनपदसम्पत्
  • 06.1.09 दुर्गसम्पद् उक्ता पुरस्तात्
  • 06.1.10 धर्माधिगतः पूर्वैः स्वयं वा हेमरूप्यप्रायश्चित्रस्थूलरत्नहिरण्यो दीर्घां अप्यापदं अनायतिं सहेत इति कोशसम्पत्
  • 06.1.11 पितृपैतामहो नित्यो वश्यः तुष्टभृतपुत्रदारः प्रवासेष्वविसंवादितः सर्वत्राप्रतिहतो दुःखसहो बहुयुद्धः सर्वयुद्धप्रहरणविद्याविशारदः सहवृद्धिक्षयिकत्वाद् अद्वैध्यः क्षत्रप्राय इति दण्डसम्पत्
  • 06.1.12 पितृपैतामहं नित्यं वश्यं अद्वैध्यं महल्लघुसमुत्थं इति मित्रसम्पत्
  • 06.1.13 अराजबीजी लुब्धः क्षुद्रपरिषत्को विरक्तप्रकृतिरन्यायवृत्तिरयुक्तो व्यसनी निरुत्साहो दैवप्रमाणो यत्किञ्चनकार्यगतिरननुबन्धः क्लीबो नित्यापकारी च इत्यमित्रसम्पत्
  • 06.1.14 एवम्भूतो हि शत्रुः सुखः समुच्छेत्तुं भवति
  • 06.1.15ab अरिवर्जाः प्रकृतयः सप्त एताः स्वगुण उदयाः |
  • 06.1.15chd उक्ताः प्रत्यङ्गभूताः ताः प्रकृता राजसम्पदः
  • 06.1.16ab सम्पादयत्यसम्पन्नाः प्रकृतीरात्मवान्नृपः |
  • 06.1.16chd विवृद्धाश्चानुरक्ताश्च प्रकृतीर्हन्त्यनात्मवान्
  • 06.1.17ab ततः स दुष्टप्रकृतिश्चातुरन्तोऽप्यनात्मवान् |
  • 06.1.17chd हन्यते वा प्रकृतिभिर्याति वा द्विषतां वशम्
  • 06.1.18ab आत्मवांः त्वल्पदेशोऽपि युक्तः प्रकृतिसम्पदा |
  • 06.1.18chd नयज्ञः पृथिवीं कृत्स्नां जयत्येव न हीयते ( इति)


    Chapt |      शमव्यायामिकम्
  • 06.2.01 शमव्यायामौ योगक्षेमयोर्योनिः
  • 06.2.02 कर्मारम्भाणां योगाराधनो व्यायामः
  • 06.2.03 कर्मफल उपभोगानां क्षेमाराधनः शमः
  • 06.2.04 शमव्यायामयोर्योनिः षाड्गुण्यम्
  • 06.2.05 क्षयः स्थानं वृद्धिरित्युदयाः तस्य
  • 06.2.06 मानुषं नयापनयौ, दैवं अयानयौ
  • 06.2.07 दैवमानुषं हि कर्म लोकं यापयति
  • 06.2.08 अदृष्टकारितं दैवम्
  • 06.2.09 तस्मिन्न् इष्टेन फलेन योगोऽयः, अनिष्टेनानयः
  • 06.2.10 दृष्टकारितं मानुषम्
  • 06.2.11 तस्मिन् योगक्षेमनिष्पत्तिर्नयः, विपत्तिरपनयः
  • 06.2.12 तच्चिन्त्यं, अचिन्त्यं दैवम्
  • 06.2.13 राजा आत्मद्रव्यप्रकृतिसम्पन्नो नयस्याधिष्ठानं विजिगीषुः
  • 06.2.14 तस्य समन्ततो मण्डलीभूता भूम्य्ऽनन्तरा अरिप्रकृतिः
  • 06.2.15 तथा एव भूम्य्.एकान्तरा मित्रप्रकृतिः
  • 06.2.16 अरिसम्पद्युक्तः सामन्तः शत्रुः, व्यसनी यातव्यः, अनपाश्रयो दुर्बलाश्रयो वा उच्छेदनीयः, विपर्यये पीडनीयः कर्शनीयो वा
  • 06.2.17 इत्यरिविशेषाः
  • 06.2.18 तस्मान् मित्रं अरिमित्रं मित्रमित्रं अरिमित्रमित्रं चानन्तर्येण भूमीनां प्रसज्यन्ते पुरस्तात्, पश्चात् पार्ष्णिग्राह आक्रन्दः पार्ष्णिग्राहासार आक्रन्दासारः
  • 06.2.19 भूम्य्ऽनन्तरः प्रकृतिमित्रः, तुल्याभिजनः सहजः, विरुद्धो विरोधयिता वा कृत्रिमः
  • 06.2.20 भूम्य्.एकान्तरं प्रकृतिमित्रं, मातापितृसम्बद्धं सहजं, धनजीवितहेतोराश्रितं कृत्रिमम्
  • 06.2.21 अरिविजिगीष्वोर्भूम्य्ऽनन्तरः संहतासंहतयोरनुग्रहसमर्थो निग्रहे चासंहतयोर्मध्यमः
  • 06.2.22 अरिविजिगीषुमध्यानां बहिः प्रकृतिभ्यो बलवत्तरः संहतासंहतानां अरिविजिगीषुमध्यमानां अनुग्रहसमर्थो निग्रहे चासंहतानां उदासीनः
  • 06.2.23 इति प्रकृतयः
  • 06.2.24 विजिगीषुर्मित्रं मित्रमित्रं वाऽस्य प्रकृतयः तिस्रः
  • 06.2.25 ताः पञ्चभिरमात्यजनपददुर्गकोशदण्डप्रकृतिभिरेक एकशः सम्युक्ता मण्डलं अष्टादशकं भवति
  • 06.2.26 अनेन मण्डलपृथक्त्वं व्याख्यातं अरिमध्यम उदासीनानाम्
  • 06.2.27 एवं चतुर्मण्डलसङ्क्षेपः
  • 06.2.28 द्वादश राजप्रकृतयः षष्टिर्द्रव्यप्रकृतयः, सङ्क्षेपेण द्विसप्ततिः
  • 06.2.29 तासां यथास्वं सम्पदः
  • 06.2.30 शक्तिः सिद्धिश्च
  • 06.2.31 बलं शक्तिः
  • 06.2.32 सुखं सिद्धिः
  • 06.2.33 शक्तिः त्रिविधा - ज्ञानबलं मन्त्रशक्तिः, कोशदण्डबलं प्रभुशक्तिः, विक्रमबलं उत्साहशक्तिः
  • 06.2.34 एवं सिद्धिः त्रिविधा एव - मन्त्रशक्तिसाध्या मन्त्रसिद्धिः, प्रभुशक्तिसाध्या प्रभुसिद्धिः, उत्साहशक्तिसाध्या उत्साहसिद्धिः
  • 06.2.35 ताभिरभ्युच्चितो ज्यायान् भवति, अपचितो हीनः, तुल्यशक्तिः समः
  • 06.2.36 तस्मात्शक्तिं सिद्धिं च घटेतात्मन्यावेशयितुं, साधारणो वा द्रव्यप्रकृतिष्वानन्तर्येण शौचवशेन वा
  • 06.2.37 दूष्यामित्राभ्यां वाऽपक्रष्टुं यतेत
  • 06.2.38 यदि वा पश्येत् अमित्रो मे शक्तियुक्तो वाग्दण्डपारुष्यार्थदूषणैः प्रकृतीरुपहनिष्यति, सिद्धियुक्तो वा मृगयाद्यूतमद्यस्त्रीभिः प्रमादं गमिष्यति, स विरक्तप्रकृतिरुपक्षीणः प्रमत्तो वा साध्यो मे भविष्यति, विग्रहाभियुक्तो वा सर्वसन्दोहेन एकस्थोऽदुर्गस्थो वा स्थास्यति, स संहतसैन्यो मित्रदुर्गवियुक्तः साध्यो मे भविष्यति, बलवान् वा राजा परतः शत्रुं उच्छेत्तुकामः तं उच्छिद्य मां उच्छिन्द्याद् इति बलवता प्रार्थितस्य मे विपन्नकर्मारम्भस्य वा साहाय्यं दास्यति, मध्यमलिप्सायां च, इत्येवंऽअदिषु कारणेष्वमित्रस्यापि शक्तिं सिद्धिं च इच्छेत्
  • 06.2.39ab नेमिं एकान्तरान् राज्ञः कृत्वा चानन्तरान् अरान् |
  • 06.2.39chd नाभिं आत्मानं आयच्छेन्नेता प्रकृतिमण्डले
  • 06.2.40ab मध्ये ह्युपहितः शत्रुर्नेतुर्मित्रस्य च उभयोः |
  • 06.2.40chd उच्छेद्यः पीडनीयो वा बलवान् अपि जायते ( इति)

संबंधित कड़ियाँ

सम्पाद्यताम्
  1. कौटिलीय अर्थशास्त्रं
    1. कौटिलीय अर्थशास्त्रं १
    2. कौटिलीय अर्थशास्त्रं २
    3. कौटिलीय अर्थशास्त्रं ३
    4. कौटिलीय अर्थशास्त्रं ४
    5. कौटिलीय अर्थशास्त्रं ५
    6. कौटिलीय अर्थशास्त्रं ६
    7. कौटिलीय अर्थशास्त्रं ७
    8. कौटिलीय अर्थशास्त्रं ८
    9. कौटिलीय अर्थशास्त्रं ९
    10. कौटिलीय अर्थशास्त्रं १०
    11. कौटिलीय अर्थशास्त्रं ११
    12. कौटिलीय अर्थशास्त्रं १२
    13. कौटिलीय अर्थशास्त्रं १३
    14. कौटिलीय अर्थशास्त्रं १४
    15. कौटिलीय अर्थशास्त्रं १५

बाहरी कडियाँ

सम्पाद्यताम्