← कण्डिका १५१-१६० जैमिनीयं ब्राह्मणम्/काण्डम् १
कण्डिका १६१-१७०
[[लेखकः :|]]
कण्डिका १७१-१८० →

यद् यथापूर्वं छन्दांस्य उपेयुर् अनुष्टुभ उत्तमाः कुर्युः। वाग् वा अनुष्टुप्। तां वै यज्ञाद् बहिर्धा कुर्युः। ताम् एवैतद्यज्ञस्य मध्यत आभजन्ति। ता एता भवन्ति पुरोजिती वो अन्धसः इति। पुरस्ताद् ध वा एताः पाप्मानं जयन्ति पुरस्तात् पाप्मानम् अपघ्नन्त्यो यन्ति। जितं ह वा एताभिः। विजितम् अन्ववस्यति
सुतायमादयित्नवे।
अप श्वानं श्नथिष्टन सखायो दीर्घजिह्वियम्॥
इति। दीर्घजिह्वी ह वा असुर्य् आस। सा ह स्म सोमंसोमम् अवलेढि। उत्तरे ह समुद्र आस। स यो ह स्म दक्षिणे समुद्रे सूयते यः पूर्वे यो ऽपरे तं ह स्म तत एवावलेढि। तां हेन्द्रो जिघृक्षन् न शशाक गृहीतमुम्। स होवाच मा कश् चन यष्टेयं वै दीरघजिह्वी सोमंसोमम् एवावलढीति॥1.161॥


अथ ह सुमित्रः कौत्सो दर्शनीय आस। स तं होवाच सुमित्र दर्शनीयो वा असि। सुलापा वै दर्शनीयेन स्त्रियः। इमां दीर्घजिह्वीं लिलापयिषस्वेति। तां हेत्योवाच दीर्घजिह्वि कामयस्व मेति। सा होवाचैकं तव शेपो ऽङ्गेऽङ्गे मम मुष्का न वै तत् संपद्यत इति। स ह पुनर् एत्योवाचैकं तव शेपो ऽङ्गेऽङ्गे मम मुष्का न वै तत् संपद्यत इति वै माम् इयम् आहेति। अङ्गेऽङ्गे वा अहं तव शेपांसि करोमीति होवाच। तानि हाभिप्रावृत्येयाय। तां होवाच दीर्घजिह्वि कामयस्व मेति। सा होवाचैकं तव शेपो ऽङ्गेऽङ्गे मम मुष्का न वै तत् संपद्यत इति। अङ्गेऽङ्गे वाव मम शेपांसीति होवाच। अङ्ग ते पश्यानीति॥1.162॥


तानि हास्यै दर्शयांचकार। तानि हास्यै छन्दयांचक्रुः। स वा एहीति होवाच। को नामासीति। सुमित्रो नामेति। कल्याणं वै ते नामेति होवाच। तौ ह संनिपाते। तस्यां ह यदार्थं चक्रे ऽथ हैनां तद् एवाभिसंजग्राह। सा होवाच नन्व् अरे त्वं सुमित्रो ऽवोचथा इति। स होवाच सुमित्र एवाह सुमित्रायास्मि दुर्मित्रो दुर्मित्रायेति॥

स एतानि सौमित्राणि सामान्य् अपश्यत्। तैर अस्तुत। तैर् इन्द्रम् आह्वयत्। स इन्द्र एताम् अनुष्टुभं वज्रम् उद्यत्याद्रवत्
पुरोजिती वो अन्धसस् सुताय मादयित्नवे।
अप श्वानं श्नथिष्टन सखायो दीर्घजिह्वियम्॥
इत्य् एवास्यै प्राहन्। ता एता भ्रातृव्यघ्न्यो रक्षोघ्न्य ऋचः। हन्ति द्विषन्तं भ्रातृव्यम् अप रक्षः पाप्मानं हत एताभिर् ऋग्भिस् तुष्टुवानः॥
यो धारया पावकया परिप्रस्यन्दते सुतः।
इन्दुर् अश्वो न कृत्वियः॥
तं दुरोषम् अभी नरस् सोमं विश्वाच्या धिया।
यज्ञाय सन्त्व् अद्रयः॥
इति। पूर्वयोर् एवैष सवनयोर् अभिसंक्रमः॥

तासु श्यावाश्वम्। श्यावाश्वं वा आर्चनानसं समिद्धारं परेतं प्रतिसत्त्रिणो हित्वा स्वर्गं लोकम् आयन्। सो ऽकामयतानूत्पतेयं स्वर्गं लोकं प्रतिसत्त्रिभिस् संगच्छेयेति। स एतत् सामापश्यत्। तेनास्तुत॥1.163॥


पुरोजिती वो अन्धस एह्या।सूताय मादयित्नवा एह्या। आपश्वानं श्नाथीष्टाना। तम् ऐहो वा एह्या इत्य् एव मरुतस् स्वर्गे लोक उपाह्वयन्त। ततो वै स प्रतिसत्त्रिभिस् समगच्छत। स हैष मरुद्भिर् एव सह श्यावाश्वः। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। यद् उ श्यावाश्व आर्चनानसो ऽपश्यत् तस्माच् छ्यावाश्वम् इत्य् आख्यायते॥

इन्द्रो वै तृतीयसवनाद् बीभत्समान उदक्रामत्। धीतम् इव ह्य् आसीत्। तम् एतेन विश्वेदेवास् साम्नाह्वयन्त ओहोइया इति। ततो वा इन्द्रस् तृतीयसवनम् उपावर्तत। ततो ऽस्माद् अनपक्रम्य् अभवत्। तद् एतत् सेन्द्रं साम। सेन्द्रो हास्य सदेवो यज्ञो भवति। अभ्य् अस्येन्द्रो यज्ञम् आवर्तते नास्येन्द्रो यज्ञाद् अपक्रामति य एवं वेद।

तत् स्वारं भवति। प्राणो वै स्वरः। वीव वा एते प्राणैर् ऋध्यन्ते य यज्ञीयस्य कर्मणो ऽतिपादयन्ति यद् वा नातिपादयन्ति। को हि तद् वेद यदि ते ऽति वा पादयन्ति न वा। तद् यत् स्वारं भवति प्राणैर् एव तत् समृध्यन्ते॥1.164॥


अथान्धीगवम्। मध्येनिधनं भवति। प्रतिष्ठायै। समुद्रं वा एते ऽनारम्भणं प्रप्लवन्ते य आर्भवं पवमानम् उपयन्ति। तद् यन् मध्येनिधनं भवति प्रतिष्ठित्या एव। तद् यथा वा अदस् समुद्रं प्रस्नाय द्वीपं वित्त्वोपोत्स्नाय विश्राम्यन्न् आस्त एवं ह वा एतन् निधनम् उपेत्य कामं विश्राम्यन्त आसीरन्न् अस्तुवानाः॥

तद् ऐळं भवति। पशवो वा इळा पशवः कृत्स्नम् अन्नाद्यम्। यो वा अनवसो ऽध्वानं प्रैति नैनं स समश्नुते। अथ यस् सावसः प्रैति स एवैनं समश्नुते॥

अयं वाव समुद्रो ऽनारम्भणो यद् इदम् अन्तरिक्षम्। तस्य नानवसेनेत्थं गतिर् अस्ति नेत्थम्। तद् एतत् पशून् एव कृत्स्नम् अन्नाद्यम् अवसं कृत्वा यन्ति॥

शाक्त्या अन्नाद्यकामा अदीक्षन्त। स एतद् अन्धीगुश् शाक्त्यस् सामापश्यत्। तेनास्तुत। तस्यैतां दशाक्षरां विराजं मध्यत् उपैत्। दशाक्षरा विराड् अन्नं विराट्। ततो वै ते विराजम् अन्नाद्यम् अवारुन्धत। तद् एतद् विराजो ऽन्नाद्यस्यावरुद्धिस् साम। अव विराजम् अन्नाद्यं रुन्द्धे ऽन्नादश् श्रेष्ठस् स्वानां भवति य एवं वेद। यद् व् अन्धीगुश् शाक्त्यो ऽपश्यत् तस्माद् आन्धीगवम् इत्य् आख्यायते॥1.165॥


अथैता भवन्ति अभि प्रियाणि पवते चनोहितः इति। प्रजापतिः प्रजा असृजत। ता अप्राणा असृजत। ताभ्य एताभिर् एवर्ग्भिः प्राणान् अदधात्। अभि प्रियाणि पवते चनोहितः इति। प्रजायै वै प्रियंश्ना अभि इत्य् एव प्राणेनाभ्यपवत। नामानि यह्वो अधि येषु वर्धते इति। महा वै प्रजानामानि। आ सूर्यस्य बृहतो बृहन्न् अधि रथं विष्वञ्चम् अरुहद् विचक्षणः इति। प्राणो वै विष्वङ्। सो ऽयं विष्व् अञ्चति। ता एता आयुष्या ऋचः। सर्वम् आयुर् एत्य् एताभिर् ऋग्भिस् तुष्टुवानःः॥

तासु कावम्। कविर् वै भार्गवो देवेष्व् अमर्त्यं गन्धर्वलोकम् ऐच्छत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स देवेष्व् अमर्त्यं गन्धर्वलोकम् आश्नुत। तद् एतत् लोकवित् साम। अश्नुते देवेष्व् अमर्त्यं गन्धर्वलोकम् एतेन तुष्टुवानः। यद् उ कविर् भार्गवो ऽपश्यत् तस्मात् कावम् इत्य् आख्यायते॥

तत् स्वारं भवति। स्वरेण वै देवेभ्यो ऽन्ततो ऽन्नाद्यं प्रदीयत ऋक्साम पवमानान्ते भवति। नर्चा सामानि रेचयन्ति नर्चं साम्ना। तद् यद् इहेव चेहेव च पवमानेन स्तुवन्ति तद् एतस्यैव समतायै समं क्लृप्त्यै। पदानुस्वारं पुरस्ताद् गायत्रं भवति पदानुस्वारम् उपरिष्टात् पवमानान्ते। तस्माद् उभयतः प्राणाः प्रजा ऊर्ध्वाश् चावाचीश् च॥

यां ह खलु वै पितापुत्रौ नावम् अजतो न सा रिष्यति। दैव्य् एषा नौर् यद् यज्ञः। ताव् एतत् पितापुत्राव् एवाजतः। औशनं पुरस्ताद् भवति कावम् उपरिष्टाद् यज्ञस्यैवारिष्ट्यै। तस्माद् यद् अदाशा नावम् अधिरोहन्ति पितापुत्रौ हैवाग्रे ऽधिरोहतः॥

पञ्चैतानि छन्दांस्य् आर्भवे पवमाने भवन्ति सप्त सामानि। तद् द्वादश संपद्यन्ते। द्वादश मासास् संवत्सरः। पञ्चो वा एवामूनि सामानि माध्यंदिने पवमाने भवन्ति। ऋतव एव सामा एवार्भवे पवमाने कल्पन्त ऋतवो माध्यंदिने। स हैष संवत्सर एव व्यूढो यद् यज्ञः॥1.166॥


प्रजापतिर् ह खलु वा एष यस् संवत्सरः। स ह षण् मासो ऽन्यतरमन्यतरं पादम् उद्ग्राहं तिष्ठति। स यदोष्णम् उद्गृह्णात्य् अथ हेदम् उपर्य् उष्णो भवत्य् अध उ ह तदा शीतो भवति। तस्माद् ग्रीष्म उपर्य् उष्णो ऽधश् शीतम् अधिगम्यते। तस्माद् उ ग्रीष्म शीताः कूप्या अप उदाहरन्ति। अथ यदा शीतम् उद्गृह्णात्य् अथ हेदम् उपरि शीतो भवत्य् अध उ ह तदोष्णो भवति। तस्माद् धेमन्न् उपरि शीतो ऽध उष्णम् अधिगम्यते। तस्माद् उ हेमन्न् उष्णाः कूप्या अप उदाहरन्ति। एवं ह वा एष प्रजापतिस् संवत्सरः प्रजा बिभर्ति॥

अथ ह वा एतं सौम्यं चरुम् आहरन्ति। यद् ध वा उद्गातुर् यज्ञ ऊनं वातिरिक्तं वा कुर्वतो मीयते यमलोकं ह वा अस्य तद् गच्छति। तद् धापि मृतोदीरिण आहुर् यमस्यैतत् सभायाम् अपश्याम इति। तद् एतेन पुनर् आह्रियते यद् एतं सौम्यं चरुम् आहरन्ति॥

तं हावेक्षेत
यन् मे मनो यमं गतं यद् वा मे अपरागतम्।
राज्ञा सोमेन तद् वयं पुनर् अस्मासु दध्मसि॥
मनसि मे चक्षुर् अधाश् चक्षुषि मे मनः॥
आयुष्मत्या ऋचो माच्छैत्सि मा साम्नो भागधेयाद् वियोषम्॥
इति। तद् धापि छायां पर्यवेक्षेतात्मनो ऽप्रणाशाय॥
अथो सर्पिषोर् अक्ष्योर् आदधीत चक्षुष आप्यायनाय। तद् अपि विज्ञानम् आसाद्। य आत्मानं न परिपश्येद् अपेतासुस् स स्यात्। तस्मात् सत्याद् अप्य् आज्यं भूय आनीय पर्य् एवात्मानं दिदृक्षेत सर्वस्यायुषो ऽवरुद्ध्यै॥1.167॥


अङ्गिरसां वै सत्त्रम् आसीनानां शर्करा अक्षिष्व् अजायन्त। ते ऽकामयन्तान्धास् स्याम प्रपश्येमेति। स एतं सौम्यं श्यामं चरुम् अक्षिष्व् आदधत। तम् एतेन मन्त्रेणादधत
येन ह्य् आजिम् अजयन् नृचक्षा येन श्येनं शकुनं सुपर्णम्।
यद् आहुश् चक्षुर् अदिताव् अनन्तं सोमो नृचक्षा मयि तद् दधातु॥
इति। ततो वै ते ऽनन्धा अभवन् प्रापश्यन्। अनन्धो हैव भवति प्रपश्यति य एवं वेद॥
तद् आहुः प्राश्या3 न प्राश्या3 इति। स यो ऽनूचानस् सन्न् अयश ऋतस् स्यात् स हि तं प्राश्नीयात्। अनूचाना इह वा अलं यशसे। स यो ऽनूचानस् सन्न् अयश ऋतो भवति - अमुं ह वै तस्य लोकं यशो गतं भवति -- तद् एतेन पुनर् आह्रियते। यद् एतं सौम्यं श्यामं चरुं प्राश्नाति तद् उ होवाच शाट्यायनिर् नैवैष प्राश्यः कस् ततो यश आहरेद् यत्र भूयसी रात्री वत्स्यन् स्याद् इति। तस्माद् उ हैतन्नैव प्राश्नीयात्॥1.168॥


तुरीयं वा एतत् साम्नः। सामन्न् एवैतद् यज्ञं प्रतिष्ठापयन्ति। तनूर् वा एषा साम्नाम्। सतनून्य् एवैतद् सामानि कुर्वन्ति। यो ह वा एतस्मात् साम्न इयाद् दुश्चर्मा वा स्यात् पापी वैनं कीर्त्तिर् अभिवदेत्॥

गायत्री वा एषा वयो भूत्वोदेति। दिवम् अपतत्। अनुष्टुभि वा एतस्यै सते दिशश् शुक्लम् अहरन्। शुक्लहृता अस्मै प्रजा भवन्ति। दिग्भ्यो ऽस्मै शुक्लो ह्रियते य एवं वेद॥

वयो यज्ञा वो अग्नये इति प्रस्तौति। ओ यिरा यिरा च दक्षसे पोप्रिं वयम् अमृतं जातोवाहोयिविदोसम् इति प्रतिहरति। यज्ञा इति द्वे अक्षरे गिरा इति द्वे पोप्रिम् इति द्वे। तत् षट् संपद्यन्ते। षडक्षरस् तूष्णींशंसः। तूष्णींशंस एवैतद् आग्निमारुते विमुच्यन्ते। स ह्य् अन्तः॥

अग्निर् वैश्वानरः प्रजा अभ्युदतिष्ठत्। स इदं सर्वं प्रातपत्। तस्य देवा प्रदाहाद् अबिभयुः। ते ऽब्रुवन् सर्वं वा अयम् इदं प्रधक्ष्यति -- ॥1.169॥


-- एतस्य हरो ऽपैरयामेति। तस्य हरो ऽपैरयम्। तद् यत् प्रथमम् अपैरयंस् तस्मिन् व्यवदन्त क्वेदं भविष्यतीति। यज्ञेयज्ञे नो भविष्यतीत्य् अब्रुवन्। तद् यज्ञायज्ञीयम् अभवत्। तद् यज्ञायज्ञीयस्य यज्ञायज्ञीयत्वम्॥

यद् द्वितीयम् अपैरयंस् तत् नार्मेधम् अभवत्। यत् तृतीयम् अपैरयंस् तद् दाशस्पत्यम् अभवत्। यच् चतुर्थम् अपैरयंस् तद् विशोविशीयम् अभवत्। यत्पञ्चमम् अपैरयंस् तद् वारवन्तीयम् अभवत्॥

अग्निर् वा एष वैश्वानरो यद् यज्ञः। तद्वद् एतान्य अग्निष्टोमसामानि भवन्ति। हरस्यैवैतद् अग्निं वैश्वानरं प्रतिष्ठापयन्ति॥1.170॥