प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तद् एव सूद्गीतम्। अथो अरोरात्रे एव तद् अन्योन्यस्मिन् प्रतिष्ठापयन् गायति। तद् यद् अहर् आविस् सत् तच् छन्नं गायति तस्माद् असाव् आदित्य इदं सर्वं न प्रदहति। अथ यद रात्रिं छन्नां सतीं ताम् आविर् गायति तस्माद् उ हेदं नक्तं किं च निर्ज्ञायते। यद् ध तां छन्नाम् एव गायेद् अन्धम् एव तमस् स्यात्॥

अथ राजानो ऽग्निष्टोमसामानि राजपुत्रा द्वादशाहीयानि विशश् छन्दस्यानि। तस्माद् एतानि त्रयाणि सामानि संवसरे कार्याणि। यद् वै क्षत्रं विड्वद् राजपुत्रवद् भवति तत् समृद्धम्। स यथा क्षत्रं विड्वद् राजपुत्रवत् स्यात् तादृक् तत्॥

तद् यद् एतानि सामानि संवत्सरे क्रियन्ते ऽथातो ऽग्निष्टोमसाम्नाम् एव गानम्। यथा राज्ञः परिष्कारश् शार्दूलाजिनं मणिहिरण्यं हस्ती निष्को ऽश्वतरीरथो ऽश्वरथो रुक्मः कंसस् त एवम् एष ऐतेषां साम्नां परिष्कारः। तस्माद् अग्निष्टोमसामान्य् एव गानीकृत्य गायेद् यथागीतम् इतराणि यथागीतम् इतराणि॥1.341॥

यदि सोमौ संस्तुतौ स्यातां महारात्रे प्रातरनुवाकम् उपाकुर्यात्। पूर्वो वाचं पूर्वो देवताः पूर्वश् छन्दांसि वृंक्ते। छन्दांसि वै सर्वा देवताः। सर्वा एवैषां देवता वृञ्जते। पूर्वो वसतीवरीर् जिग्राहयिषेत्। एता वै सर्वा देवता यद् वसतीवर्यः। सर्वा एवैषां देवता वृञ्जते॥

सुषमिद्धे होतव्यम्। अग्निर् वै सर्वा देवताः। सर्वा एव तद् देवताः पश्यन्तो यजन्ते छन्दोभ्यो ऽभिभूत्यै॥

आग्नीध्रे होतव्यम्। संवेशायोपवेशाय गायत्र्यै छन्दसे ऽभिभूत्यै स्वाहा इति प्रातस्सवने जुहुयात्। संवेशायोपवेशाय त्रिष्टुभे छन्दसे ऽभिभूत्यै स्वाहा इति माध्यंदिने सवने जुहुयात्। संवेशायोपवेशाय जगत्यै छन्दसे ऽभिभूत्यै स्वाहा। इति तृतीयसवने जुहुयात्। छन्दोभिर् वै देवा असुरान् अभ्यभवन्। सपत्नायन्तीवैते ये संसुन्वन्ति। छन्दोभिर् एवैनान् अभिभवन्ति। प्रजापतेर् ऋग्भिर् होतव्यम्। प्रजापतिर् वै सर्वा देवताः। सर्वा एवैषां देवता वृञ्जते॥1.342॥


यदि कामयेरन्न् अध्वर्युर् एषां म्रियेतेत्य् अध्वर्युं प्रातस्सवने ब्रूयुः प्रजापतेर् ऋग्भिर् जुहुधि इति। यदि कामयेरन् होतैषां म्रियेतेति होतारं माध्यंदिने सवने ब्रूयुः प्रजापतेर् ऋग्भिर् जुहुधि इति। एवमायतना वा ऋत्विजः। अध्वर्युः प्रथमो युज्यते। तस्य प्रातस्सवनम् आयतनम्। अथ होता। तस्य माध्यंदिनं सवनम् आयतनम्। अथोद्गाता। तस्य तृतीयसवनम् आयतनम्। यथायतनम् एवैनान् स्पृण्वते। यदि कामयेरन् यजमान एषां म्रियेतेति यजमानं ब्रूयुः प्रजापतेर् ऋग्भिर् जुहुधि इति। यदि कामयेरन् सर्व एव म्रियेरन्न् इति सर्व एव सर्वेषु सवनेषु जुहुयुः॥

उभे बृहद्रथन्तरे भवतः। इन्द्रस्य वा एतौ हरी। यद् उभे बृहद्रथन्तरे-यज्ञो देवरथः-इन्द्रस्यैव हरिभ्यां यज्ञेन देवरथेनाजिम् उज्ज्यति। इदं वै रथन्तरम् अदो बृहत्। अस्माद् अमुष्माद् अद्यश्वात् सुमिथुनाद् एवैनान् अन्तर्यन्ति॥1.343॥


प्र वो वाजा अभिद्यवः इत्य् आग्नेयम् आज्यं भवति। प्रवत् त्यद् देवतानां रूपम् अभि भूत्यै रूपम्। अभ्य् एवैनान् भवन्ति। आभीकम् अभिनिधनम् अभीवर्तम् आभीशवम् इत्य् एतानि सामानि भवन्ति अभिभूत्यै रूपम्। अभ्य् एवैनान् भवन्ति। विहवीयं सजनीयम् अगस्त्यस्य कयाशुभीयम् इत्य् एतानि शस्त्राणि भवन्ति। ततो यद् विहवीयम् इन्द्रम् एव तेन देवान् आह्वयन्ते। सम् एवैनं सजनीयेन वृञ्जते। अगस्त्यं वै रक्षांसि अन्वसचन्त। सो ऽकामयताप रक्षांसि हनीयेति। स एतत् कयाशुभीयं शस्त्रम् अपश्यत्। तेन रक्षांस्य् अपाघ्नत। रक्षांसीव वा एतान् सचन्ते ये संसुन्वन्ति। कयाशुभीयं शस्त्रं भवति रक्षसाम् एवापहत्यै॥

यदीतरे ऽग्निष्टोमं कुर्वीरन्न् अथात्मनोक्थ्यं कुर्वीरन्। यदीतर उक्थ्यं कुर्वीरन्न् अथात्मना षोडशिनं गृह्णीरन्। यदीतरे षोडशिनं गृह्णीरन्न् अथात्मनातिरात्रं कुर्वीरन्। यदीतरे ऽतिरात्रं कुर्वीरन्न् अथात्मना द्विरात्रं कुर्वीरन्। यदीतरे द्विरात्रं कुर्वीरन्न् अथात्मना त्रिरात्रं कुर्वीरन्न्। भूयांसि स्तोत्राणि भूयांसि शस्त्राणि भूयसीर् देवता उपयन्ति। अभिभूत्यै रूपम्। अभ्य् एवैनान् भवन्ति। यथा ह वा इदं सेनयोस् संतिष्ठानयोर् ऽनु योधा भूयांस आयन्ति तादृक् तत्। तद् उ वा आहुर् इयम् एवाग्रे मनसा यज्ञक्रतुम् आकुवेतम् एवोज्जिगीषेत्। यो वै सह पलायितयोः पूर्वः काष्ठां गच्छति स वाव तयोर् जयति। पूर्व एव संस्थां प्रेप्सेद् इति॥1.344॥


यद् दीक्षितानां प्रमीयेत तं दग्ध्वास्थान्य् उपनह्यापभज्य सोमं यो ऽस्य नेदिष्ठतमस् स्यात् तेन सह दीक्षयित्वा याजयेयुः। समानाय वा एते यज्ञाय समानाय सुकृताय समारभ्य दीक्षन्ते। तेनैवैनं निरवदयन्ते। एतद् अन्यत् कुर्युः। अभिषुत्य सोमम् अन्यद् अगृहीत्वा ग्रहान् या दक्षिणास् स्रक्तीस् तद् अस्थानि निधाय मार्जालीये स्तुवीरन्। अर्बुदस्यर्ग्भिस् स्तुवते। अर्वुदो वै सर्पः। एताभिर् मृतां त्वचम् अपाहत। भ्रियन्त इव वा एते ये मृताय कुर्वन्तीति। मृताम् एवैताभिस् त्वचम् अपघ्नते॥

तिसृषु स्तुवन्ति। तृतीयो वा इतः पितृलोकः। पितृलोकम् एवैनं गमयन्ति। पराचीषु स्तुवन्ति। पराञ्चम् एवैनं तद् अमुं लोकं गमयन्ति॥
यामं साम भवति। यमलोकम् एवैनं गमयन्ति। अप्रस्तुतम् अप्रतिहृतं साम भवति। प्रस्तावप्रतिहाराभ्यां वै यजमानो धृतः। तद् यद् अप्रस्तुतम् अप्रतिहृतं साम भवत्य् अमुष्मिन्न् एवैनं तल् लोके प्रतिष्ठापयन्ति। स्तुतम् अनुशंसन्त्य् एता ऋचो ऽअनुब्रुवन्तो दक्षिणान् ऊरून् उपाघ्नानाः। त्रिर् अपसलैर् मार्जालीयं पर्यपयन्ति। अमुष्मिन्न् एवैनल् लोके निधुवते। अभ्य् एनम् अमुष्मिन् लोके वायुः पवते। तद् आहुर् यन्ति वा एते पथो ये मृताय कुर्वन्तीति॥1.345॥


ऐन्द्रवायवाग्नान् ग्रहान् गृह्णन्ति पुनः पन्थानं पर्यवयन्ति। असंमितं सर्वं स्तोत्रं भवति। असंमिते ह्य् असौ लोकः। अमुम् एवैतेन लोकम् उपसीदन्ति। तद् आहुस् त्रिवृत एव पवमानास् स्युः। सप्तदशान्य् उत्तराणि स्तोत्राणि। प्राणा वै त्रिवृतः। प्राणैर् वा एते व्यृध्यन्ते ये मृताय कुर्वन्तीति। तद् यत् त्रिवृतः पवमाना भवन्ति प्राणैर् एव तत् समृध्यन्ते। सप्तदशान्य् उत्तराणि स्तोत्राणि। प्रजापतिर् वै सप्तदशः प्रजापतिस् स्वर्गस्य लोकस्याभिनेता। स यस् स्वर्गस्य लोकस्याभिनेता स मा स्वर्गं लोकम् अभिनयाद् इति। सप्तदशा उ एवान्यत् पवमानास् स्युः। त्रिवृन्त्य् उत्तराणि स्तोत्राणि। अभिह्वातारं वावमुब्ध ऋच्छन्ति। तद् यथा प्रथमेनैवं ह्य् अर्वाङ् इत्य् अभिह्वयेत तादृक् तत्। त्रिवृन्त्य् उत्तराणि। प्राणा वै त्रिवृतः। प्राणान् एव तद् अभ्युत्क्रामन्तो यन्ति। तद् आहुर् वीव वा एते प्राणापानाभ्याम् ऋध्यन्ते ये मृताय कुर्वन्तीति॥1.346॥


मैत्रावरुणाग्रान् ग्रहान् गृह्णन्ति। प्राणापानौ वै मित्रावरुणौ। प्राणापानाभ्याम् एव तत् समृध्यन्ते। तद् आहुर् न पुरा संवत्सराद् अस्थानि याज्यानि। यत् पुरा संवत्सराद् अस्थानि याजयेयुर् वाचं क्रूराम् अरिष्कृताम् ऋच्छेयुः। उपरिष्टाद् एव संवत्सरस्यास्थानि याज्यानि। वाचं क्रूराम् अरिष्कृताम् ऋच्छेयुः। उपरिष्टाद् एव संवत्सरस्यास्थानि याज्यानि। वाचं क्रूराम् अरिष्कृतां नेद् ऋच्छामेति॥
अथो खल्व् आहुर् यत्रैवेतरे ऽवभृथम् अभ्यवेयुस् तद् अस्थान्य् अवहरेयुः। समा हि वा एतेषां युक्तिश् च विमुक्तिश् च। यैवामीषां विमुक्तिस् ताम् एवानुविमुच्यत इति॥1.347॥


यदि सामि सत्त्राद् उत्तिष्ठेयुर् विश्वजितातिरात्रेण सर्वपृष्ठेन सर्ववेदसेन यजेरन्। ऋतवो वै पृष्ठानि संवत्सर ऋतवः। तेनैवैषां संवत्सर आप्तो भवति। अथ या दक्षिणा ददति ताभिर् अतिप्रयुञ्जते। अथो खल्व् आहुर् य एवायं वैश्वानरः प्रायणीयो ऽतिरात्रस् तेनैव यजेरन्न् इति। अहोरात्रे वै परिवर्तमाने संवत्सरम् आप्नुतः। तेनैवैषां संवत्सर आप्तो भवति। अथ या दक्षिणा ददति ताभिर् अतिप्रयुञ्जते॥

यद्य् एकस्मिन् पर्याये ऽस्तुते ऽभिव्युच्छेत् पञ्चदशभिर् होत्रे स्तुयुः। पञ्चभिःपञ्चभिर् इतरेभ्यः। यदि द्वयोः पर्याययोर् अस्तुतयोर् अभिव्युच्छेद् धोत्रे च मैत्रावरुणाय च पूर्वे स्तुयुर् ब्रह्मणे चाच्छावाकाय चोत्तरे। यदि सर्वेषु पर्यायेष्व् अस्तुतेष्व् अभिव्युच्छेत् षड्भिर् होत्रे स्तुयुस् तिसृभिस्तिसृभिर् इतरेभ्यः। सर्वेभ्य एतद् अन्यत् कुर्युः। एकादशान् यद् एकर्चान् उपेत्यैन्द्र दशं सर्वं तृचम् एवं ह चक्रे मौञ्जस् साहश्रवसः॥1.348॥


तम् उ ह न कपिवनो भौवायन उवाचागवायनीभिर् बत महा साहश्रवसो ऽगाद् उन्मदिष्णुर् अस्य प्रजा भविष्यतीति ब्रह्मवर्चसिनी त्व् एव भविष्यतीति। यन् माम् आमन्त्रयिष्यतेति होवाच। द्वादशैवैतान् एकर्चान् उपेत्यैन्द्र द्वादशम् अग्ने विवस्वद् उषसः इत्य् एतस्मिंस् तृचे राथन्तरं संधिम् अस्तोष्यत्। अग्ने इति तेनाग्नेयाद् रूपान् नैष्यत्। उषसः इत्य् उषस्यात् सजूर् अश्विभ्याम् इत्य् उत हैनम् उवाच। नैतद् अपि प्रस्नान्तम् इव ह्वयन्त्व् इति। तद् वै नानूक्ता इति होवाच। अथ हैके ऽभ्युदिताप्येव निलिल्यिरे। ते हावरां रात्रिं समेत्य तुष्टुवुर् इयं वाव सा या नः पूर्वात्यगाद् इति। ते ह रराधुः। ते य एवं विद्वांसः कुर्वन्ति राध्नुवन्त्य् एव॥1.349॥


यदि प्रातस्सवनात् सोमो ऽतिरिच्यते गौर् धयति मरुताम् इति माध्यंदिनस्य पवमानस्य पुरस्तात् स्तुयुः। गायत्रीषु स्तुवन्ति। गायत्राद् धि सवनात् सोमो ऽतिरिच्यते। मरुत्वतीषु स्तुवन्ति। मरुत्वद् धि सवनम् अभि सोमो ऽतिरिच्यते। धयद्वतीषु स्तुवन्ति। मरुताम् एवैनद् गावो धयन्ति। यावद् आज्यानां स्तोत्रं तावत् स्तोत्रं भवति। यत् एवातिरिच्यते तद् एवावकल्पयन्ति॥

यदि माध्यंदिनात् सवनात् सोमम् अतिरिच्यते बण् महं असि सूर्य इत्य् आर्भवस्य पवमानस्य पुरस्तात् स्तुयुः। बृहतीषु स्तुवन्ति। वार्हताद् धि सवनात् सोमो ऽतिरिच्यते। सौरीषु स्तुवन्ति। सौर्ये हि सवनम् अभि सोमो ऽतिरिच्यते। यावत् पृष्ठानां स्तोत्रं तावत् स्तोत्रं भवति। यत एवातिरिच्यते तद् एवावकल्पयन्ति॥

यदि तृतीयसवनात् सोमो ऽतिरिच्यते ऽतो उक्थ्यं कुर्वीरन्। यद्य उक्थ्यम् अतिरिच्यते षोडशिनं गृह्णीरन्। यदि षोडशिनम् अतिरिच्येतातिरात्रं कुर्वीरन्। रात्रिं ह त्वाव नातिरिच्यते स्वकामेन॥

पशुकामः पशून् अभ्यतिरेचयेत्। वैश्यस्य पशुमतः पशून् अभ्यतिरेचयेत्। त्रिष्टुप्सु स्तुवन्ति बृहत्साम। क्षत्रं वै त्रिष्टुप्। क्षत्रिय उ वै पशूनां प्रदाता। स यः पशूनां प्रदाता स नः पशून् प्रयच्छाद् इति॥1.350॥