प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अथैष विविधः। तस्य ज्योतिर् अग्निष्टोमो गौर् उक्थ्य आयुर् उक्थ्यो ज्योतिर् अग्निष्टोम आयुर् अतिरात्रो ज्योतिर् अग्निष्टोमो गौर् उक्थ्य आयुर् उक्थ्यो ज्योतिर् अग्निष्टोमः। पशुकामो हैतेन यजेत। तस्यैषो ऽन्यतस्संगो गोआयुषी उक्थ्याव् अन्तरौ भवतः। पशवो वा उक्थानि। तयोः पञ्च शतानि स्तोत्र्याः। ज्योतिषी अग्निष्टोमाव् अभितो भवतः। ब्रह्म वै ज्योतिर् अग्निष्टोमः। ब्रह्मणैव तद् उभयतः पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। आयुर् अतिरात्रो मध्ये भवति।तद् यथा ह वै विविधस्, तस्य मध्ये पृथ्वी वानववर्दाय, तादृक् तद् एष उ एवान्यतस्संगः। गोआयुषी उक्थ्याव् अन्तरौ भवतः। पशवो वा उक्थानि। तयोः पञ्च शतानि स्तोत्रियाः। ज्योतिषी अग्निष्टोमाव् अभितो भवतः। ब्रह्म वै ज्योतिर् अग्निष्टोमः। ब्रह्मणैव तद् उभयतः पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद॥2.321॥


अथैते दशरात्राः। अभिचर्यमाणो हैतेन यजेत यद् दशरात्रः। दशैतान्य् अहानि भवन्ति। दश पुरुषे प्राणाः। अह्नेव प्राणं परिगृह्णीते, ऽह्ना प्राणम्, अह्ना प्राणं, न ततस् तस्य स प्राणो ऽतिशयेयम्। अस्याभिचरंस् स्तृण्वीत। अथो आहुर् - अभिचरन्न् एवैनेन यजेतेति। दशैतान्य् अहानि भवन्ति। दश पुरुषे प्राणाः। अह्नैव परस्य प्राणं स्तृणुते, ऽह्ना प्राणम्, अह्ना प्राणम्। न ततः परस्य स प्राणः परिशिष्यते। येनाभिचर्यमाणो जीवेत्। एतद् ध वै ज्यैष्ठ्यं कर्मणां यद् एष सौम्यो ऽध्वरो दशरात्रो विधया विधीयते। तद् यज् ज्यैष्ठ्यं कर्मणां तेन नो यज्ञो विहितो ऽसद् इति॥2.322॥


एतद् ध वै परमं वाचः क्रान्तं यद् दशेति। एतावद् ध परमं वाक् चक्रमे। तद् यत् परमं वाचः क्रान्तं तत् सर्वम् आप्नवानीति। अथो आहुर् - अन्नाद्यकाम एवैनेन यजेतेति। सर्वो ह वा अन्यो विराजम् अतिष्टौति। एष ह वाव विराजं नातिष्टौति यो दशभि स्तुते। दशाक्षरा विराट्। अन्नं विराट्। अह्नैव विराजम् अवरुन्द्धे, ऽह्ना विराजम्, अह्ना विराजम्। स दशमेनैवाह्ना सर्वां विराजम् अन्नाद्यम् अवरुद्ध्यान्तत उत्तिष्ठति। पुरुषो ह वाव विराजम् अतिशये। दशैतान्य् अहानि भवन्ति, रात्रिर् एकादशी। दश पुरुषे प्राणा, आत्मैकादशः। पुरुषो ह वा एष विराज्य् अध्यूढो ऽनिष्पादाय। न ह वै गौर् नाश्वो नाश्वतरो विराजम् अधितिष्ठति। पुरुषो ह वाव विराजम् अधितिष्ठति। तस्मात् पुरुषः पशूनाम् अत्ता। अत्ता पशूनां भवत्य् अधि विराजं तिष्ठति, य एवं वेद॥2.323॥


इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानस् स व्यस्मयत। स हरितो विस्मितो ऽजरत्। स ऐक्षत - कथं न्व् अहम् अस्य हरिम्णः पाप्मनो दशमीं निर्दश्यं गच्छेयम् इति। स एतं दशरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स तस्य हरिम्णः पाप्मनो दशमीं निर्दश्यम् अगच्छत्। गच्छति ह हरिम्णः पाप्मनो दशमीं निर्दश्यं , य एवं वेद। तस्माद् उत विद्धं वा विजातं वावतीर्णिनं वा पृच्छन्ति निर्दश्यो ऽभूद् इति। तस्य ह वाव ते तद् धरिम्णः पाप्मनो दशमीं निर्दश्यं गच्छन्ति। गच्छति ह हरिम्णः पाप्मनो दशमीं निर्दश्यं य एवं वेद॥2.324॥


अथैष त्रिककुप्। प्रजननकामो हैतेन यजेत। त्रिवृत्पञ्चदशौ स्तोमौ भवतः। ऊनातिरिक्तौ मिथुनौ प्रजनी। ऊनम् अन्यस्यातिरिक्तम् अन्यस्य। ऊनातिरिक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते। ताभ्यां त्रिवृतं स्तोमं पर्यूहन्ति। तम् एव तौ प्रजनयतः। सप्तदशैकविंशौ स्तोमौ भवतः। ऊनातिरिक्तौ मिथुनौ प्रजनी। ऊनम् अन्यस्यातिरिक्तम् अन्यस्य। ऊनातिरिक्ताद् वै मितुनात् प्रजाः पशवः प्रजायन्ते। ताभ्यां सप्तदशं स्तोमं पर्यूहन्ति। तम् एव तौ प्रजनयतः। त्रिणवस्त्रयस्त्रिंशौ स्तोमौ भवतः। ऊनातिरिक्तौ मिथुनौ प्रजनी। ऊनम् अन्यस्यातिरिक्तम् अन्यस्य। ऊनातिरिक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते। ताभ्यां त्रिणवं स्तोमं पर्यूहन्ति। तम् एव तौ प्रजनयतः। तद् आहुर् - आप्यन्ते वा एतत् स्तोमा, आप्यन्ते छन्दांस्य्, आप्यन्ते देवता, आप्यन्त ऋतवो गृहा(?), यद् एष पृष्ठ्यष् षडह आप्यन्त (?) इति। आग्नेयीष्व अयातयाम्नीषु सप्ते ऽहनि स्तुवीरन्। अग्र्निर् वै देवानाम् अयातयामा। अग्निम् एव तद् देवानाम् अयातयामानं पश्यन्तो यजन्ते। ऐन्द्रीष्व अयातयाम्नीषु अष्टमे ऽहनि स्तुवीरन्। इन्द्रो वै देवानाम् अयातयामा। इन्द्रम् एव तद् देवानाम् अयातयामानं पश्यन्तो यजन्ते। वैश्वदेवीष्व् अयातयाम्नीषु नवमे ऽहनि स्तुवीरन्। विश्वे वै देवा देवानाम् अयातयामानः। विश्वान् एव देवांस् तद् देवानाम् अयातयामनः पश्यन्तो यजन्ते। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम, तान् सार्धम् ऋद्ध्वा, तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति॥2.325॥


अथैष पञ्चयज्ञक्रतुः। याः पञ्च दैवीर् आच्छदस् तासाम् एषर्द्धिः। यः पांक्तो यज्ञो ये पांक्ताः पशवो यत् पांक्तम् अन्नाद्यं ये पञ्चर्तवो यत् किं च पञ्च पञ्च तस्यैषा सर्वस्यर्द्धिस् तस्योपाप्तिः। तस्यो एतस्य न रात्रिम् उपयन्ति नेद् विराजम् अतिषुवामेति। तद् आहुर् - अति वै दशरात्रो यज्ञस्य मात्राम् एति। तद् यद् एष पञ्चयज्ञक्रतुर् भवति पञ्चाहे श्रुतस् तं कामम् ऋध्नवानि यो दशरात्र इति। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्वा तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति॥

अथैष सप्तयज्ञक्रतुः। यास् सप्त दैवीर् आच्छदस् तासाम् एषर्द्धिः। यास् सप्तपदाश् शक्वर्यो, ये सप्त ग्राम्याः पशवो, यानि सप्त चतुरुत्तराणि छन्दांसि, ये सप्त मुख्याः प्राणा, यानि सप्तविंशतिर् दिव्यानि नक्षत्राणि, यस् सप्तविंश स्तोमो यत् किं च सप्त सप्त, तस्यैषा सर्वस्यर्द्धिस् तस्योपाप्तिः। तद् आहुर् - अति वै दशरात्रो यज्ञस्य मात्राम् एति। तद् यद् एष सप्तयज्ञक्रतुर् भवति सप्ताहे श्रुतस् तं कामम् ऋध्नवानि यो दशरात्र इति। सर्वस्तोमो ऽतिरात्रो भवति सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्वा तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति॥2.326॥


अथैष महात्रिककुप्। य श्रीकामः पुरोधाकाम स्यात् स एतेन यजेत। त्रीणि वर्ष्माणि तिस्र श्रियस् त्रय इमे लोकाः। तद् एवैतेनावरुन्द्धे। त्रिवृता पञ्चदशं परिष्टुबन्ति। ब्रह्म वै त्रिवृत्, क्षत्रं पञ्चदशः। ब्रह्मणैव तत् क्षत्रं परिगृह्णन्ति। सप्तदशेनैकविंशं परिष्टुबन्ति। ब्रह्म वै सप्तदशः क्षत्रम् एकविंशः। ब्रह्मणैव तत् क्षत्रं परिगृह्णन्ति। त्रिणवेन त्रयस्त्रिंशं परिष्टुबन्ति। ब्रह्म वै त्रिणवः, क्षत्रं त्रयस्त्रिंशः। ब्रह्मणैव तत् क्षत्रं परिगृह्णन्ति। यदो वै ब्रह्मणा क्षत्रं परिगृह्णात्य् अथ स तस्य पुरोधां गच्छति, गच्छति पुरोधां , पुर एनं दधते॥2.327॥


स वा एष महात्रिककुब् भवति। त्रयो ह वा एषां लोकानां ककुभः। अग्निर् वा अस्य लोकस्य ककुब्, वायुर् अन्तरिक्षस्यादित्यो दिवः। ककुभाम् एको भवति, य एवं वेद। विश्वजित् सर्वपृष्ठातिरात्रो भवति। श्रीर् वै वर्ष्म पृष्ठानि। श्रियम् एव तद् वर्ष्म पृष्ठान्य् अभ्यारोहति। ओजो वै वीर्यं पृष्ठानि। ओजसैव तद् वीर्येणान्ततः पुरोधां परिगृह्णीते। नानाग्निष्टोमसामानि भवन्त्य् अन्यो ऽन्यस्याननुयानाय। शं नो देवीर् अभीष्टये, तं गूर्धया स्वर्णरम् इति यज्ञायज्ञीयं च साकमश्वं च। अग्ने वाजस्य गोमतो, विशोविशो वो ऽतिथिम् इति श्रुधीयं च विशोविशीयं च। आ ते अग्न इधीमहि, मूर्धानं दिवो अरतिं पृथिव्या इति संजयं च दैर्घश्रवसं च। अग्निं नरो दीधितिभिर् अरण्योस्, त्वम् अग्ने गृहपतिर् इति बृहच् चाग्नेयं समन्तं च। समिद्धम् अग्निं समिधा गिरा गृण, आ नो यज्ञं दिविस्पृशम् इति राजोवाजीयं च बृहच् च॥2.328॥


तेन हैतेन जबालम् आरुणिर् याजयांचकार। सह त्रयाणां निगृध्नानां पुरोधां जगाम - काश्यस्य कौसल्यस्यैक्ष्वाकस्येति। तस्य ह श्रीर् आस कल्याणी। तस्य ह स्म तच् छ्रियं दृष्ट्वा श्वेतकेतुः पित्रा वदते - पलित यज्ञकाम अन्यान् एव श्रिया यशसा समञ्जश् चरसि, नात्मानम् इति। नेति ह स्माह। मा मा पुत्रक वोचः। यज्ञक्रतुर् एव मे विज्ञात आस। तं पापक इव ब्रह्मबन्धुके व्यजिज्ञासे। स किल तथैवास यथा म एनम् अनूचुः। ततो वा अतितराम् इव। स वा एष यज्ञो मृत्योर् एव निकृतिः। देवा वै मृत्योर् अबिभयुर् ये स्वर्गे लोके। तस्मात् ते प्रजापतिम् एवोपधावन्। तेभ्य एतं दशरात्रं यज्ञं व्यदधात्। तम् आहरन्। तेनायजन्त॥2.329॥


ते त्रिवृतास्तुवत। त्रिवृता वै स्तुवत इति मृत्युः पञ्चदशम् अभिपर्येत्यातिष्ठद् इदम् अत एष्यन्तीति। तं पञ्चदशे ऽन्वागच्छन्। तं तत उदरुन्धन्। स सप्तदशम् अभ्युदक्रामत्। अथेतरे पञ्चदशेन स्तुत्वा त्रिवृतैव पुनर् अस्तुवत। त्रिवृता वै स्तुवत इति मृत्युः पञ्चदशम् एवाभिप्रत्याद्रवद् इदम् एवात एष्यन्तीति। अथेतरे सप्तदशम् अभ्यत्यक्रामन्। ते सप्तदशेनास्तुवत। सप्तदशेन वै स्तुवत इति मृत्युर् एकविंशम् अभिपर्येत्यातिष्ठद् इदम् अत एष्यन्तीति। तम् एकविंशे ऽन्वागच्छन्। तं तत उदरुन्धन्। स त्रिणवम् अभ्युदक्रामत्। अथेतर एकविंशेन स्तुत्वा सप्तदशेनैव पुनर् अस्तुवत। सप्तदशेन वै स्तुवत इति मृत्युर् एकविंशम् एवाभिप्रत्याद्रवद् इदम् एवात एष्यन्तीति। अथेतरे त्रिणवम् अभ्यत्यक्रामन्। ते त्रिणवेनास्तुवत। त्रिणवेन वै स्तुवत इति मृत्युस् त्रयस्त्रिंशम् अभिपर्येत्यातिष्ठद् इदम् अत एष्यन्तीति। तं त्रयस्त्रिंशे ऽन्वागच्छन्। तं तत उदरुन्धन्। स छन्दोमान् अभ्युदक्रामत्। अथेतरे त्रयस्त्रिंशेन स्तुत्वा त्रिणवेनैव पुनर् अस्तुवत। त्रिणवेन वै स्तुवत इति मृत्युस् त्रयस्त्रिंशम् एवाभिप्रत्याद्रवद् इदम् एवात एष्यन्तीति॥2.330॥