← कण्डिका १२१-१३० जैमिनीयं ब्राह्मणम्/काण्डम् ३
कण्डिका १३१-१४०
[[लेखकः :|]]
कण्डिका १४१-१५० →

अथ पार्थं द्वियभ्यासं द्वितीयस्याह्नो रूपम्। द्वितीयं ह्य् एतद् अहर् आयतनेन। अथ ऋषभश् शाक्वरः। पशवो वै सिमाः, पशवो रेवतयः, पशव ऋषभः। ऋषभम् एवैतत् पशुष्व् अपिसृजन्ति मिथुनत्वाय प्रजननाय। प्र मिथुनेन जायते य एवं वेद। स उ द्वाभ्यां द्वाभ्यां देवताभ्यां प्रतितिष्ठति। तस्माद् ऋषभ स्कन्दन् द्विपाद् भवति। ता एताश् चतुरक्षरा देवता भवन्ति। तस्माद् द्विपात् स्कन्दति। चतुष्पदः प्रजनयति। प्र प्रजया पशुभिर् जायते य एवं वेद। स उ पांक्तः। पांक्ते ऽहनि क्रियते रूपसमृद्धतायै। इन्दुर् वाजी पवते गोन्योघा इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः। तासु दाशस्पत्यम् उक्तब्राह्मणम्। अथ यज्ञायज्ञीयम् उक्तब्राह्मणम्। आ ते अग्न इधीमहीत्य् आवतीर् भवन्ति। अपच्छिद्येव वा एतद् यज्ञकाण्डं यद् उक्थानि। तद् यद् आवतीर् भवन्ति यज्ञस्यैव सलोमतायै॥3.131॥

तासु संजयम्। देवासुरा वा एषु लोकेष्व् अस्पर्धन्त। अस्मिन् भुवने ते देवा अकामयन्त सम् इमान् लोकान् जयेम जयेमासुरान् स्पर्धां भ्रातृव्यान् इति। त एतत् सामापश्यन्। तेनास्तुवत। तेनेमान् लोकान् समजयन्न्, अजयन् स्पर्धां भ्रातृव्यान् असुरान्। तद् यद् इमान् लोकान् समजयंस् तत् संजयस्य संजयत्वम्। सम् इमान् लोकाञ् जयति, जयति स्पर्धां द्विषन्तं भ्रातृव्यं, य एवं वेद। तद् उ पांक्तं, पांक्ते ऽहन् क्रियते - पांक्ता वै पशवः पशव एतद् अहः - पशूनाम् एवावरुद्ध्यै। तद् व् एवाचक्षते द्विहिंकारं वामदेव्यम् इति। पशवो वै सिमाः, पशवो रेवतयः, पशवो द्विहिंकारं वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। अथो यद् एवैतस्मिन्न् अहन्न् ऊर्ध्वं शक्वरीभ्यः क्रूरम् इव क्रियते तद् एवैताभ्यां हिंकाराभ्यां शमयन्ति। अथ सौमित्रं भ्रातृव्यहा सेन्द्रं साम। हन्ति द्विषन्तं भ्रातृव्यम् आस्येन्द्रो हवं गच्छति य एवं वेद॥3.132॥

त्रयो ब्रह्मापश्यन्, नोधास् तृतीयं, सुमित्रस् तृतीयं, बृहदुक्थस् तृतीयम्। तद् यत् प्रथमे त्रियहे नौधसं क्रियते, तेन प्रथमस् त्रियहो ब्रह्मण्वान् क्रियते। अथ यद् द्वितीये त्रियहे सौमित्रं क्रियते तेन द्वितीयस् त्रियहो ब्रह्मण्वान् क्रियते। अथ यत् तृतीये त्रियह बार्हदुक्थं क्रियते तेनैव तृतीयस् त्रियहो ब्रह्मण्वान् क्रियते। एतैर् ह वै सामभिर् एते त्रियहा ब्रह्मण्वन्तः क्रियन्ते। तत् पञ्चाक्षरणिधनं भवति पञ्चमस्याह्नो रूपं पञ्चरात्रस्य सन्तत्या अव्यवच्छेदाय। असावि सोम इन्द्र त इत्य् असावीति सिमानां रूपम्॥3.133॥

तासु महावैश्वामित्रम्। एतेन वै विश्वामित्रो महीमानं भूमानम् अभिपूर्वं पशूनाम् अवारुन्द्ध। तद् एतत् पशव्यं साम। महिमानम् एव भूमानम् अभिपूर्वं पशूनाम् अवरुन्द्धे य एवं वेद। इन्द्रो वै वृत्रम् अजिघांसत्। स विश्वामित्रम् उपाधावद् - ऋष उप त्वा धावाम, इह नो ऽधिब्रूहीति। स एतद् विश्वामित्रस् सामापश्यत्। तेनास्तुत। ततो वा इन्द्रो वृत्रम् अहन्। सो ऽब्रवीन् महद् वा इदं विश्वामित्रस्याभूद् इति। तद् एव महावैश्वामित्रस्य महावैश्वामित्रत्वम्। तद् उ भ्रातृव्यहा । हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। तत् त्रीळं भवति - पशवो वा इळा। पशव एतद् अहर् - अभिपूर्वाणाम् एव पशूनाम् अवरुद्ध्यै। भेषजं ह खलु वै तिस्र इळाः। एतद् ध वै शिवं शान्तं वाचो यत् तिस्र इळाः। तद् यत् त्रीळं पञ्चमे ऽहनि भवति तेनैव त्रिणवं च स्तोमं शमयन्ति। सिमाश् चादित्याद् ऋतव उदक्रामन्। सो ऽकामयत न मद् ऋतव उत्क्रामेयुर् अभि मा वर्तेरन्न् इति। स एतत् सामापश्यत्। तेनास्तुत। हेहया ओ हा ओ हा इति हया ह वा अस्यैते यथाश्वा स्युर् एवम्। ततो वै तस्माद् ऋतवो नोदक्रामन्। तत एनम् उपावर्तन्त। तं प्राविशन्। तान् अभ्यारोहत्। स एष ऋतुषु च संवत्सरे चैतस्यां श्रियाम् अध्यूढस् तपति। यद् उ विश्वामित्रो ऽपश्यत् तस्मान् महावैश्वामित्रम् इत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥3.134॥

ज्योतिर् यज्ञस्य पवते मधु प्रियम् इति सिमानां रूपम्। समानं वै सिमानां च रेवतीनां च रूपम्। सिमाभ्यो वा अधि रेवतयो निर्मिताः। ज्योतिर् इत्य् आह। ज्योतिर् एवैतत् प्रजासु दधाति। ज्योतिर् इति च ह खलु वै पवत इति च गायत्र्यै रूपम्। गायत्र्यो एतद् अहस् तायते। पिता देवानां जनिता विभूवसुर् इति प्रजापतिर् वै पिता देवानां, स जनिता, स विभूवसुः। प्राजापत्यम् एतद् अहः। दधाति रत्नं स्वधयोर् अपीच्यं मदिन्तमो मत्सर इन्द्रियो रस इति। रसो ह्य् एतद् अहः। यो वै पञ्चमाद् अह्नो रसो ऽत्यनेदत् तद् एतद् अहर् अभवत्। स एष रस एव। अभिक्रन्दन् कलशं वाज्य् अर्षतीत्य् ऋषभं एवैतत् प्रातस्सवने रेवतीष्व् अपिसृजन्ति प्रजननाय। पतिर् दिवश् शतधारो विचक्षण इति यद् वै शतवत् सहस्रवत् तज् जगत्यै रूपम्। जागतम् एतद् अहः। हरिर् मित्रस्य सदनेषु सीदति मर्मृजानो ऽविभिस् सिन्धुभिर् वृषेति वृषण्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः।
अग्रे सिन्धूनां पवमानो अर्षस्य् अग्रे वाचो अग्रियो गोषु गच्छसि।
अग्रे वाजस्य भजसे महद् धनं स्वायुधस् सोतृभिस् सोम सूयसे॥
इत्य् अग्रम् अग्रम् इति भवति। अग्रं ह्य् एतद् अहर् यद् बार्हतम्। अग्रं त्रयस्त्रिंश स्तोमानाम्। तम् एवैतद् रेवतयो ऽनु॥3.135॥

ता एता भवन्ति जगत्यो जगद्वर्णा अह्नो रूपेण समृद्धाः। यत्र वा अहारूपेण समृद्धयन्ति सं तत्रर्ध्यते। सम् अस्मा ऋध्यते य एवं वेद। असृक्षत प्र वाजिन इत्य् अनुरूपो भवति भूतानुवादिनीः। षडहम् एवैतद् एतास् सृष्टम् अनुवदन्ति। तद् आहुर् अह्न एव रूपं स्तोत्रियेऩारभन्ते ऽनुरूपेण साम्न इति। स्तोत्रियानुरूपौ भवतः। प्राणो वै स्तोत्रियो ऽपानो ऽनुरूपः। प्राणापानाभ्याम् एवैतत् समृध्य प्रयन्ति।
गव्या सोमासो अश्वया।
शुक्रासो वीरयाशवः॥
इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः।
शुम्भमाना ऋतायुभिर् मृज्यमाना गभस्त्योः।
पवन्ते वारे अव्यये॥
इति रूति रेवतीनां रूपम्। ते विश्वा दाशुषे वस्व् इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः।
सोम दिव्यानि पार्थिवा।
पवन्ताम् आन्तरिक्ष्या॥
इतीमान् लोकान् समारभते। इमे वै लोकाः प्रजापतिः। प्राजापत्यम् एतद् अहः। षष्ठायतनो वै प्रजापतिर् देवतानाम्॥3.136॥

पवस्व देववीर् अतीति दशर्चस्य प्रभृतिर् भवत्य् अति प्रादेति वा आहुर् उपस्थितम्। उपस्थितम् इवैतद् अहः।
पवित्रं सोम रंह्या।
इन्द्रम् इन्दो वृषा विश॥
इति वृषण्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। आ वच्यस्व महि प्सर इति आवतीर् भवन्त्य् अनतिपादायैव। अन्तम् इव ह्य् एतर्हि गच्छन्ति। षडहान् नेत् पराञ्चो ऽतिपद्यामहा इति। अधुक्षत प्रियं मध्व् इति यद् वै महानाम्नीनां दुग्धं पयस् ता रेवतयो ऽभवन्। महानाम्नीनां वा एतद् दुग्धं पयो यद् रेवतयः। महान्तं त्वा महीर् अन्व् इति त्रयस्त्रिंशो वै स्तोमो महान्। तम् एवैतद् रेवतयः।
आपो अर्षन्ति सिन्धवः।
यद् गोभिर् वासयिष्यसे॥
समुद्रो अप्सु मामृजे विष्टम्भो वरुणो दिवः।
सोमः पवित्रे अस्मयुः॥
इत्य् अप्सुमतीर् भवन्ति। आपो ह्य् एतद् अहः। अचिक्रदद् वृषा हरिर् इति वृषण्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् ह्य् एतद् अहः। महान् मित्रो न दर्शत इति महद् ध्य् एतद् अहर् यत् त्रयस्त्रिंशम्।
गिरस् त इन्द्र ओजसा मर्मृज्यन्ते अपस्युवः।
याभिर् मदाय शुम्भसे॥
तं त्वा मदाय घृष्वय उ लोककृत्नुम् ईमहे।
तव प्रशस्तये महे॥
गोपा इन्दो नृषा अस्य् अश्वसा वाजसा उत।
आत्मा यज्ञस्य पूर्व्यः॥
इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः।
अस्मभ्यम् इन्दव् इन्द्रियं मधोः पवस्व धारया।
पर्जन्यो वृष्टिमं इव॥
इति दशर्चं भवति - दशाक्षरा विराड्, अन्नं विराड् - विराज एवान्नाद्यस्यावरुद्ध्यै॥3.137॥

सना च सोम जेषि चेत्य् उत्तरं दशर्चं भवति। अभिपूर्वम् एवैतेन विराजम् अन्नाद्यम् अवरुन्धते। ऋषयो वा एतद् ऋद्धिकामा उपोत्थानं प्रियं वाचो ऽपश्यन्न् अथा नो वस्यसस् कृध्य्, अथा नो वस्यसस् कृधीति। तेनास्तुवत। ततो वै ते सर्व एवार्ध्नुवन्। सर्वे हैवर्ध्नुवन्ति य एवं विद्वांस एतेन दशर्चेन स्तुवते। उपरिष्टाद् उदकं दधति। रसो वै षष्ठम् अहः। तस्यानतिनेदाय। स यथापां वार्त्रं दिह्यात् तादृग् एवैतद् उपरिष्टाद् उदर्कं दधति रसस्यानतिनेदाय। चतुर्ऋचो भवति चतुष्पदां पशूनाम् एवावरुद्ध्यै। परोक्षं द्विपदा भवन्ति, द्विपदां पशूनाम् अवरुद्ध्यै। वि नाराशंसम् इव भवत्य् उभयोः कामयोर् उपाप्त्यै। यच् च दिव्यो यच् च मानुष उपरिष्टाद् उदर्कं दधति। रसो वै षष्ठम् अहः। तस्यानतिनेदाय॥3.138॥

अथ ह वै तरन्तपुरुमीढौ वैतदश्वी ध्वस्रयोः पुरुषन्त्योर् बहु प्रतिगृह्य गरगिराव् इव मेनाते। तौ ह स्मांगुल्या सातं प्रतिममृशाते। ताव् अकामयेताम् असातं नाव् इदं सातं स्याद् आत्तम् इवैव न प्रतिगृहीतम् इति। ताव् एतच् चतुर्ऋचम् अपश्यतां, तेन प्रत्यैताम्। ततो वै तयोर् असातं सातम् अभवद् आत्तम् इवैव न प्रतिगृहीतम्। स यः प्रतिगृह्य कामयेतासातम् म इदं सातं स्याद् आत्तम् इवैव न प्रतिगृहीतम् इति स हैतेन चतुर्ऋचेन प्रतीयात्। असातं हैवास्य सातं भवत्य् आत्तम् एवैव न प्रतिगृहीतम्। एते सोमा असृक्षतेत्य् एता अन्त्या भवन्ति भूतानुवादिनीर् उ एव। षडहम् एवैतद् एतास् सृष्टम् अनुवदन्ति।
अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि।
सनद्वाजः परि स्रव॥
इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः।
उत नो गोमतीर् इषो विश्वा अर्ष परिष्टुभः। गृणानो जमदग्निना॥
इति पर्यासो भवति प्रजानां धृत्यै पशूनाम् उपस्थित्यै। त्रयस्त्रिंश स्तोमो भवति। त्रयस्त्रिंशद् वै सर्वा देवताः। सर्वास्व् एवैतद् देवतासु प्रतितिष्ठन्तो यन्ति॥3.139॥

तद् आहुर् - मिथुनानि पञ्चाहान्य्, अमिथुनं षष्ठम् अहः। तद् यद् इमं स्तोमम् अर्हते जातवेदस इत्य् आग्नेयम् आज्यं भवति, तेनैव मिथुनं षष्ठम् अहः क्रियते। रथम् इव सं महेमा मनीषयेत्य् एतेन मिथुनं क्रियते। होता वै पूर्वेष्व अहस्सु यजमानायाशिषम् आशास्त उद्गातैतस्मिन्। यो वै साम्नाशिषम् आशास्ते मीयत इव वै तस्य। तद् यद् अग्ने सख्ये मा रिषामा वयं तव, अग्ने सख्ये मा रिषामा वयं तवेति भवति, भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तथा हास्य न मीयते। उपरिष्टाद् उदर्कं दधति। रसो वै षष्ठम् अहस् तस्यानतिनेदाय। स यथापां वार्त्रं दिह्यात् तादृग् एवैतद् उपरिष्टाद् उदर्कं दधति रसस्यानतिनेदाय॥3.140॥