प्रमुखा विकल्पसूचिः उद्घाट्यताम्

प्रति वां सूर उदित इति मैत्रावरुणं भवति। प्रति ह्य् एतर्हि स्तोमाश् छन्दो ह्य् ऋतवो ग्रहा आवर्तन्ते। अथो यत् प्रति वाम् इति भवति तस्माद् उ हेदं यथर्त्वन्नाद्यं प्रतिधीयत उपरिष्टाद् उदर्काण्य् अन्यानि स्तोत्राणि भवन्ति। अथैतद् अनुपरिष्टाद् उदर्कम्। प्राणापानौ वै मैत्रावरुणौ। यद् उपरिष्टाद् उदर्कं दध्युः प्राणापानाव् अपिहन्युः। तद् यद् अनुपरिष्टाद् उदर्कं दधति प्राणापानाभ्याम् एवोत्सृष्ट्यै। भिन्धि विश्वा अप द्विष इत्य् ऐन्द्रं भवति। परि बाधो जही मृध इति घ्नद्वत्। एतद् वै यजमानस्य स्वं स्तोत्रं यद् ब्रह्मणः। स्व एव तद् आयतने यजमानस्य सर्वं पाप्मानं घ्नन्ति।
वसु स्पाहं तद् आआ भर॥
यस्य ते विश्वम् आनुषग् भूरेर् दत्तस्य वेदति।
वसु स्पार्हं तद् आ भर॥
यद् वीळाव् इन्द्र यत् स्थिरे यत् पर्शाने पराभृतम्।
वसु स्पार्हं तद् आ भर॥
इति। पशवो वै वसु स्पार्हम्। अन्नम् उ वै पशवः। एतान् तद् उद्गाता यजमानायाशिषम् आशास्त, उपरिष्टाद् उदर्कं दधति। रसो वै षष्ठम् अहस् तस्यानतिनेदाय॥3.141॥

यज्ञस्य हि स्थ ऋत्विजा इत्य् ऐन्द्राग्नं भवति। अत्रेन्द्राग्नी आर्त्विज्याय वृणीते, ऽत्रेन्द्राग्निभ्यां यज्ञं संप्रदाय निर्मुच्यते। तस्य न मीयते यथा पुरम् एव भवतीन्द्राग्नी एवातः पराचीनम् आर्त्विज्यं कुरुतः।
इदं वां मदिरं मध्व् अधुक्षन्न् अद्रिभिर् नरः।
इन्द्राग्नी तस्य बोधतम्॥
इति शक्वरीणां च रेवतीनां च रूपम्।
तोशासा रथयावाना वृत्रहणापरिजिता।
इन्द्राग्नी तस्य बोधतम्॥
इति वार्त्रघ्नं भवत्य् अन्ततो विजित्यै। एतेन वै षडहेन देवा अग्रे व्यजयन्त। तद् यद् एतद् वार्त्रघ्नम् अन्तत आज्यं क्रियते, विजित्या एव भ्रातृव्यस्यैव वधाय। विजयते हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। उपरिष्टाद् उदर्कं दधति। रसो वै षष्ठम् अहस्, तस्यानतिनेदाय। स यथापां वार्त्रं दिह्यात् तादृग् एवैतद् उपरिष्टाद् उदर्कं दधति रसस्यानतिनेदाय। त्रयस्त्रिंश स्तोमो भवति। त्रयस्त्रिंशद् वै सर्वा देवताः। सर्वास्व एवैतद् देवतासु प्रतितिष्ठन्तो यन्ति॥3.142॥

इन्द्रायेन्दो मरुत्वत इति माध्यन्दिनस्य पवमानस्य गायत्र्यो भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। तं त्वा विप्रा वचोविदः परिष् कृण्वन्ति धर्णसिम् इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः। रसं ते मित्रो अर्यमेति रसो ह्य् एतद् अहः। यो वै पञ्चमाद् अह्नो रसो ऽत्यनेदत् तद् एतद् अहर् अभवत्। स एष रस एव।
पिबन्तु वरुणः कवे।
पवमानस्य मरुतः॥
इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। तासु गायत्रम् उक्तब्राह्मणम्। अथ रेवतयः। पशवो वै सिमाः। पशवो रेवतयः। पशव एतद् अहः। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। शक्वर्यो वा इदं तेजसा प्रातपन्। तेजसा नाभिमृश्या आसन्। तासां देवाः प्रदाहाद् अबिभयुः। ते ऽब्रुवन् सर्वं वा इदम् इमाः प्रधक्ष्यन्ति। एतेदम् आसां शमयामेति। तासां द्वे एकस्यै पदे निरमिमतैकम् एकस्यै। यस्यै द्वे निरमिमत तद् एतां द्विपदां प्रत्युपादधुर्, यस्या एकं तद् एकपदाम्। सैवैषा त्रिपदा गायत्र्य् अभवत्। समानं वा एतच् छन्दः। तद् द्वेधा व्यौहन् भू्म्ने च शान्त्यै च। बहुः प्रजया पशुभिर् जायते य एवं वेद॥3.143॥

पञ्चमाद् वै देवा अह्नष् षष्ठम् अहर् निरमिमत। तस्मा आआयतनम् ऐच्छन्। तस्मै रेवतीर् एवायतनम् अविन्दन्। आयतनवान् भवति य एवं वेद। पशवो वै रेवतयः। आत्मा मध्यन्दिनः। तद् यद् रेवतीर् मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् पयः प्रतिष्ठापयन्ति। रेतो वै रेवतयः। आत्मा मध्यन्दिनः। तद् यद् रेवतीर् मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् रेतः प्रतिष्ठापयन्ति। रेतो वै रेवतयः। रेत उ रैवतं साम। वज्रा ह खलु वा एते यद् रैवतस्य साम्नो निधनानि। तद् यद् रेवतीषु रैवतं पृष्ठं कुर्युर् वज्रेण रेतो वीयुस् ता यत् पुरस्तात् पवमाने कुर्वन्ति, वज्रेण नेद् रेतो व्ययामेति॥3.144॥

पयो वै रेवतयः। पशवः पञ्चमम् अहः। ता यद् अन्तर्हिता अन्येन साम्ना स्युर् अन्तर्हितं पयः पशुभ्य स्यात्। ता यद् अनन्तर्हिता भवन्ति तेन पयः पशुभ्यो ऽनन्तर्हितं भवति। तद् आहुर् जामीव वा एतत् क्रियते यद् एता इळाभिर् इळा उपयन्ति। इषोवृधीयेनैवारभ्यम् अजामिताया इति। अन्तर्हितं ह तु तथा पयः पशुब्य स्यात्। वज्रेण रेतो वीयू रेवतीभिर् एवारभ्यं वज्रेण नेद् रेतो व्ययामेति। अथो ह न तथा पयः पशुभ्यो ऽन्तर्हितं भवति। ऋग् वा अयं लोकस् सामासौ। देवक्षेत्रं वा असौ लोकः पवमानः। ता यद् द्वेधा व्यूहन्ति तेनैवाभ्याम् उभाभ्यां लोकाभ्यां न यन्ति। आपो वै रेवतयः। आप उ रैवतं साम। तद् यद् रेवतीषु रैवतं पृष्ठं कुर्युर् अगाधे मज्जेयुर् न प्रतितिष्ठेयुः। तद् यद् वारवन्तीयं पृष्ठं भवति प्रतिष्ठित्या एव। जीर्यन्तीव वा एतत् पृष्ठानि यदा षष्ठम् अहर् आगच्छन्ति। न वै जीर्णे रेतः परिशिष्यते। तद् यद् वारवन्तीयं पृष्ठं भवत्य् उत्तरेषाम् एव यज्ञक्रतूनां प्रजात्यै॥3.145॥

वत्सैः पशून् संवाशयन्ति। यदा वै पशवो वत्सैस् संवाशन्ते, ऽथ कामान् दुह्रे। कामदुघा अस्मै रेवतयो भवन्ति। पवमाने संवाशयेद् यः कामयेतामुष्मिन् मे लोके कामदुघा स्युर् इति। अमुष्मिन् हैवास्य लोके कामदुघा भवन्ति। अभ्यावर्तिषु संवाशयेद् यः कामयेतास्मिन् मे लोके कामदुघा स्युर् इति। अस्मिन् हैवास्य लोके कामदुघा भवन्ति। उभयत्र संवाशयेद् यः कामयेतोभयोर् मे लोकयोः कामदुघा स्युर् इति। उभयोर् हैवास्य लोकयोः कामदुघा भवन्ति। तद् आहुर् इतो वत्सा स्युर्, इतो मातरः। उदीचीर् वा आप स्यन्दन्ते। आपो वा एते यत् पशव इति। तद् उ वा आहुर् - इत एव वत्सा स्युर्, इतो मातरः। यदा वै पिता पुत्रं निरवसाययत्य्, उत्तरतो वाव स तं निरवसाययति। तस्माद् उत्तरतो वत्सा स्युर्, दक्षिणतो मातरः। देवासुराः पशुष्व् अस्पर्धन्त। ते देवा वत्सैर् उत्तरतो ऽतिष्ठन्न्, अथासुरा मातृभिर् दक्षिणतः। ता मातरो निर्दीर्य वत्सान् अभिपलायन्त। अधारयन् देवा वत्सान्। तास् समाक्रम्यासुराणाम् अवृञ्जत। ताभिर् उदञ्चः प्राद्रवन्। वृंक्ते द्विषतो भ्रातृव्यस्य पशून् य एवं वेद। तस्माद् उत्तरत एव वत्सा स्युर्, दक्षिणतो मातर इति॥3.146॥

अथ वाजदावर्यः। अन्नं वै वाजो, ऽन्नं दावर्यः। एता अन्नाद्यस्यैवावरुद्ध्यै। प्रजापतिः प्रजा असृजत। ता अनशना असृजत। ता प्रजापतिम् एवोपाधावन्। ताभ्य एतेनैव साम्नान्नाद्यं प्रायच्छत्। ता अब्रुवन् - वाजं वै नो ऽन्नाद्यं प्रादाद् इति। तद् एव वाजदावरीणां वाजदावरीत्वम्। तद् एतद् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। अथ सौपर्णं यज्ञस्यैवारम्भः। यज्ञो वै देवेभ्य उदक्रामत्। स सुपर्णो भूतः पर्यप्लवत। ते देवा अकामयन्ता यज्ञं रभेमहीति। त एतत् सामापश्यन्। तेनास्तुवत। तेन यज्ञम् आरभन्त। उत्क्रान्त इवैतर्हि यज्ञो भवति षष्ठे ऽहन्। तद् यद् अत्र सौपर्णं भवति यज्ञस्यैवारम्भाय। यद् व् एवैनम् एतेन सुपर्णं भूतं परिप्लवमानम् आरभन्ते, तस्मात् सौपर्णम् इत्य् आख्यायते। तद् व् एवाचक्षते क्रौञ्चम् इति। क्रुंङ् आङ्गिरस ईष्यम् इवाहर् अविन्दत्। ईष्यम् इवैतद् अहर् यत् षष्ठम्। तस्मात् षष्ठे ऽहन् क्रियते। तद् ऐळं भवति - पशवो वा इळा। पशव एतद् अहः - पशूनाम् एवावरुद्ध्यै॥3.147॥

अथेषोवृधीयं बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। इषो वै षष्ठम् अहर्, वृधे सप्तमम्। षष्ठाद् वा अह्नस् सप्तमम् अहः प्रजातम्। तद् यद् इष इति षष्ठाद् एवैतद् अह्नस् सप्तमम् अहः प्रजनयन्ति। यद् वृध इत्य् अवर्धन्त इव ह्य् एतर्हि। प्रजापतिः प्रजा असृजत। ता अनशना - अनशना असृजत। ता अशनायन्तीर् अन्यान्याम् आदन्। स प्रजापतिर् ऐक्षत - कथं नु म इमाः प्रजा नाशनायेयुर् इति। स एतत् सामापश्यत्। तेनैना इषोवृधीय इत्य् एवाभ्यमृशत्। ता अस्येषा समक्ता अवर्धन्त। तद् एवेषोवृधीयस्येषोवृधीयत्वम्। इषा हैवास्य समक्ता भार्या वर्धन्ते य एवं वेद। तच् चतुरक्षरणिधनं भवति - चतुष्पदा वै पशवः। पशव एतद् अहः - पशूनाम् एवावरुद्ध्यै॥3.148॥

मृज्यमानस् सुहस्त्या समुद्रे वाचम् इन्वसि रयिम् इति रु इति रेवतीनां रूपम्
पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्य् अर्षसि॥
पुनानो वारे पवमानो अव्यये वृषो अचिक्रदद् वने।
इति वृषण्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। देवानां सोम पवमान निष्कृतं गोभिर् अञ्जानो अर्षसीति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः। तासु सौषावम् अभ्यासवत् सिमानां रूपम्। अभ्यासो वै सिमानां रेवतयः। तद् व् एवाचक्षते वसिष्ठस्य पिप्पलीति। वसिष्ठो वै जीतो हतपुत्रो ऽकामयत - बहुः प्रजया पशुभिः प्रजायेयेति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स बहुः प्रजया पशुभिः प्राजायत। सो ऽब्रवीत् - पिप्पलि वा इदम् आस येन प्राजनिषीति। तत् पिप्पलीनां पिप्पलित्वम्। पिप्पलिनं ह वै नामैतत् पिप्पलीत्य् आख्यायते तत्। प्रजा वै पिप्पलं, पशवः पिप्पलं, स्वर्गो लोकः पिप्पलम्। तद् यत् पिप्पलि भवत्य् एतस्यैव सर्वस्यावरुद्ध्या। एतस्योपाप्त्यै। यद् ऊर्ध्वेळं भवति बृहतो रूपं, बार्हते ऽहन्। तेन वै रूपसमृद्धम्। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वसिष्ठस्य पिप्पलीत्य् आख्यायते॥3.149॥

अथौक्ष्णोरन्ध्रम्। उक्ष्णो वै रन्ध्रः काव्यो ऽकामयताद्भिः प्रतीपं स्वर्गं लोकम् आरोहेयम् अप्सु मे वर्त्मानि पश्येयं नियानम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽद्भिः प्रतीपं स्वर्गं लोकम् आरोहद्, अप्सु स्ववर्त्मान्य् अपश्यन् नियानम्। स ह वाव रौमण्वतः। स एवोशना काव्यः। स ह स यमुनयैव प्रतीपं स्वर्गं लोकम् आरोहत् । तद् एतत् स्वर्ग्यं साम। अद्भिः प्रतीपं स्वर्गं लोकम् आरोहति य एवं वेद। यद् उक्ष्णो रन्ध्रः काव्यो ऽपश्यत् तस्माद् औक्ष्णोरन्ध्रम् इत्य् आख्यायते। अथो आपोनियानम् इति, यद् अस्याप्सु नियानम् अपश्यत्॥3.150॥