प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अथ वाजजित्। अन्नं वै वाजः। यदा वै गौर् अश्वः पुरुषो ऽन्नस्य सुहितो भवति, अथ स वाजी भवति। देवासुरा अन्नाद्ये अस्पर्धन्त। ते देवा अकामयन्त वृञ्जीमह्य् अन्नाद्यम् असुराणाम् इति। त एतत् सामापश्यन्। तेनास्तुवत। ते वाजिजिगीवेत्य् एवान्नाद्यम् असुराणाम् अवृञ्जत। तद् एव वाजिजितो वाजजित्त्वम्। तद् एतद् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे, वृंक्ते द्विषतो भ्रातृव्यस्यान्नाद्यं य एवं वेद। तत् पञ्चाक्षरणिधनं भवति। पांक्तो वै यज्ञः। अतीव वा एते यज्ञस्य मात्रां क्रामन्ति य एतद् अहर् आगच्छन्ति। तद् यत् पञ्चाक्षरणिधनं भवति - पांक्तो यज्ञो - यावती यज्ञस्य मात्रा तां नेद् अतिक्रामामेति॥3.151॥

अथ वरुणसाम। वरुणो वै राजा सधमादम् अवान्याभिर् देवताभिर् आसीत्। सो ऽकामयत सर्वेषां देवानां राज्याय सूयेयेति। स प्रजापतौ शतं वर्षाणि ब्रह्मचर्यम् अवसत्। तस्मा एतत् सामाब्रवीद् - एतद् वै मे राज्यं रूपम्। गच्छ। राजानं त्वा देवाः करिष्यन्त इति। स देवान् अब्यैत्। तम् आयन्तं दृष्ट्वा देवाः प्रत्यवारोहन्। तान् अब्रवीन् - मा मा प्रत्यवरुक्षत। भ्रातरो वै मम यूयं स्थ। यादृशा वै यूयं स्थ, तादृंङ् अहम् अस्मीति। नेत्य् अब्रुवन्। यद् वै नः पितुः प्रजापते रूपं तद् इदं त्वयि पश्याम इति। तं प्रत्य् एवावारोहन्। तस्मा एतां राजासन्दीं त्यदधुः(न्यदधुः?)। तस्याम् एनम् अभ्यषिञ्चन्त - वसवो राज्याय रुद्रा वैराज्यायादित्या स्वाराज्याय विश्वेदेवास् साम्राज्याय मरुतस् सार्ववश्याय साध्याश् चाप्त्याश् च पारमेष्ठ्याय। तद् एतच् छ्रीसवस्साम। अश्नुते श्रियं गच्छति राज्यं य एवं वेद। यद् उ वरुणो राजापश्यत्, तस्माद् वरुणसामेत्य् आख्यायते॥3.152॥

अथ गोष्ठः शक्वरीणां च वा एष रेवतीनां च गोष्ठः। पशूनां धृत्यै गोष्ठः। ध्रियन्ते ऽस्मिन् पशवः। पशूमान् भवति य एवं वेद। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। तान् प्रथमेनाह्नाविवारयिषत। तान् नावारयत। तान् द्वितीयेन नावारयत। तांस् तृतीयेन नावारयत। तांश् चतुर्थेन नावारयत। तान् पञ्चमेन नैवावारयत। तान् षष्ठे ऽहन्न् एतेनैव साम्नावारयत। सो ऽब्रवीद् गोष्ठो वाव म इदं पशूनां सामाभूद् इति। तद् एव गोष्ठस्य गोष्ठत्वम्। तद् एतत् पशव्यं साम गोष्ठः। ध्रियन्ते ऽस्मिन् पशवः। पशुमान् भवति य एवं वेद। तद् उ निषिद्धम् इव भवतीहा इळा इहा इळा इति। एतद् ध वा एनांस् तद् एतेन पुरस्ताद् वारयांचक्रे। एतम् उ त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् इति यद् वै सिन्धुमत् समुद्रवत् तद् एतस्याह्नो रूपम्। आपोभाजनम् एतद् अहः। तदा आहुर् यन्ति एते त्रिष्टुभः पवनानान्ताद् ये गायत्रीष्व् अन्त्यं कुर्वन्तीति। तास् सूर्यवतीर् भवन्ति। अथो ऐन्द्रीः। तेन त्रिष्टुभः पवमानान्तान् न यन्ति। तास्व् इहवद् वामदेव्यम्। पशवो वै सिमाः। पशवो रैवतम्। पशव इहवद् वामदेव्यम्। पशुमन्त इव भवन्त्य् एनेन तुष्टुवानाः। तद् उ निषिद्धम् इवैव भवत्य् - एतम् उ त्यं दश क्षिप इहा मृजन्ति सिन्धुमातरम् इहेति एतद् ध वा एनांस् तद् अप्य् एतेनैव पुरस्ताद् वारयांचक्रे॥3.153॥

रेवतीर् नस् सधमाद इति रेवतयो भवन्ति। समाद् एवैतत् समम् उपयन्ति। गायत्र्यो मध्यन्दिनस्यान्त्या भवन्ति। गायत्र्य एताः। स यथा समात् समं संक्रामेत् तादृक् तत्। यातयामानि वा एतर्ह्य् अन्यानि छन्दांसि, गायत्र्य् एवायातयाम्नी। यातयामभि स्तोत्रैर् यातयामभिश् शस्त्रैर् वषट्कारो यातयाम। ऋतुमन्ति पञ्चाहान्य् अनृतु षष्ठम्। तद् यद् धोत्रा ऋतुयाजान् नाना वषट्कुर्वन्ति तेनैव षष्ठम् अहर् ऋतुमत् क्रियते। तासु वारवन्तीयम्। एतद् ध वै रेवद् रैवत्यं यद् रेवतीषु वारवन्तीयम्। रेवान् भवत्य् आस्य रेवान् रैवत्यो जायते य एवं विद्वान् रेवतीषु वारवन्तीयेन स्तुते। एतद् वै बृहद् रैवत्यम् यद् रेवतीषु वारयन्तीयम्। बार्हतं षष्ठम् अहः। तेनैव षष्ठम् अहर् बार्हतं क्रियते। अग्निर् वा एष वैश्वानरो यत् पृष्ठ्यष् षडहः। ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सरो ऽग्निर् वैश्वानरः। सो ऽशान्त ईश्वरः प्रदग्धोः। तद् यद् वारवन्तीयं पृष्ठं भवत्य् अग्नेर् एव वैश्वानरस्य शान्त्या अप्रदाहाय॥3.154॥

प्रजापतिर् वा एतं यज्ञम् असृजत यत् पृष्ठ्यं षडहम्। स सृष्टः प्राद्रवत्। तं रथन्तरेणाविवारयिषत। तं नावारयत। तं बृहता नावारयत। तं वैरूपेण नावारयत। तं वैराजेन नावारयत। तं महानाम्नीभिर् नावारयत। तं रेवतीभिर् नैववारयत। तं वारवन्तीयेनैवावारयत। यद् अवारयत तद् वारवन्तीयस्य वारवन्तीयत्वम्। तद् यद् वारवन्तीयं पृष्ठं भवति यज्ञस्यैव वारणायै। प्रजापतिर् वा एतं यज्ञम् असृजत यत् पृष्ठ्यं षडहम्। तस्मै प्रतिष्ठाम् ऐच्छत्। तस्मा अप एवाविन्दत्। तासु रथन्तरेण प्रतिष्ठाम् ऐच्छत्। स नाविन्दत्। तासु बृहता नाविन्दत्। तासु वैरूपेण नाविन्दत्। तासु वैराजेन नाविन्दत्। तासु महानाम्नीभिर् नाविन्दत्। तासु रेवतीभिर् नैवाविन्दत्। तासु वारवन्तीयेनैवाविन्दत्। यद् अविन्दत् तद् व् एव वारवन्तीयस्य वारवन्तीयत्वम्। तद् यद् वारवन्तीयं पृष्ठं भवति यज्ञस्यैव प्रतिष्ठायै। इयं वै वारवन्तीयम्, इयं प्रतिष्ठा। अस्याम् एवैतद् यज्ञं प्रतिष्ठापयन्ति। अग्निर् वा एष वैश्वानरो यद् वारवन्तीयम्। आप उ रेवतयः। तद् यद् रेवतीषु वारवन्तीयं भवति, तस्माद् आपो ऽग्नियोनयः। जीर्यन्तीव वा एतत् पृष्ठानि यदा षष्ठम् अहर् आगच्छन्ति। न वै जीर्णे रेतः परिशिष्यते। तद् यद् वारवन्तीयं पृष्ठं भवत्य् उत्तरेषाम् एव यज्ञक्रतूनां प्रजात्यै॥3.155॥

तद् उ होवाचाभिप्रतारणो जीर्णश् शयानः। पुत्रा हास्य दायं विभेजिरे। स ह घोष आस। को घोष इति। तस्मै होचुः - पुत्रास् ते भगवो दायं विभजन्त इति। स होवाच - सुश्रवा वा अहं तत् पृष्ठानां ब्राह्मणे जीवतो ऽस्य पुत्रा दायम् उपयन्तीति। सुश्रवा वा अहं तद् इति। तद् एतद् यथा जीवतो दायम् उपेयाद् एवं तद् यद् रैवते ऽहनि सति वारवन्तीयं पृष्ठं भवति। अथेतरत् पवमाने कुर्वन्ति। अथ ह गैरेय आषाढिर् अषाढं भाल्लवेयं पप्रच्छ यद् इमानि यद् बहूनि सामानि कथं षष्ठायाह्ने न प्राभवन्न् इति। स होवाच - त्वत्वादृशाष् षड् राजानः पञ्चालेषु वेद्या इति। स होवाचैवं न्यूनं त्वं वेत्थान्यथा वयम् अतो विद्मेति। स यद् एवैतद् अपृष्ठं पृष्ठं वारवन्तीयं क्रियते तेनैवैतद् अहर् अप्रभूतम्। अथ ह नैतत्नव आरुणिं पप्रच्छारुण आरुणे कस्माद् अरेतोधास् सत्यो महानाम्नयः प्रजनयन्ति। कस्माद् उ रेतोधास् सत्यो रेवतयो न प्रजनयन्तीति। यद्र इति रेत एव प्रथमेनाभिव्याहरतीति। तद् ध न प्रत्युवाच। तेन हैनं जिगाय। स यत् प्रत्यवक्ष्यद् - रेतो वै रेवतयो रेत उ रैवतं साम। न वै रेतसो रेतो ऽस्ति। पुत्र एवैतर्हि रेतो ऽन्तम् एतत् पृष्ठानि गच्छन्ति। यदा षष्ठम् अहर् आगच्छन्ति नातः पराञ्चि प्रजायन्ते। तस्माद् अरेतोधास् सत्यो महानाम्नयः प्रजनयन्ति। तस्माद् उ रेतोधास् सत्यो रेवतयो न प्रजनयन्तीति। अथ वामदेव्यम्। पशवो वै वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। सुरूपकृत्नुम् ऊतय इत्य् अभ्यारम्भेण षट्पदाष् षष्ठे ऽहन् भवन्ति। तेनैव षडहानि कल्पन्ते॥3.156॥

तास्व् ऋषभो रैवतः। पशवो वै सिमाः, पशवो रेवतयः, पशव ऋषभः। ऋषभम् एवैतत् पशुष्व् अपिसृजन्ति मिथुनत्वाय प्रजननाय। प्र मिथुनेन जायते य एवं वेद। तस्य पूर्वार्धं च जघनार्धं च भूयिष्ठं भाजयन्ति। तस्मात् पशवः पूर्वार्धेन च जघनार्धेन च भूयिष्ठं भुञ्जन्ति वहन्ति। पूर्वार्धेन दुह्रे च जघनार्धेन प्र च जनयन्ति। उभयं धेनुपयसं चानडुत्पयसं चावरुन्द्धे य एवं वेद। उभे यद् इन्द्र रोदसी इति षट्पदाष् षष्ठे ऽहन् भवन्ति। तेनैव षडहानि कल्पन्ते। देवासुराः पशुष्व अस्पर्धन्त। ते ऽसुराः पशुभिस् सह समुद्रम् अभ्यवायन्। ते देवा अकामयन्त वृञ्जीमह्य् असुराणां पशून् इति। त एतान् अंकान् अपश्यन्न् एता ऋचो - देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनद् इति। एतद् अङ्कं रूपम् । तैर् उदारुम्पंस् तान् पशून्। ता एता- पशव्या ऋचः। अव पशून् रुन्द्धे बहुपशुर् भवत्य् एताभिर् ऋग्भिस् तुष्टुवानः॥3.157॥

तासु श्येनस् संपारणो ऽनपहानाय क्रियते। श्येनो ह वा एतद् अहस् संपारयितुम् अर्हति। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनानाञ् छ्येन एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा - श्येनो वाव नो भूत्वेदं साम स्वर्गं लोकम् अवाक्षीद् इति। तद् एव श्येनस्य श्येनत्वम्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। इन्द्रो वा एतेन साम्ना श्येनो भूत्वा असुरान् अपावपत्। तद् व् एव श्येनस्य श्येनत्वम्। तद् उ भ्रातृव्यहा । हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥3.158॥

परि स्वानो गिरिष्ठा इत्य् आर्भवस्य पवमानस्य परिवतीर् गायत्र्यो भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः।
पवित्रे सोमो अक्षरत्।
मदेषु सर्वधा असि॥
इति मद्वतीर् भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधत्य् ऐवैनद् एतेन प्याययन्ति। त्वं विप्रस् त्वं कविर् इति त्वम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः।
मधु प्र जातम् अन्धसा।
मदेषु सर्वधा असि॥
त्वे विश्वे सजोषसः
इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् अतद् अहः।
देवासः पीतिम् आशत।
मदेषु सर्वधा असि॥
इत्य् उपरिष्टाद् उदर्कं दधति। रसो वै षष्ठम् अहस्, तस्यानतिनेदाय। तासु गायत्रम् उक्तब्राह्मणम्। अथ त्रीणि वैदन्वतानि। शर्यातो वै मानवः प्राच्यां स्थल्याम् अयजत। तं हर्षयो याजयांचक्रुः। तद् उभये देवमनुष्यास् सोमं समपिबन्। तद् उभयैर् देवमनुष्यैर् उत्तमं सोमस् संपीतः। तस्मिंश् च्यवनो भार्गवो ऽश्विभ्यां ग्रहम् अगृह्णात्। तम् इन्द्रश् चमसम् अवागृह्णात् - को ऽयम् अज्ञातश् चमसः प्रचरतीति। तस्य विदन्वान् भार्गवः प्रत्यहन्, कस् तं चमसं मीमांसितुम् अर्हति यं वयं प्रयच्छेमेति॥3.159॥

ते देवा अक्रुध्यन्न्, अक्रुध्यन्न् ऋषयः। ते नवनवतयो मरुत ऋष्टिहस्ता अतिष्ठन्न् - इदानीम् इदं पर्याकरिष्यामो ऽथेदं सर्वं मर्दिष्यत इति। अथ ह ऋषयो मदम् आसुरम् उदाह्वयन्। स उत्तृन्दन्न् एवान्तरिक्षं शीर्ष्णाभ्यधात्। सा महती समद् आसीत्। सो ऽग्निर् इन्द्रम् अब्रवीद् व्येतु ते क्रोध श्रेयांसो वा एते ऽस्मत्। यदि वा एतान् क्रोधयिष्यति नेह किं चन परिशेक्ष्यते। एतेभ्यो वै वयं जातास्म इति। तस्याग्निर् एव क्रोधं व्यनयत्। स इन्द्रो वीतक्रोधस् सह देवैः प्राद्रवत्। तेषाम् अपेन्द्रो ऽपदेवो यज्ञो ऽभवत्। ते ऽकामयन्त - सेन्द्रो नस् सदेवो यज्ञ स्याद् इति। स एतानि विदन्वान् भार्गवस् सामान्य् अपश्यत्। तैर् अस्तुत। तैर् इन्द्रम् आह्वयत्। तैर् अस्य क्रोधं व्यनयत्। ततो वै तेषाम् इन्द्रो यज्ञम् उपावर्तत। तत एभ्यो ऽनपक्रम्याभवत्। तत एषां सेन्द्रस् सदेवो यज्ञो ऽभवत्। तानि वा एतानि सेन्द्राणि सदेवानि सामानि। सेन्द्रो हास्य सदेवो यज्ञो भवत्य्, अभ्य् अस्येन्द्रो यज्ञम् आवर्तते, नास्येन्द्रो यज्ञाद् अपक्रामति य एवं वेद। पशवो ह खलु वै विदन्वन्त, एता ऋचो विदन्वतीः। तास्व् एतम् ऋषभं वैदन्वतम् अपिसृजन्ति मिथुनत्वाय प्रजननाय। प्र मिथुनेन जायते य एवं वेद। यद् उ विदन्वान् भार्गवो ऽपश्यत् तस्माद् वैदन्वतानीत्य् आख्यायन्ते॥3.160॥