जैमिनीयं ब्राह्मणम्/काण्डम् ३/१६१-१७०
← कण्डिका १५१-१६० | जैमिनीयं ब्राह्मणम्/काण्डम् ३ कण्डिका १६१-१७० [[लेखकः :|]] |
कण्डिका १७१-१८० → |
अथ ह मद आसुरो बिभयांचकार। स होवाच मा मां मोघायोदाह्वयत वि मां निधत्तेति। ते ऽब्रुवन् पास्याम इति मन्यमानास् सुराम् आहराम वरुणस्यान्धसो ऽधि। तस्यां नैवासीत् कतमश् चनार्तस् सामर्त्यानीति। तत्र मद परेहीति। स एष मद आसुरस् सुरायां विनिहितः। स सुन्वे यो वसूनां यो रायाम् इति (साम १०९६) रूति रेवतीनां रूपम्॥3.161॥
तासु दीर्घं बृहताम् एकम्। एतेन ह वा एतद् अहर् बार्हतं क्रियते। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनान् दीर्घम् एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा - दीर्घं वाव नो भूत्वेदं साम स्वर्गं लोकम् अवाक्षीद् इति। तद् एव दीर्घस्य दीर्घत्वम्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। तं वः सखायो मदायेति मद्वतीर् भवन्ति। अभिपूर्वम् एवैतत् तृतीयसवने रसं मदं दधति।
पुनानम् अभिगायत।
शिशुं न हव्यै स्वदयन्त गूर्तिभिः॥
इति पशुरूपम् एवैतद् उपगच्छन्ति। पशूनां वै शिशुर् भवति। सं वत्स इव मातृभिर् इन्दुर् हिन्वानो अज्यत इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः। देवावीर् मदो मतिभिः परिष्कृतं इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः॥3.162॥
तासु कार्णश्रवसम्। इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानस् स व्यस्मयत। तस्य कर्णौ समैषताम्। ताभ्यां नाशृणोत्। सो ऽकामयताबधिर् स्यां, शृणुयां कर्णाभ्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽबधिरो ऽभवद्, अशृणोत् कर्णाभ्याम्। सो ऽब्रवीद् अश्रौषं वै कर्णाभ्याम् इति। तद् एव कार्णश्रवसस्य कार्णश्रवसत्वम्। अबधिरो भवति, शृणोति कर्णाभ्यां य एवं वेद। तद् व् एवाचक्षते गौलोमम् इति। गोलोमा आङ्गिरसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे, बहुपशुर् भवति य एवं वेद। यद् उ गोलोमा आंगिरसो ऽपश्यत् तस्माद् गौलोमम् इत्य् आख्यायते।
सोमः पवन्त इन्दवो ऽस्मभ्यं गातुवित्तमाः।
मित्रा स्वाना अरेपस
इति रूति रेवतीनां रूपम्। तासु गौरिवीतम् उक्तब्राह्मणम्॥3.163॥
अथ मधुश्च्युन्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते - अथ ऽन्तो वै रसानां मध्व्, अन्त स्वर्गो लोकानाम्, अन्त एतद् अहर् - अन्त्येन साम्नान्त्यं स्वर्गं लोकम् अश्नवामहा इति। अथ क्रौञ्चे। क्रुंङ् आंगिरस ईष्यम् इवाहर् अविन्दत्। ईष्यम् इवैतद् अहर् यत् षष्ठम्। तस्मात् षष्ठे ऽहनि क्रियेते। ते उ एवाचक्षत उद्वच् च शाम्मदं चेति। उद्वता वै देवा ऊर्ध्वा स्वर्गं लोकम् उदक्रामन्। यद् ऊर्ध्वा स्वर्गं लोकम् उदक्रामंस् तद् उद्वत उद्वत्त्वम्। तद् एतद् स्वर्ग्यं साम। ऊर्ध्व एवैतेन स्वर्गं लोकम् उत्क्रामति य एवं वेद।
अथ शाम्मदम्। देवेभ्यो वै विजिग्यानेभ्य इमे लोका बिभ्यतो व्युदक्रामन्। ते ऽकामयन्ताभि न इमे लोका आवर्तेरन्। नास्मद् अपक्रामेयुर् इति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै तान् इमे लोका अभ्यावर्तन्त। तत एभ्यो ऽनपक्रामिणो ऽभवन् । ते ऽब्रुवन् छं वै न इमे लोका अमादिषुर् इति। तद् एव शाम्मदस्य शाम्मदत्वम्। शम् अस्मा इमे लोका मदन्त्य् अभ्य् एनम् इमे लोका आवर्तन्ते। नास्माद् इमे लोका अपक्रामन्ति य एवं वेद। तद् ऊर्ध्वेळं भवति बृहतो रूपं बार्हते ऽहन्। तेन वै रूपसमृद्धम्।
अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व।
ब्रध्नश् चिद् यस्य वातो न जूतिं पुरुमेधश् चित् तकवे नरं धात्॥
इति रूति रेवतीनां रूपम्॥3.164॥
तासु श्नौष्टम्। एतेन वा अग्निर् वैश्वानरो दीदाय। दीदयामेति सत्रम् आसते। दीदयन्त्य् एवैनम् एतेन। अथ ह वा अग्निर् वैश्वानर इत्थम् एवास यथेमे ऽङ्गाराः। सो ऽकामयत श्नुष्टयो मे जायेरन्न् अचर्यं(अर्चय?) इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै तस्य श्नुष्टयो ऽर्चयो ऽजायन्त। एते ह वा अस्य श्नुष्टयो यद् अर्चयः। तेजो वा अस्य तद् ब्रह्मवर्चसम् अजायत। तेजस्वी ब्रह्मवर्चसी श्नुष्टिमान् भवति य एवं वेद। तद् उ निषिद्धम् इव भवत्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः। तद् यथा वा अदो ऽनयनं यन्तम् एहीह मात्रैर् इत्य् अनु्ह्वयेद् एवम् एवैतेन स्तोमा आप्ता अन्ततो ऽनुह्वयन्ति॥3.165॥
अथ यज्ञायज्ञीयम् उक्तब्राह्मणम्। अथैता द्विपदो भवन्ति, छन्दसाम् अयातयामताया अवरुद्ध्यै। यातयामानि वा एतर्ह्य् अहानि छन्दांसि, द्विपद एवायातयाम्नीः। ता यद् अत्र क्रियन्ते तेनैवैतद् अहर् अयातयाम क्रियते। तद् ध स्म केशी दार्भ्य उपगायति -
सर्वदैव गिरौ भद्रम् अपि पर्णेन जीवति।
यदावसं न विन्दति तदाशा उपधावति॥
इति। यादृग् इव स्युर् एव ब्राह्मणास् तादृग् इदं यूयं कुरुथाप्तेषु छन्दस्सु द्विपद इति। पशवो वै पृष्ठ्यष् षडहः, पुरुष छन्दसां द्विपदः। ता यद् अत्र क्रियन्ते पुरुषम् एव तत् पशुष्व् अध्यूहन्ति। तस्मात् पुरुष उपरिष्टात् पशून् अधीव तिष्ठति। अथो स्वर्ग एष लोको यत् पृष्ठ्यष् षडहो, यजमान एव निदानेन यद् द्विपदः। ता यद् उपरिष्टात् पृष्ठ्यस्य षडहस्य पर्यूहन्ति यजमानम् एव तत् स्वर्गे लोके समुदूहन्ति॥3.166॥
छन्दांसि यद अमुम् आदित्यम् उदयच्छंस् तानि नाशक्नुवन्न् उद्यन्तुम्। तानि द्विपदाश् छन्दांस्य् अब्रुवंस् त्वयि प्रतिष्ठायैतम् उद्यच्छामेति। तानि वै - मे ऽन्नं भवतेति। अन्नं ते भवाम इत्य् अब्रुवन्। तद् ब्राह्मणो ह वै छन्दो द्विपदस्, तान्य् अस्यैतान्य् अन्नम् इह चामुत्र च। तान्य् एतानि छन्दांसि द्विपदायां प्रतिष्ठायैतम् आदित्यम् उद्यच्छन्त्य् एतांश् च यज्ञक्रतून्। तद् यत् पृ्च्छेयुः कस्माद् द्विपदष् षष्ठे ऽहन् क्रियन्त इति, प्रतिष्ठित्या इत्य् एव ब्रूयात्। तस्माद् एता अत्र नान्तरित्याः। ता एता भवन्त्य् अग्ने त्वं नो अन्तम इति - ॥3.167॥
असमातिं राथप्रौष्ठं गौपायना अभ्यदासन्। ते खाण्डवे सत्रम् आसत। अथ हासमातौ राथप्रौष्ठे किलाताकुली ऊषतुर् असुरमायौ। तौ ह् स्मानग्नाव् अधिधायौदनं पचतो ऽनग्नौ मांसम्। वपन्तौ ह् स्म पुरस्ताद् इतो लुनन्तो ह स्म पश्चाद् अनुयन्ति तावन् मायाविनौ हासतुः। तद् वै तच् छश्वद् इक्ष्वाकवो ऽसुराशनं जग्ध्वा पराभूताः। तम् असमातिं राथप्रौष्ठं गौपायनानाम् आहुतयो ऽभ्यतपन्। सो ऽब्रवीद् इमौ किराताकुली इमा वै मा गौपायनानाम् आहुतयो ऽभितपन्तीति। ताव् अब्रूतां तस्य वा आवम् एव भिषजौ स्व, आवं प्रायश्चित्तिर्, आवं तथा करिष्यावो यथा त्वैता नाभितप्स्यन्तीति। तौ परेत्य सुबन्धोर् गौपायनस्य स्वपतः प्रमत्तस्यासुम् आहृत्यान्तःपरिधि न्यधत्ताम्। परिधिमन्तो ह् तर्ह्य् अग्नय आसुः। तत् सुबन्धाव् अप्रबुद्धे ऽन्वबुध्यन्ताहार्ष्टां वा अस्यासुम् असुरमायाव् इति। ते ऽब्रुवन्न् एत सुबन्धोर् असुम् अन्वयामेति। ते खाण्डवात् प्रायन् --
मा प्र गाम पथो वयं मा यज्ञाद् इन्द्र सोमिनः।
मान्त स्थुर् नो अरातयः॥
यच् चेदम् इमो यच् च सत्रम् आस्महे तस्माद् उभयस्मान् मा प्रगामेति ते सुबन्धुनावतन्तुमता सुबन्धुतीर्थेनैव ह्वृणिनीं प्राञ्चस् तीर्त्वागच्छन्न् असमातिं राथप्रौष्ठम्॥3.168॥
तस्य ह पराख्यायैवाग्निम् अजानन्। वरूथ्यो वै नामास्याग्निर् इति। अथ ह ततः पुराग्निर् (वरूथ्यो) नाम प्रोचे - वरूथ्यो वै नामास्मि। स यस् त्वैतद् अभिराधयाद् यद् एव त्वा किं च स ब्रवत् तत् कुरुताद् इति। तम् उपायन्न् अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्य इति। तान् अब्रवीत् किंकामा आगातेति। सुबन्धोर् एवासुं पुनर् वनुम इत्य् अब्रुवन्। एषो ऽन्तःपरिधीत्य् अब्रवीत्। तम् आदद्ध्वम् इति। ते निराह्वयन्न्
अयं मातायं पितायं जीवातुर् आगमत्।
इदं तव प्रसर्पणं सुबन्धव् एहि निर् इहि॥
इति। तं सुबन्धुम् असुः पुनः प्राविशत्। स यथापुरम् अभवत्। तद् आभ्यां किराताकुलीभ्याम् आचक्षतेमे वा ऋषयो ऽसुं निराह्वयन्न् इति। ताव् अधारयमाणौ निराद्रवताम्। तयोर् इमान् एव पराख्याय सर्वा माया अपाक्रामन्। तयोर् ह यत् पापिष्ठतमं रूपाणां तद् रूपम् आस॥3.169॥
अथ ह ततः पुरा मायया दर्शनीयाव् आसतुः। तयोर् अन्यतरो ऽग्निं प्रप्लवमाणो ऽब्रवीद् - इत्थं वै स करोति यस् सत्यम् अनृतेन जिघांसतीति। अथेत्थं गा न्यकृन्तन्। तद् अन्यतर उपपरेत्य ग्रीवा अपिकृन्तमाणो ऽब्रवीद् - इत्थम् उ वाव स करोति यस् सत्यम् अनृतेन जिघांसतीति। तौ तद् अवाम्रियेताम्। ता एता भ्रातृव्यघ्न्यो रक्षोघ्न्य् ऋचः। हन्ति द्विषन्तं भ्रातृव्यम् अप रक्षः पाप्मानं हत एताभिर् ऋग्भिस् तुष्टुवानः। तद् आहुर् यद् वालखिल्या विहरन्ति कथम् एतासु विहृतासु स्तुवत इति। स ब्रूयाद् यद् एवैतानि व्यूनाक्षराणि व्यतिषक्तानि पदानि भवन्ति, तेनेति॥3.170॥