प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तासु गूर्दः। देवासुरा अन्नाद्ये ऽस्पर्धन्त। ते देवा अन्नाद्यम् असुराणाम् अवृञ्जत। तेषु हासुरेषु गूर्द एव नाम महद् अन्नाद्यं परिशिशिषे। ते देवा अकामयन्त वृञ्जीमहीमं गूर्दम् अन्नाद्यम् असुराणाम् इति। त एतत् सामापश्यन्। तेनास्तुवत। तेन गूर्दम् अन्नाद्यम् असुराणाम् अवृञ्जत। तस्मिन्न् अगूर्दन्। यद् अगूर्दंस् तद् गूर्दस्य गूर्दत्वम् । तद् एतद् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे वृंक्ते द्विषतो भ्रातृव्यस्यान्नाद्यं य एवं वेद। प्रजापतिर् अन्नाद्यम् असृजत। तस्य सर्वे देवा ममत्विन आसन् मम ममेति। सो ऽग्निर् अकामयताहम् इदम् अन्नाद्यम् उज्जयेयम् इति। स एतत् सामापश्यत्। तेनैनं पर्यगृह्णात्। तद् उदजयत्। तद् एतद् अग्नाव् एव सर्वम् अन्नाद्यम्। तस्माद् यस्यै यस्यै देवतायै जुह्वत्य्, अग्नाव् एव जुह्वति। तस्मिन्न् अगूर्दत्। यद् अगूर्दत्, तद् व् एव गूर्दस्य गूर्दत्वम्। तद् एतद् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। इमा नु कं भुवना सीषधेमेन्द्रश् च विश्वे च देवा इति वैश्वदेव्यो भवन्ति। वैश्वदेवो वै वृषाकपिः। वैश्वदेवम् एतद् अहः। यज्ञं च नस् तन्वं च प्रजां चादित्यैर् इन्द्रस् सह सीषधात्व् इति सिद्ध्या एव। आदित्यैर् इन्द्रस् सगणो मरुद्भिर् अस्मभ्यं भेषजा करद् इति भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते॥3.171॥


तासु गोतमस्य भद्रम्। गोतमो वै श्रीकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स श्रियम् आश्नुत। तच् छ्रीर् वै भद्रम्। प्रजा वै भद्रम्। प्रजायै या प्रजा सा श्रेयः। अपि ह प्रजायै प्रजां पश्यते य एवं वेद। यद् उ गोतमो ऽपश्यत् तस्माद् गोतमस्य भद्रम् इत्य् आख्यायते।
प्र व इन्द्राय वृत्रहन्तमायेति वार्त्रघ्न्यो भवन्त्य्, अन्ततो विजित्यै। देवा वै षडहेन विजित्याब्रुवन् - किं नु नो ऽस्यान्तत स्याद् यथा न इदं जितम् असुरान् अपजयेयुर् इति। ते पृष्ठानाम् एव रसान् संप्रावृहन्। तान् अभ्यस्वरन्। तद् ऊर्ध्वम् उदश्रयद् यथा वंश एवम्। तद् उद्वंशीयम् अभवत्। तद् उद्वंशीयस्योद्वंशीयत्वम्। तद् यज्ञम् अत्यरिच्यत। तस्माद् एतम् उद्वंशपुत्रं प्रावृहन्त्। रसाद् एव रसं तं पृष्ठ्यस्य षडहस्यान्ततो ऽकुर्वंश् छन्दोमानाम् उद्वंशीयम्। ताव् एतौ वज्राव् उद्यताव् अन्ततस् तिष्ठतः, पशूनां गुप्त्यै पशूनाम् अपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। सर्वेषां वा एतत् पृष्ठानां रूपं रसस् तेजस् संभृतम्। सर्वस्मिन्न् एवैतत् पृष्ठरूपे रसे तेजस्य् अपराजिते छन्दसि यज्ञस्यान्ततः प्रतितिष्ठन्ति। तस्य पुरस्तान् निधनस्य प्रतिहारम् उपयन्ति। प्रस्तावप्रतिहाराभ्यां वै यजमानो धृतः। अतीता इवैतर्हि भवन्ति तद् यत् पुरस्तान् निधनस्य प्रतिहारम् उपयन्त्य् अनिपादायैव। तत् स्वारं भवति। अभि सप्तमम् अह स्वरति। स्वारम् एव तद् भवति। स्वरेण श्वो भूते प्रतिपद्यन्ते। स यथा समात् समं संक्रामेद्, यथा प्राणेन प्राणं संदध्यात्, तादृक् तत्॥3.172॥


प्रजापतिर् वा एतं यज्ञम् असृजत यद् द्वादशाहम्। तं पृष्ठ्येनैव षडहेन सर्वम् आप्नोत्। स ऐक्षत कथं न्व् इमानि चत्वार्य् अहानि प्रतिसंदध्याम् इति। स गायत्र्या एव चतुर्विंशम् अहर् निरमिमीत, त्रिष्टुभश् चतुश्चत्वारिंशं, जगत्या अष्टाचत्वारिंशम्, अनुष्टुभ एव दशमम् अहर् निरमिमीत। सर्वेभ्यो वा अहोभ्यस् तद् यच् छन्दोभ्यो निरमिमत तच् छन्दोमानां छन्दोमत्वम्। तद् आहुर् आप्यन्ते वा एतत् स्तोमा, आप्यन्ते छन्दांस्य्, आप्यन्ते देवता, आप्यन्त ऋतवो ग्रहा, यद् एष पृष्ठ्यष् षडह आप्यत इति। तद् यत् सप्तमस्याह्नश् चतुर्विंशं बहिष्पवमानं भवति - चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरो यज्ञो - यज्ञम् एवैतद् यज्ञमुख आरभन्ते। अथो चतुर्विंशत्यक्षरा वै गायत्री। गायत्र्यो वा आप्तं यज्ञक्रतुं पुनस् तन्वते। नो ह्य् अन्या गायत्र्या आप्तं यज्ञक्रतुम् उद्यन्तुम् अर्हति॥3.173॥


एता भवन्ति - प्र काव्यम् उशनेव ब्रुवाण इति प्रवतीः प्रायणे ऽहन्। प्रणिनीषेण्यं वा एतद् अहः। प्रेति गायत्र्यै रूपम्। गायत्र्या एवैतद् रूपेण प्रयन्ति। देवो देवानां जनिमा विवक्तीति सोमो वै देवो देवानां जनिमा। सोमम् एव तत् प्रजनयन्ति। महिव्रतश् शुचिबन्धुः पावक इत्य् अन्नं वै देवाश् शुचिव्रतम् इत्य् आचक्षते। अन्नम् उ देवानां सोमः। तम् एवैतत् प्रजनयन्ति। पदा वराहो अभ्य् एति रेभन्न् इति वराहो वै भूत्वा प्रजापतिष् षष्ठाद् अह्नस् सप्तमम् अहर् अभ्य् अत्यक्रामत्। अतिक्रान्तिर् एवैषा। प्र हंसासस् तृपला वग्नुम् अच्छेति ब्राह्मणा ह वै हंसासस् तृपलाः। अमाद् अस्तं वृषगणा अयासुर् इति षडहो वा अमाच् छन्दोमा अस्तम्। छन्दांसि वृषगणाः। छन्दांस्य् एवैतच् छन्दोमान् अभ्य् अतिनयन्त्य् उत्तरस्य त्र्यहस्य संपारणाय। अङ्गोषिणं पवमानं सखायो दुर्मर्षं वाणं प्र वदन्ति साकम् इति बृहद्रथन्तरे एवैतत् प्रातस्सवने युज्येते। ते युक्ते माध्यन्दिने सवने ऽभ्यारोहन्ति। स योजत उरुगायस्य जूति वृथा क्रीळन्तं मिमते न गाव इति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्ध्यै। पशवो हि छन्दोमाः। परीणसं कृणुते तिग्मशृंग इति । परीणसम् इत्य् आह - अन्नं वै परीणसम् - अन्नाद्यस्यैवावरुद्ध्यै। दिवा हरिर् ददृशे नक्तम् ऋज्र इत्य् अतिरात्रो रूपेण क्रियते॥3.174॥


ता एता भवन्ति त्रिष्टुभो गायत्रवर्णा अह्नो रूपेण समृद्धाः। यत्र वा अहारूपेण समृद्धयन्ति सं तत्रर्ध्यते। सम् अस्मा ऋध्यते य एवं वेद। तद् आहुर् यद् गायत्रं सप्तमम् अहस्, त्रैष्टुभम् अष्टमं, जागतं नवमम्, अथ कस्माद् एतद् गायत्रं सत् त्रिष्टुब्भिः प्रतिपद्यन्त इति। स ब्रूयात् - सर्वे ह्य् एवैतच् छन्दोमास् त्रिष्टुप्प्रतिपदो भवन्तीति। प्र स्वानासो रथा इवेति प्रवतीर् भवन्ति। प्रायणीयरूपम् एवैतद् उपगच्छन्ति। प्रायणीयं ह्य् एतद् अहः। सूक्तम् अनुरूपो भवति - पशवो वै सूक्तम्। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। अथो भूमा वै पशवः। भूमा सूक्तम्। पशूनाम् एवैतत् पशून् अनुरूपान् कुर्वन्ति। नात्र प्रत्यक्षानुरूपान् कुर्वन्ति। तस्मात् पशवो नानारूपाञ् जनयन्त्य् - उत श्वेता कृष्णं जनयन्त्य्, उत कृष्णा श्वेतम्, उत रोहिणी कल्माषम्, उत कल्माषी रोहितम्।
अर्वन्तो न श्रवस्यवः।
सोमासो राये अक्रमुः॥
इति प्रायणीयरूपम् एवैतद् उपगच्छन्ति। प्रायणीयं ह्य् एतद् अहः। हिन्वानासो रथा इवेति यद् वै रथवत् प्रायणीयरूपम् उ एव तत्।
दधन्विरे गभस्त्त्योः।
भरासः कारिणाम् इव॥
राजानो न प्रशस्तिभिस् सोमासो गोभिर् अञ्जते।
इति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्ध्यै। पशवो हि छन्दोमाः। यज्ञो न सप्त धातृभिर् इति सप्तमस्याह्नो रूपम् उपगच्छन्ति॥3.175॥


नवर्चं भवति। नव वै पुरुषे प्राणाः। प्राणैर् एवैतत् समृध्यमाना यन्ति, प्राणेषु प्रतितिष्ठन्तः। अथो तेनैव त्रिवृत स्तोमान् न यन्ति। यद् धि किं च प्रायणं त्रिवृत्। प्रायणम् उ एवोत्तरं नवर्चं भवति। अभिपूर्वम् एवैतत् प्राणैः समृध्यमाना यन्ति। आ ते दक्षं मयोभुवम् इति पर्यासो भवति, प्रजानां धृत्यै पशूनाम् उपस्थित्यै। तद् आहुर् - यत् समं कस् तृणस्याग्रं सर्पति, क्व स ततो भवतीति। उत् पक्षिणः पतन्तीत्य् आहुः। कथम् अपक्षा भिन्दत इति। पक्षिणीर् इव वा एता यास् समानप्रायणास् समानोदयनाः। एताभिर् वा एतद् अहः पक्षि क्रियत, एताभिर् उत्पतत्य्, एताभिस् त्रयस्त्रिंशं स्तोमं प्रत्युद्यच्छति। पक्षी पाप्मानं तरति, पक्षी श्रियम् अश्नुते य एवं वेद। प्रेति पवमानस्य प्रथमेत्य् उत्तमैवम् इव ह्य् एतद् अहः। तस्माद् वयस् सम्यक् पक्षाभ्याम् एवैते। चतुर्विंश स्तोमो भवति। चतुर्विंशत्यर्धमासो वै संवत्सरः। अर्धमासश एवैतत् संवत्सरे प्रतितिष्ठन्तो यन्ति। अथो चतुर्विंशत्यक्षरा वै गायत्री। तेजो ब्रह्मवर्चसं गायत्री। तेजस्य् एवैतत् ब्रह्मवर्चसे प्रतितिष्ठन्तो यन्ति॥3.176॥


त्रयो वैश्वानरा अतिरात्रा द्वादशाहे कार्या इत्य् आहुः। प्राणः प्रथमो वैश्वानरो, ऽपानो द्वितीयो, व्यानस् तृतीयः। वाग् वा एषा प्रतता यद् द्वादशाहः। तां त्वयि विच्छिन्द्युः। तां हार्यलः काहोळिर् उपेयाय - त्रयनीका विजित्येति। तम् उ ह ब्राह्मण उवाचानुष्ठ्या प्राणान् उपागात्। वि वाचम् अछैत्सीद् इति। तस्य ह तत् कुलं व्य् एव चिच्छिदे। ज्योक् तु हैव जिजीव। तद् उ ह पश्चेवानुसंताययांचक्रे। मूर्धानं दिवो अरतिं पृथिव्या इत्य् एवंरूपेण वैश्वानरः कार्यः। तन् न वाचं विछिनत्ति, नाग्निं वैश्वानरम् अन्तरेतीति। प्र वश् शुक्राय भानवे भरध्वम् इति प्रवती कार्या। प्रणिनीषेण्यं वा एतद् अहः। प्रेति गायत्र्यै रूपम्। गायत्र्या एवैतद् रूपेण प्रयन्ति। भूयांसि रूपाण्य् अपराध्यन्त। इतराण्य् एव भूयांसि रूपाणि। यन् मूर्धानं दिवो अरतिं पृथिव्या इत्य् आह द्यावापृथिवीयो वातिरात्रो ऽतिरात्र एवैतेन रूपेण क्रियते। वैश्वानरम् ऋत आ जातम् अग्निम् इत्य् अग्निर् एव वैश्वानरः प्रत्यक्षं भवति। कविं सम्राजम् अतिथिं जनानाम् इति माध्यन्दिनं सवनम्। आसन्ना पात्रं जनयन्त् देवा इति षष्ठस्याह्नस् तृतीयसवनम् प्रत्युपगच्छन्ति॥3.177॥


तद् धि जघन्यं यज्ञे देवा अपश्यन्। अतीता इवैतर्हि भवन्ति। तद् एवैतत् प्रत्युपगच्छन्ति सन्तत्यै। ते देवा अब्रुवन् यद् इमाव् असत्रम् अतिरात्राव्, अथ केनेमाव् अग्नेर् वैश्वानरस्य तन्वं व्येष्याम इति। ते ऽब्रुवन् या एव न इमा अन्त्या अयातयाम्न्यः परमा गुह्यास् तन्वस् ताभिर् व्ययामेति। मूर्धानं दिवो अरतिं पृथिव्या इति द्यावापृथिव्योर् अन्त्यायातयाम्नी परमा गुह्या तनूः। वैश्वानरम् ऋत आ जातम् अग्निम् इत्य् अग्नेर् वैश्वानरस्यान्त्यायातयाम्नी परमा गुह्या तनूः। कविं सम्राजम् अतिथिं जनानाम् इतीन्द्रस्य सम्राड्वतीष्व अन्त्यायातयाम्नी परमा गुह्या तनूः। आसन्ना पात्रं जनयन्त देवा इति विश्वेषां देवानाम् अन्त्यायातयाम्नी परमा गुह्या तनूः॥3.178॥


स यथा प्रीहितावीजं परिचते वासस् ता वासो निधनानिमं परिधत्त एवम् एव तत् देवा अन्त्याभिर् अयातयाम्नीभिस् तनूभिर् अग्नेर् वैश्वानरस्य तन्वं व्यायन्। तथो एवैतर्हि वियन्ति। सर्वाणि वा अग्निष्टोमे संस्थिते। षड् उक्थान्य् उत्क्रामन्ति। तान्य् एतस्मिन् षडहे संस्थित उत्क्रामन्ति। तान्य् एतस्मिन्न् एवाग्नेय आज्ये पुनर् युज्यन्ते। मूर्धाने दिवो अरतिं पृथिव्या इति द्यावापृथिवीयम् एवैतेन यु्ज्यते। कविं सम्राजम् अतिथिं जनानाम् इति मरुत्वतीय - निष्केवल्ये एवैतेन युज्येते। आसन्ना पात्रं जनयन्त देवा इत्य् आज्यप्रउगे एवैतेन यु्ज्येते। एवम् एतान्य् उक्थानि पुनर् युज्यन्ते। अर्वाङ् ह्य् एष त्रियहस् तायते। तस्मान् मूर्धानं दिवो अरतिं पृथिव्या इति भवति। असौ वै दिवो मूर्धेयम् अरतिः पृथिव्यै॥3.179॥


प्र वो मित्राय गायतेति मैत्रावरुणं भवति। प्रायणीयरूपम् एवैतद् उपगच्छन्ति। प्रायणीयं ह्य् एतद् अहः। सम्राजा या घृतयोनी मित्रश् चोभा वरुणश् चेत्य् उभयोर् एवैतद् बृहद्रथन्तरयो रूपम् उपगच्छन्ति। उभे ऽप्य् अत्र बृहद्रथन्तरे क्रियेते। इन्द्रा याहि चित्रभानो, इन्द्रा याहि धियेषित, इन्द्रा याहि तूतुजान इत्य् आ याह्य् आ याहीति भवति। आ याह्य् आ याह्य् आ याहीति युक्तानां पुरस्तात् प्रयन्ति। यथा युक्तानां पुरस्ताद् आ याह्य् आ याहीति प्रेयात् तादृक् तद् यत् तृतीयस्याह्न् ऐन्द्राग्नम्। तद् ऐन्द्राग्नं समैन्य् आज्यानि भवन्ति। नानाग्रामाव् इव ह वा एतौ यत् पृष्ठ्यश् च षडहश् छन्दोमाश् च। स यथा नानाग्रामो मित्राणि व्यतिषज्याभय आसीयातां तादृक् तद् यत् समैन्य् आज्यानि भवन्ति। असमैनि हैके कुर्वन्ति। तस्मात् समैन्य् एव कार्याणि। चतुर्विंश स्तोमो भवति - चतुर्विंशत्यक्षरा वै गायत्री। तेजो ब्रह्मवर्चसं गायत्री। तेजस्य् एवैतद् ब्रह्मवर्चसे प्रतितिष्ठन्तो यन्ति॥3.180॥