← कण्डिका १८१-१९० जैमिनीयं ब्राह्मणम्/काण्डम् ३
कण्डिका १९१-२००
[[लेखकः :|]]
कण्डिका २०१-२१० →

यस् ते मदो वरेण्य इत्य् आर्भवस्य पवमानस्य मद्वतीर् गायत्र्यो भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधत्य्, ऐवैनद् एतेन प्याययन्ति। तेना पवस्वान्धसेत्य् अन्धस्वतीर् भवन्त्य् - अन्नं वा अन्धो - ऽन्नाद्यस्यैवावरुद्ध्यै। अग्निर् वृत्रम् अमित्रियम् इति बार्हतं रूपम्। यद् ऊर्ध्वं मध्यंदिनाद् तद् एतस्याह्नो बार्हतम्। संमिश्लो अरुषो भुवस् सूपस्थाभिर् न धेनुभिर् इति। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् यत् सूपस्थाभिर् इत्य् अह्न एवोपस्थित्यै। तासु गायत्रम् उक्तब्राह्मणम्। अथाग्नेरर्क आग्नेयं सामाग्नेये ऽहन् क्रियते। आग्नेयम् एतद् अहर् यद् गायत्रम्। अग्निर् हि गायत्री। तद् यद् अत्राग्नेरर्कः क्रियते ऽहर् एव तद्रूपेण समृद्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् अर्धुकं भवति। अथो अन्नं वा अर्को, ऽन्नाद्यस्यैवावरुद्ध्यै। अथ सोमसाम। प्रजननं वै सोमः। प्रजननम् एतद् अहः। प्रजनन एवैतत् प्रजननं क्रियते। अथो क्षत्रं वै सोमः। क्षत्रिय उ वा अन्नाद्यस्य प्रदाता। स यो ऽन्नाद्यस्य प्रदाता स नो ऽन्नाद्यं प्रयच्छाद् इति। तद् अध्यर्धेळं भवति - पशवो वा इळा। पशवश् छन्दोमा - अभिपूर्वाणाम् एव पशूनाम् अवरुद्ध्यै॥3.191॥


अथ दक्षोणिधनम्। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् दक्षोणिधनेनैव संदक्षयन्ति। प्रजापतिः प्रजा असृजत। ता अप्राणा असृजत। सो ऽकामयत - प्राणवतीर् म इमाः प्रजा स्युर् इति। स एतत् सामापश्यत्। तेनैना दक्षाया इत्य् एवाभ्यमृशत्। प्राणा वै दक्षाः। प्राणान् एवासु तद् अदधात्। प्राणान् एवात्मंश् च यजमाने च दधाति य एवं वेद। तद् उ होवाच सुदक्षिणः क्षैमिर् मन्थं हास्य कुले विदुर् न विविदुर् दक्षोणिधनं स्वित् ते पवमानमुखे चक्रुर् इति। कथा हेति। मन्थं हि ते कुले न विन्दन्तीति। तस्माद् अग्नेर् एवार्कः प्रथमायां कार्यः। एष स्य धारया सुत इति सन्तनिनः प्रगाथस्, ससन्तनिकेन प्रगाथेनैतद् अहर् भिषज्यामेति। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तत् ससन्तनिकेनैव प्रगाथेन भिषज्यन्ति।
अव्या वारेभिः पवते मदिन्तमः।
क्रीळन्न् ऊर्मिर् अपाम् इव॥
इत्य् अति वा एतर्हि ककुप् ककुभं क्रामत्य्, अत्य् अनुष्टुब् अनुष्टुभम्। सैषा ककुप् सती त्रिष्टुप् संपद्यते। तेनातिक्रामति। साष्टमम् अहर् आरभते।
य उस्रिया अपिया अन्तर् अश्मनि निर् गा अकृन्तद् ओजसा।
अभि व्रजं तत्निषे गव्यम् अश्व्यं वर्मीव धृष्णव् आ रुजा॥
इति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्ध्यै। पशवो हि छन्दोमाः॥3.192॥


तासु शार्करम्। इन्द्रं वै सर्वाणि भूतान्य् अस्तुवन्। तं शर्करस् शिंशुमार स्तोतुं नाकामयत। तम् अब्रवीत् स्तुहि मेति। सो ऽब्रवीन् - नाहं त्वां स्तोष्यामि। समुद्रे वा अहम् अप्स्व् अन्तश् चराम्य् उपनिमज्जन्न् , एतावतो ऽहं त्वां स्तुयाम् इति। तं पर्जन्यो वृष्ट्योर्ध्वम् उदप्लावयद् धन्वाभि। अपो हैवास्मै दर्शयांचकार। तम् उत्तराद् वातेन पर्यशोषयत्। सो ऽवेत् परिशुष्कश् शयानो - यद् वा अहम् इदम् इत्थं न्यगाम्, अभ्यवप्लावयिष्यतीति। स एतं मन्त्रम् अपश्यत्। तेनैनम् अस्तौद् -
यो न इदमिदं पुरा प्र वस्य आनिनाय तम् उ व स्तुषे।
सखाय इन्द्रम् ऊतये॥

इति ( शार्करे द्वे )। तम् अब्रवीत् - किंकामो मा स्तौषीति। इमम् एव मा समुद्रं पुनर् अभ्यवप्लावेत्य् अब्रवीत्। तं पर्जन्यो वृष्ट्या समुद्रं पुनर् अभ्यवाप्लावयत्। तद् एतद् भेषजं प्रायश्चित्तिस् साम। भेषजं वै स तत् प्रायश्चित्तिम् अकुरुत। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते॥3.193॥


स तेनैव मन्त्रेण स्वर्गं लोकम् उदक्रामत्। स एवैष शर्कर उदेति। तद् वा अस्य स्वर्ग्यम्। अश्नुते स्वर्गं लोकं य एवं वेद। समुद्रो वै छन्दोमाः। शिंशुमारो वै समुद्रम् अतिपारयितुम् अर्हति। तद् यद् अत्र शार्करं भवति समुद्रस्यैवातिपारणाय। तत् पुनर्नितुन्नं छन्दो भवति। यत्र यत्र वै देवाश् छन्दसां रसम् अन्वविन्दंस् तत् पुनर्नितुन्नम् अकुर्वंश्, तत् पुनर् अभ्याघ्नन्। धीता इवैते यच् छन्दोमास् तृतीयसवनायतनाः। धीतम् इव वै तृतीयसवनम्। तद् यत् पुनर्नितुन्नं छन्दो भवति रसम् एवैतच् छन्दोमेषु दधति। रस्स्यैवैषानुवित्तिः। तद् उ काकुभं स्वारं भवति। प्राणो वै स्वरः पुरुषश् छन्दसं ककुप्। ज्यैष्ठ्यं वै प्राणो ज्यैष्ठ्यं पुरुषः। ज्यैष्ठ्येनैव तज् ज्यैष्ठ्यं संदधाति, ज्यैष्ठ्ये प्रतितिष्ठति। यद् उ शर्करस् शिंशुमारो ऽपश्यत् तस्माच् छार्करम् इत्य् आख्यायते। सखाय आ नि षीदत पुनानाय प्र गायतेति प्रवतीर् भवन्ति। प्रायणीयरूपम् एवैतद् उपगच्छन्ति। प्रायणीयं ह्य् एतद् अहः। शिशुं न यज्ञैः परि भूषत् श्रिय इति पशुरूपम् एवैतद् उपगच्छन्ति। पशूनां वै शिशुर् भवति॥3.194॥


तासु प्लवम्। यो वै समुद्रम् अप्लवः प्रस्नाति नैनं स व्यश्नुते, ऽथ यः प्लवी प्रस्नाति स व्यश्नुते। समुद्रो वै छन्दोमाः। तद् यत् प्लवं प्लविन एवैतेन। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनान् प्लवम् एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा - प्लवं वाव नो भूत्वेदं साम स्वर्गं लोकम् अवाक्षीद् इति। तद् एव प्लवस्य प्लवत्वम्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। तद् व् एवाचक्षते वसिष्ठस्य प्लवम् इति। वसिष्ठो वा अकामयत स्वस्तीमान् लोकान् सर्वान् संप्लवेयेति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स स्वस्तीमान् लोकान् सर्वान् समप्लवत। तद् व् एव प्लवस्य प्लवत्वम्। स्वस्तीमान् लोकान् सर्वान् संप्लवते य एवं वेद। वसिष्ठम् ऋषयो ऽमेधन् - वैश्यो ऽस्य् अब्राह्मण इति। सो ऽकामयत - तरेयं दुरितं पाप्मानम् इति। स एतत् सामापश्यत्। तेनास्तुत। तेन ए आति विश्वानि दुरिता तरेमेत्य् एव दुरितं पाप्मानम् अतरत्। तरति दुरितं पाप्मानं य एवं वेद। तद् द्वादशाक्षरणिधनं भवति - द्वादशाक्षरा वै जगती। पशवो जगती। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वसिष्ठस्य प्लवम् इत्य् आख्यायते। अथैता भवन्ति पुरोजिती वो अन्धस इति। पुरस्ताद् ध वा एताः पाप्मानं जयन्तीः, पुरस्तात् पाप्मानम् अपघ्नत्यो यन्ति। जितं ह वा एताभिर्, विजितम् अन्ववस्यन्ति। अथो यथान्यौ नवतरौ चक्राव् उपास्येद् एवम् एव एताम् अनुष्टुभं त्र्यहमुखेषु पर्याहरन्ति, स्वर्गस्य लोकस्य समष्ट्यै। तासु गौरिवीतम् उक्तब्राह्मणम्॥3.195॥


अथ कार्तवेशम्। त्रेधा भरतेषु राष्ट्रम् आसीत् - वैतहव्येषु तृतीयं, मित्रवत्सु तृतीयं, कृतवेशे तृतीयम्। सो ऽकामयत कृतवेशो - ह त्व् इमे द्वे राष्ट्रे एकधा राष्ट्रं स्याद् इति। स एतद् द्विनिधनं सामापश्यत्। तेनास्तुत। तेनेमे द्वे राष्ट्रे ह त्वैकधा राष्ट्रम् अभवत्। तद् एतच् छ्रीर् भ्रातृव्यहा साम। अश्नुते श्रियं हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। यद् उ कृतवेशो ऽपश्यत् तस्मात् कार्तवेशम् इत्य् आख्यायते। अथ श्यावाश्वं स्वर्ग्यं साम, स्वर्गस्य लोकस्य समष्ट्यै। यथान्धीगवम् इळावत्य् अनुष्टुब् असद् इति - अनिळानुष्टुप् स्याद् यद् एतद् अत्र कुर्युः। अथो पशवो वा इळा। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। अथैता द्विपदो भवन्त्य् उक्तब्राह्मणाः। ता एता भवन्ति - प्र वाज्य् अक्षार् इति प्रवतीर् भवन्ति। प्रायणीयरूपम् एवैतद् उपगच्छन्ति। प्रायणीयं ह्य् एतद् अहः। तासु सौहविषम्। देवा वा असुरान् हत्वा अपूता इवामेध्या अमन्यन्त। ते ऽकामयन्त पूता मेध्या स्यामेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते पूता मेध्या अभवन्। ते ऽब्रुवन् सुहविषो वा अभूमेति। तद् एव सौहविषस्य सौहविषत्वम्। पूतो मेध्यो भवति य एवं वेद। ये सोमासः परावतीति परावतम् इव ह्य् एतर्हि यज्ञो ऽगच्छत्॥3.196॥


तासु जराबोधीयम्। शाक्त्यास् तरसपुरोडाशास् सत्रम् आसत। स गौरिवीतिश् शाक्त्यो मृगम् अहन्। तं तार्क्ष्यस् सुपर्ण उपरिष्टाद् अभ्यवापतत्। तस्या उपप्रत्यधत्त। तम् अब्रवीद् - ऋषे, मा मे ऽस्थः। यत्कामो ऽसि तं ते कामं समर्धयिष्याम इति। किंकामः खल्व् अहम् अस्मीत्य् अब्रवीत्। असितस्य धाम्न्यस्य दुहितरं कामयसे। तस्यै त्वा निवक्ष्यामीति। अथ हासितो धाम्न्य ईर्ष्युर् आस। तस्य हान्तरिक्षे प्रासाद आस। तद् धास्य दुहितरं जुगुपुः। तं ह स्म पत्रनाड्याम् उपगुह्यास्यै कुमार्यै निवहति। तं ह स्मैतेनैव साम्ना प्रातर् बोधयति - जार बुध्यस्वेति। तद् एव जराबोधीयस्य जराबोधीयत्वम्। सेयं कुमारी गर्भम् अधत्त। स कुमारो ऽजायत। तम् असुरा विच्छिद्य परास्यन्तो ऽब्रुवञ् - जामीगर्भो वा अयं, रक्षो वा इदम् अजनीति। तम् अकामयत - सम् एनम् ईरयेयम् इति। स एतत् सामापश्यत्। तेनैनं समैरयत्। स एव संकृतिर् गौरिवीतो ऽभवत्। तद् एतद् भेषजं प्रायश्चित्तिस् साम। भेषजं वै स तत् प्रायश्चित्तिम् अकुरुत। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् एवैतेन भिषज्यन्ति। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते, सम् अस्मै स काम ऋध्यते। तस्यो प्राचीम् इळाम् उपयन्ति। पशवो वा इळा। पशवश् छन्दोमाः। पशुष्व् एवैतद् रेतांसि दधति॥3.197॥


अथ यज्ञायज्ञीयम् उक्तब्राह्मणम्।

आ ते वत्सो मनो यमद् इत्य् आवतीर् भवन्ति। अपच्छिद् इव वा एतद् यज्ञकाण्डं यद् उक्थानि। तद् यद् आवतीर् भवन्ति यज्ञस्यैव सलोमतायै। तासु वात्सम्। वत्सः काण्वः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स ह वाव त्रिशोको यान् एवामूंस् त्रीन् छोकान् अपाहन् सास्य त्रिशोकता। स ह स सद्य एवालोम्नो कर्णकान् पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ वत्सः काण्वो ऽपश्यत् तस्माद् वात्सम् इत्य् आख्यायते।
    त्वं न इन्द्रा भरेति त्वम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः।
ओजो नृम्णं शतक्रतो विचर्षणे।
आ वीरं पृतनासहम्॥
इति यद् वै शतवत् सहस्रवत् तच् छन्दोमानां रूपम्। पशवो वै छन्दोमाः॥3.198॥


तासु सौश्रवसम्। कुत्सो ह वा औरव इन्द्रस्योरोर् अधि निर्मित आस। यादृश एवेन्द्रस् तादृश, यथात्मनो निर्मित स्याद् एवम्। तं ह संग्रहीतारं चक्रे। तं ह जाययाभिजग्राह शच्या पौलोम्या। तां होवाच कथेत्थम् अकर् इति। सा होवाच - न वां व्यज्ञासम् इति। स होवाच खलतिं वा एनं करिष्यामि, तथा विजानीताद् इति। तं ह खलतिं चकार। स होष्णीषं परिहृत्योपनिपेदे। स एवैष संग्रहीतुर् उष्णीषः। तं हाभ्य् एव जग्राह। तां होवाच कथेत्थम् अकर् इति। सा होवाच - न वां व्यज्ञासम्, उष्णीषेण वै मा परिहृत्योपन्यपादीति। स होवाचान्तरांसयोर् वा अस्य पांसून् अधिवप्स्यामि, तथा विजानीताद् इति। तस्य हान्तरांसयोः पांसून् अध्युवाप। त एवैते संग्रहीतुर् अन्तरांसयोः पांसवः। तान् ह प्रावृत्योपनिपेदे। तं हाभ्य् एव जग्राह। तां होवाच कथेत्थम् अकर् इति। सा होवाच - न वां व्यज्ञासम्। प्रावृत्य वै मोपन्यपादीति॥3.199॥


तं ह बबाधे - मल्लो ऽसीति। स होवाच मघवन् मामुया भूम। तेभ्यो वै नस् त्वं तद् देहि, येन वयं जीवाम। त्वद् वै वयं जाता स्म इति। स वा एतान् अन्तरांसयोः पांसून् प्रध्वंसयस्वेति। तान् ह प्रध्वंसयांचक्रे। ते हैव रजसश् च रजीयांसश् च नाम महाञ् जनपद उत्तस्थौ। तेषां ह राजास। तस्य होपगुस् सौश्रवसः पुरोहित आस। स होवाच - मा कश्चन यष्ट। यो म ईशायां यजते, ज्येयस् सः। न वै देवा अहुतस्यादन्ति। न पर्णाहुतिश् च न होतव्येति। स हेन्द्र उपगुं सौश्रवसम् एत्योवाच - याजयानि त्वेति। स होवाच - न वा इह यजन्ते। यो वा इह यजेत, जिनीयुर् वै तम् इति। तं ह लोकं लोकं दर्शयांचकारेमम् इमं वै लोकम् इष्ट्वा जयतीति। स हेक्षांचक्रे - ऽपि त्यं जिनन्तु। हन्त यजा इति। तं होवाच याजय मेति। तं ह याजयांचकार। स्वयम् एव सदोहविर्धाने उत्तस्थतुः। उलूखले सोमम् अभिषुषाव। स होवाचाराद् एव कुत्साद् इहागहीति। स ह कुत्सम् एवोपेयाय। तं होवाच - कम् अयज इति। उपगुम् इति। एतम् उपगुं जिनीतेति॥3.200॥