प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तं ह जिग्युः। तं ह द्वितीयं तं ह तृतीयम् एत्योवाच - याजयानि त्वेति। स होवाच - न वा इह यजन्ते। यो वा इह यजेत, जिनीयुर् वै तम्। द्विर् वै स्यो ऽयजत। तं त्यम् अजिनन्न् एवेति। तम् उ ह लोकं लोकम् एव दर्शयांचकारेमम् इमम् उ वाव लोकम् इष्ट्वा जयतीति। स हेक्षांचक्रे - ऽपि त्यं जिनन्तु, हन्त यजा एवेति। तं होवाच - याजय मेति। तं ह याजयांचकार। स्वयम् एव सदोहविर्धाने उत्तस्थतुर्, उलूखले सोमम् अभिषुषाव। स होवाच - यथैव त्वा कुत्सो न पश्येत्, तथेताद् इति। स ह कुत्सम् एवोपेयाय। तं होवाच - कम् अयज इति। उपगुम् इति। तम् उ ह स्वयम् एवोपोत्थाय संवृश्च्योदके प्रचकार॥3.201॥


तद् उ ह सुश्रवा स्थौरायणः पितानुबुबुधे - कुत्सो ह वै म औरवः पुत्रं संवृश्च्योदके प्राकारीद् इति। तम् आद्रुत्याब्रवीत् - क्व मे पुत्रम् अकर् इति। एष उदके प्रकीर्णश् शेत इति। तं हान्वभ्यवेयाय। तस्य हेन्द्रो रोहितो भूत्वा मुखात् सोमं निष्पपौ। स हेक्षांचक्रे - ऽयं वावेन्द्रः। इमम् एव स्तवानि। अयम् एव म इमं समैरयिष्यतीति। स एतत् सामापश्यत्। तेनैनम् अस्तौद् -
अपाद् उ शिप्रिय् अन्धसस् सुदक्षस्य प्रहोषिणः।
इन्दोर् इन्द्रो यवाशिरः॥
इति। तम् अब्रवीत् किंकामो मा स्तौषीति। इमम् एव मे पुत्रं समैरयेत्य् अब्रवीत्। तम् ए मथाया इत्य् उदमथ्नात्। तं समैरयत्। तद् एतद् भेषजं प्रायश्चित्तिस् साम। भेषजं वै स तत् प्रायश्चित्तिम् अकुरुत। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् एवैतेन भिषज्यन्ति। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। यद् उ सुश्रवा स्थौरायणो ऽपश्यत् तस्मात् सौश्रवसम् इत्य् आख्यायते॥3.202॥


ऋषयो वै सत्राद् उत्थायायन्त आयुञ्जानाः। ते होचुर् - एत किं चिद् एव यक्षं पश्यामेति। ते होचुर् - अकूपारो वा अयं कश्यपस् समुद्रे ऽन्तर् महद् यक्षम्। एत तं पश्यामेति। तं हान्वभ्यवेयुः। तेभ्यो ह नाविर् आस। ते होचुर् - एतेन्द्रम् एव स्तवाम स वावास्येशे। स एव न इमं दर्शयिष्यतीति। ते ऽत्रिम् अब्रुवन्न् - ऋषे, त्वं स्तुताद् इति। स एतम् अत्रिस् तृचम् अपश्यत्। तेनैनम् उपायन् -
यद् इन्द्र चित्र म इह नास्ति त्वादातम् अद्रिवः।
राधस् तन् नो विदद्वस उभयाहस्त्य् आ भर॥
इति स हेक्षांचक्रे - महद् बत म ऋषयो याचन्ति। उभयाहस्त्य् आ भरेति वा आहुर् इति।
यत् ते दिक्षु प्रराध्यं मनो अस्ति श्रुतं बृहत्।
तेन दृढा चिद् अद्रिव आ वाजं दर्षि सातये॥
इति। स हेक्षांचक्रे - दृढं बत म ऋषयो याचन्ति। न हाजज्ञाव् - अकूपारं दिदृक्षन्त इति।
यन् मन्यसे वरेण्यम् इन्द्र द्युक्षं तद् आ भर।
विद्याम तस्य ते वयम् अकूपारस्य दावने॥
इति। स हाजज्ञाव् अकूपारं वै दिदृक्षन्त इति। तं ह पदोदस्यन्न् उवाचेदम् एव मेदम् ऋषयो महद् इवोभयाहस्त्य् आ भरेत्य् अवोचन्न् इति। तम् अपश्यन्। ता एताः कामसनय ऋचः। एतं वै ते कामम् अकामयन्त। स एभ्यः कामस् समार्ध्यत। यत्काम एवैताभिर् ऋग्भि स्तुते, सम् अस्मै स काम ऋध्यते॥3.203॥


तासु वसिष्ठस्य वीङ्कम् अतिक्रान्तिः। अति वा एतर्ह्य् अनुष्टुब् अनुष्टुभं क्रामति। सैषानुष्टुप् सती त्रयस्त्रिंशदक्षरा संपद्यते। तेनातिक्रामति। वसिष्ठो वै जीतो हतपुत्रो ऽकामयत - वीमान् लोकान् अश्नुवीय, वि प्रजया पशुभिर् अश्नुवीयेति। स एतत् सामापश्यत्। तेनास्तुत। तेन वीवीत्य् एवेमान् लोकान् आश्नुत, वि प्रजया पशुभिर् अश्नुते, य एवं वेद। तद् उ स्तोभानुतुन्नं भवति। अनुतुन्नाद् वै प्रजाः पशवः प्रजायन्ते। पशवश् छन्दोमाः। तेन वै रूपसमृद्धम्। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वसिष्ठस्य वींकम् इत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥3.204॥


शिशुं जज्ञानं हर्यतं मृजन्तीति हरिवतीर् भवन्ति। हरिवती वै परमा वाचस् तनूः। वाचं छन्दोमैस् समिच्छन्ति। आप्तेव वा एतर्हि वाग् भवति छन्दोमेषु। ताम् एवैतत् संविन्दन्ति। शुम्भन्ति विप्रं मरुतो गणेनेति मरुत्वतीर् भवन्ति। मरुत्वद् वै त्रिष्टुभो रूपम्। त्रैष्टुभम् एतद् अहः। अथो क्षत्रं वै त्रिष्टुब्, विशो मरुतः। तद् यत् त्रिष्टुभो मरुत्वतीर् भवन्ति, क्षत्रायैव तद् विशम् अनुवर्त्मानं कुर्वन्ति। तस्मात् क्षत्रस्य विड् अनुवर्त्मा कविर् गीर्भिः काव्येन कविस् सन् सोमः पवित्रम् अत्य् एति रेभन्न् इत्य् अतिंहायन्। ऋषिमना य ऋषिकृत् स्वर्षास् सहस्रनीथः पदवीः कवीनाम् इति सहस्ररूपं छन्दोमानाम् उपगच्छन्ति। पशवो वै छन्दोमाः। तृतीयं धाम महिषस् सिषासन्न् इति तृतीयो ह्य् एष त्रियहः क्रियते यच् छन्दोमाः। सोमो विराजम् अनु राजति ष्टुब् इति त्रैष्टुभं रूपम् उपगच्छन्ति। त्रैष्टुभं ह्य् एतद् अहः। अथो पूर्वो वैष सहो राज्यम्। तम् एवैतच् छन्दोमा अनु राजन्ति। चमूषच् छ्येनश् शकुनो विभृत्वा गोविन्दुर् द्रप्स आयुधानि बिभ्रद् इति गोमतीः पशुमतीर् भवन्ति पशूनाम एवावरुद्ध्यै। पशवो हि छन्दोमाः। अपाम् ऊर्मिं सचमानस् समुद्रम् इति समुद्रवतीर् भवन्ति, छन्दोमानां रूपम्। समुद्रो वै छन्दोमाः। तुरीयं धाम महिषो विवक्तीति तुरीयं ह्य् एतद् अहर् अह्नां क्रियते यच् छन्दोमाः॥3.205॥


ता एता भवन्ति त्रिष्टुभस् त्रिष्टुब्वर्णा अह्नो रूपेण समृद्धाः। यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यते। सम् अस्मा ऋध्यते य एवं वेद। एते सोमा अभिप्रियम् इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। इन्द्रस्य कामम् अक्षरन्न् इति यद् ऐन्द्रं तत् त्रिष्टुभो रूपम्। क्षत्रं हि त्रिष्टुप्। वर्धन्तो अस्य वीर्यम् इति वृद्धं ह्य् एतद् अहर् यच् चतुश्चत्वारिंशम्। सू्क्तम् अनुरूपो भवति - पशवो वै सूक्तं पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। अथो भूमा वै पशवो, भूमा सूक्तम्। पशूनाम् एवैतत् पशून् अनुरूपान् कुर्वन्ति। नात्र प्रत्यक्षानुरूपं कुर्वन्ति। तस्मात् पशवो नानारूपान् जनयन्त्य् - उत श्वेता कृष्णं जनयत्य्, उत कृष्णा श्वेतम्, उत रोहिणी कल्माषम्, उत कल्माषी रोहितम्। नवर्चं भवति। नव वै पुरुषे प्राणाः। प्राणैर् एवैतत् समृध्यमाना यन्ति, प्राणेषु प्रतितिष्ठन्तः। द्वितीयं नवर्चं भवति, तृतीयं नवर्चं भवति। अभिपूर्वम् एवैतत् प्राणैस् समृध्यमाना यन्ति। पञ्चर्चं भवति - पञ्चपदा वै पंक्तिः। पांक्ताः पशवः। पशवश्छन्दोमाः - पशूनाम् एवावरुद्ध्यै। तद् आहु ऋतुमान् पृष्ठ्यष् षडहो, ऽनृतवश् छन्दोमाः। अनृताव् इव एते प्रतिष्ठिता यच् छन्दोमा इति। तद् यद् एतानि पञ्चर्च(ष्) षड् ऋचानि भवन्ति तेनैवर्तुमन्तश् छन्दोमाः क्रियन्ते। पर्यासो भवति प्रजानां धृत्यै पशूनाम् उपस्थित्यै। चतुश्चत्वारिंश स्तोमो भवति। चतुश्चत्वारिंशदक्षरा वै त्रिष्टुप्। इन्द्रियं वीर्यं त्रिष्टुप्। इन्द्रिय एवैतद् वीर्ये प्रतितिष्ठन्तो यन्ति॥3.206॥


अग्निं वो देवम् अग्निभिस् सजोषा इत्य् आग्नेयम् आज्यं भवति ऱाथन्तरम्। राथन्तरं ह्य् एतद् अहः।
यजिष्ठं दूतम् अध्वरे कृणुध्वम्।
यो मर्त्येषु निध्रुविर् ऋतावा तपुर्मूर्धा घृतान्नः पावकः॥
इति । एतद् वा अग्नेः प्रियं धाम यद् घृतम्। प्रियेणैवैनं तं धाम्ना समृद्धयन्ति। प्रोथद् अश्वो न यवसे ऽविष्यन्न् इत्य् अश्ववद् भवति भ्रातृव्यस्यैवावनुत्त्यै। यदा महस् संवरणाद् व्य् अस्थाद् इति महद् ध्य् एतद् अहर् यच् चतुश्चत्वारिंशम्। आद् अस्य वातो अनु वाति शोचिर् अध स्म ते व्रजनं कृ्णम् अस्तीति। यदा वा अग्निं वात उपवाजयत्य् अथ स महद् दीप्यते। तद् एतद् दीप्तिर् एव ब्रह्मवर्चसस्य रूपम्। उद् यस्य ते नवजातस्य वृष्ण इति त्रैष्टुभं रूपम् उपगच्छन्ति। त्रैष्टुभं ह्य् एतद् अहः।
अग्ने चरन्त्य् अजरा इधानाः।
अच्छा द्याम् अरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान्॥
इति स्वर्गस्य लोकस्य समष्ट्यै॥3.207॥


यद् अद्य सूर उदित इति मैत्रावरुणं भवति। यद् इति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः।
अनागा मित्रो अर्यमा।
सुवाति सविता भगः॥
सु्प्रावीर् अस्तु स क्षयः प्र नु यामन् सुदानवः।
यो नो अंहो ऽतिपिप्रति॥
इत्य् अतिहायन्।
उत स्वराजो अदितिर् अदब्धस्य व्रतस्य ये।
महो राजान ईशते॥
इति महद् ध्य् एतद् अहर् यच् चतुश्चत्वारिंशम्। तम् इन्द्रं वाजयामसीत्य् ऐन्द्रं भवति। महे वृत्राय हन्तव इति घ्नद्वत्। एतद् वै यजमानस्य स्वं स्तोत्रं यद् ब्रह्मणः। स्व एव तद् आयतने यजमानस्य सर्वं पाप्मानं घ्नन्ति। स वृषा वृषभो भुवद् इति वृषण्वद् भवति। वृषण्वद् वै त्रिष्टुभो रूपम्। त्रैष्टुभम् एतद् अहः। इन्द्रस् स दामने कृत ओजिष्ठस् स बले हित इति। एतेन वै तृतीयेन त्र्यहेण देवा ऊर्ध्वा स्वर्गं लोकम् आयन्। स एषाम् असंगृहीतो वीवाह्वलत्। तस्मिन्न् इन्द्रस् स दामने कृत ओजिष्ठस् स बले हित इत्य् एव बलम् अदधुः। गिरा वज्रो न संभृत इत्य् एवैनं समभरन्। सबलो अनपच्युत इत्य् एवैनं सबलम् अकुर्वन्। तं संस्कृत्य तेन स्वर्गं लोकम् आयन्। तद् यद् एतद् आज्यं भवति स्वर्गस्यैव लोकस्य समष्ट्यै। यत् प्रथमस्याह्न ऐन्द्राग्नं तद् ऐन्द्राग्नं राथन्तरम्। राथन्तरं ह्य् एतद् अहः। समैन्य् आज्यानि भवन्ति। नानाग्रामाव् इव ह वा एतौ यत् पृष्ठ्यस्य षडहश् छन्दोमाश् च। स यथा नानाग्रामो मित्राणि व्यतिषज्याभय आसीयातां तादृक् तद् यत् समैन्य् आज्यानि भवन्ति। नानाग्रामाव् इव ह वा एतौ यत् पृष्ठ्यस्य षडहश् छन्दोमाश् च। स यथा नानाग्रामो मित्राणि व्यतिषज्याभय आसीयातां तादृक् तद् यत् समैन्य् आज्यानि भवन्ति। असमैनि हैक कुर्वन्ति। तस्मात् समैन्य् एव कार्याणि। चतुश्चत्वारिंश स्तोमो भवति। चतुश्चत्वारिंशदक्षरा वै त्रिष्टुप्। इन्द्रियं वीर्यं त्रिष्टुप्। इन्द्रिय एवैतद् वीर्ये प्रतितिष्ठन्तो यन्ति॥3.208॥


अध्वर्यो अद्रिभिस् सुतम् इति त्रिष्टुभो रूपेण प्रयन्ति। त्रैष्टुभम् एतद् अहः।
सोम पवित्र आ नय।
पुनाहीन्द्राय पातवे॥
तव त्य इन्दो अन्धसा
इत्य् अन्धस्वतीर् भवन्त्य् - अन्नं वा अन्धो - ऽन्नाद्यस्यैवावरुद्ध्यै।
देवा मधोर् व्य् आशत।
पवमानस्य मरुतः॥
इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। दिवः पीयूषम् उत्तमम् इत्य् उत्तमो ह्य् एष त्र्यहः क्रियते यच् छन्दोमाः। तासु गायत्रम् उक्तब्राह्मणम्। अथाञ्जः पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। देवा वा अकामयन्ताञ्जसा स्वर्गं लोकम् आरोहेमेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते ऽञ्जसा स्वर्गं लोकम् आरोहन्। तद् एवाञ्जसो ऽञ्जस्त्वम्। तद् एतत् स्वर्ग्यं साम। अञ्जसैवैतेन स्वर्गं लोकम् आरोहति य एवं वेद। तद् व् एवाचक्षते वैरूपम् इति। पशवो वै विरूपाः। पशवो वैरूपम्। पशुष्व् एवैतत् पशून् अनुसंदधाति। विरूप आंगिरसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ विरूप आङ्गिरसो ऽपश्यत् तस्माद् वैरूपम् इत्य् आख्यायते॥3.209॥


अथ धुरां साम द्रवदिळं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। छन्दांसि वै धुरः। यातयामान इवैते यच् छन्दोमाः। तद् यद् अत्र धुरां साम क्रियते तेनैव छन्दोमा धूर्वन्तश् छन्दस्वन्तो ऽयातयामानः क्रियन्ते। अथो प्राणा वै धुरः। पशवो धुरः। प्राणेष्व् एव तत् पशुषु प्रतितिष्ठति। अथेळतं त्रिणिधनं सवनानां क्लृप्त्यै। एतद् ध वै समृद्धं यद् गायत्रं त्रिणिधनम्। इळन् काव्य स्वर्गकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स इमम् एव लोकं प्रथमेन निधनेनाभ्यारोहद्, अन्तरिक्षं द्वितीयेन, अमुं तृतीयेन। तान् इमांस् त्रीन् लोकान् अभ्यारोहत्। ततो वै स स्वर्गे लोके प्रत्यतिष्ठत्। तद् एतत् स्वर्ग्यं प्रतिष्ठा साम। गच्छति स्वर्गं लोकं, प्रति स्वर्गे लोके तिष्ठति य एवं वेद। यद् व् इळन् काव्यो ऽपश्त् तस्माद् ऐळतम् इत्य् आख्यायते। अथ सौमित्रं, भ्रातृव्यहा सेन्द्रं साम। हन्ति द्विषन्तं भ्रातृव्यम् आस्येन्द्रो हवं गच्छति य एवं वेद। अथ सौपर्णम् उक्तब्राह्मणम्। तच् चतुरक्षरणिधनं भवति - चतुष्पदा वै पशवः, पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै॥3.210॥