बीजगणितम्
भास्कराचार्यः

यह सिद्धान्त शिरोमणि का एक अंग है, जो कि संस्कृत में रचित गणित और खगोल शास्त्र का एक प्राचीन ग्रन्थ है, जिसकी रचना भास्कर द्वितीय (या, भास्कराचार्य ) ने सन ११५० ईस्वी (1150 AD) के आसपास की थी। बीजगणित में बीजगणित (अल्जेब्रा) का विवेचन है।

धन-ऋण-षष्-विधम्सम्पाद्यताम्

बीज-१क/ उत्पादकम् यद् प्रवदन्ति बुद्धेस् अधिष्ठितम् सत्-पुरुषेण सांख्यास् ।

बीज-१ग/ व्यक्तस्य कृत्स्नस्य तद् एक-बीजम् अव्यक्तम् ईशम् गणितम् च वन्दे ॥ [उपजाति]


बीज-२क/ पूर्वम् प्रोक्तम् व्यक्तम् अव्यक्त-बीजम् प्रायस् प्रश्नास् नो विना अव्यक्त-युक्त्या ।

बीज-२ख/ ज्ञातुम् शक्यास् मन्द-धीभिस् नितान्तम् यस्मात् तस्मात् वच्मि बीज-क्रियाम् च ॥ [शालिनी]


बीज-३/ योगे युतिस् स्यात् क्षययोस् स्वयोस् वा धन-ऋणयोस् अन्तरम् एव योगस् ।


बीज-४क/ रूप-त्रयम् रूप-चतुष्टयम् च क्षयम् धनम् वा सहितम् वद आशु ॥ [उपजाति]

बीज-४ग/ स्व-ऋणम् क्षयम् स्वम् च पृथक्-पृथक्त्वे धन-ऋणयोस् संकलनाम् अवैषि ॥ [उपजाति-कख; गघ=७]


बीज-५/ अत्र रूपाणाम् अव्यक्तानाम् च आद्य-अक्षराणि उपलक्षण-अर्थम् लेख्यानि/ तथा यानि ऊन-गतानि तानि ऊर्ध्व-बिन्दूनि च इति ॥ [गद्य]


बीज-६/ एवम् भिन्नेषु अपि इति ॥ [गद्य]


बीज-७/ संशोध्यमानम् स्वम् ऋणत्वम् एति स्वत्वम् क्षयस् तद्-युतिस् उक्तवत् च ॥ [उपजाति-गघ; कख=४गघ]


बीज-८/ त्रयात् द्वयम् स्वात् स्वम् ऋणात् ऋणम् च व्यस्तम् च संशोध्य वद आशु शेषम् ॥ [उपजाति-कख; गघ=१०]


बीज-९/ स्वयोस् अस्वयोस् स्वम् वधस् स्व-ऋण-घाते क्षयस् ॥ [भुजङ्गप्रयात-अ (+२अक्षर); ख=११ ; गघ=१३]


बीज-१०/ धनम् धनेन ऋणम् ऋणेन निघ्नम् द्वयम् त्रयेण स्वम् ऋणेन किम् स्यात् ॥ [उपजाति-गघ; कख=८]


बीज-११/ भाग-हारे अपि च एवम् निरुक्तम् ॥ [भुजङ्गप्रयात-ख (-२अक्षर) ; क=९ ; गघ=१३]


बीज-१२क/ रूप-अष्टकम् रूप-चतुष्टयेन धनम् धनेन ऋणम् ऋणेन भक्तम् ।

बीज-१२ग/ ऋणम् धनेन स्वम् ऋणेन किम् स्यात् द्रुतम् वद इदम् यदि बोबुधीषि ॥ [उपजाति]


बीज-१३/ कृतिस् स्व-ऋणयोस् स्वम् स्व-मूले धन-ऋणे न मूलम् क्षयस्य अस्ति तस्य अकृतित्वात् ॥ [भुजङ्गप्रयात-गघ; क=९ ; ख=११]


बीज-१४/ धनस्य रूप-त्रितयस्य वर्गम् क्षयस्य च ब्रूहि सखे मम आशु ।


बीज-१५/ धन-आत्मकानाम् अधन-आत्मकानाम् मूलम् नवानाम् च पृथक् वद आशु ॥ [उपजाति]

शून्य-षष्-विधम्सम्पाद्यताम्

बीज-१६/ ख-योगे वियोगे धन-ऋणम् तथा एव च्युतम् शून्य-तस् तद्-विपर्यासम् एति ॥ [भुजङ्गप्रयात-कख; गघ=१८]


बीज-१७/ रूओअ-त्रयम् स्वम् क्षय-गम् च खम् च किम् स्यात् ख-युक्तम् वद ख-च्युतम् च ॥ [इन्द्रवज्रा-कख; गघ=१९]


बीज-१८/ वध-आदौ वियत् खस्य खम् खेन घाते ख-हारस् भवेत् खेन भक्तस् च राशिस् ॥ [भुजङ्गप्रयात-गघ; कख=१६]


बीज-१९/ द्वि-घ्नम् त्रि-हृत् खम् ख-हृतम् त्रयम् च शून्यस्य वर्गम् वद मे पदम् च ॥ [इन्द्रवज्रा-गघ; कख=१७]


बीज-२०क/ अस्मिन् विकारस् ख-हरेण राशौ अपि प्रविष्टेषु अपि निःसृतेषु ।

बीज-२०ग/ बहुषु अपि स्यात् लय-सृष्टि-काले अनन्ते अच्युते भ्बूत०गणेषु यद्-वत् ॥ [उपजाति]



वर्ण-षष्-विधम्सम्पाद्यताम्

बीज-२१क/ यावत्तावत्-कालकस् नीलकस् अन्यस् वर्णस् पीतस् लोहितस् च एतद्-आद्यास् ।

बीज-२१ग/ अव्यक्तानाम् कल्पितास् मान-संज्ञास् तद्-संख्यानम् कर्तुम् आचार्य-वर्यैस् ॥ [शालिनी]

बीज-२२/ योगस् अन्तरम् तेषु समान-जात्योस् विभिन्न-जात्योस् च पृथक् स्थितिस् च ॥ [उपजाति-कख; गघ=२६कख]

बीज-२३कख/ स्वम् अव्यक्तम् एकम् सखे स-एक-रूपम् धन-अव्यक्त-युग्मम् वि-रूप-अष्टकम् च ।

बीज-२३गघ/ युतौ पक्षयोस् एतयोस् किम् धन-ऋणे विपर्यस्य च ऐक्ये भवेत् किम् वद आशु ॥ [भुजङ्गप्रयात]

बीज-२४/ धन-अव्यक्त-वर्ग-त्रयम् स-त्रि-रूपम् क्षय-अव्यक्त-युग्मेन युक्तम् च किम् स्यात् ॥ [भुजङ्गप्रयात-कख; गघ=२५]

बीज-२५/ धन-अव्यक्त-युग्मात् ऋण-अव्यक्त-षट्कम् स-रूप-अष्टकम् प्रोज्झ्य शेषम् वद आशु ॥ [भुजङ्गप्रयात-गघ; कख=२४]

बीज-२६क/ स्यात् रूप-वर्ण-अभिहतौ तु वर्णस् द्वि-त्रि-आदिकानाम् सम-जातिकानाम् ॥ [उपजाति-गघ; कख=२२]

बीज-२६ग/ वधे तु तद्-वर्ग-घन-आदयस् स्युस् तद्-भावितम् च असम-जाति-घाते ।

बीज-२६ए/ भाग-आदिकम् रूप-वत् एव शेषम् व्यक्ते यद् उक्तम् गणिते तद् अत्र ॥ [उपजाति]

बीज-२७क/ गुण्यस् पृथक् गुण-खण्ड-समस् निवेश्यस् तैस् खण्डकैस् क्रम-हतस् सहितस् यथा-उक्त्या ।

बीज-२७ग/ अव्यक्त-वर्ग-करणी-गुणनासु चिन्त्यस् व्यक्त-उक्त-खण्ड-गुणना-विधिस् एवम् अत्र ॥ [वसन्ततिलका]

बीज-२८क/ यावत्तावत्-पञ्चकम् वि-एक-रूपम् यावत्तावद्भिस् त्रिभिस् स-द्वि-रूपैस् ।

बीज-२८ग/ संगुण्य द्राक् ब्रूहि गुण्यम् गुणम् वा व्यस्तम् स्व-ऋणम् कल्पयित्वा च विद्वन् ॥ [शालिनी]

बीज-२९क/ भाज्यात् छेदस् शुध्यति प्रच्युतस् सन् स्वेषु स्थानकेषु क्रमेण ।

बीज-२९ग/ यैस् यैस् वर्णैस् संगुणस् यैस् च रूपैस् भाग-हारे लब्धयस् तास् स्युस् अत्र ॥ [शालिनी]

बीज-३०/ रूपैस् षड्भिस् वर्जितानाम् चतुर्णाम् अव्यक्तानाम् ब्रूहि वर्गम् सखे मे/[शालिनी-कख]

बीज-३१क/ कृतिभ्यस् आदाय पदानि तेषाम् द्वयोस् द्वयोस् च अभिहतिम् द्वि-निघ्नीम् ।

बीज-३१ग/ शेषात् त्यजेत् रूप-पदम् गृहीत्वा चेद् सन्ति रूपाणि तथा एव शेषम् ॥ [उपजाति]

बीज-३२क/ यावत्तावत्-कालक-नीलक-वर्णास् त्रि-पञ्च-सप्त-धनम् ।

बीज-३२ग/ द्वि-त्रि-एक-मितैस् क्षय-गैस् सहितास् रहितास् कति स्युस् तैस् ॥ [आर्या]

बीज-३३क/ यावत्तावत्-त्रयम् ऋणम् ऋणम् कालकौ नीलकस् स्वम् रूपेण आढ्यास् द्वि-गुणित-मितैस् तैस् तु तैस् एव निघ्नास् ।

बीज-३३ग/ किम् स्यात् तेषाम् गुणन-ज-फलम् गुण्य-भक्तम् च किम् स्यात् गुण्यस्य अथ प्रकथय कृतिम् मूलम् अस्यास् कृतेस् च ॥ [मन्दाक्रान्ता]



करणी-षष्-विधम्सम्पाद्यताम्

बीज-३४क/ योगम् करण्योस् महतीम् प्रकल्प्य घातस्य मूलम् द्वि-गुणम् लघुम् च ।

बीज-३४ग/ योग-अन्तरे रूप-वत् एतयोस् ते वर्गेण वर्गम् गुणयेत् भजेत् च ॥ [इन्द्रवज्रा]

बीज-३४ए/ लघ्व्या हृतायास् तु पदम् महत्या स-एकम् निर्-एकम् स्व-हतम् लघु-घ्नम् ।

बीज-३४ग्/ योग-अन्तरे स्तस् क्रमशस् तयोस् वा पृथक्-स्थितिस् स्यात् यदि न अस्ति मूलम् ॥ [उपजाति]


बीज-३५क/ द्विक-अष्ट-मित्योस् त्रि-भ-संख्ययोस् च योग-अन्तरे ब्रूहि सखे करण्योस् ।

बीज-३५ग/ त्रि-सप्त-मित्योस् च चिरम् विचिन्त्य चेद् षष्-विधम् वेत्सि सखे करण्यास् ॥ [उपजाति]


बीज-३६क/ द्वि-त्रि-अष्ट-संख्या-गुणकस् करण्योस् गुण्यस् त्रि-संख्या च स-पञ्च-रूपा ।

बीज-३६ग/ वधम् प्रचक्ष्व आशु वि-पञ्च-रूपे गुणे अथ वा त्रि-अर्क-मिते करण्यौ ॥ [उपजाति]


बीज-३७क/ क्षयस् भवेत् च क्षय-रूप-वर्गस् चेद् साध्यते असौ करणीत्व-हेतोस् ।

बीज-३७ग/ ऋण-आत्निकायास् च तथा करण्यास् मूलम् क्षयस् रूप-विधान-हेतोस् ॥ [उपजाति]


बीज-३८क/ धन-ऋण-ता-व्यत्ययम् ईप्सितायास् छेदे करण्यास् असकृत् विधाय ।

बीज-३८ग/ तादृश् छिदा भाज्य-हरौ निहन्यात् एका एव यावत् करणी हरे स्यात् ॥ [उपजाति]

बीज-३८ए/ भाज्यास् तया भाज्य-गतास् करण्यस् लब्धास् करण्यस् यदि योग-जास् स्युस् ।

बीज-३८ग्/ विश्लेष-सूत्रेण पृथक् च कार्या यथा तथा प्रष्टुस् अभीप्सितास् स्युस् ॥ [उपजाति]


बीज-३९क/ वर्गेण योग-करणी विहृता विशुध्येत् खण्डानि तद्-कृति-पदस्य यथा-ईप्सितानि ।

बीज-३९ग/ कृत्वा तदीय-कृतयस् खलु पूर्व-लब्ध्या क्षुण्णास् भवन्ति पृथक् एवम् इमास् करण्यस् ॥ [वसन्ततिलका]


बीज-४०क/ द्विक-त्रि-पञ्च-प्रमितास् करण्यस् तासाम् कृतिम् द्वि-त्रिक-संख्ययोस् च ।

बीज-४०ग/ षष्-पञ्चक-द्वि-त्रिक-संमितानाम् पृथक् पृथक् मे कथय आशु विद्वन् ॥ [उपजाति]

बीज-४०च/ अष्टादश-अष्ट-द्विक-संमितानाम् कृती कृतीनाम् च सखे पदानि ॥ [उपजाति-कख; गघ=४३कख]


बीज-४१क/ वर्गे करण्यास् यदि वा करण्योस् तुल्यानि रूपाणि अथ वा बहूनाम् ।

बीज-४१ग/ विशोधयेत् रूप-कृतेस् पदेन शेषस्य रूपाणि युत-ऊनितानि ॥ [उपजाति]

बीज-४१च/ पृथक् तद्-अर्धे करणी-द्वयम् स्यात् मूले अथ बह्वी करणी तयोस् या ।

बीज-४१ज/ रूपाणि तानि एवम् अतस् अपि भूयस् शेषास् करण्यस् यदि सन्ति वर्गे ॥ [उपजाति]


बीज-४२क/ ऋण-आत्मिका चेद् करणी कृतौ स्यात् धन-आत्मिकाम् ताम् परिकल्प्य साध्ये ।

बीज-४२ग/ मूले करण्यौ अनयोस् अभीष्टा क्षय-आत्मिका एका सु-धिया अवगम्या ॥ [उपजाति]


बीज-४३क/ त्रि-सप्त-मित्योस् वद मे करण्योस् विश्लेष-वर्गम् कृतितस् पदम् च/[उपजाति-गघ; कख=४०चछ]

बीज-४३ग/ द्विक-त्रि-पञ्च-प्रमितास् करण्यस् स्व-स्व-ऋण-गास् व्यस्त-धन-ऋण-गास् वा ।

बीज-४३ए/ तासाम् कृतिम् ब्रूहि कृतेस् पदम् च चेद् षष्-विधम् वेत्सि सखे करण्यास् ॥ [उपजाति]


बीज-४४क/ एक-आदि-संकलित-मित-करणी-खण्डानि वर्ग-राशौ स्युस् ।

बीज-४४ग/ वर्गे करणी-त्रितये करणी-द्वितयस्य तुल्य-रूपाणि ॥ [गीति]

बीज-४४च/ करणी-षट्के तिसृणाम् दशसु चतसृणाम् तिथिषु च पञ्चानाम् ।

बीज-४४ज/ रूप-कृतेस् प्रोज्झ्य पदम् ग्राह्यम् चेद् अन्यथा न सत् क्व अपि ॥ [गीति]

बीज-४४ट/उत्पत्स्यमानया एवम् मूल-करण्या अल्पया चतुर्-गुणया ।

बीज-४४ड/ यासाम् अपवर्तस् स्यात् रूप-कृतेस् तास् विशोध्यास् स्युस् ॥ [आर्या]

बीज-४४त/ अपवर्ते यास् लब्धास् मूल-करण्यस् भवन्ति तास् च अपि ।

बीज-४४द/ शेष-विधिना न यदि तास् भवन्ति मूलम् तदा तद् असत् ॥ [आर्या]


बीज-४५क/ वर्गे यत्र करण्यस् दन्तैस् ३२ सिद्धैस् २४ गजैस् ८ मितास् विद्वन् ।

बीज-४५ग/ रूपैस् दशभिस् उपेतास् किम् मूलम् ब्रूहि तस्य स्यात् ॥ [आर्या]


बीज-४६क/ वर्गे यत्र करण्यस् तिथि-विश्व-हुताशनैस् चतुर्-गुणितैस् ।

बीज-४६ग/ तुल्यास् दश-रूप-आढ्यास् किम् मूलम् ब्रूहि तस्य स्यात् ॥ [आर्या]


बीज-४७क/ अष्टौ षष् पञ्चाशत् षष्टिस् करणी-त्रयम् कृतौ यत्र ।

बीज-४७ग/ रूपैस् दशभिस् उपेतम् किम् मूलम् ब्रूहि तस्य स्यात् ॥ [आर्या]


बीज-४८क/ चतुर्-गुणास् सूर्य-तिथीषु रुद्र-नाग-ऋतवस् यत्र कृतौ करण्यस् ।

बीज-४८ग/ स-विशव-रूपास् वद तद्-पदम् ते यदि अस्ति बीजे पटुता-अभिमानस् ॥ [उपजाति]


बीज-४९क/ चत्वारिंशत्-अशीति-द्विशती-तुल्यास् करण्यस् चेद् ।

बीज-४९ग/ सप्तदश-रूप-युक्तास् तत्र क्र्तौ किम् पदम् ब्रूहि ॥ [उपगीति]



कुट्टक-विवरणम्सम्पाद्यताम्

बीज-५०क/ भाज्यस् हारस् क्षेपकस् च अपवर्त्यस् केन अपि आदौ संभवे कुट्टक-अर्थम् ।

बीज-५०ग/ येन छिन्नौ भाज्य-हारौ न तेन क्षेपस् च एतद् दुष्टम् उद्दिष्टम् एव ॥ [शालिनी]

बीज-५१क/ परस्परम् भाजितयोस् ययोस् यस् शेषस् तयोस् स्यात् अपवर्तनम् सस् ।

बीज-५१ग/ तेन अपवर्तेन विभाजितौ यौ तौ भाज्य-हारौ दृढ-संज्ञकौ स्तस् ॥ [उपजाति]

बीज-५१च/ मिथस् भजेत् तौ दृढ-भाज्य-हारौ यावत् विभाज्ये भवति इह रूपम् ।

बीज-५१ज/ फलानि अधस् अधस् तद्-अधस् निवेश्यस् क्षेपस् तथा अन्ते खम् उपान्तिमेन ॥ [उपजाति]

बीज-५१ट/ स्व-ऊर्ध्वे हते अन्त्येन युते तद्-अन्त्यम् त्यजेत् मुहुस् स्यात् इति राशि-युग्मम् ।

बीज-५१ड/ ऊर्ध्वस् विभाज्येन दृढेन तष्टस् फलम् गुणस् स्यात् अपरस् हरेण ॥ [उपजाति]

बीज-५२क/ एवम् तदा एव अत्र यदा समास् तास् स्युस् लब्धयस् चेद् विषमास् तदानीम् ।

बीज-५२ग/ यथा आगतौ लब्धि-गुणौ विशोध्यौ स्व-तक्षणात् शेष-मितौ तु तौ स्तस् ॥ [उपजाति]

बीज-५३क/ भवति कुट्ट-विधेस् युति-भाज्ययोस् समपवर्तितयोस् अपि वा गुणस् ।

बीज-५३ग/ भवति यस् युति-भाजकयोस् पुनर् सस् च भवेत् अपवर्तन-संगुणस् ॥ [द्रुतविलम्बित]

बीज-५४क/ योग-जे तक्षणात् शुद्धे गुण-आप्ती स्तस् वियोग-जे ।

बीज-५४ग/ धन-भाज्य-उद्भवे तद्-वत् भवेताम् ऋण-भाज्य-जे ॥ [अनुष्टुभ्]

बीज-५५/ गुण-लब्ध्योस् समम् ग्राह्यम् धीमता तक्षणे फलम् ।

बीज-५६क/ हर-तष्टे धन-क्षेपे गुण-लब्धी तु पूर्व-वत् ॥ [अनुष्टुभ्]

बीज-५६ग/ क्षेप-तक्षण-लाभ-आढ्या लब्धिस् शुद्धौ तु वर्जिता ।

बीज-५७क/ अथ वा भाग-हारेण तष्टयोस् क्षेप-भाज्ययोस् ॥ [अनुष्टुभ्]

बीज-५७ग/ गुणस् प्राक्-वत् ततस् लब्धिस् भाज्यात् हत-युत-उद्धृतात् ।

बीज-५८क/ क्षेप=अभावस् अथ वा यत्र क्षेपस् शुध्येत् हर-उद्धृतस् ॥ [अनुष्टुभ्]

बीज-५८ग/ ज्ञेयस् शून्यम् गुणस् तत्र क्षेपस् हर-हृतस् फलम् ॥ [अनुष्टुभ्-कख; गघ=६३कख]

बीज-५९/ इष्ट-आहत-स्व-स्व-हरेण युक्ते ते वा भवेताम् बहुधा गुण-आप्ती ॥ [उपजाति-कख; गघ=६६कख]

बीज-६०क/ एकविंशति-युतम् शत-द्वयम् यद्-गुणम् गणक पञ्चषष्टि-युज् ।

बीज-६०ग/ पञ्च-वर्जित-शत-द्वय-उद्धृतम् शुद्धिम् एति गुणकम् वद आशु तम् ॥ [रथोद्धता]

बीज-६१क/ शतम् हतम् येन युतम् नवत्या विवर्जितम् वा विहृतम् त्रिषष्ट्या ।

बीज-६१ग/ निर्-अग्रकम् स्यात् वद मे गुणम् तम् स्पष्टम् पटीयान् यदि कुट्टके असि ॥ [उपजाति]

बीज-६२क/ यद्-गुणा अक्षय-ग-षष्टिस् अन्विता वर्जिता च यदि वा त्रिभिस् ततस् ।

बीज-६२ग/ स्यात् त्रयोदश-हृता निर्-अग्रका तम् गुणम् गणक मे पृथक् वद ॥ [रथोद्धता]

बीज-६३क/ अष्टादश गुणास् केन दश-आढ्यास् वा दश-ऊनितास् ॥ [अनुष्टुभ्-गघ; कख=५८गघ]

बीज-६३ग/ शुद्धम् भागम् प्रयच्छन्ति क्षय-ग-एकादश-उद्धृतास् ।

बीज-६४क/ येन संगुणितास् पञ्च त्रयोविंशति-संयुतास् ॥ [अनुष्टुभ्]

बीज-६४ग/ वर्जितास् वा त्रिभिस् भक्तास् निर्-अग्रकास् स्युस् सस् कस् गुणस् ॥ [अनुष्टुभ्-कख; गघ=७३कख]

बीज-६५क/ येन पञ्च गुणितास् ख-संयुतास् पञ्चषष्टि-सहितास् च ते अथ वा ।

बीज-६५ग/ स्युस् त्रयोदश हृता निर्-अग्रकास् तम् गुणम् गणक कीर्तय आशु मे ॥ [रथोद्धता]

बीज-६६क/ क्षेपम् विशुद्धिम् परिकल्प्य रूपम् पृथक् तयोस् ये गुण-कार-लब्धी ॥ [उपजाति-गघ; कख=५९]

बीज-६६ग/ अभीप्सित-क्षेप-विशुद्धि-निघ्ने स्व-हार-तष्टे भवतस् तयोस् ते ।

बीज-६७क/ कअल्प्या अथ शुद्धिस् विकला-अवशेषम् षष्टिस् च भाज्यस् कु-दिनानि हारस् ॥ [उपजाति]

बीज-६७ग/ तद्-जम् फलम् स्युस् विकलास् गुणस् तु लिप्ता-अग्रम् अस्मात् च कला-लव-अग्रम् ।

बीज-६७च/ एवम् तद्-ऊर्ध्वम् च तथा अधिमास-अवम-अग्रकाभ्यस् दिवसास् रवि-इन्द्वोस् ॥ [उपजाति]

बीज-६८क/ एकस् हरस् चेद् गुणकौ विभिन्नौ तदा गुण-ऐक्यम् परिकल्प्य भाज्यम् ।

बीज-६८ग/ अग्र-ऐक्यम् अग्रम् कृतस् उक्त-वत् यस् संश्लिष्ट-संज्ञस् स्फुट-कुट्टकस् असौ ॥ [उपजाति]

बीज-६९क/ कस् पञ्च-निघ्नस् विहृतस् त्रिषष्ट्या सप्त अवशेषस् अथ सस् एव राशिस् ।

बीज-६९ग/ दश-आहतस् स्यात् विहृतस् त्रिषष्ट्या चतुर्दश अग्रस् वद राशिम् एनम् ॥ [उपजाति]



वर्ग-प्रकृतिस्सम्पाद्यताम्

बीज-७०क/ इष्टम् ह्रस्वम् तस्य वर्गस् प्रकृत्या क्षुण्णस् युक्तस् वर्जितस् वा सस् येन ।

बीज-७०ग/ मूलम् दद्यात् क्षेपकम् तम् धन-ऋणम् मूलम् तद् च ज्येष्ठ-मूलम् वदन्ति ॥ [शालिनी]

बीज-७१क/ ह्रस्व-ज्येष्ठ-क्षेपकान् न्यस्य तेषाम् तान् अन्यान् वा अधस् निवेश्य क्रमेण ।

बीज-७१ग/ साध्यानि एभ्यस् भावनाभिस् बहूनि मूलानि एषाम् भावना प्रोच्यते अतस् ॥ [शालिनी]

बीज-७१च/ वज्र-अभ्यासौ ज्येष्ठ-लघ्वोस् तद्-ऐक्यम् ह्रस्वम् लघ्वोस् आहतिस् च प्रकृत्या ।

बीज-७१ज/ क्षुण्णा ज्येष्ठ-अभ्यास-युज् ज्येष्ठ-मूलम् तत्र अभ्यासस् क्षेपयोस् क्षेपकस् स्यात् ॥ [शालिनी]

बीज-७१ट/ ह्रस्वम् वज्र-अभ्यासयोस् अन्तरम् वा लघ्वोस् घातस् यस् प्रकृत्या विनिघ्नस् ।

बीज-७१ड/ घातस् यस् च ज्येष्ठयोस् तद्-वियोगस् ज्येष्ठम् क्षेपस् अत्र अपि च क्षेप-घातस् ॥ [शालिनी]

बीज-७२क/ इष्ट-वर्ग-हतस् क्षेपस् क्षेपस् स्यात् इष्ट-भाजिते ।

बीज-७२ग/ मूले ते स्तस् अथ वा क्षेपस् क्षुण्णस् क्षुण्णे तदा पदे ॥ [अनुष्टुभ्]

बीज-७३क/ इष्ट-वर्ग-प्रकृत्योस् यद् विवरम् तेन वा भजेत्/[अनुष्टुभ्-गघ; कख=६४गघ]

बीज-७३ग/ द्वि-घ्नम् इष्टम् कनिष्ठम् तद् पदम् स्यात् एक-संयुतौ ।

बीज-७३च/ ततस् ज्येष्ठम् इह आनन्त्यम् भावनातस् तथा इष्टतस् ॥ [अनुष्टुभ्]

बीज-७४क/ कस् वर्गस् अष्ट-हतस् स-एकस् कृतिस् स्यात् गणक उच्यताम् ।

बीज-७४ग/ एकादश-गुणस् कस् वा वर्गस् स-एकस् कृतिस् सखे ॥ [अनुष्टुभ्]

बीज-७५क/ ह्रस्व-ज्येष्ठ-पद-क्षेपान् भाज्य-प्रक्षेप-भाजकान् ।

बीज-७५ग/ कृत्वा कल्प्यस् गुणस् तत्र तथा प्रकृतितस् च्युते ॥ [अनुष्टुभ्]

बीज-७५च/ गुण-वर्गे प्रकृति-ऊने अथ वा अल्पम् शेषकम् यथा ।

बीज-७५ज/ तत् तु क्षेप-हृतम् क्षेपस् व्यस्तस् प्रकृतितस् च्युते ॥ [अनुष्टुभ्]

बीज-७५ट/ गुण-लब्धिस् पदम् ह्रस्वम् ततस् ज्येष्ठम् अतस् असकृत् ।

बीज-७५ड/ त्यक्त्वा पूर्व-पद-क्षेपान् चक्र-वालम् इदम् जगुस् ॥ [अनुष्टुभ्]

बीज-७५त/ चतुर्-द्वि-एक-युतौ एवम् अभिन्ने भवतस् पदे ।

बीज-७५द/ चतुर्-द्वि-क्षेप-मूलाभ्याम् रूप-क्षेप-अर्थ-भावना ॥ [अनुष्टुभ्]

बीज-७६क/ का सप्तषष्टि-गुणिता कृतिस् एक-युता का च एकषष्टि-निहता च सखे स-रूपा ।

बीज-७६ग/ स्यात् मूल-दा यदि कृति-प्रकृतिस् नितान्तम् त्वद्-चेतसि प्रवद तात तता-लता-वत् ॥ [वसन्ततिलका]

बीज-७७/ रूप-शुद्धौ खिल उद्दिष्टम् वर्ग-योगस् गुणस् न चेद् ।

बीज-७८क/ अखिले कृति-मूलाभ्याम् द्विधा रूपम् विभाजितम् ॥ [अनुष्टुभ्]

बीज-७८ग/ द्विधा ह्रस्व-पदम् ज्येष्ठम् ततस् रूप-विशोधने ।

बीज-७८च/ पूर्ववत् वा प्रसाध्येते पदे रूप-विशोधने ॥ [अनुष्टुभ्]

बीज-७९क/ त्रयोदश-गुणस् वर्गस् निर्-एकस् कस् कृतिस् भवेत् ।

बीज-७९ग/ कस् वा अष्ट-गुणितस् वर्गस् निर्-एकस् मूल-दस् वद ॥ [अनुष्टुभ्]

बीज-८०क/ कस् वर्गस् षष्-गुणस् त्रि-आढ्यस् द्वादश-आढ्यस् अथ वा कृतिस् ।

बीज-८०ग/ युतस् वा पञ्चसप्तत्या त्रिशत्या वा कृतिस् भवेत् ॥ [अनुष्टुभ्]

बीज-८१क/ स्व-बुद्ध्या एव पदे ज्ञेये बहु-क्षेप-विशोधने ।

बीज-८१ग/ तयोस् भावनया आनन्त्यम् रूप-क्षेप-पद-उत्थया ॥ [अनुष्टुभ्]

बीज-८२/ वर्ग-छिन्ने गुणे ह्रस्वम् तद्-पदेन विभाजयेत् ।

बीज-८३/ द्वात्रिंशत्-गुणितस् वर्गस् कस् स-एकस् मूल-दस् वद ॥ [अनुष्टुभ्]

बीज-८४क/ इष्ट-भक्तस् द्विधा क्षेपस् इष्ट-ऊन-आढ्यस् दली-कृतस् ।

बीज-८४ग/ गुण-मूल-हृतस् च आद्यस् ह्रस्व-ज्येष्ठे क्रमात् पदे ॥ [अनुष्टुभ्]

बीज-८५क/ का कृतिस् नवभिस् क्षुण्णा द्विपञ्चाशत्-युता कृतिस् ।

बीज-८५ग/ कस् वा चतुर्-गुणस् वर्गस् त्रयस्त्रिंशत्-युता कृतिस् ॥ [अनुष्टुभ्]

बीज-८६क/ त्रयोदश-गुणस् वर्गस् कस् त्रयोदश-वर्जितस् ।

बीज-८६ग/ त्रयोदश-युतस् वा स्यात् वर्गस् एव निगद्यताम् ॥ [अनुष्टुभ्]

बीज-८७क/ ऋण-गैस् पञ्चभिस् क्षुण्णस् कस् वर्गस् स-एकविंशतिस् ।

बीज-८७ग/ वर्गस् स्यात् वद चेद् वेत्सि क्षय-ग-प्रकृतौ विधिम् ॥ [अनुष्टुभ्]

बीज-८८क/ उक्तम् बीज-उपयोगी इदम् संक्षिप्तम् गणितम् किल ।

बीज-८८ग/ अतस् बीजम् प्रवक्ष्यामि गणक-आनन्द-कारकम् ॥ [अनुष्टुभ्]



एक-वर्ण-समी-करणम्सम्पाद्यताम्

बीज-८९क/ यावत्तावत् कल्प्यम् अव्यक्त-राशेस् मानम् तस्मिन् कुर्वता उद्दिष्टम् एव ।

बीज-८९ग/ तुल्यौ पक्षौ साधनीयौ प्रयत्नात् त्यक्त्वा क्षिप्त्वा वा अपि संगुण्य भक्त्वा ॥ [शालिनी]

बीज-८९च/ एक-अव्यक्तम् शोधयेत् अन्य-पक्षात् रूपाणि अन्यस्य इतरस्मात् च पक्षात् ।

बीज-८९ज/ शेष-अव्यक्ते न उद्धरेत् रूप-शेषम् व्यक्तम् मानम् जायते व्यक्त-राशेस् ॥ [शालिनी]

बीज-८९ट/ अव्यक्तानाम् द्वि-आदिकानाम् अपि इह यावत्तावत् द्वि-आदि-निघ्नम् हृतम् वा ।

बीज-८९ड/ युक्त-ऊनम् वा कल्पयेत् आत्म-बुद्ध्या मानम् क्व अपि व्यक्तम् एवम् विदित्वा ॥ [शालिनी]

बीज-९०क/ एकस्य रूप-त्रिशती षट् अश्वास् अश्वास् दश अन्यस्य तु तुल्य-मौल्यास् ।

बीज-९०ग/ ऋणम् तथा रूप-शतम् च यस्य तौ तुल्य-वित्तौ च किम् अश्व-मौल्यम् ॥ [उपजाति]

बीज-९१क/ यत् आद्य-वित्तस्य दलम् द्वि-युक्तम् तद्-तुल्य-वित्तस् यदि वा द्वितीयस् ।

बीज-९१ग/ आद्यस् धनेन त्रि-गुणस् अन्यतस् वा पृथक् पृथक् मे वद वाजि-मौल्यम् ॥ [उपजाति]

बीज-९२क/ माणिक्य-अमल-नील-मौक्तिक-मितिस् पञ्च अष्ट सप्त क्रमात् एकस्य अन्यतरस्य सप्त नव षट् तद्-रत्न-संख्या सखे ।

बीज-९२ग/ रूपाणाम् नवतिस् द्वि-षष्टिस् अनयोस् तौ तुल्य-वित्तौ तथा बीज-ज्ञ प्रति-रत्न-जानि सु-मते मौल्यानि शीघ्रम् वद ॥ [शार्दूलविक्रीडित]

बीज-९३क/ एकस् ब्रवीति मम देहि अतम् धनेन त्वत्तस् भवामि हि सखे द्वि-गुणस् ततस् अन्यस् ।

बीज-९३ग/ ब्रूते दश अर्पयसि चेद् मम षष्-गुणस् अहम् त्वत्तस् तयोस् वद धने मम किम्-प्रमाणे ॥ [सिंहोद्धता]

बीज-९४क/ माणिक्य-अष्टकम् इन्द्रनील-दशकम् मुक्ताफलानाम् शतम् यत् ते कर्ण-विभूषणे सम-धनम् क्रीतम् त्वद्-अर्थे मया ।

बीज-९४ग/ तद्-रत्न-त्रय-मौल्य-संयुति-मितिस् त्रि-ऊनम् शत-अर्धम् प्रिये मौल्यम् ब्रूहि पृथक् यदि इह गणिते कल्पा असि कल्याणिनि ॥ [शार्दूलविक्रीडित]

बीज-९५क/ पञ्च-अंशस् अलि-कुलात् कदम्बम् अगमत् त्रि-अंशस् शिलीन्ध्रम् तयोस् विश्लेषस् त्रि-गुणस् मृग-अक्षि कुटजम् दोलायमानस् अपरस् ।

बीज-९५ग/ कान्ते केतक-मालती-परिमल-प्राप्त-एक-काल-प्रियात् दूत-आहूतस् इतस् ततस् भ्रमति खे भृङ्गस् अलि-संख्याम् वद ॥ [शार्दूलविक्रीडित]

बीज-९६क/ पञ्चक-शत-दत्त-धनात् फलस्य वर्गम् विशोध्य परिशिष्टम् ।

बीज-९६ग/ दत्तम् दशक-शतेन तुल्यस् कालस् फलम् च तयोस् ॥ [आर्या]

बीज-९७क/ एक-शत-दत्त-धनात् फलस्य वर्गम् विशोध्य परिशिष्टम् ।

बीज-९७ग/ पञ्चक-शतेन दत्तम् तुल्यस् कालस् फलम् च तयोस् ॥ [आर्या]

बीज-९८क/ माणिक्य-अष्टकम् इन्द्रनील-दशकम् मुक्ताफलानाम् शतम् सत्-वज्राणि च पञ्च रत्न-वणिजाम् येषाम् चतुर्णाम् धनम् ।

बीज-९८ग/ सङ्ग-स्नेह-वशेन ते निज-धनात् दत्त्वा एकम् एकम् मिथस् जातास् तुल्य-धनास् पृथक् वद सखे तद्-रत्न-मौल्यानि मे ॥ [शार्दूलविक्रीडित]

बीज-९९क/ पञ्चक-शतेन दत्तम् मूलम् स-कलान्तरम् गते वर्षे ।

बीज-९९ग/ द्वि-गुणम् षोडश-हीनम् लब्धम् किम् मूलम् आचक्ष्व ॥ [आर्या]

बीज-१००क/ यत् पञ्चक-द्विक-चतुष्क-शतेन दत्तम् खण्डैस् त्रिभिस् नवति-युज् त्रिशती धनम् तत् ।

बीज-१००ग/ मासेषु सप्त-दश-पञ्चसु तुल्यम् आप्तम् खण्ड-त्रये अपि स-फलम् वद खण्ड-संख्याम् ॥ [वसन्ततिलका]

बीज-१०१क/ पुर-प्रवेशे दश-दस् द्वि-संगुणम् विधाय शेषम् दश-भुक् च निर्गमे ।

बीज-१०१ग/ ददौ दश एवम् नगर-त्रये अभवत् त्रि-निघ्नम् आद्यम् वद तत् कियत् धनम् ॥

बीज-१०२क/ स=अर्धम् तन्दुल-मानक-त्रयम् अहो द्रम्मेण मान-अष्टकम् मुद्गानाम् च यदि त्रयोदश-मितास् एतास् वणिक् काकिणीस् ।

बीज-१०२ग/ आदाय अर्पय तन्दुल-अंश-युगलम् मुद्ग-एक-भाग-अन्वितम् क्षिप्रम् क्षिप्र-भुजस् व्रजेम हि युतस् स-अर्थस् अग्रतस् यास्यति ॥

बीज-१०३क/ स्व-अर्ध-पञ्च-अंश-नवमैस् युक्तास् के स्युस् समास् त्रयस् ।

बीज-१०३ग/ अन्य-अंश-द्वय-हीनास् ये षष्टि-शेषास् च तान् वद ॥

बीज-१०४क/ त्रयोदश तथा पञ्च करण्यौ भुजयोस् मिती ।

बीज-१०४ग/ भूस् अज्ञाता अत्र चत्वारस् फलम् भूमिम् वद आशु मे ॥

बीज-१०५क/ दश-पञ्च-करणी-अन्तरम् एकस् बाहुस् परस् च षट् करणी ।

बीज-१०५ग/ भूस् अष्टादश करणी रूप-ऊना लम्बम् आचक्ष्व ॥

बीज-१०६क/ असमान-सम-छेदान् राशीन् तान् चतुरस् वद ।

बीज-१०६ग/ यद्-ऐक्यम् यद्-घन-ऐक्यम् वा येषाम् वर्ग्-ऐक्य-संमितम् ॥ [आपटे॒ -धन- < -घन-]

बीज-१०७क/ त्रि-अस्र-क्षेत्रस्य यस्य स्यात् फलम् कर्णेन संमितम् ।

बीज-१०७ग/ दोस्-कोटि-श्रुति-घातेन समम् यस्य च तद्-वत् ॥

बीज-१०८क/ युतौ वर्गस् अन्तरे वर्गस् ययोस् घाते घनस् भवेत् ।

बीज-१०८ग/ तौ राशी शीघ्रम् आचक्ष्व दक्षस् असि गणिते यदि ॥

बीज-१०९क/ घन-ऐक्यम् जायते वर्गस् वर्ग-ऐक्यम् च ययोस् घनस् ।

बीज-१०९ग/ तौ चेद् वेत्सि तदा अहम् त्वाम् मन्ये बीज-विदाम् वरम् ॥

बीज-११०क/ यत्र त्रि-अस्रे क्षेत्रे धात्री मनु-संमिता सखे बाहू ।

बीज-११०ग/ एकस् पञ्चदश अन्यस् त्रयोदश वद अवलम्बकम् तत्र ॥

बीज-१११क/ यदि सम-भुवि वेणुस् द्वि-त्रि-पाणि-प्रमाणस् गणक पवन-वेगात् एक-देशे सु-भग्नस् ।

बीज-१११ग/ भुवि नृप-मित-हस्तेषु अङ्ग लग्नम् तद्-अग्रम् कथय कतिषु मूलात् एषस् भग्नस् करेषु ॥

बीज-११२क/ चक्र-क्रौञ्च-आकुलित-सलिले क्व अपि दृष्टम् तडागे तोयात् ऊर्ध्वम् कमल-कलिका-अग्रम् वितस्ति-प्रमाणम् ।

बीज-११२ग/ मन्दम् मन्दम् चलितम् अनिलेन आहतम् हस्त-युग्मे तस्मिन् मग्नम् गणक कथय क्षिप्रम् अम्बु-प्रमाणम् ॥

बीज-११३क/ वृक्षात् हस्त-शत-उच्छ्रयात् शत-युगे वापीम् कपिस् कस् अपि अगात् उत्तीर्य अथ परस् द्रुतम् श्रुति-पथात् प्रोड्डीय किंचित् द्रुमात्/ [आपटे॒ किंचि < किंचित्]

बीज-११३ग/ जाता एवम् समता तयोस् यदि गतौ उड्डीय-मानम् कियत् विद्वन् चेद् सु-परिश्रमस् अस्ति गणिते क्षिप्रम् तत् आचक्ष्व मे ॥

बीज-११४क/ पञ्चदश-दश-कर-उच्छ्राय-वेण्वोस् अज्ञात-मध्य-भूमिकयोस् ।

बीज-११४ग/ इतरेतर-मूल-अग्र-ग-सूत्र-युतेस् लम्ब-मानम् आचक्ष्व ॥



मध्यम-आहरणम्सम्पाद्यताम्

बीज-११५क/ अव्यक्त-वर्ग-आदि यदा अवशेषम् पक्षौ तदा इष्टेन निहत्य किंचित् ।

बीज-११५ग/ क्षेप्यम् तयोस् येन पद-प्रदस् स्यात् अव्यक्त-पक्षस्य पदेन भूयस् ॥

बीज-११५च/ व्यक्तस्य पक्षस्य सम-क्रिया एवम् अव्यक्त-मानम् खलु लभ्यते तत् ।

बीज-११५ज/ न निर्वहस् चेद् घन-वर्ग-वर्गेषु एवम् तदा ज्ञेयम् इदम् स्व-बुद्ध्या ॥

बीज-११५ट/ अव्यक्त-मूल-ऋण-ग-रूपतस् अल्पम् व्यक्तस्य पक्षस्य पदम् यदि स्यात् ।

बीज-११५ड/ ऋणम् धनम् तत् च विधाय साध्यम् अव्यक्त-मानम् द्वि-विधम् क्वचित् तत् ॥

बीज-११६क/ चतुर्-आहत-वर्ग-समैस् रूपैस् पक्ष-द्वयम् गुणयेत् ।

बीज-११६ग/ पूर्व-अव्यक्तस्य कृतेस् सम-रूपाणि क्षिपेत् तयोस् एव ॥

बीज-११७क/ अलि-कुल-दल-मूलम् मालतीम् यातम् अष्टौ निखिल-नवम-भागास् चालिनी भृङ्गम् एकम् ।

बीज-११७ग/ निशि परिमल-लुब्धम् पद्म-मध्ये निरुद्धम् प्रतिरणति रणन्तम् ब्रूहि कान्ते अलि-संख्याम् ॥

बीज-११८क/ पार्थस् कर्ण-वधाय मार्गण-गणम् क्रुद्धस् रणे संदधे तस्य अर्धेन निवार्य तद्-शर-गणम् मूलैस् चतुर्भिस् हयान् ।

बीज-११८ग/ शल्यम् षड्भिस् अथ इषुभिस् त्रिभिस् अपि छत्रम् ध्वजम् कार्मुकम् चिच्छेद अस्य शिरस् शरेण कति ते यान् अर्जुनस् संदधे ॥

बीज-११९क/ वि-एकस्य गच्छस्य दलम् किल आदिस् आदेस् दलम् तद्-प्रचयस् फलम् च ।

बीज-११९ग/ चय-आदि-गच्छ-अभिहतिस् स्व-सप्त-भाग-अधिका ब्रूहि चय-आदि-गच्छान् ॥

बीज-१२०क/ कस् खेन विहृतस् राशिस् कोट्या युक्तस् अथ वा ऊनितस् ।

बीज-१२०ग/ वर्गितस् स्व-पदेन आढ्यस् ख-गुणस् नवतिस् भवेत् ॥

बीज-१२१क/ कस् स्व-अर्ध-सहितस् राशिस् ख-गुणस् वर्गितस् युतस् ।

बीज-१२१ग/ स्व-पदाभ्याम् स्व-भक्तस् च जातस् पञ्चदश उच्यताम् ॥

बीज-१२२क/ राशिस् द्वादश-निघ्नस् राशि-घन-आढ्यस् च कस् समस् यस्य ।

बीज-१२२ग/ राशि-कृतिस् षष्-गुणिता पञ्चत्रिंशत्-युता विद्वन् ॥

बीज-१२३क/ कस् राशिस् द्विशती-क्षुण्णस् राशि-वर्ग-युतस् हतस् ।

बीज-१२३ग/ द्वाभ्याम् तेन ऊनितस् राशि-वर्ग-वर्गस् अयुतम् १०००० भवेत् ।

बीज-१२३ए/ रूप-ऊनम् वद तम् राशिम् वेत्सि बीज-क्रियाम् यदि ॥

बीज-१२४क/ वन-अन्तराले प्लवग-अष्ट-भागस् संवर्गितस् वल्गति जात-रागस् ।

बीज-१२४ग/ ब्रूत्-कार-नाद-प्रतिनाद-हृष्टास् दृष्टास् गिरौ द्वादश ते कियन्तस् ॥

बीज-१२५क/ यूथात् पञ्च-अंशकस् त्रि-ऊनस् वर्गितस् गह्वरम् गतस् ।

बीज-१२५ग/ दृष्टस् शाखा-मृगस् शाखाम् आरूढस् वद ते कति ।

बीज-१२५च/ कर्णस्य त्रि-लवेन ऊना द्वादश-अङ्गुल-शङ्कु-भा ।

बीज-१२५ज/ चतुर्दश-अङ्गुला जाता गणक ब्रूहि ताम् द्रुतम् ॥

बीज-१२६ट/ चत्वारस् राशयस् के ते मूल-दास् ये द्वि-संयुतास्

बीज-१२६ड/ द्वयोस् द्वयोस् यथा आसन्न-घातास् च अष्टादश-अन्वितास् ।

बीज-१२६त/ मूल-दास् सर्व-मूल-ऐक्यात् एकादश-युतात् पदम् ।

बीज-१२६द/ त्रयोदश सखे जातम् बीज-ज्ञ वद तान् मम ॥

बीज-१२७क/ राशि-क्षेपात् वध-क्षेपस् यद्-गुणस् तत् पद-उत्तरम् ।

बीज-१२७ग/ अव्यक्त-राशयस् कल्प्यास् वर्गितास् क्षेप-वर्जितास् ॥

बीज-१२८क/ क्षेत्रे तिथि-नखैस् तुल्ये दोस्-कोटी तत्र का श्रुतिस् ।

बीज-१२८ग/ उपपत्तिस् च रूढस्य गणितस्य अस्य कथ्यताम् ॥

बीज-१२९क/ दोस्-कोटि-अन्तर-वर्गेण द्वि-घ्नस् घातस् समन्वितस् ।

बीज-१२९ग/ वर्ग-योग-समस् सस् स्यात् द्वयोस् अव्यक्तयोस् यथा ॥

बीज-१३०क/ भुजात् त्रि-ऊनात् पदम् वि-एकम् कोटि-कर्ण-अन्तरम् सखे ।

बीज-१३०ग/ यत्र तत्र वद क्षेत्रे दोस्-कोटि-श्रवणान् मम ॥

बीज-१३१क/ वर्ग-योगस्य यद्-राश्योस् युति-वर्गस्य च अन्तरम् ।

बीज-१३१ग/ द्वि-घ्न-घात-समानम् स्यात् द्वयोस् अव्यक्तयोस् यथा ।

बीज-१३१च चतुर्-गुणस्य घातस्य युति-वर्गस्य च अन्तरम् ।

बीज-१३१ज/ राशि-अन्तर-कृतेस् तुल्यम् द्वयोस् अव्यक्तयोस् यथा ॥

बीज-१३२क/ चत्वारिंशत् युतिस् येषाम् दोस्-कोटि-श्रवसाम् वद ।

बीज-१३२ग/ भुज-कोटि-वधस् येषु शतम् विंशति-संयुतम् ॥

बीज-१३३क/ योगस् दोस्-कोटि-कर्णानाम् षट्पञ्चाशत् ५६ वधस् तथा ।

बीज-१३३ग/ षट्शती सप्तभिस् क्षुण्णा ४२०० येषाम् तान् मे पृथक् वद ॥



अनेक-वर्ण-समीकरणम्सम्पाद्यताम्

बीज-१३४क/ आद्यम् वर्णम् शोधयेत् अन्य-पक्षात् अन्यान् रूपाणि अन्यतस् च आद्य-भक्ते ।

बीज-१३४ग/ पक्षे अन्यस्मिन् आद्य-वर्ण-उन्मितिस् स्यात् वर्णस्य एकस्य उन्मितीनाम् बहुत्वे ॥

बीज-१३४च/ समी-कृत-छेद-गमे तु ताभ्यस् तद्-अन्य-वर्ण-उन्मितयस् प्रसाध्यास् ।

बीज-१३४ज/ अन्त्य-उन्मितौ कुट्टक-विधेस् गुण-आप्ती ते भाज्य-तद्-भाजक-वर्न-माने ॥

बीज-१३४ट/ अन्ये अपि भाज्ये यदि सन्ति वर्णास् तद्-मानम् इष्टम् परिकल्प्य साध्ये ।

बीज-१३४ड/ विलोमक-उत्तापन-तस् अन्य-वर्ण-मानानि भिन्नम् यदि मानम् एवम् ।

बीज-१३४त/ भूयस् कार्यस् कुट्टके अत्र अन्त्य-वर्णम् तेन उत्थाप्य उत्थापयेत् व्यस्तम् आद्यात् ॥

बीज-१३५क/ माणिक्य-अमल-नील-मौक्तिक-मितिस् पञ्च अष्ट सप्त क्रमात् एकस्य अन्यतरस्य सप्त नव षट् तद्-रत्न-संख्या सखे ।

बीज-१३५ग/ रूपाणाम् नवतिस् द्विषष्टिस् अनयोस् तौ तुल्य-वित्तौ तथा बीज-ज्ञ प्रति-रत्न-जानि सुमते मौल्यानि शीघ्रम् वद ॥ [शार्दूलविक्रीडित]

बीज-१३६क/ एकस् ब्रवीति मम देहि शतम् धनेन त्वत्तस् भवामि हि सखे द्वि-गुणस् ततस् अन्यस् ।

बीज-१३६ग/ ब्रूते दश अर्पयसि चेद् मम षष्-गुणस् अहम् त्वत्तस् तयोस् वद धने मम किम्-प्रमाणे ॥

बीज-१३७क/ अश्वास् पञ्च-गुण-अङ्ग-मङ्गल-मितास् येषाम् चतुर्णाम् धनानि उष्ट्रास् च द्वि-मुनि-श्रुति-क्षिति-मितास् अष्ट-द्वि-भू-पावकास् ।

बीज-१३७ग/ तेषाम् अश्वतरास् वृषास् मुनि-मही-नेत्र-इन्दु-संख्यास् क्रमात् सर्वे तुल्य-धनास् च ते वद सपदि अश्व-आदि-मौल्यानि मे ॥

बीज-१३८क/ त्रिभिस् पारावतास् पञ्च पञ्चभिस् सप्त सारसास् ।

बीज-१३८ग/ सप्तभिस् नव हंसास् च नवभिस् बर्हिणस् त्रयस् ॥

बीज-१३८ए/ द्रम्मैस् अवाप्यते द्रम्म-शतेन शतम् आनय ।

बीज-१३८ग्/ एषाम् पारावत-आदीनाम् विनोद-अर्थम् मही-पतेस् ॥

बीज-१३९क/ षष्-भक्तस् पञ्च-अग्रस् पञ्च-विभक्तस् भवेत् चतुष्क-अग्रस् ।

बीज-१३९ग/ चतुर्-उद्धृतस् त्रिक-अग्रस् द्वि-अग्रस् त्रि-समुद्धृतस् कस् स्यात् ॥

बीज-१४०क/ स्युस् पञ्च-सप्त-नवभिस् क्षुण्णेषु हृतेषु केषु विंशत्या ।

बीज-१४०ग/ रूप-उत्तराणि शेषाणि अवाप्तयस् च अपि शेष-समास् ॥

बीज-१४१क/ एक-अग्रस् द्वि-हृतस् कस् स्यात् द्विक-अग्रस् त्रि-समुद्धृतस् ।

बीज-१४१ग/ त्रिक-अग्रस् पञ्चभिस् भक्तस् तद्-वत् एव हि लब्धयस् ॥

बीज-१४२क/ कौ राशी वद पञ्च-षट्क-विहृतौ एक-द्विक-अग्रौ ययोस् द्वि-अग्रम् त्रि-उद्धृतम् अन्तरम् नव-हृता पञ्च-अग्रका स्यात् युतिस् ।

बीज-१४२ग/ घातस् सप्त-हृतस् षष्-अग्रस् इति तौ षट्क-अष्टकाभ्याम् विना विद्वन् कुट्टक-वेदि-कुञ्जर-घटा-संघट्ट-संहस् असि चेद् ॥

बीज-१४३क/ नवभिस् सप्तभिस् क्षुण्णस् कस् राशिस् त्रिंशता हृतस् ।

बीज-१४३ग/ यत् अग्र-ऐक्यम् फल-ऐक्य-आढ्यम् भवेत् षड्विंशतेस् मितम् ॥

बीज-१४४क/ कस् त्रि-सप्त-नव-क्षुण्णस् राशिस् त्रिंशत्-विभाजितस् ।

बीज-१४४ग/ यत् अग्र-ऐक्यम् अपि त्रिंशत्-हृतम् एकादश-अग्रकम् ॥

बीज-१४५क/ कस् त्रयोविंशति-क्षुण्णस् षष्ट्या असीत्या हृतस् पृथक् ।

बीज-१४५ग/ यत् अग्र-ऐक्यम् शतम् दृष्टम् कुट्टक-ज्ञ वद आशु तम् ॥

बीज-१४६क/ अत्र अधिकस्य वर्णस्य भाज्यस्थस्य ईप्सिता मितिस् ।

बीज-१४६ग/ भाग-लब्धस्य नो कल्प्या क्रिया व्यभिचरेत् तथा ॥

बीज-१४७क/ कस् पञ्च-गुणितस् राशिस् त्रयोदश-विभाजितस् ।

बीज-१४७ग/ यत् लब्धम् राशिना युक्तम् त्रिंशत् जातम् वद आशु तम् ॥

बीज-१४८क/ षष्-अष्ट-शतकास् क्रीत्वा सम-अर्धेन फलानि ये ।

बीज-१४८ग/ विक्रीय च पुनर् शेषम् एक-एकम् पञ्चभिस् पणैस् ।

बीज-१४८च/ जातास् सम-पणास् तेषाम् कस् क्रयस् विक्रयस् च कस् ॥



अनेक-वर्ण-समी-करण-अन्तर्-गतम् मध्यम-आहरणम्सम्पाद्यताम्

बीज-१४९क/ वर्ग-आद्यम् चेद् तुल्य-शुद्धौ कृतायाम् पक्षस्य एकस्य उक्त-वत् वर्ग-मूलम् ।

बीज-१४९ग/ वर्ग-प्रकृत्या पर-पक्ष-मूलम् तयोस् समी-कार-विधिस् पुनर् च ।

बीज-१४९च/ वर्ग-प्रकृत्या विषयस् न चेद् स्यात् तदा अन्य-वर्ण्स्य कृतेस् समम् तम् ॥

बीज-१४९ज/ कृत्वा अपरम् पक्षम् अथ अन्य-मानम् कृति-प्रकृत्या आद्य-मितिस् तथा च ।

बीज-१४९ट/ वर्ग-प्रकृत्या विषयस् यथा स्यात् तथा सुधीभिस् बहुधा विचिन्त्यम् ॥

बीज-१५०क/ बीजम् मतिस् विविध-वर्ण-सहायिनी हि मन्द-अवबोधविधये विबुधैस् निज-आद्यैस् ।

बीज-१५०ग/ विस्तारिता


(इसके आगे के श्लोक उपलब्ध नहीं हैं)

संबंधित कड़ियाँसम्पाद्यताम्

  1. [http: ॥ hi.wikipedia.org/wiki/सिद्धान्त_शिरोमणि सिद्धान्त शिरोमणि] (Wikipedia)
  2. सिद्धान्त शिरोमणि
    1. लीलावती
    2. बीजगणित
    3. गणिताध्याय
    4. गोलाध्याय
  3. आर्यभटीय
    1. दश-गीतिका-पाद
    2. गणित-पाद
    3. काल-क्रिया-पाद
    4. गोल-पाद
  4. सूर्यसिद्धान्त

बाहरी कड़ियाँसम्पाद्यताम्

  • उपरोक्त सामग्री यहाँ से ली गयी है।
  • इसको देवनागरी में Diacritic Conversion - diCrunch v2.00:b5 की सहायता से परिवर्तित करके कुछ अन्य आवश्यक परिवर्तनों के बाद यहाँ रखा गया है।
"https://sa.wikisource.org/w/index.php?title=बीजगणितम्&oldid=144459" इत्यस्माद् पुनः प्राप्तिः