बृहत्पाराशरहोराशास्त्रम्/अध्यायः ८४ (ग्रहशान्त्यध्यायः)

← अध्यायः ८३ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ८५ →

अथ ग्रहशान्त्यध्यायः ॥ ८४॥


ग्रहाणां दोषशान्त्यर्थं तेषां पूजाविधिं वद ।
मानवानां हितार्थाय संक्षेपात् कृपया मुने ॥ १॥

ग्रहा सूर्यादयः पूर्वं मया प्रोक्ता द्विजोत्तम ।
जगत्यां सर्वजन्तूनां तदधीनं सुखाऽसुखम् ॥ २॥

तस्मात् सुशान्तिकामो वा श्रीकामो वा सुचेतसा ।
वृष्टायायुः पुष्टिकामो वा तेषां यज्ञं समाचरेत् ॥ ३॥

ताभ्राच्च स्फटिकाद्रक्तचन्दनात् स्वर्णकादुभौ ।
रजतादयसः सीसात् कांस्यात् कार्याः क्रामद् ग्रहाः ॥ ४॥

पूर्वोक्तैः स्वस्ववर्णैर्वा पटे लेख्या द्विजोत्तमैः ।
स्वस्वोक्तदिग्विभागेषु गन्द्याद्यैर्मण्डनेषु वा ॥ ५॥

पद्मासनः पद्महस्तः पद्मपत्रसमद्युतिः ।
सप्ताश्वरथसंस्थश्च द्विभुजश्च दिवाकरः ॥ ६॥

श्वेतः श्वेताम्बरो देवो दशाश्वः श्वेतभूषणः ।
गदाहस्तो द्विबाहुश्च विधातव्यो विधुर्द्विज ॥ ७॥

रक्तमाल्याम्बरधरो शक्तिशूलगदाधरः ।
वरदस्तु चतुर्बाहुर्मङ्गलो मेषवाहनः ॥ ८॥

पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः ।
खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥ ९॥

गुरुशुक्रौ क्रमात् पीतश्वेतवर्णौ चतुर्भुजौ ।
दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू ॥ १०॥

इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः ।
वाणवाणासनधरो विज्ञेयोऽर्कसुतो द्विज ॥ ११॥

करालवदनः खड्गचर्मशूली वरप्रदः ।
सिंहस्थो नीलवर्णश्च राहुरेवं प्रकल्प्यते ॥ १२॥

धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः ।
गृध्रासना नित्यं केतवः स्युर्वरप्रदा ॥ १३॥

सर्वे किरीटिनः कार्या ग्रहा लोकहितप्रदाः ।
स्वांगुलेनोच्छ्रिता विज्ञैः शतमष्टोत्तरं सदा ॥ १४॥

यथावर्णं प्रदेयानि सुद्ष्पाणि वसनानि च ।
गन्धो दीपो बलिश्चैव धूपो देयश्च गुग्गुलुः ॥ १५॥

यस्य ग्रहस्य यद्द्रव्यमन्नं यस्य च यत् प्रियम् ।
तच्च तस्यै प्रदातव्यं भक्तियुक्तेन चेतसा ॥ १६॥

आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् ।
उद्बुध्यस्वेति मन्त्रांश्च जपेदथ बृहस्पते ॥ १७॥

अन्नात् परिश्रुतश्चेति शन्नो देवीरभीष्टये ।
कया नश्चित्र इत्येवं केतु कृण्वन्निमांस्तथा ॥ १८॥

सप्त रुद्रा दिशो नन्दा नवचन्द्रा नृपास्तथा ।
त्रिपक्षा अष्टचन्द्राश्च सप्तचन्द्रास्तथैव च ॥ १९॥

इमाः संख्याः सहस्रघ्ना जपसंख्याः प्रकीर्तिताः ।
क्रमादर्कादिखेटानां प्रीत्यर्थं द्विजपुङ्गव ॥ २०॥

अर्कः पलाशः खदिरस्त्वपामार्गस्तु पिप्पलः ।
उदुम्बरः शमी दुर्वा कुशाश्च समिधः क्रमात् ॥ २१॥

होतव्या मधुसर्पिभ्यां दध्ना क्षीरेण वा युताः ।
एकैकस्य त्वष्ट शतमष्टाविंशतिरेव वा ॥ २२॥

गुडैदनं पायसं च हविष्यं क्षीरषाष्टिकम् ।
दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च ॥ २३॥

दद्याद् ग्रहक्रमादेवं विप्रेभ्यो भोजनं द्विज ।
शक्तितो वा यथालाभं देयं सत्कारपूर्वकम् ॥ २४॥

धेनुः शङ्खस्तथाऽनड्वान् हेम वासो हयः क्रमात् ।
कृष्णा गौरायसं छाग एता रव्यादिदक्षिणाः ॥ २५॥

यस्य यश्च यदा दुःस्थः स तं यत्नेन पूजयेत् ।
एषां धात्रा वरो दत्तः पूजिताः पूजयिष्यथ ॥ २६॥

मानवानां ग्रहाधीना उञ्छ्रायाः पतनानि च ।
भावाऽभावौ च जगतां तस्मात् पूज्यतमा ग्रहाः ॥ २७॥