लघुसिद्धान्तकौमुदी/भावकर्मप्रकिया

(भावकर्मप्रकिया इत्यस्मात् पुनर्निर्दिष्टम्)
← परस्मैपदप्रकिया लघुसिद्धान्तकौमुदी
भावकर्मप्रकिया
वरदराजः
कर्मकर्तृप्रकिया →


अथ भावकर्मप्रक्रिया

भावकर्मणोः॥ लसक_७५४ = पा_१,३.१३॥
लस्यात्मनेपदम्॥

सार्वधातुके यक्॥ लसक_७५५ = पा_३,१.६७॥
धातोर्यक् भावकर्मवाचिनि सार्वधातुके। भावः क्रिया। सा च भावार्थकलकारेणानूद्यते। युष्मदस्मद्भ्यां सामानाधिकरण्याभावात्प्रथमः पुरुषः। तिङ्वाच्यक्रियाया अद्रव्य रूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि किंत्वेकवचनमेवोत्सर्गतः।
त्वया मया अन्यैश्च भूयते। बभूवे॥

स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशे ऽज्झनग्रहदृशां वा चिण्वदिट् च॥ लसक_७५६ = पा_६,४.६२॥
उपदेशे यो ऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्यं वा स्यात्स्यादिषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च। चिण्वद्भावपक्षे ऽयमिट्। चिण्वद्भावाद् वृद्धिः। भाविता, भविता। भाविष्यते, भविष्यते। भूयताम्। अभूयत। भाविषीष्ट, भविषीष्ट॥

चिण् भावकर्मणोः॥ लसक_७५७ = पा_३,१.६६॥
च्लेश्चिण्स्याद्भावकर्मवाचिनि तशब्दे परे। अभावि। अभाविष्यत, अभविष्यत। अकर्मको ऽप्युपसर्गवशात्सकर्मकः। अनुभूयते आनन्दश्चैत्रेण त्वया मया च। अनुभूयेते। अनुभूयन्ते। त्वमनुभूयसे। अहमनुभूये। अन्वभावि। अन्वभाविषाताम्, अन्वभविषाताम्। णिलोपः। भाव्यते। भावयाञ्चक्रे, भावयाम्बभूवे, भावयामासे। चिण्वदिट्। आभीयत्वेना सिद्धत्वाण्णिलोपः। भाविता, भावयिता। भाविष्यते, भावयिष्यते। अभाव्यत। भाव्येत। भाविषीष्ट, भावयिषीष्ट। अभावि। अभाविषाताम्, अभावयिषाताम्॥ बुभूष्यते॥ अकृत्सार्वधातुकयोर्दीर्घः। स्तूयते विष्णुः। स्ताविता, स्तोता। स्ताविष्यते, स्तोष्यते। अस्तावि। अस्ताविषाताम्, अस्तोषाताम्॥ गतौ। गुणोर्ऽतीति गुणः। अर्यते॥ स्मृ स्मरणे। स्मर्यते। सस्मरे। उपदेशग्रहणाच्चिण्वदिट्। आरिता, अर्ता। स्मारिता, स्मर्ता। अनिदितामिति नलोपः। त्रस्यते। इदितस्तु नन्द्यते। संप्रसारणम्। इज्यते॥

तनोतेर्यकि॥ लसक_७५८ = पा_६,४.४४॥
आकारो ऽन्तादेशो वा स्यात्। तायते, तन्यते॥

तपो ऽनुतापे च॥ लसक_७५९ = पा_३,१.६५॥
तपश्च्लेश्चिण् न स्यात् कर्मकर्तर्यनुतापे च। अन्वतप्त पापेन। घुमास्थेतीत्त्वम्। दीयते। धीयते। ददे॥

आतो युक् चिण्कृतोः॥ लसक_७६० = पा_७,३.३३॥
आदन्तानां युगागमः स्याच्चिणि ञ्णिति कृति च। दायिता, दाता। दायिषीष्ट, दासीष्ट। अदायि। अदायिषाताम्॥ भज्यते॥

भञ्जेश्च चिणि॥ लसक_७६१ = पा_६,४.३३॥
नलोपो वा स्यात्। अभाजि, अभञ्जि॥ लभ्यते॥

विभाषा चिण्णमुलोः॥ लसक_७६२ = पा_७,१.६९॥
लभेर्नुमागमो वा स्यात्। अलम्भि, अलाभि॥

इति भावप्रक्रिया॥

  1. संज्ञाप्रकरणम्
  2. अच्सन्धिप्रकरणम्
  3. हल्सन्धिप्रकरणम्
  4. विसर्गसन्धिप्रकरणम्
  5. अजन्तपुंलिङ्गप्रकरणम्
  6. अजन्तस्त्रीलिङ्गप्रकरणम्
  7. अजन्तनपुंसकलिङ्गप्रकरणम्
  8. हलन्तपुंलिङ्गप्रकरणम्
  9. हलन्तस्त्रीलिङ्गप्रकरणम्
  10. हलन्तनपुंसकलिङ्गप्रकरणम्
  11. अव्ययप्रकरणम्
  12. भ्वादिप्रकरणम्
  13. अदादिप्रकरणम्
  14. जुहोत्यादिप्रकरणम्
  15. दिवादिप्रकरणम्
  16. स्वादिप्रकरणम्
  17. तुदादिप्रकरणम्
  18. रुधादिप्रकरणम्
  19. तनादिप्रकरणम्
  20. क्र्यादिप्रकरणम्
  21. चुरादिप्रकरणम्
  22. ण्यन्तप्रक्रिया
  23. सन्नन्तप्रक्रिया
  24. यङन्तप्रक्रिया
  25. यङ्लुगन्तप्रक्रिया
  26. नामधातवः
  27. कण्ड्वादिः
  28. आत्मनेपदप्रकिया
  29. परस्मैपदप्रकिया
  30. भावकर्मप्रकिया
  31. कर्मकर्तृप्रकिया
  32. लकारार्थप्रकिया
  33. कृत्यप्रक्रिया
  34. पूर्वकृदन्तप्रकरणम्
  35. उणादिप्रकरणम्
  36. उत्तरकृदन्तप्रकरणम्
  37. विभक्त्यर्थाः (कारकप्रकरणम्)
  38. केवलसमासः
  39. अव्ययीभावसमासः
  40. तत्पुरुषसमासः
  41. बहुव्रीहिसमासः
  42. द्वन्द्वसमासः
  43. समासान्तप्रकरणम्
  44. तद्धिते साधारणप्रत्ययप्रकरणम्
  45. अपत्याधिकारप्रकरणम्
  46. रक्ताद्यर्थकप्रकरणम्
  47. चातुरार्थिकप्रकरणम्
  48. शैषिकप्रकरणम्
  49. विकारार्थप्रकरणम्
  50. ठगधिकारप्रकरणम्
  51. प्राग्घितीयप्रकरणम्
  52. छयतोरधिकारप्रकरणम्
  53. ठञधिकारप्रकरणम्
  54. त्वतलाधिकारप्रकरणम्
  55. भवनाद्यर्थकप्रकरणम्
  56. मत्वर्थीयप्रकरणम्
  57. प्राग्दिशीयप्रकरणम्
  58. प्रागिवीयप्रकरणम्
  59. स्वार्थिकप्रकरणम्
  60. स्त्रीप्रत्ययप्रकरणम्