लघुसिद्धान्तकौमुदी/भ्वादिप्रकरणम्

(भ्वादिप्रकरणम् इत्यस्मात् पुनर्निर्दिष्टम्)
← अव्ययप्रकरणम् लघुसिद्धान्तकौमुदी
भ्वादिप्रकरणम्
वरदराजः
अदादिप्रकरणम् →


अथ तिङन्ते भ्वादयः

लट्, लिट्, लुट्, ऌट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, ऌङ्। एषु पञ्चमो लकारश्छन्दोमात्रगोचरः॥

लः कर्मणि च भावे चाकर्मकेभ्यः॥ लसक_३७५ = पा_३,४.६९॥
लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च॥

वर्तमाने लट्॥ लसक_३७६ = पा_३,२.१२३॥
वर्तमान क्रिया वृत्तेर्धातोर्लट् स्यात्। अटावितौ। उच्चारण सामर्थ्याल्लस्य नेत्वम्। भू सत्तायाम्॥ १॥ कर्तृ विवक्षायां भू ल् इति स्थिते --- .

तिप्तस्झिसिप्थस्थमिब्वस्मस्ताताञ्झथासाथाम्ध्वमिड्वहिमहिङ्॥ लसक_३७७ = पा_३,४.७८॥
एते ऽष्टादश लादेशाः स्युः॥

लः परस्मैपदम्॥ लसक_३७८ = पा_१,४.९९॥
लादेशाः परस्मैपद संज्ञाः स्युः॥

तङानावात्मनेपदम्॥ लसक_३७९ = पा_१,४.१००॥
तङ् प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः। पूर्व संज्ञापवादः॥

अनुदात्तङित आत्मनेपदम्॥ लसक_३८० = पा_१,३.१२॥
अनुदात्तेतो ङितश्च धातोरात्मनेपदं स्यात्॥

स्वरितञितः कर्त्रभिप्राये क्रियाफले॥ लसक_३८१ = पा_१,३.७२॥
स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले॥

शेषात्कर्तरि परस्मैपदम्॥ लसक_३८२ = पा_१,३.७८॥
आत्मनेपद निमित्त हीनाद्धातोः कर्तरि परस्मैपदं स्यात्॥

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः॥ लसक_३८३ = पा_१,४.१०१॥
तिङ उभयोः पदयोस्त्रिकाः क्रमादेतत्संज्ञाः स्युः॥

तान्येकवचनद्विवचनबहुवचनान्येकशः॥ लसक_३८४ = पा_१,४.१०२॥
लब्ध प्रथमादि संज्ञानि तिङस्त्रीणि त्रीणि प्रत्येकमेकवचनादि संज्ञानि स्युः॥

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः॥ लसक_३८५ = पा_१,४.१०५॥
तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमाने ऽप्रयुज्यमाने च मध्यमः॥

अस्मद्युत्तमः॥ लसक_३८६ = पा_१,४.१०७॥
तथाभूते ऽस्मद्युत्तमः॥

शेषे प्रथमः॥ लसक_३८७ = पा_१,४.१०८॥
मध्यमोत्तमयोरविषये प्रथमः स्यात्। भू ति इति जाते॥

तिङ् शित्सार्वधातुकम्॥ लसक_३८८ = पा_३,४.११३॥
तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः॥

कर्तरि शप्॥ लसक_३८९ = पा_३,१.६८॥
कर्त्रर्थे सार्वधातुके परे धातोः शप्॥

सार्वधातुकार्धधातुकयोः॥ लसक_३९० = पा_७,३.८४॥
अनयोः परयोरिगन्ताङ्गस्य गुणः। अवादेशः। भवति। भवतः॥

झो ऽन्तः॥ लसक_३९१ = पा_७,१.३॥
प्रत्ययावयवस्य झस्यान्तादेशः। अतो गुणे। भवन्ति। भवसि। भवथः। भवथ॥

अतो दीर्घो यञि॥ लसक_३९२ = पा_७,३.१०१॥
अतो ऽङ्गस्य दीर्घो यञादौ सार्वधातुके। भवामि। भवावः। भवामः। स भवति। तौ भवतः। ते भवन्ति। त्वं भवसि। युवां भवथः। यूयं भवथ। अहं भवामि। आवां भवावः। वयं भवामः॥

परोक्षे लिट्॥ लसक_३९३ = पा_३,२.११५॥
भूतानद्यतन परोक्षार्थवृत्तेर् धातोर्लिट् स्यात्। लस्य तिबादयः।

परस्मैपदानां णलतुसुस्थलथुसणल्वमाः॥ लसक_३९४ = पा_३,४.८२॥
लिटस्तिबादीनां नवानां णलादयः स्युः। भू अ इति स्थिते -- .

भुवो वुग्लुङ्लिटोः॥ लसक_३९५ = पा_६,४.८८॥
भुवो वुगागमः स्यात् लुङ्लिटोरचि॥

लिटि धातोरनभ्यासस्य॥ लसक_३९६ = पा_६,१.८॥
लिटि परे ऽनभ्यासधात्ववयस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य। भूव् भूव् अ इति स्थिते -- .

पूर्वो ऽभ्यासः॥ लसक_३९७ = पा_६,१.४॥
अत्र ये द्वे विहिते तयोः पूर्वो ऽभ्याससंज्ञः स्यात्॥

हलादिः शेषः॥ लसक_३९८ = पा_७,४.६०॥
अभ्यासस्यादिर्हल् शिष्यते अन्ये हलो लुप्यन्ते। इति वलोपः॥

ह्रस्वः॥ लसक_३९९ = पा_७,४.५९॥
अभ्यासत्याचो ह्रस्वः स्यात्॥

भवतेरः॥ लसक_४०० = पा_७,४.७३॥
भवतेरभ्यासोकारस्य अः स्याल्लिटि॥

अभ्यासे चर्च॥ लसक_४०१ = पा_८,४.५४॥
अभ्यासे झलां चरः स्युर्जशश्च। झशां जशः खयां चर इति विवेकः। बभूव। बभुवतुः। बभूवुः॥

लिट् च॥ लसक_४०२ = पा_३,४.११५॥
लिडादेशस्तिङ्ङार्धधातुकसंज्ञः॥

आर्धधातुकस्येड्वलादेः॥ लसक_४०३ = पा_७,२.३५॥
वलादेरार्धधातुरस्येडागमः स्यात्। बभूविथ। बभूवथुः। बभूव। बभूव। बभूविव। बभूविम।

अनद्यतने लुट्॥ लसक_४०४ = पा_३,३.१५॥
भविष्यत्यनद्यतनेर्ऽथे धातोर्लुट् स्यात्॥

स्यतासी ऌलुटोः॥ लसक_४०५ = पा_३,१.३३॥
धातोः स्य तासि एतौ प्रत्ययौ स्तो ऌलुटोः परतः। शबाद्यपवादः। इति ऌङॢटोर्ग्रहणम्।

आर्धधातुकं शेषः॥ लसक_४०६ = पा_२,४.११४॥
तिङ्शिद्भ्यो ऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात्। इट्॥

लुटः प्रथमस्य डारौरसः॥ लसक_४०७ = पा_२,४.८५॥
डा रौ रस् एते क्रमात्स्युः। डित्वसामर्थ्यादभस्यापि टेर्लोपः। भविता॥

तासस्त्योर्लोपः॥ लसक_४०८ = पा_७,४.५०॥
तासेरस्तेश्च सस्य लोपस्स्यात् सादौ प्रत्यये परे।

रि च॥ लसक_४०९ = पा_७,४.५१॥
रादौ प्रत्यये तथा। भवितारौ। भवितारः। भवितासि। भवितास्थः। भवितास्थ। भवितास्मि। भवितास्वः। भवितास्मः/

ऌट् शेषे च॥ लसक_४१० = पा_३,३.१३॥
भविष्यदर्थाद्धातोरॢट् क्रियार्थायां क्रियायां सत्यामसत्यां वा। स् य इट्। भविष्यति। भविष्यतः। भविष्यन्ति। भविष्यसि। भविष्यथः। भविष्यथ। भविष्यामि। भविष्यावः। भविष्यामः/
लोट् च॥ लसक_४११ = पा_३,३.१६२॥
विध्याद्यर्थेषु धातोर्लोट्॥

आशिषि लिङ्लोटौ॥ लसक_४१२ = पा_३,३.१७३॥

एरुः॥ लसक_४१३ = पा_३,४.८६॥
लोट इकारस्य उः। भवतु॥

तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्॥ लसक_४१४ = पा_७,१.३५॥
आशिषि तुह्योस्तातङ् वा। परत्वात्सर्वादेशः। भवतात्॥

लोटो लङ्वत्॥ लसक_४१५ = पा_३,४.८५॥
लोटस्तामादयस्सलोपश्च॥

तस्थस्थमिपां तांतंतामः॥ लसक_४१६ = पा_३,४.१०१॥
ङितश्चतुर्णां तामादयः क्रमात्स्युः। भवताम्। भवन्तु॥

सेर्ह्यपिच्च॥ लसक_४१७ = पा_३,४.८७॥
लोटः सेर्हिः सो ऽपिच्च॥

अतो हेः॥ लसक_४१८ = पा_६,४.१०५॥
अतः परस्य हेर्लुक्। भव। भवतात्। भवतम्। भवत।

मेर्निः॥ लसक_४१९ = पा_३,४.८९॥
लोटो मेर्निः स्यात्॥

आडुत्तमस्य पिच्च॥ लसक_४२० = पा_३,४.९२॥
लोडुत्तमस्याट् स्यात् पिच्च। हिन्योरुत्वं न, इकारोच्चारण सामर्थ्यात्॥

ते प्राग्धातोः॥ लसक_४२१ = पा_१,४.८०॥
ते गत्युपसर्गसंज्ञा धातोः प्रागेव प्रयोक्तव्याः॥

आनि लोट्॥ लसक_४२२ = पा_८,४.१६॥
उपसर्गसिथान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात्। प्रभवाणि / (दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः)/ दुःस्थितिः। दुर्भवानि/ (अन्तश्शब्दस्याङ्कि विधिणत्वेषूपसर्गत्वं वाच्यम्)/ अन्तर्भवाणि॥

नित्यं ङितः॥ लसक_४२३ = पा_३,४.९९॥
सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः। अलो ऽन्त्यस्येति सलोपः। भवाव। भवाम।

अनद्यतने लङ्॥ लसक_४२४ = पा_३,२.१११॥
अनद्यतन भूतार्थ वृत्तेर् धातोर् लङ् स्यात्॥

लुङ्लङॢङ्क्ष्वडुदात्तः॥ लसक_४२५ = पा_६,४.७१॥
एष्वङ्गस्याट्॥

इतश्च॥ लसक_४२६ = पा_३,४.१००॥
ङितो लस्य परस्मैपदमिकारान्तं यत्तदन्तस्य लोपः। अभवत्। अभवताम्। अभवन्। अभवः। अभवतम्। अभवत। अभवम्। अभवाव। अभवाम॥

विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्॥ लसक_४२७ = पा_३,३.१६१॥
एष्वर्थेषु धातोर्लिङ्॥

यासुट् परस्मैपदेषूदात्तो ङिच्च॥ लसक_४२८ = पा_३,४.१०३॥
लिङः परस्मैपदानां यासुडागमो ङिच्च॥

लिङः सलोपो ऽनन्त्यस्य॥ लसक_४२९ = पा_७,२.७९॥
सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः। इति प्राप्ते -- .

अतो येयः॥ लसक_४३० = पा_७,२.८०॥
अतः परस्य सार्वधातुकावयवस्य यास् इत्यस्य इय्। गुणः॥

लोपो व्योर्वलि॥ लसक_४३१ = पा_६,१.६६॥
भवेत्। भवेताम्।

झेर्जुस्॥ लसक_४३२ = पा_३,४.१०८॥
लिङो झेर्जुस् स्यात्। भवेयुः। भवेः। भवेतम्। भवेत। भवेयम्। भवेव। भवेम॥

लिङाशिषि॥ लसक_४३३ = पा_३,४.११६॥
आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात्॥

किदाशिषि॥ लसक_४३४ = पा_३,४.१०४॥
आशिषि लिङो यासुट् कित्। स्कोः संयोगाद्योरिति सलोपः॥

क्ङिति च॥ लसक_४३५ = पा_१,१.५॥
गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः। भूयात्। भूयास्ताम्। भूयासुः। भूयाः। भूयास्तम्। भूयास्त। भूयासम्। भूयास्व। भूयास्म।

लुङ्॥ लसक_४३६ = पा_३,२.११०॥
भूतार्थे धातोर्लुङ् स्यात्॥

माङि लुङ्॥ लसक_४३७ = पा_३,३.१७५॥
सर्वलकारापवादः॥

स्मोत्तरे लङ् च॥ लसक_४३८ = पा_३,३.१७६॥
स्मोत्तरे माङि लङ् स्याच्चाल्लुङ्॥

च्लि लुङि॥ लसक_४३९ = पा_३,१.४३॥
शबाद्यपवादः॥

च्लेः सिच्॥ लसक_४४० = पा_३,१.४४॥
इचावितौ॥

गातिस्थापाभूभ्यः सिचः परस्मैपदेषु॥ लसक_४४१ = पा_२,४.७७॥
एभ्यः सिचो लुक् स्यात्। गापाविहेणादेशपिबती गृह्यते॥

भूसुवोस्तिङि॥ लसक_४४२ = पा_७,३.८८॥
भू सू एतयोः सार्वधातुके तिङि परे गुणो न। अभूत्। अभूताम्। अभूवन्। अभूः। अभूतम्। अभूत। अभूवम्। अभूव। अभूम।

न माङ्योगे॥ लसक_४४३ = पा_६,४.७४॥
अडाटौ न स्तः। मा भवान् भूत्। मा स्म भवत्। मा स्म भूत्॥

लिङ्निमित्ते ऌङ् क्रियातिपत्तौ॥ लसक_४४४ = पा_३,३.१३९॥
हेतुहेतुमद्भावादि लिङ्निमित्तं तत्र भविष्यत्यर्थे ऌङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम्। अभविष्यत्। अभविष्यताम्। अभविष्यन्। अभविष्यः। अभविष्यतम्। अभविष्यत। अभविष्यम्। अभविष्याव। अभविष्याम। सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत्, इत्यादि ज्ञेयम्॥ अत सातत्यगमने॥ २॥ अतति॥

अत आदेः॥ लसक_४४५ = पा_६,४.७०॥
अभ्यासस्यादेरतो दीर्घः स्यात्। आत। आततुः। आतुः। आतिथ। आतथुः। आत। आत। आतिव। आतिम। अतिता। अतिष्यति। अततु॥

आडजादीनाम्॥ लसक_४४६ = पा_६,४.७२॥
अजादेरङ्गस्याट् लुङ्लङॢङ्क्षु। आतत्। अतेत्। अत्यात्। अत्यास्ताम्। लुङि सिचि इडागमे कृते --- .

अस्तिसिचो ऽपृक्ते॥ लसक_४४७ = पा_७,३.९६॥
विद्यमानात् सिचो ऽस्तेश्च परस्यापृक्तस्य हल ईडागमः॥

इट ईटि॥ लसक_४४८ = पा_८,२.२८॥
इटः परस्य सस्य लोपः स्यादीटि परे। (सिज्लोप एकादेशे सिद्धो वाच्यः)। आतीत्। आतिष्टाम्॥

सिजभ्यस्तविदिभ्यश्च॥ लसक_४४९ = पा_३,४.१०९॥
सिचो ऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस्। आतिषुः। आतीः। आतिष्टम्। आतिष्ट। आतिषम्। आतिष्व। आतिष्म। आतिष्यत्॥ षिध गत्याम्॥ ३॥

ह्रस्वं लघु॥ लसक_४५० = पा_१,४.१०॥

संयोगे गरु॥ लसक_४५१ = पा_१,४.११॥
संयोगे परे ह्रस्वं गुरु स्यात्॥

दीर्घं च॥ लसक_४५२ = पा_१,४.१२॥
गुरु स्यात्॥

पुगन्तलघूपधस्य च॥ लसक_४५३ = पा_७,३.८६॥
पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः सार्वधातुकार्धधातुकयोः। धात्वादेरिति सः। सेधति। षत्वम्। सिषेध॥

असंयोगाल्लिट् कित्॥ लसक_४५४ = पा_१,२.५॥
असंयोगात्परो ऽपिल्लिट् कित् स्यात्। सिषिधतुः। सिषिधुः। सिषेधिथ। सिषिधथुः। सिषिध। सिषेध। सिषिधिव। सिषिधिम। सेधिता। सेधिष्यति। सेधतु। असेधत्। सेधेत्। सिध्यात्। असेधीत्। असेधिष्यत्। एवम् -- चिती संज्ञाने॥ ४॥ शुच शोके॥ ५॥ गद व्यक्तायां वाचि॥ ६॥ गदति॥

नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यति चिनोतिदेग्धिषु च॥ लसक_४५५ = पा_८,४.१७॥
उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णो गदादिषु परेषु। प्रणिगदति॥

कुहोश्चुः॥ लसक_४५६ = पा_७,४.६२॥
अभ्यासकवर्गहकारयोश्चवर्गादेशः॥

अत अपधायाः॥ लसक_४५७ = पा_७,२.११६॥
उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे। जगाद। जगदतुः। जगदुः। जगदिथ। जगदथुः। जगद॥

णलुत्तमो वा॥ लसक_४५८ = पा_७,१.९१॥
उत्तमो णल् वा णित्स्यात्। जगाद, जगद। जगदिव। जगदिम। गदिता। गदिष्यति। गदतु। अगदत्। गदेत्। गद्यात्॥

अतो हलादेर्लघोः॥ लसक_४५९ = पा_७,२.७॥
हलादेर्लघोरकारस्य वृद्धिर्वेडादौ परस्मैपदे सिचि। अगादीत्, अगदीत्। अगदिष्यत्॥ णद अव्यक्ते शब्दे॥ ७॥

णो नः॥ लसक_४६० = पा_६,१.६५॥
धात्वादेर्णस्य नः। णोपदेशास्त्वनर्द्नाटिनाथ्नाध्नन्दनक्कनॄनृतः॥

उपसर्गादसमासे ऽपि णोपदेशस्य॥ लसक_४६१ = पा_८,४.१४॥
उपसर्गस्थान्निमित्तात्परस्य धातोर्नस्य णः। प्रणदति। प्रणिनदति। नदति। ननाद॥

अत एकहल्मध्ये ऽनादेशादेर्लिटि॥ लसक_४६२ = पा_६,४.१२०॥
लिण्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्यात एत्वमभ्यासलोपश्च किति लिटि। नेदतुः। नेदुः॥

थलि च सेटि॥ लसक_४६३ = पा_६,४.१२१॥
प्रागुक्तं स्यात्। नेदिथ। नेदथुः। नेद। ननाद, ननद। नेदिव। नेदिम। नदिता। नदिष्यति। नदतु। अनदत्। नदेत्। नद्यात्। अनादीत्, अनदीत्। अनदिष्यत्॥ टु नदि समृद्धौ॥ ८॥

आदिर्ञिटुडवः॥ लसक_४६४ = पा_१,३.५॥
उपदेशे धातोराद्या एते इतः स्युः॥

इदितो नुम् धातोः॥ लसक_४६५ = पा_७,१.५८॥
नन्दति। ननन्द। नन्दिता। नन्दिष्यति। नन्दतु। अनन्दत्। नन्देत्। नन्द्यात्। अनन्दीत्। अनन्दिष्यत्। अर्च पूजायाम्॥ ९॥ अर्चति॥

तस्मान्नुड् द्विहलः॥ लसक_४६६ = पा_७,४.७१॥
द्विहलो धातोर्दीर्घीभूतात्परस्य नुट् स्यात्। आनर्च। आनर्चतुः। अर्चिता। अर्चिष्यति। अर्चतु। आर्चत्। अर्चेत्। अर्च्यात्। आर्चीत्। आर्चिष्यत्॥ व्रज गतौ॥ १०॥ व्रजति। वव्राज। व्रजिता। व्रजिष्यति। व्रजतु। अव्रजत्। व्रजेत्। व्रज्यात्॥

वदव्रजहलन्तस्याचः॥ लसक_४६७ = पा_७,२.३॥
एषामचो वृद्धिः सिचि परस्मैपदेषु। अव्राजीत्। अव्रजिष्यत्॥ कटे वर्षावरणयोः॥ ११॥ कटति। चकाट। चकटतुः। कटिता। कटिष्यति। कटतु। अकटत्। कटेत्। कट्यात्॥

ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्॥ लसक_४६८ = पा_७,२.५॥
हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्नेडादौ सिचि। अकटीत्। अकटिष्यत्॥ गुपू रक्षणे॥ १२॥

गुपूधूपविच्छिपणिपनिभ्य आयः॥ लसक_४६९ = पा_३,१.२८॥
एभ्य आयः प्रत्ययः स्यात् स्वार्थे॥

सनाद्यन्ता धातवः॥ लसक_४७० = पा_३,१.३२॥
सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञकाः। धातुत्वाल्लडादयः। गोपायति॥

आयादय आर्धधातुके वा॥ लसक_४७१ = पा_३,१.३१॥
आर्धधातुकविवक्षायामायादयो वा स्युः। (कास्यनेकाच आम् वक्तव्यः)। लिटि आस्कासोराम्विधानान्मस्य नेत्त्वम्॥

अतो लोपः॥ लसक_४७२ = पा_६,४.४८॥
आर्धधातुकोपदेशे यददन्तं तस्यातो लोप आर्धधातुके॥

आमः॥ लसक_४७३ = पा_२,४.८१॥
आमः परस्य लुक्॥

कृञ् चानुप्रयुज्यते लिटि॥ लसक_४७४ = पा_३,१.४०॥
आमन्ताल्लिट्पराः कृभ्वस्तयो ऽनुप्रयुज्यन्ते। तेषां द्वित्वादि॥

उरत्॥ लसक_४७५ = पा_७,४.६६॥
अभ्यासऋवर्णस्यात् प्रत्यये। रपरः। हलादिः शेषः। वृद्धिः। गोपायाञ्चकार। द्वित्वात्परत्वाद्यणि प्राप्ते ----- .

द्विर्वचने ऽचि॥ लसक_४७६ = पा_१,१.५९॥
द्वित्वनिमित्ते ऽचि अच आदेशो न द्वित्वे कर्तव्ये। गोपायाञ्चक्रतुः॥

एकाच उपदेशे ऽनुदात्तात्॥ लसक_४७७ = पा_७,२.१०॥
उपदेशे यो धातुरेकाजनुदात्तश्च तत आर्धधातुकस्येण्न।
&न्ब्स्प्॑ूदॄदन्तैर्यौतिरुक्ष्णुशीङ्स्नुनुक्षुश्विडीङ्श्रिभिः।
&न्ब्स्प्॑वृङ्वृञ्भ्यां च विनैकाचो ऽजन्तेषु निहताः स्मृताः॥
कान्तेषु शक्लेकः। चान्तेषु पच्मुच्रिच्वच्विच्सिचः षट्। छान्तेषु प्रच्छेकः। जान्तेषु त्यज्निजिर्भज्भञ्ज्भुज्भ्रस्ज्मस्ज्यज्युज्रुज् रञ्ज्विजिर्स्वञ्ज्सञ्ज्सृजः पञ्चदश॥ दान्तेषु अद्क्षुद्खिद्छिद्तुद् नुद्पद्यभिद्विद्यतिविनद्विन्द्शद्सद्स्विद्यस्कन्धदः षोडश। धान्तेषु क्रुध्क्षुध्बुध्यबन्ध्युध्रुध्राध्व्यध्साध्शुध्सिध्या एकादश। नान्तेषु मन्यहनी द्वौ। पान्तेषु आप्छुप्क्षिप्तप्तिप्तृप्यदृप्यलिपलुप्वप्शप्स्वप् सृपस्त्रयोदश। भान्तेषु यभ्रभ्लभस्त्रयः। मान्तेषु गम्यम्नम्रमश्चत्वारः। शान्तेषु क्रश्दंश्दिश्दृश्मृश्रिश्रुश्लिश्विश्स्पृशो दश। षान्तेषु कृष् त्विष्तुष्द्विष्पुष्यपिष्विष्शिष्शुष्श्लिष्या एकादश॥ सान्तेषु घस्वसती द्वौ। हान्तेषु दह्दिह्दुह्नह्मिह्रुह्लिह्वहो ऽष्टौ।
&न्ब्स्प्॑नुदात्ता हलन्तेषु धातवस्त्र्यधिकं शतम्।
गोपायाञ्चकर्थ। गोपायाञ्चक्रथुः। गोपायाञ्चक्र। गोपायाञ्चकार। गोपायाञ्चकर। गोपायाञ्चकृव। गोपायाञ्चकृम। गोपायाम्बभूव, गोपायामास। जुगोप। जुगुपतुः। जुगुपुः॥

स्वरतिसूतिसूयतिधूञूदितो वा॥ लसक_४७८ = पा_७,२.४४॥
स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड् वा स्यात्। जुगोपिथ, जुगोप्थ। गोपायिता, गोपिता, गोप्ता। गोपायिष्यति, गोपिष्यति, गोप्स्यति। गोपायतु। अगोपायत्। गोपायेत्। गोपाय्यात्, गुप्यात्। अगोपायीत्॥

नेटि॥ लसक_४७९ = पा_७,२.४॥
इडादौ सिचि हलन्तस्य वृद्धिर्न। अगोपीत्, अगौप्सीत्॥

झलो झलि॥ लसक_४८० = पा_८,२.२६॥
झलः परस्य सस्य लोपो झलि। अगौप्ताम्। अगौप्सुः। अगौप्सीः। अगौप्तम्। अगौप्त। अगौप्सम्। अगौप्स्व। अगौप्स्म। अगोपायिष्यत्, अगोपिष्यत्, अगोप्स्यत्॥ क्षि क्षये॥ १३॥ क्षयति। चिक्षाय। चिक्षियतुः। चिक्षियुः। एकाच इति निषेधे प्राप्ते -- .

कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि॥ लसक_४८१ = पा_७,२.१३॥
क्रादिभ्य एव लिट इण्न स्यादन्यस्मादनिटो ऽपि स्यात्॥

अचस्तास्वत्थल्यनिटो नित्यम्॥ लसक_४८२ = पा_७,२.६१॥
उपदेशे ऽजन्तो यो धातुस्तासौ नित्यानिट् ततस्थल इण्न॥

उपदेशे ऽत्वतः॥ लसक_४८३ = पा_७,२.६२॥
उपदेशे ऽकारवतस्तासौ नित्यानिटः परस्य थल इण्न स्यात्॥

ऋतो भारद्वाजस्य॥ लसक_४८४ = पा_७,२.६३॥
तासौ नित्यानिट ऋदन्तादेव थलो नेट् भारद्वाजस्य मते। तेन अन्यस्य स्यादेव। अयमत्र संग्रहः --- &न्ब्स्प्॑जन्तो ऽकारवान्वा यस्तास्यनिट्थलि वेडयम्।
&न्ब्स्प्॑ृदन्त ईदृङ्नित्यानिट् क्राद्यन्यो लिटि सेड्भवेत्॥
चिक्षयिथ, चिक्षेथ। चिक्षियथुः। चिक्षिय। चिक्षाय, चिक्षय। चिक्षियिव। चिक्षियिम। क्षेता। क्षेष्यति। क्षयतु। अक्षयत्। क्षयेत्॥

अकृत्सार्वधातुकयोर्दीर्घः॥ लसक_४८५ = पा_७,४.२५॥
अजन्ताङ्गस्य दीर्घो यादौ प्रत्यये न तु कृत्सार्वधातुकयोः। क्षीयात्॥

सिचि वृद्धिः परस्मैपदेषु॥ लसक_४८६ = पा_७,२.१॥
इगन्ताङ्गस्य वृद्धिः स्यात् परस्मैपदे सिचि। अक्षैषीत्। अक्षेष्यत्॥ तप सन्तापे॥ १४॥ तपति। तताप। तेपतुः। तेपुः। तेपिथ, ततप्थ। तेपिव। तेपिम। तप्ता। तप्स्यति। तपतु। अतपत्। तपेत्। तप्यात्। अताप्सीत्। अताप्ताम्। अतप्स्यत्॥ क्रमु पादविक्षेपे॥ १५॥

वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः॥ लसक_४८७ = पा_३,१.७०॥
एभ्यः श्यन्वा कर्त्रर्थे सार्वधातुके परे। पक्षे शप्॥

क्रमः परस्मैपदेषु॥ लसक_४८८ = पा_७,३.७६॥
क्रमो दीर्घः परस्मैपदे शिति। क्राम्यति, क्रामति। चक्राम। क्रमिता। क्रमिष्यति। क्राम्यतु, क्रामतु। अक्राम्यत्, अक्रामत्। क्राम्येत्। क्रामेत्। क्रम्यात्। अक्रमीत्। अक्रमिष्यत्॥ पा पाने॥ १६॥

पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः॥ लसक_४८९ = पा_७,३.७८॥
पादीनां पिबादयः स्युरित्संज्ञकशकारादौ प्रत्यये परे। पिबादेशो ऽदन्तस्तेन न गुणः। पिबति॥

आत औ णलः॥ लसक_४९० = पा_७,१.३४॥
आदन्ताद्धातोर्णल औकारादेशः स्यात्। पपौ॥

आतो लोप इटि च॥ लसक_४९१ = पा_६,४.६४॥
अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः। पपतुः। पपुः। पपिथ, पपाथ। पपथुः। पप। पपौ। पपिव। पपिम। पाता। पास्यति। पिबतु। अपिबत्। पिबेत्॥

एर्लिङि॥ लसक_४९२ = पा_६,४.६७॥
घुसंज्ञकानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि। पेयात्। गातिस्थेति सिचो लुक्। अपात्। अपाताम्॥

आतः॥ लसक_४९३ = पा_३,४.११०॥
सिज्लुकि आदन्तादेव झेर्जुस्॥

उस्यपदान्तात्॥ लसक_४९४ = पा_६,१.९६॥
अपदान्तादकारादुसि पररूपमेकादेशः। अपुः। अपास्यत्॥ ग्लै हर्षक्षये॥ १७॥ ग्लायति॥

आदेच उपदेशे ऽशिति॥ लसक_४९५ = पा_६,१.४५॥
उपदेशे एजन्तस्य धातोरात्वं न तु शिति। जग्लौ। ग्लाता। ग्लास्यति। ग्लायतु। अग्लायत्। ग्लायेत्॥

वान्यस्य संयोगादेः॥ लसक_४९६ = पा_६,४.६८॥
घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वार्धधातुके किति लिङि। ग्लेयात्, ग्लायात्॥

यमरमनमातां सक् च॥ लसक_४९७ = पा_७,२.७३॥
एषां सक् स्यादेभ्यः सिच इट् स्यात्परस्मैपदेषु। अग्लासीत्। अग्लास्यत्॥ ह्वृ कौटिल्ये॥ १८॥ ह्वरति॥

ऋतश्च संयोगादेर्गुणः॥ लसक_४९८ = पा_७,४.१०॥
ऋदन्तस्य संयोगादेरङ्गस्य गुणो लिटि। उपधाया वृद्धिः। जह्वार। जह्वरतुः। जह्वरुः। जह्वर्थ। जह्वरथुः। जह्वर। जह्वार, जह्वर। जह्वरिव। जह्वरिम। ह्वर्ता॥

ऋद्धनोः स्ये॥ लसक_४९९ = पा_७,२.१०॥
ऋतो हन्तेश्च स्यस्येट्। ह्वरिष्यति। ह्वरतु। अह्वरत्। ह्वरेत्॥

गुणो ऽर्तिसंयोगाद्योः॥ लसक_५०० = पा_७,४.२९॥
अर्तेः संयोगादेरृदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च। ह्वर्यात्। अह्वार्षीत्। अह्वरिष्यत्॥ श्रु श्रवणे॥ १९॥

श्रुवः शृ च॥ लसक_५०१ = पा_६,१.७४॥
श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्च। शृणोति॥

सार्वधातुकमपित्॥ लसक_५०२ = पा_१,२.४॥
अपित्सार्वधातुकं ङिद्वत्। शृणुतः॥

हुश्नुवोः सार्वधातुके॥ लसक_५०३ = पा_६,४.८७॥
हुश्नुवोरनेकाचो ऽसंयोगपूर्वस्योवर्णस्य यण् स्यादचि सार्वधातुके। शृण्वन्ति। शृणोषि। शृणुथः। शृणुथ। शृणोमि॥

लोपश्चास्यान्यतरस्यां म्वोः॥ लसक_५०४ = पा_६,४.१०७॥
असंयोगपूर्वस्य प्रत्ययोकारस्य लोपो वा म्वोः परयोः। शृण्वः, शृणुवः। शृण्मः, शृणुमः। शुश्राव। शुश्रुवतुः। शुश्रुवुः। शुश्रोथ। शुश्रुवथुः। शुश्रुव। शुश्राव, शुश्रव। शुश्रुव। शुश्रुम। श्रोता। श्रोष्यति। शृणोतु, शृणुतात्। शृणुताम्। शृण्वन्तु॥

उतश्च प्रत्ययादसंयोगपूर्वात्॥ लसक_५०५ = पा_६,४.१०६॥
असंयोगपूर्वात्प्रत्ययोतो हेर्लुक्। शृणु, शृणुतात्। शृणुतम्। शृणुत। गुणावादेशौ। शृणवानि। शृणवाव। शृणवाम। अशृणोत्। अशृणुताम्। अशृण्वन्। अशृणोः। अशृणुतम्। अशृणुत। अशृणवम्। अशृण्व, अशृणुव। अशृण्म, अशृणुम। शृणुयात्। शृणुयाताम्। शृणुयुः। शृणुयाः। शृणुयातम्। शृणुयात। शृणुयाम्। शृणुयाव। शृणुयाम। श्रूयात्। अश्रौषीत्। अश्रोष्यत्॥ गमॢ गतौ॥ २०॥

इषुगमियमां छः॥ लसक_५०६ = पा_७,३.७७॥
एषां छः स्यात् शिति। गच्छति। जगाम॥

गमहनजनखनघसां लोपः क्ङित्यनङि॥ लसक_५०७ = पा_६,४.९८॥
एषामुपधाया लोपो ऽजादौ क्ङिति न त्वङि। जग्मतुः। जग्मुः। जगमिथ, जगन्थ। जग्मथुः। जग्म। जगाम, जगम। जग्मिव। जग्मिम। गन्ता॥

गमेरिट् परस्मैपदेषु॥ लसक_५०८ = पा_७,२.५८॥
गमेः परस्य सादेरार्धधातुकस्येट् स्यात् परस्मैपदेषु। गमिष्यति। गच्छतु। अगच्छत्। गच्छेत्। गम्यात्॥

पुषादिद्युताद्यॢदितः परस्मैपदेषु॥ लसक_५०९ = पा_३,१.५५॥
श्यन्विकरणपुषादेर्द्युतादेरॢदितश्च च्लेरङ् परस्मैपदेषु। अगमत्। अगमिष्यत्॥
इति परस्मैपदिनः।
एध वृद्धौ॥ १॥

टित आत्मनपदानां टेरे॥ लसक_५१० = पा_३,४.७९॥
टितो लस्यात्मनेपदानां टेरेत्वम्। एधते॥

आतो ङितः॥ लसक_५११ = पा_७,२.८१॥
अतः परस्य ङितामाकारस्य इय् स्यात्। एधेते। एधन्ते॥

थासः से॥ लसक_५१२ = पा_३,४.८०॥
टितो लस्य थासः से स्यात्। एधसे। एधेथे। एधध्वे। अतो गुणे। एधे। एधावहे। एधामहे॥

इजादेश्च गुरुमतो ऽनृच्छः॥ लसक_५१३ = पा_३,१.३६॥
इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि॥

आम्प्रत्ययवत्कृञो ऽनुप्रयोगस्य॥ लसक_५१४ = पा_१,३.६३॥
आम्प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः। आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात् कृञो ऽप्यात्मनेपदम्॥

लिटस्तझयोरेशिरेच्॥ लसक_५१५ = पा_३,४.८१॥
लिडादेशयोस्तझयोरेश् इरेजेतौ स्तः। एधाञ्चक्रे। एधाञ्चक्राते। एधाञ्चक्रिरे। एधाञ्चकृषे। एधाञ्चक्राथे॥

इणः षीध्वंलुङ्लिटां धो ऽङ्गात्॥ लसक_५१६ = पा_८,३.७८॥
इणन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य ढः स्यात्॥ एधाञ्चकृढ्वे। एधाञ्चक्रे। एधाञ्चकृवहे। एधाञ्चकृमहे। एधाम्बभूव। एधामास। एधिता। एधितारौ। एधितारः। एधितासे। एधितासाथे॥

धि च॥ लसक_५१७ = पा_८,२.२५॥
धादौ प्रत्यये परे सस्य लोपः। एधिताध्वे॥

ह एति॥ लसक_५१८ = पा_७,४.२५॥
तासस्त्योः सस्य हः स्यादेति परे। एधिताहे। एधितास्वहे। एधितास्महे। एधिष्यते। एधिष्येते। एधिष्यन्ते। एधिष्यसे। एधिष्येथे। एधिष्यध्वे। एधिष्ये। एधिष्यावहे। एधिष्यामहे॥

आमेतः॥ लसक_५१९ = पा_३,४.९०॥
लोट एकारस्याम् स्यात्। एधताम्। एधेताम्। एधन्ताम्॥

सवाभ्यां वामौ॥ लसक_५२० = पा_३,४.९१॥
सवाभ्याम् परस्य लोडेतः क्रमाद्वामौ स्तः। एधस्व। एधेथाम्। एधध्वम्॥

एत ऐ॥ लसक_५२१ = पा_३,४.९३॥
लोडुत्तमस्य एत ऐ स्यात्। एधै। एधावहै। एधामहै॥ आटश्च। ऐधत। ऐधेताम्। ऐधन्त। ऐधथाः। ऐधेथाम्। ऐधध्वम्। ऐधे। ऐधावहि। ऐधामहि॥

लिडः सीयुट्॥ लसक_५२२ = पा_३,४.१०२॥
सलोपः। एधेत। एधेयाताम्॥

झस्य रन्॥ लसक_५२३ = पा_३,४.१०५॥
लिङो झस्य रन् स्यात्। एधेरन्। एधेथाः। एधेयाथाम्। एधेध्वम्॥

इटो ऽत्॥ लसक_५२४ = पा_३,४.१०६॥
लिङादेशस्य इटो ऽत्स्यात्। एधेय। एधेवहि। एधेमहि॥

सुट् तिथोः॥ लसक_५२५ = पा_३,४.१०७॥
लिङस्तथोः सुट्। यलोपः। आर्धधातुकत्वात्सलोपो न। एधिषीष्ट। एधिषीयास्ताम्। एधिषीरन्। एधिषीष्ठाः। एधिषीयास्थाम्। एधिषीध्वम्। एधिषीय। एधिषीवहि। एधिषीमहि। ऐधिष्ट। ऐधिषाताम्॥

आत्मनेपदेष्वनतः॥ लसक_५२६ = पा_७,१.५॥
अनकारात्परस्यात्मनेपदेषु झस्य अदित्यादेशः स्यात्। ऐधिषत। ऐधिष्ठाः। ऐधिषाथाम्। ऐधिढ्वम्। ऐधिषि। ऐधिष्वहि। ऐधिष्महि। ऐधिष्यत। ऐधिष्येताम्। ऐधिष्यन्त। ऐधिष्यथाः। ऐधिष्येथाम्। ऐधिष्यध्वम्। ऐधिष्ये। ऐधिष्यावहि। ऐधिष्यामहि॥ कमु कान्तौ॥ २॥

क्रमेर्णिङ्॥ लसक_५२७ = पा_३,१.३०॥
स्वार्थे। ङित्त्वात्तङ्। कामयते॥

अयामन्ताल्वाय्येत्न्विष्णुषु॥ लसक_५२८ = पा_६,४.५५॥
आम् अन्त आलु आय्य इत्नु इष्णु एषु णेरयादेशः स्यात्। कामायाञ्चक्रे। आयादय इति णिङ् वा। चकमे। चकमाते। चकमिरे। चकमिषे। चकमाथे। चकमिध्वे। चकमे। चकमिवहे। चकमिमहे। कामयिता। कामयितासे। कमिता। कामयिष्यते, कमिष्यते। कामयताम्। अकामयत। कामयेत। कामयिषीष्ट॥

विभाषेटः॥ लसक_५२९ = पा_८,३.७९॥
इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा ढः। कामयिषीढ्वम्, कामयिषीध्वम्। कमिषीष्ट। कमिषीध्वम्॥

णिश्रिद्रुश्रुभ्यः कर्तरि चङ्॥ लसक_५३० = पा_३,१.४८॥
ण्यन्तात् श्र्यादिभ्यश्च च्लेश्चङ् स्यात् कर्त्रर्थे लुङि परे। अकामि अ त इति स्थिते -- .

णेरनिटि॥ लसक_५३१ = पा_६,४.५१॥
अनिडादावार्धधातुके परे णेर्लोपः स्यात्।

णौ चङ्युपधाया ह्रस्वः॥ लसक_५३२ = पा_७,४.१॥
चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात्॥

चङि॥ लसक_५३३ = पा_६,१.११॥
चङि परे अनभ्यासस्य धात्ववयवस्यैकाचः प्रथमस्य द्वे स्तो ऽजादेर्द्वितीयस्य॥

सन्वल्लघुनि चङ्परे ऽनग्लोपे॥ लसक_५३४ = पा_७,४.९३॥
चङ्परे णौ यदङ्गं तस्य यो ऽभ्यासो लघुपरः, तस्य सनीव कार्यं स्याण्णावग्लोपे ऽसति॥

सन्यतः॥ लसक_५३५ = पा_७,४.७९॥
अभ्यासस्यात इत् स्यात् सनि॥

दीर्घो लघोः॥ लसक_५३६ = पा_७,४.९४॥
लघोरभ्यासस्य दीर्घः स्यात् सन्वद्भावविषये। अचीकमत, णिङ्भावपक्षे -- (कमेश्च्लेश्चङ् वाच्यः)। अचकमत। अकामयिष्यत, अकमिष्यत॥ अय गतौ॥ ३॥ अयते॥

उपसर्गस्यायतौ॥ लसक_५३७ = पा_८,२.१९॥
अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात्। प्लायते। पलायते॥

दयायासश्च॥ लसक_५३८ = पा_३,१.३७॥
दय् अय् आस् एभ्य आम् स्याल्लिटि। अयाञ्चक्रे। अयिता। अयिष्यते। अयताम्। आयत। अयेत। अयिषीष्ट। विभाषेटः। अयिषीढ्वम्, अयिषीध्वम्। आयिष्ट। आयिढ्वम्, आयिध्वम्। आयिष्यत॥ द्युत दीप्तौ॥ ४॥ द्योतते॥

द्युतिस्वाप्योः सम्प्रसारणम्॥ लसक_५३९ = पा_७,४.६७॥
अनयोरभ्यासस्य सम्प्रसारणं स्यात्। दिद्युते॥

द्युद्भ्यो लुङि॥ लसक_५४० = पा_१,३.९१॥
द्युतादिभ्यो लुङः परस्मैपदं वा स्यात्। पुषादीत्यङ्। अद्युतत्, अद्योतिष्ट। अद्योतिष्यत॥ एवं श्विता वर्णे॥ ५॥ ञिमिदा स्नेहने॥ ६॥ ञिष्विदा स्नेहनमोचनयोः॥ ७॥ मोहनयोरित्येके। ञिक्ष्विदा चेत्येके॥ रुच दीप्तावभिप्रीतौ च॥ ८॥ घुट परिवर्तने॥ ९॥ शुभ दीप्तौ॥ १०॥ क्षुभ संचलने॥ ११॥ णभ तुभ हिंसायाम्॥ १२-१३॥ स्रंसु भ्रंसु ध्वंसु अवस्रंसने॥ १४-१५-१६॥ ध्वंसु गतौ च॥ स्रम्भु विश्वासे॥ १७॥ वृतु वर्तने॥ १८॥ वर्तते। ववृते। वर्तिता॥

वृद्भ्यः स्यसनोः॥ लसक_५४१ = पा_१,४.९२॥
वृतादिभ्यः पञ्चभ्यो वा परस्मैपदं स्यात्स्ये सनि च॥

न वृद्भ्यश्चतुर्भ्यः॥ लसक_५४२ = पा_७,२.५९॥
वृतुवृधुशृधुस्यन्दूभ्यः सकारादेरार्धधातुकस्येण् न स्यात् तङानयोरभावे। वर्त्स्यति, वर्तिष्यते। वर्तताम्। अवर्तत। वर्तेत। वर्तिषीष्ट। अवर्तिष्ट। अवर्त्स्यत्, अवर्तिष्यत्॥ दद दाने॥ १९॥ ददते॥

न शसददवादिगुणानाम्॥ लसक_५४३ = पा_६,४.१२६॥
शसेर्ददेर्वकारादीनां गुणशब्देन विहितो यो ऽकारस्तस्य एत्त्वाभ्यासलोपौ न। दददे। दददाते। दददिरे। ददिता। ददिष्यते। ददताम्। अददत। ददेत। ददिषीष्ट। अददिष्ट। अददिष्यत॥ त्रपूष् लज्जायाम्॥ २०॥ त्रपते॥

तॄफलभजत्रपश्च॥ लसक_५४४ = पा_६,४.१२२॥
एषामत एत्त्वमभ्यासलोपश्च स्यात् किति लिटि सेटि थलि च। त्रेपे। त्रपिता, त्रप्ता। त्रपिष्यते, त्रप्स्यते। त्रपताम्। अत्रपत। त्रपेत। त्रपिषीष्ट, त्रप्सीष्ट। अत्रपिष्ट, अत्रप्त। अत्रपिष्यत, अत्रप्स्यत॥
इत्यात्मनेपदिनः//
श्रिञ् सेवायाम्॥ १॥ श्रयति, श्रयते। शिश्राय, शिश्रिये। श्रयितासि, श्रयितासे। श्रयिष्यति, श्रयिष्यते। श्रयतु, श्रयताम्। अश्रयत्, अश्रयत। श्रयेत्, श्रयेत। श्रीयात्, श्रयिषीष्ट। चङ्। अशिश्रियत्, अशिश्रियत। अश्रयिष्यत्, अश्रयिष्यत॥ भृञ् भरणे॥ २॥ भरति, भरते। बभार। बभ्रतुः। बभ्रुः। बभर्थ। बभृव। बभृम। बभ्रे। बभृषे। भर्तासि, भर्तासे। भरिष्यति, भरिष्यते। भरतु, भरताम्। अभरत्, अभरत। भरेत्, भरेत॥

रिङ् शयग्लिङ्क्षु॥ लसक_५४५ = पा_७,४.२८॥
शे यकि यादावार्धधातुके लिङि च ऋतो रिङ् आदेशः स्यात्। रीङि प्रकृते रिङ्विधानसामर्थ्याद्दीर्घो न। भ्रियात्॥

उश्च॥ लसक_५४६ = पा_१,२.१२॥
ऋवर्णात्परौ झलादी लिङ्सिचौ कितौ स्तस्तङि। भृषीष्ट। भृषीयास्ताम्। अभार्षीत्॥

ह्रस्वादङ्गात्॥ लसक_५४७ = पा_८,२.२७॥
सिचो लोपो झलि। अभृत। अभृषाताम्। अभरिष्यत्, अभरिष्यत॥ हृञ् हरणे॥ ३॥ हरति, हरते। जहार। जहर्थ। जह्रिव। जह्रिम। जह्रे। जह्रिषे। हर्तासि, हर्तासे। हरिष्यति, हरिष्यते। हरतु, हरताम्। अहरत्, अहरत। हरेत्, हरेत। ह्रियात्, हृषीष्ट। हृषीयास्ताम्। अहार्षीत्, अहृत। अहरिष्यत्, अहरिष्यत॥ धृञ् धारणे॥ ४॥ धरति, धरते॥ णीञ् प्रापणे॥ ५॥ नयति, नयते॥ डुपचष् पाके॥ ६॥ पचति, पचते। पपाच। पेचिथ, पपक्थ। पेचे। पक्तासि, पक्तासे॥ भज सेवायाम्॥ ७॥ भजति, भजते। बभाज, भेजे। भक्तासि, भक्तासे। भक्ष्यति, भक्ष्यते। अभाक्षीत्, अभक्त। अभक्षाताम्॥
यज देवपूजा सङ्गतिकरणदानेषु॥ ८॥ यजति, यजते॥

लिट्यभ्यासस्योभयेषाम्॥ लसक_५४८ = पा_६,१.१७॥
वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं लिटि। इयाज॥

वचिस्वपियजादीनां किति॥ लसक_५४९ = पा_६,१.१५॥
वचिस्वप्योर्यजादीनां च संप्रसारणं स्यात् किति। ईजतुः। ईजुः। इयजिथ, इयष्ठ। ईजे। यष्टा॥

षढोः कः सि॥ लसक_५५० = पा_८,२.४१॥
यक्ष्यति, यक्ष्यते। इज्यात्, यक्षीष्ट। अयाक्षीत्, अयष्ट॥ वह्अ प्रापणे॥ ९॥ वहति, वहते। उवाह। ऊहतुः। ऊहुः। उवहिथ॥

झषस्ताथोर्धो ऽधः॥ लसक_५५१ = पा_८,२.४०॥
झषः परस्योस्तथोर्धः स्यान्न तु दधातेः॥

ढो ढे लोपः॥ लसक_५५२ = पा_८,३.१३॥

सहिवहोरोदवर्णस्य॥ लसक_५५३ = पा_६,३.११२॥
अनयोरवर्णस्य ओत्स्याड्ढलोपे। उवोढ। ऊहे। वोढा। वक्ष्यति। अवाक्षीत्। अवोढाम्। अवाक्षुः। अवाक्षीः। अवोढम्। अवोढ। अवाक्षम्। अवाक्ष्व। अवाक्ष्म। अवोढ। अवक्षाताम्। अवक्षत। अवोढाः। अवक्षाथाम्। अवोढ्वम्। अवक्षि। अवक्ष्वहि। अवक्ष्महि॥

इति भ्वादयः॥ १॥

  1. संज्ञाप्रकरणम्
  2. अच्सन्धिप्रकरणम्
  3. हल्सन्धिप्रकरणम्
  4. विसर्गसन्धिप्रकरणम्
  5. अजन्तपुंलिङ्गप्रकरणम्
  6. अजन्तस्त्रीलिङ्गप्रकरणम्
  7. अजन्तनपुंसकलिङ्गप्रकरणम्
  8. हलन्तपुंलिङ्गप्रकरणम्
  9. हलन्तस्त्रीलिङ्गप्रकरणम्
  10. हलन्तनपुंसकलिङ्गप्रकरणम्
  11. अव्ययप्रकरणम्
  12. भ्वादिप्रकरणम्
  13. अदादिप्रकरणम्
  14. जुहोत्यादिप्रकरणम्
  15. दिवादिप्रकरणम्
  16. स्वादिप्रकरणम्
  17. तुदादिप्रकरणम्
  18. रुधादिप्रकरणम्
  19. तनादिप्रकरणम्
  20. क्र्यादिप्रकरणम्
  21. चुरादिप्रकरणम्
  22. ण्यन्तप्रक्रिया
  23. सन्नन्तप्रक्रिया
  24. यङन्तप्रक्रिया
  25. यङ्लुगन्तप्रक्रिया
  26. नामधातवः
  27. कण्ड्वादिः
  28. आत्मनेपदप्रकिया
  29. परस्मैपदप्रकिया
  30. भावकर्मप्रकिया
  31. कर्मकर्तृप्रकिया
  32. लकारार्थप्रकिया
  33. कृत्यप्रक्रिया
  34. पूर्वकृदन्तप्रकरणम्
  35. उणादिप्रकरणम्
  36. उत्तरकृदन्तप्रकरणम्
  37. विभक्त्यर्थाः (कारकप्रकरणम्)
  38. केवलसमासः
  39. अव्ययीभावसमासः
  40. तत्पुरुषसमासः
  41. बहुव्रीहिसमासः
  42. द्वन्द्वसमासः
  43. समासान्तप्रकरणम्
  44. तद्धिते साधारणप्रत्ययप्रकरणम्
  45. अपत्याधिकारप्रकरणम्
  46. रक्ताद्यर्थकप्रकरणम्
  47. चातुरार्थिकप्रकरणम्
  48. शैषिकप्रकरणम्
  49. विकारार्थप्रकरणम्
  50. ठगधिकारप्रकरणम्
  51. प्राग्घितीयप्रकरणम्
  52. छयतोरधिकारप्रकरणम्
  53. ठञधिकारप्रकरणम्
  54. त्वतलाधिकारप्रकरणम्
  55. भवनाद्यर्थकप्रकरणम्
  56. मत्वर्थीयप्रकरणम्
  57. प्राग्दिशीयप्रकरणम्
  58. प्रागिवीयप्रकरणम्
  59. स्वार्थिकप्रकरणम्
  60. स्त्रीप्रत्ययप्रकरणम्