मनुस्मृतिः/द्वितीयोध्यायः
← प्रथमोध्यायः | मनुस्मृतिः द्वितीयोध्यायः मनुः |
तृतीयोध्यायः → |
मनुस्मृतेः अध्यायाः |
---|
विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः । |
कामात्मता न प्रशस्ता न चैवेहास्त्यकामता । |
संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः । |
अकामस्य क्रिया काचिद्दृश्यते नेह कर्हिचित् । |
तेषु सम्यग्वर्तमानो गच्छत्यमरलोकताम् । |
वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । |
यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्तितः । |
सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा । |
श्रुतिस्मृत्युदितं धर्मं अनुतिष्ठन्हि मानवः । |
श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः । |
योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः । |
वेदः स्मृतिः सदाचारः स्वस्य च प्रियं आत्मनः । |
अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते । |
श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ । |
उदितेऽनुदिते चैव समयाध्युषिते तथा । |
निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः । |
सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम् । |
तस्मिन्देशे य आचारः पारम्पर्यक्रमागतः । |
कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः । |
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः । |
हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । |
आ समुद्रात्तु वै पूर्वादा समुद्राच्च पश्चिमात् । |
कृष्णसारस्तु चरति मृगो यत्र स्वभावतः । |
एताण् द्विजातयो देशान्संश्रयेरन्प्रयत्नतः । |
एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता । |
वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् । |
गार्भैर्होमैर्जातकर्म चौडमौञ्जीनिबन्धनैः । |
स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः । |
प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते । |
नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् । |
मङ्गल्यं ब्राह्मणस्य स्यात्क्षत्रियस्य बलान्वितम् । |
शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् । |
स्त्रीणां सुखोद्यं अक्रूरं विस्पष्टार्थं मनोहरम् । |
चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् । |
चूडाकर्म द्विजातीनां सर्वेषां एव धर्मतः । |
गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् । |
ब्रह्मवर्चसकामस्य कार्यो विप्रस्य पञ्चमे । |
आ षोदशाद्ब्राह्मणस्य सावित्री नातिवर्तते । |
अत ऊर्ध्वं त्रयोऽप्येते यथाकालं असंस्कृताः । |
नैतैरपूतैर्विधिवदापद्यपि हि कर्हि चित् । |
कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः । |
मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला । |
मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः । |
कार्पासं उपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् । |
ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ । |
केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । |
ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः । |
प्रतिगृह्येप्सितं दण्डं उपस्थाय च भास्करम् । |
भवत्पूर्वं चरेद्भैक्षं उपनीतो द्विजोत्तमः । |
मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् । |
समाहृत्य तु तद्भैक्षं यावदन्नं अमायया । |
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । |
उपस्पृश्य द्विजो नित्यं अन्नं अद्यात्समाहितः । |
पूजयेदशनं नित्यं अद्याच्चैतदकुत्सयन् । |
पूजितं ह्यशनं नित्यं बलं ऊर्जं च यच्छति । |
नोच्छिष्टं कस्य चिद्दद्यान्नाद्यादेतत्तथान्तरा । |
अनारोग्यं अनायुष्यं अस्वर्ग्यं चातिभोजनम् । |
ब्राह्मेण विप्रस्तीर्थेन नित्यकालं उपस्पृशेत् । |
अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते । |
त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् । |
अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित् । |
हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । |
उद्धृते दक्षिने पाणावुपवीत्युच्यते द्विजः । |
मेखलां अजिनं दण्डं उपवीतं कमण्डलुम् । |
केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । |
अमन्त्रिका तु कार्येयं स्त्रीणां आवृदशेषतः । |
वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः । |
एष प्रोक्तो द्विजातीनां औपनायनिको विधिः । |
उपनीय गुरुः शिष्यं शिक्षयेच्छौचं आदितः । |
अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रं उदङ्मुखः । |
ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा । |
व्यत्यस्तपाणिना कार्यं उपसंग्रहणं गुरोः । |
अध्येष्यमाणं तु गुरुर्नित्यकालं अतन्द्रितः । |
ब्रह्मनः प्रणवं कुर्यादादावन्ते च सर्वदा । |
प्राक्कूलान्पर्युपासीनः पवित्रैश्चैव पावितः । |
अकारं चाप्युकारं च मकारं च प्रजापतिः । |
त्रिभ्य एव तु वेदेभ्यः पादं पादं अदूदुहत् । |
एतदक्षरं एतां च जपन्व्याहृतिपूर्विकाम् । |
सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः । |
एतया र्चा विसंयुक्तः काले च क्रियया स्वया । |
ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः । |
योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः । |
एकाक्षरं परं ब्रह्म प्राणायामः परं तपः । |
क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः । |
विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः । |
ये पाकयज्ञास्चत्वारो विधियज्ञसमन्विताः । |
जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः । |
इन्द्रियाणां विचरतां विषयेष्वपहारिषु । |
एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः । |
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी । |
बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः । |
एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् । |
इन्द्रियाणां प्रसङ्गेन दोषं ऋच्छत्यसंशयम् । |
न जातु कामः कामानां उपभोगेन शाम्यति । |
यश्चैतान्प्राप्नुयात्सर्वान्यश्चैतान्केवलांस्त्यजेत् । |
न तथैतानि शक्यन्ते संनियन्तुं असेवया । |
वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च । |
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः । |
इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् । |
वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा । |
पूर्वां संध्यां जपांस्तिष्ठेत्सावित्रीं आर्कदर्शनात् । |
पूर्वां संध्यां जपंस्तिष्ठन्नैशं एनो व्यपोहति । |
न तिष्ठति तु यः पूर्वां नोपास्ते यश्च पश्चिमाम् । |
अपां समीपे नियतो नैत्यकं विधिं आस्थितः । |
वेदोपकरणे चैव स्वाध्याये चैव नैत्यके । |
नैत्यके नास्त्यनध्यायो ब्रह्मसत्त्रं हि तत्स्मृतम् । |
यः स्वाध्यायं अधीतेऽब्दं विधिना नियतः शुचिः । |
अग्नीन्धनं भैक्षचर्यां अधःशय्यां गुरोर्हितम् । |
आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः । |
नापृष्टः कस्य चिद्ब्रूयान्न चान्यायेन पृच्छतः । |
अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति । |
धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा । |
विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना । |
विद्या ब्राह्मणं एत्याह शेवधिस्तेऽस्मि रक्ष माम् । |
यं एव तु शुचिं विद्यान्नियतब्रह्मचारिणम् । |
ब्रह्म यस्त्वननुज्ञातं अधीयानादवाप्नुयात् । |
लौकिकं वैदिकं वापि तथाध्यात्मिकं एव वा । |
सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः । |
शय्यासनेऽध्याचरिते श्रेयसा न समाविशेत् । |
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । |
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । |
अभिवादात्परं विप्रो ज्यायांसं अभिवादयन् । |
नामधेयस्य ये के चिदभिवादं न जानते । |
भोःशब्दं कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने । |
आयुष्मान्भव सौम्येति वाच्यो विप्रोऽभिवादने । |
यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् । |
ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुं अनामयम् । |
अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् । |
परपत्नी तु या स्त्री स्यादसंबन्धा च योनितः । |
मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् । |
मातृश्वसा मातुलानी श्वश्रूरथ पितृश्वसा । |
भ्रातुर्भार्योपसंग्राह्या सवर्णाहन्यहन्यपि । |
पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि । |
दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् । |
ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम् । |
वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी । |
पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च । |
चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः । |
तेषां तु समावेतानां मान्यौ स्नातकपार्थिवौ । |
उपनीय तु यः शिष्यं वेदं अध्यापयेद्द्विजः । |
एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । |
निषेकादीनि कर्माणि यः करोति यथाविधि । |
अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् । |
य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ । |
उपाध्यायान्दशाचार्य आचार्याणां शतं पिता । |
उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता । |
कामान्माता पिता चैनं यदुत्पादयतो मिथः । |
आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः । |
अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । |
ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता । |
अध्यापयां आस पितॄन्शिशुराङ्गिरसः कविः । |
ते तं अर्थं अपृच्छन्त देवानागतमन्यवः । |
अज्ञो भवति वै बालः पिता भवति मन्त्रदः । |
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः । |
विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः । |
न तेन वृद्धो भवति येनास्य पलितं शिरः । |
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । |
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला । |
अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम् । |
यस्य वाङ्गनसी शुद्धे सम्यग्गुप्ते च सर्वदा । |
नारुंतुदः स्यादार्तोऽपि न परद्रोहकर्मधीः । |
सम्मानाद्ब्राह्मणो नित्यं उद्विजेत विषादिव । |
सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते । |
अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः । |
तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः । |
वेदं एव सदाभ्यस्येत्तपस्तप्स्यन्द्विजोत्तमः । |
आ हैव स नखाग्रेभ्यः परमं तप्यते तपः । |
योऽनधीत्य द्विजो वेदं अन्यत्र कुरुते श्रमम् । |
मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने । |
तत्र यद्ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम् । |
वेदप्रदानादाचार्यं पितरं परिचक्षते । |
नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते । |
कृतोपनयनस्यास्य व्रतादेशनं इष्यते । |
यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला । |
सेवेतेमांस्तु नियमान्ब्रह्मचारी गुरौ वसन् । |
नित्यं स्नात्वा शुचिः कुर्याद्देवर्षिपितृतर्पणम् । |
वर्जयेन्मधु मांसं च गन्धं माल्यं रसान्स्त्रियः । |
अभ्यङ्गं अञ्जनं चाक्ष्णोरुपानच्छत्रधारणम् । |
द्यूतं च जनवादं च परिवादं तथानृतम् । |
एकः शयीत सर्वत्र न रेतः स्कन्दयेत्क्व चित् । |
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रं अकामतः । |
उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् । |
वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु । |
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । |
सर्वं वापि चरेद्ग्रामं पूर्वोक्तानां असंभवे । |
दूरादाहृत्य समिधः सन्निदध्याद्विहायसि । |
अकृत्वा भैक्षचरणं असमिध्य च पावकम् । |
भैक्षेण वर्तयेन्नित्यं नैकान्नादी भवेद्व्रती । |
व्रतवद्देवदैवत्ये पित्र्ये कर्मण्यथ र्षिवत् । |
ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः । |
चोदितो गुरुणा नित्यं अप्रचोदित एव वा । |
शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च । |
नित्यं उद्धृतपाणिः स्यात्साध्वाचारः सुसंवृतः । |
हीनान्नवस्त्रवेषः स्यात्सर्वदा गुरुसन्निधौ । |
प्रतिश्रावणसंभाषे शयानो न समाचरेत् । |
आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठतः । |
पराङ्मुखस्याभिमुखो दूरस्थस्यैत्य चान्तिकम् । |
नीचं शय्यासनं चास्य नित्यं स्याद्गुरुसन्निधौ । |
नोदाहरेदस्य नाम परोक्षं अपि केवलम् । |
गुरोर्यत्र परिवादो निन्दा वापि प्रवर्तते । |
परीवादात्खरो भवति श्वा वै भवति निन्दकः । |
दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः । |
प्रतिवातेऽनुवाते च नासीत गुरुणा सह । |
गोऽश्वोष्ट्रयानप्रासाद प्रस्तरेषु कटेषु च । |
गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिं आचरेत् । |
विद्यागुरुष्वेवं एव नित्या वृत्तिः स्वयोनिषु । |
श्रेयःसु गुरुवद्वृत्तिं नित्यं एव समाचरेत् । |
बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि । |
उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने । |
गुरुवत्प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः । |
अभ्यञ्जनं स्नापनं च गात्रोत्सादनं एव च । |
गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः । |
स्वभाव एष नारीणां नराणां इह दूषणम् । |
अविद्वांसं अलं लोके विद्वांसं अपि वा पुनः । |
मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् । |
कामं तु गुरुपत्नीनां युवतीनां युवा भुवि । |
विप्रोष्य पादग्रहणं अन्वहं चाभिवादनम् । |
यथा खनन्खनित्रेण नरो वार्यधिगच्छति । |
मुण्डो वा जटिलो वा स्यादथ वा स्याच्छिखाजटः । |
तं चेदभ्युदियात्सूर्यः शयानं कामचारतः । |
सूर्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः । |
आचम्य प्रयतो नित्यं उभे संध्ये समाहितः । |
यदि स्त्री यद्यवरजः श्रेयः किं चित्समाचरेत् । |
धर्मार्थावुच्यते श्रेयः कामार्थौ धर्म एव च । |
आचार्यश्च पिता चैव माता भ्राता च पूर्वजः । |
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । |
यं मातापितरौ क्लेशं सहेते संभवे नृणाम् । |
तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा । |
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते । |
त एव हि त्रयो लोकास्त एव त्रय आश्रमाः । |
पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः । |
त्रिष्वप्रमाद्यन्नेतेषु त्रीन्लोकान्विजयेद्गृही । |
इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् । |
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः । |
यावत्त्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत् । |
तेषां अनुपरोधेन पारत्र्यं यद्यदाचरेत् । |
त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते । |
श्रद्दधानः शुभां विद्यां आददीतावरादपि । |
विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् । |
स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् । |
अब्राह्मणादध्यायनं आपत्काले विधीयते । |
नाब्राह्मणे गुरौ शिष्यो वासं आत्यन्तिकं वसेत् । |
यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले । |
आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् । |
न पूर्वं गुरवे किं चिदुपकुर्वीत धर्मवित् । |
क्षेत्रं हिरण्यं गां अश्वं छत्रोपानहं आसनम् । |
आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते । |
एतेष्वविद्यमानेषु स्थानासनविहारवान् । |
एवं चरति यो विप्रो ब्रह्मचर्यं अविप्लुतः । |