राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेन्नृपः । संभवश्च यथा तस्य सिद्धिश्च परमा यथा । । ७.१ । । |
ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि । सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् । । ७.२ । । |
अराजके हि लोकेऽस्मिन्सर्वतो विद्रुतो भयात् । रक्षार्थं अस्य सर्वस्य राजानं असृजत्प्रभुः । । ७.३ । । |
इन्द्रानिलयमार्काणां अग्नेश्च वरुणस्य च । चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः । । ७.४ । । |
यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः । तस्मादभिभवत्येष सर्वभूतानि तेजसा । । ७.५ । । |
तपत्यादित्यवच्चैष चक्षूंषि च मनांसि च । न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् । । ७.६ । । |
सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् । स कुबेरः स वरुणः स महेन्द्रः प्रभावतः । । ७.७ । । |
बालोऽपि नावमान्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येषा नररूपेण तिष्ठति । । ७.८ । । |
एकं एव दहत्यग्निर्नरं दुरुपसर्पिणम् । कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् । । ७.९ । । |
कार्यं सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः । कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः । । ७.१० । । |
यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः । । ७.११ । । |
तं यस्तु द्वेष्टि संमोहात्स विनश्यत्यसंशयम् । तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः । । ७.१२ । । |
तस्माद्धर्मं यं इष्टेषु स व्यवस्येन्नराधिपः । अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत् । । ७.१३ । । |
तस्यार्थे सर्वभूतानां गोप्तारं धर्मं आत्मजम् । ब्रह्मतेजोमयं दण्डं असृजत्पूर्वं ईश्वरः । । ७.१४ । । |
तस्य सर्वाणि भूतानि स्थावराणि चराणि च । भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च । । ७.१५ । । |
तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः । यथार्हतः संप्रणयेन्नरेष्वन्यायवर्तिषु । । ७.१६ । । |
स राजा पुरुषो दण्डः स नेता शासिता च सः । चतुर्णां आश्रमाणां च धर्मस्य प्रतिभूः स्मृतः । । ७.१७ । । |
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः । । ७.१८ । । |
समीक्ष्य स धृतः सम्यक्सर्वा रञ्जयति प्रजाः । असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः । । ७.१९ । । |
यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः । शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः । । ७.२० । । |
अद्यात्काकः पुरोडाशं श्वा च लिह्याद्धविस्तथा । स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तेताधरोत्तरम् । । ७.२१ । । |
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते । । ७.२२ । । |
देवदानवगन्धर्वा रक्षांसि पतगोरगाः । तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः । । ७.२३ । । |
दुष्येयुः सर्ववर्णाश्च भिद्येरन्सर्वसेतवः । सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् । । ७.२४ । । |
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति । । ७.२५ । । |
तस्याहुः संप्रणेतारं राजानं सत्यवादिनम् । समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् । । ७.२६ । । |
तं राजा प्रणयन्सम्यक्त्रिवर्गेणाभिवर्धते । कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते । । ७.२७ । । |
दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः । धर्माद्विचलितं हन्ति नृपं एव सबान्धवम् । । ७.२८ । । |
ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् । अन्तरिक्षगतांश्चैव मुनीन्देवांश्च पीडयेत् । । ७.२९ । । |
सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना । न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च । । ७.३० । । |
शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा । प्रणेतुं शक्यते दण्डः सुसहायेन धीमता । । ७.३१ । । |
स्वराष्ट्रे न्यायवृत्तः स्याद्भृशदण्डश्च शत्रुषु । सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः । । ७.३२ । । |
एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः । विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि । । ७.३३ । । |
अतस्तु विपरीतस्य नृपतेरजितात्मनः । संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि । । ७.३४ । । |
स्वे स्वे धर्मे निविष्टानां सर्वेषां अनुपूर्वशः । वर्णानां आश्रमाणां च राजा सृष्टोऽभिरक्षिता । । ७.३५ । । |
तेन यद्यत्सभृत्येन कर्तव्यं रक्षता प्रजाः । तत्तद्वोऽहं प्रवक्ष्यामि यथावदनुपूर्वशः । । ७.३६ । । |
ब्राह्मणान्पर्युपासीत प्रातरुत्थाय पार्थिवः । त्रैविद्यवृद्धान्विदुषस्तिष्ठेत्तेषां च शासने । । ७.३७ । । |
वृद्धांश्च नित्यं सेवेत विप्रान्वेदविदः शुचीन् । वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते । । ७.३८ । । |
तेभ्योऽधिगच्छेद्विनयं विनीतात्मापि नित्यशः । विनीतात्मा हि नृपतिर्न विनश्यति कर्हि चित् । । ७.३९ । । |
बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः । वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे । । ७.४० । । |
वेनो विनष्टोऽविनयान्नहुषश्चैव पार्थिवः । सुदाः पैजवनश्चैव सुमुखो निमिरेव च । । ७.४१ । । |
पृथुस्तु विनयाद्राज्यं प्राप्तवान्मनुरेव च । कुबेरश्च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः । । ७.४२ । । |
त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश्च लोकतः । । ७.४३ । । |
इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् । जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः । । ७.४४ । । |
दश कामसमुत्थानि तथाष्टौ क्रोधजानि च । व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् । । ७.४५ । । |
कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः । वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु । । ७.४६ । । |
मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको गणः । । ७.४७ । । |
पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः । । ७.४८ । । |
द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः । तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ । । ७.४९ । । |
पानं अक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे । । ७.५० । । |
दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यात्कष्टं एतत्त्रिकं सदा । । ७.५१ । । |
सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः । पूर्वं पूर्वं गुरुतरं विद्याद्व्यसनं आत्मवान् । । ७.५२ । । |
व्यसनस्य च मृत्योश्च व्यसनं कष्टं उच्यते । व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनी मृतः । । ७.५३ । । |
मौलाञ् शास्त्रविदः शूरांल्लब्धलक्षान्कुलोद्भवान् । सचिवान्सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान् । । ७.५४ । । |
अपि यत्सुकरं कर्म तदप्येकेन दुष्करम् । विशेषतोऽसहायेन किं तु राज्यं महोदयम् । । ७.५५ । । |
तैः सार्धं चिन्तयेन्नित्यं सामान्यं संधिविग्रहम् । स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च । । ७.५६ । । |
तेषां स्वं स्वं अभिप्रायं उपलभ्य पृथक्पृथक् । समस्तानां च कार्येषु विदध्याद्धितं आत्मनः । । ७.५७ । । |
सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता । मन्त्रयेत्परमं मन्त्रं राजा षाड्गुण्यसंयुतम् । । ७.५८ । । |
नित्यं तस्मिन्समाश्वस्तः सर्वकार्याणि निःक्षिपेत् । तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् । । ७.५९ । । |
अन्यानपि प्रकुर्वीत शुचीन्प्राज्ञानवस्थितान् । सम्यगर्थसमाहर्तॄनमात्यान्सुपरीक्षितान् । । ७.६० । । |
निर्वर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः । तावतोऽतन्द्रितान्दक्षान्प्रकुर्वीत विचक्षणान् । । ७.६१ । । |
तेषां अर्थे नियुञ्जीत शूरान्दक्षान्कुलोद्गतान् । शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने । । ७.६२ । । |
दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् । इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम् । । ७.६३ । । |
अनुरक्तः शुचिर्दक्षः स्मृतिमान्देशकालवित् । वपुष्मान्वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते । । ७.६४ । । |
अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया । नृपतौ कोशराष्ट्रे च दूते संधिविपर्ययौ । । ७.६५ । । |
दूत एव हि संधत्ते भिनत्त्येव च संहतान् । दूतस्तत्कुरुते कर्म भिद्यन्ते येन मानवः । । ७.६६ । । |
स विद्यादस्य कृत्येषु निर्गूढेङ्गितचेष्टितैः । आकारं इङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् । । ७.६७ । । |
बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम् । तथा प्रयत्नं आतिष्ठेद्यथात्मानं न पीडयेत् । । ७.६८ । । |
जाङ्गलं सस्यसंपन्नं आर्यप्रायं अनाविलम् । रम्यं आनतसामन्तं स्वाजीव्यं देशं आवसेत् । । ७.६९ । । |
धन्वदुर्गं महीदुर्गं अब्दुर्गं वार्क्षं एव वा । नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत्पुरम् । । ७.७० । । |
सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् । एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते । । ७.७१ । । |
त्रिण्याद्यान्याश्रितास्त्वेषां मृगगर्ताश्रयाप्चराः । त्रीण्युत्तराणि क्रमशः प्लवंगमनरामराः । । ७.७२ । । |
यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः । तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम् । । ७.७३ । । |
एकः शतं योधयति प्राकारस्थो धनुर्धरः । शतं दशसहस्राणि तस्माद्दुर्गं विधीयते । । ७.७४ । । |
तत्स्यादायुधसंपन्नं धनधान्येन वाहनैः । ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च । । ७.७५ । । |
तस्य मध्ये सुपर्याप्तं कारयेद्गृहं आत्मनः । गुप्तं सर्वर्तुकं शुभ्रं जलवृक्षसमन्वितम् । । ७.७६ । । |
तदध्यास्योद्वहेद्भार्यां सवर्णां लक्षणान्विताम् । कुले महति संभूतां हृद्यां रूपगुणान्वीताम् । । ७.७७ । । |
पुरोहितं च कुर्वीत वृणुयादेव च र्त्विजः । तेऽस्य गृह्याणि कर्माणि कुर्युर्वैतानिकानि च । । ७.७८ । । |
यजेत राजा क्रतुभिर्विविधैराप्तदक्षिणैः । धर्मार्थं चैव विप्रेभ्यो दद्याद्भोगान्धनानि च । । ७.७९ । । |
सांवत्सरिकं आप्तैश्च राष्ट्रादाहारयेद्बलिम् । स्याच्चाम्नायपरो लोके वर्तेत पितृवन्नृषु । । ७.८० । । |
अध्यक्षान्विविधान्कुर्यात्तत्र तत्र विपश्चितः । तेऽस्य सर्वाण्यवेक्षेरन्नृणां कार्याणि कुर्वताम् । । ७.८१ । । |
आवृत्तानां गुरुकुलाद्विप्राणां पूजको भवेत् । नृपाणां अक्षयो ह्येष निधिर्ब्राह्मोऽभिधीयते । । ७.८२ । । |
न तं स्तेना न चामित्रा हरन्ति न च नश्यति । तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः । । ७.८३ । । |
न स्कन्दते न व्यथते न विनश्यति कर्हि चित् । वरिष्ठं अग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् । । ७.८४ । । |
समं अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । प्राधीते शतसाहस्रं अनन्तं वेदपारगे । । ७.८५ । । |
पात्रस्य हि विशेषेण श्रद्दधानतयैव च । अल्पं वा बहु वा प्रेत्य दानस्य फलं अश्नुते । । ७.८६ । । |
देशकालविधानेन द्रव्यं श्रद्धासमन्वितम् । पात्रे प्रदीयते यत्तु तद्धर्मस्य प्रसाधनम् । । ७.८७ं । । |
समोत्तमाधमै राजा त्वाहूतः पालयन्प्रजाः । न निवर्तेत संग्रामात्क्षात्रं धर्मं अनुस्मरन् । । ७.८७[८८ं] । । |
संग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम् । शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् । । ७.८८[८९ं] । । |
आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः । युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः । । ७.८९[९०ं] । । |
न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून् । न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः । । ७.९०[९१ं] । । |
न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम् । न मुक्तकेशं नासीनं न तवास्मीति वादिनम् । । ७.९१[९२ं] । । |
न सुप्तं न विसंनाहं न नग्नं न निरायुधम् । नायुध्यमानं पश्यन्तं न परेण समागतम् । । ७.९२[९३ं] । । |
नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतम् । न भीतं न परावृत्तं सतां धर्मं अनुस्मरन् । । ७.९३[९४ं] । । |
यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः । भर्तुर्यद्दुष्कृतं किं चित्तत्सर्वं प्रतिपद्यते । । ७.९४[९५ं] । । |
यच्चास्य सुकृतं किं चिदमुत्रार्थं उपार्जितम् । भर्ता तत्सर्वं आदत्ते परावृत्तहतस्य तु । । ७.९५[९६ं] । । |
रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून्स्त्रियः । सर्वद्रव्याणि कुप्यं च यो यज्जयति तस्य तत् । । ७.९६[९७ं] । । |
राज्ञश्च दद्युरुद्धारं इत्येषा वैदिकी श्रुतिः । राज्ञा च सर्वयोधेभ्यो दातव्यं अपृथग्जितम् । । ७.९७[९८ं] । । |
एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः । अस्माद्धर्मान्न च्यवेत क्षत्रियो घ्नन्रणे रिपून् । । ७.९८[९९ं] । । |
अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः । रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् । । ७.९९[१००ं] । । |
एतच्चतुर्विधं विद्यात्पुरुषार्थप्रयोजनम् । अस्य नित्यं अनुष्ठानं सम्यक्कुर्यादतन्द्रितः । । ७.१००[१०१ं] । । |
अलब्धं इच्छेद्दण्डेन लब्धं रक्षेदवेक्षया । रक्षितं वर्धयेद्वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् । । ७.१०१[१०२ं] । । |
नित्यं उद्यतदण्डः स्यान्नित्यं विवृतपौरुषः । नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरेः । । ७.१०२[१०३ं] । । |
नित्यं उद्यतदण्डस्य कृत्स्नं उद्विजते जगत् । तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् । । ७.१०३[१०४ं] । । |
अमाययैव वर्तेत न कथं चन मायया । बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः । । ७.१०४[१०५ं] । । |
नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य च । गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरं आत्मनः । । ७.१०५[१०६ं] । । |
बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमे । वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् । । ७.१०६[१०७ं] । । |
एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः । तानानयेद्वशं सर्वान्सामादिभिरुपक्रमैः । । ७.१०७[१०८ं] । । |
यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः । दण्डेनैव प्रसह्यैताञ् शनकैर्वशं आनयेत् । । ७.१०८[१०९ं] । । |
सामादीनां उपायानां चतुर्णां अपि पण्डिताः । सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये । । ७.१०९[११०ं] । । |
यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति । तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः । । ७.११०[१११ं] । । |
मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया । सोऽचिराद्भ्रश्यते राज्याज्जीविताच्च सबान्धवः । । ७.१११[११२ं] । । |
शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा । तथा राज्ञां अपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् । । ७.११२[११३ं] । । |
राष्ट्रस्य संग्रहे नित्यं विधानं इदं आचरेत् । सुसंगृहीतराष्ट्रे हि पार्थिवः सुखं एधते । । ७.११३[११४ं] । । |
द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्मं अधिष्ठितम् । तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य संग्रहम् । । ७.११४[११५ं] । । |
ग्रामस्याधिपतिं कुर्याद्दशग्रामपतिं तथा । विंशतीशं शतेशं च सहस्रपतिं एव च । । ७.११५[११६ं] । । |
ग्रामदोषान्समुत्पन्नान्ग्रामिकः शनकैः स्वयम् । शंसेद्ग्रामदशेशाय दशेशो विंशतीशिने । । ७.११६[११७ं] । । |
विंशतीशस्तु तत्सर्वं शतेशाय निवेदयेत् । शंसेद्ग्रामशतेशस्तु सहस्रपतये स्वयम् । । ७.११७[११८ं] । । |
यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः । अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् । । ७.११८[११९ं] । । |
दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च । ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् । । ७.११९[१२०ं] । । |
तेषां ग्राम्याणि कार्यानि पृथक्कार्याणि चैव हि । राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः । । ७.१२०[१२१ं] । । |
नगरे नगरे चैकं कुर्यात्सर्वार्थचिन्तकम् । उच्चैःस्थानं घोररूपं नक्षत्राणां इव ग्रहम् । । ७.१२१[१२२ं] । । |
स ताननुपरिक्रामेत्सर्वानेव सदा स्वयम् । तेषां वृत्तं परिणयेत्सम्यग्राष्ट्रेषु तच्चरैः । । ७.१२२[१२३ं] । । |
राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः । भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः । । ७.१२३[१२४ं] । । |
ये कार्यिकेभ्योऽर्थं एव गृह्णीयुः पापचेतसः । तेषां सर्वस्वं आदाय राजा कुर्यात्प्रवासनम् । । ७.१२४[१२५ं] । । |
राजा कर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च । प्रत्यहं कल्पयेद्वृत्तिं स्थानं कर्मानुरूपतः । । ७.१२५[१२६ं] । । |
पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् । षाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः । । ७.१२६[१२७ं] । । |
क्रयविक्रयं अध्वानं भक्तं च सपरिव्ययम् । योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत्करान् । । ७.१२७[१२८ं] । । |
यथा फलेन युज्येत राजा कर्ता च कर्मणाम् । तथावेक्ष्य नृपो राष्ट्रे कल्पयेत्सततं करान् । । ७.१२८[१२९ं] । । |
यथाल्पाल्पं अदन्त्याद्यं वार्योकोवत्सषट्पदाः । तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाब्दिकः करः । । ७.१२९[१३०ं] । । |
पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः । धान्यानां अष्टमो भागः षष्ठो द्वादश एव वा । । ७.१३०[१३१ं] । । |
आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् । गन्धौषधिरसानां च पुष्पमूलफलस्य च । । ७.१३१[१३२ं] । । |
पत्रशाकतृणानां च चर्मणां वैदलस्य च । मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च । । ७.१३२[१३३ं] । । |
म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम् । न च क्षुधास्य संसीदेच्छ्रोत्रियो विषये वसन् । । ७.१३३[१३४ं] । । |
यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा । तस्यापि तत्क्षुधा राष्ट्रं अचिरेनैव सीदति । । ७.१३४[१३५ं] । । |
श्रुतवृत्ते विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत् । संरक्षेत्सर्वतश्चैनं पिता पुत्रं इवाउरसम् । । ७.१३५[१३६ं] । । |
संरक्ष्यमाणो राज्ञा यं] कुरुते धर्मं अन्वहम् । तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रं एव च । । ७.१३६[१३७ं] । । |
यत्किं चिदपि वर्षस्य दापयेत्करसंज्ञितम् । व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् । । ७.१३७[१३८ं] । । |
कारुकाञ् शिल्पिनश्चैव शूद्रांस्चात्मोपजीविनः । एकैकं कारयेत्कर्म मासि मासि महीपतिः । । ७.१३८[१३९ं] । । |
नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया । उच्छिन्दन्ह्यात्मनो मूलं आट्मानं तांश्च पीदयेत् । । ७.१३९[१४०ं] । । |
तीक्ष्णश्चैव मृदुश्च स्यात्कार्यं वीक्ष्य महीपतिः । तीक्ष्णश्चैव मृदुश्चैव राज भवति सम्मतः । । ७.१४०[१४१ं] । । |
अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् । स्थापयेदासने तस्मिन्खिन्नः कार्येक्षणे नृणाम् । । ७.१४१[१४२ं] । । |
एवं सर्वं विधायेदं इतिकर्तव्यं आत्मनः । युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः । । ७.१४२[१४३ं] । । |
विक्रोशन्त्यो यस्य राष्ट्राद्ह्रियन्ते दस्युभिः प्रजाः । संपश्यतः सभृत्यस्य मृतः स न तु जीवति । । ७.१४३[१४४ं] । । |
क्षत्रियस्य परो धर्मः प्राजानां एव पालनम् । निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते । । ७.१४४[१४५ं] । । |
उत्थाय पश्चिमे यामे कृतशौचः समाहितः । हुताग्निर्ब्राह्मणांश्चार्च्य प्रविशेत्स शुभां सभाम् । । ७.१४५[१४६ं] । । |
तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् । विसृज्य च प्रजाः सर्वा मन्त्रयेत्सह मन्त्रिभिः । । ७.१४६[१४७ं] । । |
गिरिपृष्ठं समारुह्य प्रसादं वा रहोगतः । अरण्ये निःशलाके वा मन्त्रयेदविभावितः । । ७.१४७[१४८ं] । । |
यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः । स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः । । ७.१४८[१४९ं] । । |
जडमूकान्धबधिरांस्तैर्यग्योनान्वयोऽतिगान् । स्त्रीम्लेच्छव्याधितव्यङ्गान्मन्त्रकालेऽपसारयेत् । । ७.१४९[१५०ं] । । |
भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च । स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत् । । ७.१५०[१५१ं] । । |
मध्यंदिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः । चिन्तयेद्धर्मकामार्थान्सार्धं तैरेक एव वा । । ७.१५१[१५२ं] । । |
परस्परविरुद्धानां तेषां च समुपार्जनम् । कन्यानां संप्रदानं च कुमाराणां च रक्षणम् । । ७.१५२[१५३ं] । । |
दूतसंप्रेषणं चैव कार्यशेषं तथैव च । अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् । । ७.१५३[१५४ं] । । |
कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः । अनुरागापरागौ च प्रचारं मण्डलस्य च । । ७.१५४[१५५ं] । । |
मध्यमस्य प्रचारं च विजीगिषोश्च चेष्टितम् । उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः । । ७.१५५[१५६ं] । । |
एताः प्रकृतयो मूलं मण्डलस्य समासतः । अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः । । ७.१५६[१५७ं] । । |
अमात्यराष्ट्रदुर्गार्थ दण्डाख्याः पञ्च चापराः । प्रत्येकं कथिता ह्येताः संक्षेपेण द्विसप्ततिः । । ७.१५७[१५८ं] । । |
अनन्तरं अरिं विद्यादरिसेविनं एव च । अरेरनन्तरं मित्रं उदासीनं तयोः परम् । । ७.१५८[१५९ं] । । |
तान्सर्वानभिसंदध्यात्सामादिभिरुपक्रमैः । व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च । । ७.१५९[१६०ं] । । |
संधिं च विग्रहं चैव यानं आसनं एव च । द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा । । ७.१६०[१६१ं] । । |
आसनं चैव यानं च संधिं विग्रहं एव च । कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयं एव च । । ७.१६१[१६२ं] । । |
संधिं तु द्विविधं विद्याद्राजा विग्रहं एव च । उभे यानासने चैव द्विविधः संश्रयः स्मृतः । । ७.१६२[१६३ं] । । |
समानयानकर्मा च विपरीतस्तथैव च । तदा त्वायतिसंयुक्तः संधिर्ज्ञेयो द्विलक्षणः । । ७.१६३[१६४ं] । । |
स्वयंकृतश्च कार्यार्थं अकाले काल एव वा । मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः । । ७.१६४[१६५ं] । । |
एकाकिनश्चात्ययिके कार्ये प्राप्ते यदृच्छया । संहतस्य च मित्रेण द्विविधं यानं उच्यते । । ७.१६५[१६६ं] । । |
क्षीणस्य चैव क्रमशो दैवात्पूर्वकृतेन वा । मित्रस्य चानुरोधेन द्विविधं स्मृतं आसनम् । । ७.१६६[१६७ं] । । |
बलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये । द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः । । ७.१६७[१६८ं] । । |
अर्थसंपादनार्थं च पीड्यमानस्य शत्रुभिः । साधुषु व्यपदेशश्च द्विविधः संश्रयः स्मृतः । । ७.१६८[१६९ं] । । |
यदावगच्छेदायत्यां आधिक्यं ध्रुवं आत्मनः । तदात्वे चाल्पिकां पीडां तदा संधिं समाश्रयेत् । । ७.१६९[१७०ं] । । |
यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृतीर्भृशम् । अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम् । । ७.१७०[१७१ं] । । |
यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् । परस्य विपरीतं च तदा यायाद्रिपुं प्रति । । ७.१७१[१७२ं] । । |
यदा तु स्यात्परिक्षीणो वाहनेन बलेन च । तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन् । । ७.१७२[१७३ं] । । |
मन्येतारिं यदा राजा सर्वथा बलवत्तरम् । तदा द्विधा बलं कृत्वा साधयेत्कार्यं आत्मनः । । ७.१७३[१७४ं] । । |
यदा परबलानां तु गमनीयतमो भवेत् । तदा तु संश्रयेत्क्षिप्रं धार्मिकं बलिनं नृपम् । । ७.१७४[१७५ं] । । |
निग्रहं प्रकृतीनां च कुर्याद्योऽरिबलस्य च । उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा । । ७.१७५[१७६ं] । । |
यदि तत्रापि संपश्येद्दोषं संश्रयकारितम् । सुयुद्धं एव तत्रापि निर्विशङ्कः समाचरेत् । । ७.१७६[१७७ं] । । |
सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः । यथास्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः । । ७.१७७[१७८ं] । । |
आयतिं सर्वकार्याणां तदात्वं च विचारयेत् । अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः । । ७.१७८[१७९ं] । । |
आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः । अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते । । ७.१७९[१८०ं] । । |
यथैनं नाभिसंदध्युर्मित्रोदासीनशत्रवः । तथा सर्वं संविदध्यादेष सामासिको नयः । । ७.१८०[१८१ं] । । |
तदा तु यानं आतिष्ठेदरिराष्ट्रं प्रति प्रभुः । तदानेन विधानेन यायादरिपुरं शनैः । । ७.१८१[१८२ं] । । |
मार्गशीर्षे शुभे मासि यायाद्यात्रां महीपतिः । फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् । । ७.१८२[१८३ं] । । |
अन्येष्वपि तु कालेषु यदा पश्येद्ध्रुवं जयम् । तदा यायाद्विगृह्यैव व्यसने चोत्थिते रिपोः । । ७.१८३[१८४ं] । । |
कृत्वा विधानं मूले तु यात्रिकं च यथाविधि । उपगृह्यास्पदं चैव चारान्सम्यग्विधाय च । । ७.१८४[१८५ं] । । |
संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम् । सांपरायिककल्पेन यायादरिपुरं प्रति । । ७.१८५[१८६ं] । । |
शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् । गतप्रत्यागते चैव स हि कष्टतरो रिपुः । । ७.१८६[१८७ं] । । |
दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा । वराहमकराभ्यां वा सूच्या वा गरुडेन वा । । ७.१८७[१८८ं] । । |
यतश्च भयं आशङ्केत्ततो विस्तारयेद्बलम् । पद्मेन चैव व्यूहेन निविशेत सदा स्वयम् । । ७.१८८[१८९ं] । । |
सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् । यतश्च भयं आशङ्केत्प्राचीं तां कल्पयेद्दिशम् । । ७.१८९[१९०ं] । । |
गुल्मांश्च स्थापयेदाप्तान्कृतसंज्ञान्समन्ततः । स्थाने युद्धे च कुशलानभीरूनविकारिणः । । ७.१९०[१९१ं] । । |
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् । सूच्या वज्रेण चैवैतान्व्यूहेन व्यूह्य योधयेत् । । ७.१९१[१९२ं] । । |
स्यन्दनाश्वैः समे युध्येदनूपे नौ द्विपैस्तथा । वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले । । ७.१९२[१९३ं] । । |
कुरुक्षेत्रांश्च मत्स्यांश्च पञ्चालाञ् शूरसेनजान् । दीर्घांल्लघूंश्चैव नरानग्रानीकेषु योजयेत् । । ७.१९३[१९४ं] । । |
प्रहर्षयेद्बलं व्यूह्य तांश्च सम्यक्परीक्षयेत् । चेष्टाश्चैव विजानीयादरीन्योधयतां अपि । । ७.१९४[१९५ं] । । |
उपरुध्यारिं आसीत राष्ट्रं चास्योपपीडयेत् । दूषयेच्चास्य सततं यवसान्नोदकेन्धनम् । । ७.१९५[१९६ं] । । |
भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा । समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा । । ७.१९६[१९७ं] । । |
उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम् । युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः । । ७.१९७[१९८ं] । । |
साम्ना दानेन भेदेन समस्तैरथ वा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदा चन । । ७.१९८[१९९ं] । । |
अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः । पराजयश्च संग्रामे तस्माद्युद्धं विवर्जयेत् । । ७.१९९[२००ं] । । |
त्रयाणां अप्युपायानां पूर्वोक्तानां असंभवे । तथा युध्येत संपन्नो विजयेत रिपून्यथा । । ७.२००[२०१ं] । । |
जित्वा संपूजयेद्देवान्ब्राह्मणांश्चैव धार्मिकान् । प्रदद्यात्परिहारार्थं ख्यापयेदभयानि च । । ७.२०१[२०२ं] । । |
सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम् । स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् । । ७.२०२[२०३ं] । । |
प्रमाणानि च कुर्वीत तेषां धर्मान्यथोदितान् । रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह । । ७.२०३[२०४ं] । । |
आदानं अप्रियकरं दानं च प्रियकारकम् । अभीप्सितानां अर्थानां काले युक्तं प्रशस्यते । । ७.२०४[२०५ं] । । |
सर्वं कर्मेदं आयत्तं विधाने दैवमानुषे । तयोर्दैवं अचिन्त्यं तु मानुषे विद्यते क्रिया । । ७.२०५[२०६ं] । । |
दैवेन विधिना युक्तं मानुष्यं यत्प्रवर्तते । परिक्लेशेन महता तदर्थस्य समाधकम् । । ७.२०७ं । । |
संयुक्तस्यापि दैवेन पुरुषकारेण वर्जितम् । विना पुरुषकारेण फलं क्षेत्रं प्रयच्छति । । ७.२०८ं । । |
चन्द्रार्काद्या ग्रहा वायुरग्निरापस्तथैव च । इह दैवेन साध्यन्ते पौरुषेण प्रयत्नतः । । ७.२०९ं । । |
सह वापि व्रजेद्युक्तः संधिं कृत्वा प्रयत्नतः । मित्रं हिरण्यं भूमिं वा संपश्यंस्त्रिविधं फलम् । । ७.२०६[२१०ं] । । |
पार्ष्णिग्राहं च संप्रेक्ष्य तथाक्रन्दं च मण्डले । मित्रादथाप्यमित्राद्वा यात्राफलं अवाप्नुयात् । । ७.२०७[२११ं] । । |
हिरण्यभूमिसंप्राप्त्या पार्थिवो न तथैधते । यथा मित्रं ध्रुवं लब्ध्वा कृशं अप्यायतिक्षमम् । । ७.२०८[२१२ं] । । |
धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिं एव च । अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते । । ७.२०९[२१३ं] । । |
प्राज्ञं कुलीनं शूरं च दक्षं दातारं एव च । कृतज्ञं धृतिमन्तं च कष्टं आहुररिं बुधाः । । ७.२१०[२१४ं] । । |
आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता । स्थौललक्ष्यं च सततं उदासीनगुणोदयः । । ७.२११[२१५ं] । । |
क्सेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीं अपि । परित्यजेन्नृपो भूमिं आत्मार्थं अविचारयन् । । ७.२१२[२१६ं] । । |
आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि । । ७.२१३[२१७ं] । । |
सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् । संयुक्तांश्च वियुक्तांश्च सर्वोपायान्सृजेद्बुधः । । ७.२१४[२१८ं] । । |
उपेतारं उपेयं च सर्वोपायांश्च कृत्स्नशः । एतत्त्रयं समाश्रित्य प्रयतेतार्थसिद्धये । । ७.२१५[२१९ं] । । |
एवं सर्वं इदं राजा सह सम्मन्त्र्य मन्त्रिभिः । व्यायम्याप्लुत्य मध्याह्ने भोक्तुं अन्तःपुरं विशेत् । । ७.२१६[२२०ं] । । |
तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः । सुपरीक्षितं अन्नाद्यं अद्यान्मन्त्रैर्विषापहैः । । ७.२१७[२२१ं] । । |
विषघ्नैरगदैश्चास्य सर्वद्रव्याणि योजयेत् । विषघ्नानि च रत्नानि नियतो धारयेत्सदा । । ७.२१८[२२२ं] । । |
परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः । वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः । । ७.२१९[२२३ं] । । |
एवं प्रयत्नं कुर्वीत यानशय्यासनाशने । स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च । । ७.२२०[२२४ं] । । |
भुक्तवान्विहरेच्चैव स्त्रीभिरन्तःपुरे सह । विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् । । ७.२२१[२२५ं] । । |
अलंकृतश्च संपश्येदायुधीयं पुनर्जनम् । वाहनानि च सर्वाणि शस्त्राण्याभरणानि च । । ७.२२२[२२६ं] । । |
संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् । रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् । । ७.२२३[२२७ं] । । |
गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् । प्रविशेद्भोजनार्थं च स्त्रीवृतोऽन्तःपुरं पुनः । । ७.२२४[२२८ं] । । |
तत्र भुक्त्वा पुनः किं चित्तूर्यघोषैः प्रहर्षितः । संविशेत्तं यथाकालं उत्तिष्ठेच्च गतक्लमः । । ७.२५५[२२९ं] । । |
एतद्विधानं आतिष्ठेदरोगः पृथिवीपतिः । अस्वस्थः सर्वं एतत्तु भृत्येषु विनियोजयेत् । । ७.२२६[२३०ं] । । |