← स्वर्गारोहणपर्व-005 महाभारतम्
अष्टादशपर्व
महाभारतम्-18-स्वर्गारोहणपर्व-006
वेदव्यासः


इदं स्वर्गारोहणपर्व कुम्भघोणस्थेन टी.आर्.कृष्णाचार्येण टी.आर्.व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम्। शकाब्दाः 1832 सन 1910.

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
भगवन्केन विधिना श्रोतव्यं भारतं बुधैः।
फलं किं के च देवाश्च पूज्या वै पारणेष्विह।।
18-6-1a
18-6-1b
देयं समाप्ते भगवन्किं च पर्वणिपर्वणि।
वाचकः कीदृशश्चात्र एष्टव्यस्तद्ब्रवीहि मे।।
18-6-2a
18-6-2b
वैशम्पायन उवाच। 18-6-3x
शृणु राजन्विधिमिमं फलं यच्चापि भारतात्।
श्रुताद्भवति राजेन्द्र यत्त्वं मामनुपृच्छसि।।
18-6-3a
18-6-3b
दिवि देवा महीपाल क्रीडार्थमवनिं गताः।
कृत्वा कार्यमिदं चैव ततश्च दिवमागताः।।
18-6-4a
18-6-4b
हन्त यत्ते प्रवक्ष्यामि तच्छृणुष्व समाहितः।
ऋषीणां देवतानां च सम्भवं वसुधातले।।
18-6-5a
18-6-5b
अत्र रुद्रास्तथा साध्या विश्वेदेवाश्च शाश्वताः।
आदित्याश्चाश्विनौ देवौ लोकपाला महर्षयः।।
18-6-6a
18-6-6b
गुह्यकाश्च सगन्धर्वा नागा विद्याधरास्तथा।
सिद्धा धर्मः स्वयंभूश्च मुनिः कात्यायनो वरः।।
18-6-7a
18-6-7b
गिरयः सागरा नद्यस्तथैवाप्सरसां गणाः।
ग्रहाः संवत्सराश्चैव अयनान्यृतवस्तथा।।
18-6-8a
18-6-8b
स्थावरं जङ्गमं चैव जगत्सर्वं सुरासुरम्।
भातरे भरतश्रेष्ठ एकस्थमिह दृश्यते।।
18-6-9a
18-6-9b
तेषां श्रुत्वा प्रतिष्ठानं नामकर्मानुकीर्तनात्।
कृत्वाऽपि पातकं घोरं सद्यो मुच्येत मानवः।।
18-6-10a
18-6-10b
इतिहासमिमं श्रुत्वा यथावदनुपूर्वशः।
संयतात्मा शुचिर्भूत्वा पारं गत्वा च भारते।।
18-6-11a
18-6-11b
तेषां श्राद्धानि देयानि श्रुत्वा भारत भारतम्।
ब्राह्मणेभ्यो यथाशक्त्या भक्त्या च भरतर्षभ।।
18-6-12a
18-6-12b
महादानानि देयानि रत्नानि विविधानि च।
गावः कांस्योपदोहाश्च कन्याश्चैव स्वलङ्कृताः।।
18-6-13a
18-6-13b
सर्वकामगुणोपेता यानानि विविधानि च।
कभवनानि विचित्राणि भूमिर्वासांसि काञ्चनम्।।
18-6-14a
18-6-14b
वाहनानि च देयानि हया मत्ताश्च वारणाः।
शयनं शिबिकाश्चैव स्यन्दनाश्च स्वलंकृताः।।
18-6-15a
18-6-15b
यद्यद्गृहे वरं किञ्चिद्यद्यदस्ति महद्वसु।
तत्तद्देयं द्विजातिभ्य आत्मा दाराश्च सूनवः।।
18-6-16a
18-6-16b
श्रद्धया परया युक्तं क्रमशस्तस्य पारगः।
शक्तितः सुमना हृष्टः सुश्रूषुरविकल्पकः।।
18-6-17a
18-6-17b
सत्यार्जवरतो दान्तः शुचिः शौचसमन्वितः।
श्रद्धधानो जितक्रोधो यथा सिद्ध्यति तच्छृणु।।
18-6-18a
18-6-18b
शुचिः शीलान्विताचारः शुक्लवासा जितेन्द्रियः।
संस्कृतः सर्वशास्त्रज्ञः श्रद्दधानोऽनसूयकः।।
18-6-19a
18-6-19b
रूपवान्सुभगो दान्तः सत्यवादी जितेन्द्रियः।
दानमानगृहीतश्च कार्यो भवति वाचकः।।
18-6-20a
18-6-20b
अविलम्बमनायस्तमद्रुतं धीरमुर्जितम्।
असंसक्ताक्षरपदं स्वरभावसमन्वितम्।।
18-6-21a
18-6-21b
त्रिषष्टिवर्णसंयुक्तमष्टस्थानसमीरितम्।
वाचयेद्वाचकः स्वस्थः स्वासीनः सुसमाहितः।।
18-6-22a
18-6-22b
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं(व्यासं) चैव ततो जयमुदीरयेत्।।
18-6-23a
18-6-23b
ईदृशाद्वाचकाद्राजञ्श्रुत्वा भारत भारतम्।
नियमस्थः शुचिः श्रोता शृण्वन्स फलमश्नुते।।
18-6-24a
18-6-24b
पारणं प्रथमं प्राप्य द्विजान्कामैश्च तर्पयन्।
आग्निष्टोमस्य यज्ञस्य फलं वै लभते नरः।।
18-6-25a
18-6-25b
अप्सरोगणसंकीर्णं विमानं लभते महत्।
प्रहृष्टः स तु देवैश्च दिवं याति समाहितः।।
18-6-26a
18-6-26b
द्वितीयं पारणं प्राप्य सोतिरात्रफलं लभेत्।
सर्वरत्नमयं दिव्यं विमानमधिरोहति।।
18-6-27a
18-6-27b
दिव्यमाल्यांबरधरो दिव्यगन्धविभूषितः।
दिव्याङ्गदधरो नित्यं देवलोके महीयते।।
18-6-28a
18-6-28b
तृतीयं पारणं प्राप्य द्वादशाहफलं लभेत्।
वसत्यमरसंकाशो वर्षाण्ययुतशो दिवि।।
18-6-29a
18-6-29b
चतुर्थे वाजपेयस्य पञ्चमे द्विगुणं फलम्।
उदितादित्यसंकाशं ज्वलन्तमनलोपमम्।।
18-6-30a
18-6-30b
विमानं विबुधैः सार्धमारुह्य दिवि गच्छति।
वर्षायुतानि भने शक्रस्य दिवि मोदते।।
18-6-31a
18-6-31b
षष्ठे द्विगुणमस्तीति सप्तमे त्रिगुणं फलम्।
कैलासशिखराकारं वैदूर्यमणिवेदिकम्।।
18-6-32a
18-6-32b
परिक्षिप्तं च बहुधा मणिविद्रुमभूषितम्।
विमानं समधिष्ठाय कामगं साप्सरोगणम्।।
18-6-33a
18-6-33b
सर्वांल्लोकान्विचरते द्वितीय इव भास्करः।
अष्टमे राजसूयस्य पारणे लभते फलम्।।
18-6-34a
18-6-34b
चन्द्रोदयनिभं रम्यं विमानमधिरोहति।
चन्द्ररश्मिप्रतीकाशैर्हयैर्युक्तं मनोजवैः।।
18-6-35a
18-6-35b
सेव्यमानो वरस्त्रीणां चन्द्रात्कान्ततरैर्मुखैः।
मेखलानां निनादेन नूपुराणां च निःस्वनैः।।
18-6-36a
18-6-36b
अङ्के परमनारीणां सुखसुप्तो विबुध्यते।
नवमे क्रतुराजस्य वाजिमेधस्य भारत।।
18-6-37a
18-6-37b
काञ्चनस्तंभनिर्यूहवैदूर्यकृतवेदिकम्।
जांबूनदमयैर्दिव्यैर्गवाक्षैः सर्वतो वृतम्।।
18-6-38a
18-6-38b
सेवितं चाप्सरःसङ्घैर्गन्धर्वैर्दिविचारिभिः।
विमानं समधिष्ठाय श्रिया परमया ज्वलन्।।
18-6-39a
18-6-39b
दिव्यमाल्यांबरधरो दिव्यचन्दनरूषितः।
मोदते दैवतैः सार्धं दिवि देव इवापरः।।
18-6-40a
18-6-40b
दशमं पारणं प्राप्य द्विजातीनभिवन्द्य च।
किङ्किणीजालनिर्घोषं पताकाध्वजशोभितम्।।
18-6-41a
18-6-41b
रत्नवेदिकसम्बाद्यं वैदूर्यमणितोरणम्।
हेमजालपरिक्षिप्तं प्रवालवलभीमुखम्।।
18-6-42a
18-6-42b
गन्धर्वैर्गीतकुशलैरप्सरोभिश्च शोभितम्।
विमानं सुकृतावासं सुखेनैवोपपद्यते।।
18-6-43a
18-6-43b
मुकुटेनाग्निवर्णेन जांबूनदविभूषिणा।
दिव्यचन्दनदिग्धाङ्गो दिव्यमाल्यविभूषितः।।
18-6-44a
18-6-44b
दिव्याँल्लोकान्विचरति दिव्यैर्भोगैः समन्वितः।
विबुधानां प्रसादेन श्रिया परमया युतः।।
18-6-45a
18-6-45b
अथ वर्षगणानेवं स्वर्गलोके महीयते।
ततो गन्धर्वसहितः सहस्राण्येकविंशतिम्।।
18-6-46a
18-6-46b
पुरंदरपुरे रम्ये शक्रेण सह मोदते।
दिव्ययानविमानेषु लोकेषु विविधेषु च।।
18-6-47a
18-6-47b
दिव्यनारीगणाकीर्णो निवसत्यमरो यथा।
ततः सूर्यस्य भवने चन्द्रस्य भवने तथा।।
18-6-48a
18-6-48b
शिवस्य भवने राजन्विष्णोर्याति सलोकताम्।
एवमेतन्महाराज नात्र कार्या विचारणा।
18-6-49a
18-6-49b
श्रद्दधानेन वै भाव्यमेवमाह गुरुर्मम।
वाचकस्य तु दातव्यं मनसा यद्यदिच्छति।।
18-6-50a
18-6-50b
हस्त्यश्वरथयानानि वाहनानि विशेषतः।
कटके कुण्डले चैव ब्रह्मसूत्रं तथा परम्।।
18-6-51a
18-6-51b
वस्त्रं चैव विचित्रं च गन्धं चैव विशेषतः।
देववत्पूजयेत्तं तु विष्णुलोकमवाप्नुयात्।।
18-6-52a
18-6-52b
अतः परं प्रवक्ष्यामि यानि देयानि भारते।
वाच्यमाने तु विप्रेभ्यो राजन्पर्वणिपर्वणि।।
18-6-53a
18-6-53b
जातिं देशं च सत्यं च माहात्म्यं भरतर्षभ।
धर्मं वृत्तिं च विज्ञाय क्षत्रियाणां नराधिप।।
18-6-54a
18-6-54b
स्वस्ति वाच्य द्विजानादौ ततः कार्ये प्रवर्तिते।
समाप्ते पर्वणि ततः स्वशक्त्या पूजयेद्द्विजान्।।
18-6-55a
18-6-55b
आदौ तु वाचकं चैव वस्त्रगन्धसमन्वितम्।
विधिवद्बोजयेद्राजन्मधुपायसमुत्तमम्।।
18-6-56a
18-6-56b
ततो मूलफलप्रायं पायसं मधुसर्पिषा।
आस्तीके भोजयेद्राजन्दद्याच्चैव गुडौदनम्।।
18-6-57a
18-6-57b
अपूपैश्चैव पूपैश्च मोदकैश्च समन्वितम्।
सभापर्वणि राजेन्द्र हविष्यं भोजयेद्द्विजान्।।
18-6-58a
18-6-58b
आरण्यके मूलफलैस्तर्पयेत्तु द्विजोत्तमान्।
अरणीपर्व चासाद्य जलकुम्भान्प्रदापयेत्।।
18-6-59a
18-6-59b
तर्पणानि च मुख्यानि वन्यमूलफलानि च।
सर्वकामगुणोपेतं विप्रेभ्योऽन्नं प्रदापयेत्।।
18-6-60a
18-6-60b
विराटपर्वणि तथा वासांसि विविधानि च।
उद्योगे भरतश्रेष्ठ सर्वकामगुणान्वितम्।।
18-6-61a
18-6-61b
भोजनं भोजयेद्विप्रान्गन्धमाल्यैरलङ्कृतान्।
भीष्मपर्वणि राजेन्द्र दत्त्वा यानमनुत्तमम्।।
18-6-62a
18-6-62b
ततः सर्वगुणोपेतमन्नं दद्यात्सुसंस्कृतम्।
द्रोणपर्वणि विप्रेभ्यो भोजनं परमार्चितम्।।
18-6-63a
18-6-63b
शराश्च देया राजेन्द्र चापान्यसिवरास्तथा।
कर्णपर्वण्यपि तथा भोजनं सार्वकामिकम्।।
18-6-64a
18-6-64b
विप्रेभ्यः संस्कृतं सम्यग्दद्यात्संयतमानसः।
शल्यपर्वणि राजेन्द्र मोदकैः सगुडौदनैः।।
18-6-65a
18-6-65b
अपूपैस्तर्पणैश्चैव सर्वमन्नं प्रदापयेत्।
गदापर्वण्यपि तथा मुद्गमिश्रं प्रदापयेत्।।
18-6-66a
18-6-66b
स्त्रीपर्वणि तथा रत्नैस्तर्पयेत्तु द्विजोत्तमान्।
घृतौदनं पुरस्ताच्च ऐषीके दापयेत्पुनः।।
18-6-67a
18-6-67b
ततः सर्वगुणोपेतमन्नं दद्यात्सुसंस्कृतम्।
शान्तिपर्वण्यपि तथा हविष्यं भोजयेद्द्विजान्।।
18-6-68a
18-6-68b
आश्वमेधिकमासाद्य भोजनं सार्वकामिकम्।
तथाऽऽश्रमनिवासे तु हविष्यं भोजयेद्द्विजान्।।
18-6-69a
18-6-69b
मौसले सार्वगुणिकं गन्धमाल्यानुलेपनम्।
महाप्रास्थानिके तद्वत्सर्वकामगुणान्वितम्।।
18-6-70a
18-6-70b
स्वर्गपर्वण्यपि तथा हविष्यं भोजयेद्द्विजान्।
हरिवंशसमाप्तौ तु सहस्रं भोजयेद्द्विजान्।।
18-6-71a
18-6-71b
गामेकां निष्कसंयुक्तां ब्राह्मणाय निवेदयेत्।
तदर्धेनापि दातव्या दरिद्रेणापि पार्थिव।।
18-6-72a
18-6-72b
प्रतिपर्वसमाप्तौ तु पुस्तकं वै विचक्षणः।
सुवर्णेन च संयुक्तं वाचकाय निवेदयेत्।।
18-6-73a
18-6-73b
हरिवंशे पर्वणि च पायसं तत्र भोजयेत्।
पारणेपारणे राजन्यथावद्भरतर्षभ।।
18-6-74a
18-6-74b
समाप्य सर्वाः प्रयतः संहिताः शास्त्रकोविदः।
शुभे देशे निवेश्याथ क्षौमवस्त्राभिसंवृताः।।
18-6-75a
18-6-75b
शुक्लांबरधरः स्रग्वी सुचिर्भूत्वा स्वलङ्कृतः।
अर्चयेत् यथान्यायं गन्धमाल्यैः पृथक्पृथक्।
18-6-76a
18-6-76b
संहितापुस्तकान्राजन्प्रयतः सुसमाहितः।
भक्ष्यैर्माल्यैस्च पेयैश्च कामैश्च विविधैः शुभैः।।
18-6-77a
18-6-77b
हिरण्यं च सुवर्णं च दक्षिणामथ दापयेत्।
सर्वत्र त्रिपलं स्वर्णं दातव्यं प्रयतात्मना।।
18-6-78a
18-6-78b
तदर्धं पादशेषं वा वित्तशाठ्यविवर्जितम्।
यद्यदेवात्मनोऽभीष्टं तत्तद्देयं द्विजातये।।
18-6-79a
18-6-79b
सर्वथा तोषयेद्भक्त्या वाचकं गुरुमात्मनः।
देवताः कीर्तयेत्सर्वा नरनारायणौ तथा।।
18-6-80a
18-6-80b
ततो गन्धैश्च माल्यैश्च स्वलङ्कृत्य द्विजोत्तमान्।
तर्पयेद्विविधैः कानैर्दानैश्चोच्चावचैस्तथा।।
18-6-81a
18-6-81b
अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः।
प्राप्नुयाच्च क्रतुफलं तथा पर्वणिपर्वणि।।
18-6-82a
18-6-82b
वाचको भरतश्रेष्ठ व्यक्ताक्षरपदस्वरः।
भविष्यं श्रावयेद्विद्वाञ्भारतं भरतर्षभ।।
18-6-83a
18-6-83b
भुक्तवत्सु द्विजेन्द्रेषु यथावत्सम्प्रदापयेत्।
वाचकं भरतश्रेष्ठ भोजयित्वा स्वलंकृतम्।।
18-6-84a
18-6-84b
वाचके परितुष्टे तु शुभा प्रीतिरनुत्तमा।
ब्राह्मणेषु तु तुष्टेषु प्रसन्नाः सर्वदेवताः।।
18-6-85a
18-6-85b
ततो हि वरणं कार्यं द्विजानां भरतर्षभ।
सर्वकामैर्यथान्यायं साधुभिश्च पृथग्विधैः।।
18-6-86a
18-6-86b
इत्येषि विधिरुद्दिष्टो मया ते द्विपदांवर।
श्रद्दधानेन वै भाव्यं यन्मां त्वं परिपृच्छसि।।
18-6-87a
18-6-87b
भारश्रवणे राजन्पारणे च नृपोत्तम।
सदा यत्नवता भाव्यं श्रेयस्तु परमिच्छता।।
18-6-88a
18-6-88b
भारतं शृणुयान्नित्यं भारतं परिकीर्तयेत्।
भारतं भवने यस्य तस्य हस्तगतो जयः।।
18-6-89a
18-6-89b
भारतं परमं पुण्यं भारते विविधाः कथाः।
भारतं सेव्यते देवैर्भारतं परमं पदम्।।
18-6-90a
18-6-90b
भारतं सर्वशास्त्राणामुत्तमं भरतर्षभ।
भारतात्प्राप्यते मोक्षस्तत्त्वमेतद्ब्रवीमि तत्।।
18-6-91a
18-6-91b
महाभारतमाख्यानं क्षितिं गां च सरस्वतीम्।
ब्राह्मणान्केशवं चैव कीर्तयन्नावसीदति।।
18-6-92a
18-6-92b
वेदे रामायणे पुण्ये भारते भरतर्षभ।
आदौ चान्ते च मध्ये च हरिः सर्वत्र गीयते।।
18-6-93a
18-6-93b
यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः।
तच्छ्रोतव्यं मनुष्येण परं पदमिहेच्छता।।
18-6-94a
18-6-94b
एतत्पवित्रं परममेतद्धर्मनिदर्शनम्।
एतत्सर्वगुणोपेतं श्रोतव्यं भूतिमिच्छता।।
18-6-95a
18-6-95b
कायिकं वाचिकं चैव मनसा समुपार्जितम्।
तत्सर्वं नाशमायाति तमः सूर्योदये यथा।।
18-6-96a
18-6-96b
अष्टादशपुराणानां श्रवणाद्यत्फलं भवेत्।
तत्फलं समवाप्नोति वैष्णवो नात्र संशयः।।
18-6-97a
18-6-97b
स्त्रियश्च पुरुषाश्चैव वैष्णवं पदमाप्नुयुः।
स्त्रीभिश्च पुत्रकामाभिः श्रोतव्यं वैष्णवं यशः।।
18-6-98a
18-6-98b
दक्षिणा चात्र देया वै निष्कपञ्चसुवर्णकम्।
वाचकाय यथाशक्त्या यथोक्तं फलमिच्छता।।
18-6-99a
18-6-99b
स्वर्णशृङ्गीं च कपिलां सवत्सां वस्त्रसंवृताम्।
वाचकाय च दद्याद्धि आत्मनः श्रेय इच्छता।।
18-6-100a
18-6-100b
अलङ्कारं प्रदद्याच्च पाण्योर्वै भरतर्षभ।
कर्णस्याभरणं दद्याद्धनं चैव विशेषतः।।
18-6-101a
18-6-101b
भूमिदानं समादद्याद्वाचकाय नराधिप।
भूमिदानसमं दानं न भूतं भविष्यति।।
18-6-102a
18-6-102b
शृणोति श्रावयेद्वाऽपि सततं चैव यो नरः।
सर्वपापविनिर्मुक्तो वैष्णवं पदमाप्नुयात्।।
18-6-103a
18-6-103b
पितॄनुद्धरते सर्वानेकादशसमुद्धवान्।
आत्मानं ससुतं चैव स्त्रियं च भरतर्षभ।।
18-6-104a
18-6-104b
दशांशश्चैव होमोपि कर्तव्योत्र नराधिप।
इदं मया तवाग्ने च प्रोक्तं सर्वं नरर्षभ।।
18-6-105a
18-6-105b
।। इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां
वैयासिक्यां हरिवंशोक्तभारतश्रवणविधावध्यायः।।
स्वर्गारोहणपर्व सम्पूर्णम्।। 18 ।।
श्रीमन्महाभारतं सम्पूर्णम्।।

सम्पाद्यताम्

18-6-1x यद्यप्ययध्यायो दाक्षिणात्यकोशेषु क्वापि न दृश्यते तथापि "भगवन्नित्यादिः पलाध्यायो व्यासेन हरिवंशान्ते उक्तः अत्र श्रोतृप्ररोचनार्थमुक्त" इति नीलकण्ठीयव्याख्यानोक्तप्रयोजनायैवास्माभिरपीह स्थापितः।।

स्वर्गारोहणपर्व-005 पुटाग्रे अल्लिखितम्।