यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविरचितम्)/अध्यायः २९/मन्त्रः ५

← मन्त्रः ४ यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविरचितम्)
अध्यायः २९
दयानन्दसरस्वती
मन्त्रः ६ →
सम्पादकः — डॉ॰ ज्ञानप्रकाश शास्त्री, जालस्थलीय-संस्करण-सम्पादकः — डॉ॰ नरेश कुमार धीमान्
यजुर्वेदभाष्यम्/अध्यायः २९


एता इत्यस्य बृहदुक्थो वामदेव्य ऋषिः। अग्निर्देवता। त्रिष्टुप् छन्दः। धैवतः स्वरः॥

कीदृग्द्वारवन्ति गृहाणि स्युरित्याह॥

कैसे द्वारों वाले घर हों, इस विषय को अगले मन्त्र में कहा है॥

ए॒ताऽउ॑ वः सु॒भगा॑ वि॒श्वरू॑पा॒ वि पक्षो॑भिः॒ श्रय॑माणा॒ऽउदातैः॑।

ऋ॒ष्वाः स॒तीः क॒वषः॒ शुम्भ॑माना॒ द्वारो॑ दे॒वीः सुप्राय॒णा भ॑वन्तु॥५॥

पदपाठः—ए॒ताः। उँ॒ऽइत्यूँ॑। वः॒। सु॒भगा॒ इति॑ सु॒ऽभगाः॑। वि॒श्वरू॑पा॒ इति॑ वि॒श्वऽरू॑पाः। वि। पक्षो॑भि॒रिति॒ पक्षः॑ऽभिः। श्रय॑माणाः। उत्। आतैः॑। ऋ॒ष्वाः। स॒तीः। क॒वषाः॑। शुम्भ॑मानाः। द्वारः॑। दे॒वीः। सु॒प्रा॒य॒णाः। सु॒प्रा॒य॒ना इति॑ सुऽप्राय॒नाः। भ॒व॒न्तु॒॥५॥

पदार्थः—(एताः) दीप्तयः (उ) वितर्के (वः) युष्मभ्यम् (सुभगाः) सुष्ठ्वैश्वर्यप्रदाः (विश्वरूपाः) विविधरूपगुणाः (वि) (पक्षोभिः) पक्षैः (श्रयमाणाः) सेवमानाः (उत्) उत्कृष्टतया (आतैः) सततं गमकैः (ऋष्वाः) महत्यः। ऋष्व इति महान्नामसु पठितम्॥ (निघ॰३।३) (सती) विद्यमानाः (कवषाः) शब्दं कुर्वाणाः (शुम्भमानाः) सुशोभिताः (द्वारः) (देवीः) देदीप्यमानाः (सुप्रायणाः) सुखेन गमनाधिकरणाः (भवन्तु)॥५॥

अन्वयः—हे मनुष्याः! यथा व एताः सुभगा विश्वरूपा ऋष्वाः कवषाः शुम्भमानाः सतीर्देवीर्द्वार उदातैः पक्षोभिः श्रयमाणाः पक्षिपङ्क्तय इव सुप्रायणा विभवन्तु तादृशीरु भवन्तो रचयन्तु॥५॥

भावार्थः—अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैरीदृशानि गृहद्वाराणि निर्मातव्यानि येभ्यो वायुनिरोधो न स्याद् यथाऽन्तरिक्षेऽनिरुद्धाः पक्षिणः सुखेन गच्छन्त्यागच्छन्ति तथा तेषु गन्तव्यमागन्तव्यं च॥५॥

पदार्थः—हे मनुष्यो! जैसे (वः) तुम्हारी (एताः) ये दीप्ति (सुभगाः) सुन्दर ऐश्वर्यदायक (विश्वरूपाः) विविध प्रकार के रूपों वाले (ऋष्वाः) बड़े ऊंचे चौड़े (कवषाः) जिन में बोलने से शब्द की प्रतिध्वनि हो (शुम्भमानाः) सुन्दर शोभायुक्त (सती) हुए (देवीः) रङ्गों से चिलचिलाते हुए (उत्, आतैः) उत्तम रीति से निरन्तर जाने के हेतु (पक्षोभिः) बायें दाहिने भागों से (श्रयमाणाः) सेवित पक्षियों की पङ्क्तियों के तुल्य (सुप्रायणाः) सुख से जाने के आधार (द्वारः) द्वार (वि, भवन्तु) सर्वत्र घरों में हों, वैसे (उ) ही आप लोग भी बनावें॥५॥

भावार्थः—इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिए कि ऐसे द्वारों वाले घर बनावें कि जिनसे वायु न रुके। जैसे आकाश में बिना रुकावट के पक्षी सुखपूर्वक उड़ते हैं, वैसे उन द्वारों में जावें-आवें॥५॥