यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविरचितम्)/अध्यायः ३/मन्त्रः १८

← मन्त्रः १७ यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविरचितम्)
अध्यायः ३
दयानन्दसरस्वती
मन्त्रः १९ →
सम्पादकः — डॉ॰ ज्ञानप्रकाश शास्त्री, जालस्थलीय-संस्करण-सम्पादकः — डॉ॰ नरेश कुमार धीमान्
यजुर्वेदभाष्यम्/अध्यायः ३


इन्धानास्त्वेत्यस्याऽवत्सार ऋषिः। अग्निर्देवता। निचृद्ब्राह्मी पङ्क्तिश्छन्दः। पञ्चमः स्वरः॥

पुनस्तावेवोपदिश्येते॥

फिर भी अगले मन्त्र में परमेश्वर और भौतिक अग्नि का प्रकाश किया है॥

इन्धाना॑स्त्वा श॒तꣳ हिमा॑ द्यु॒मन्त॒ꣳ समि॑धीमहि। वय॑स्वन्तो वय॒स्कृत॒ꣳ सह॑स्वन्तः सह॒स्कृत॑म्। अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ऽअदा॑भ्यम्। चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शीय॥१८॥

पदपाठः—इन्धा॑नाः। त्वा॒। श॒तम्। हिमाः॑। द्यु॒मन्त॒मिति॑ द्यु॒ऽमन्त॑म्। सम्। इ॒धी॒म॒हि॒। वय॑स्वन्तः। व॒य॒स्कृत॑म्। व॒य॒स्कृत॒मिति॑ वयः॒ऽकृत॑म्। सह॑स्वन्तः। स॒ह॒स्कृत॑म्। स॒ह॒स्कृत॒मिति॑ सहः॒ऽकृत॑म्। अग्ने॑। स॒प॒त्न॒दम्भ॑न॒मिति॑ सपत्न॒ऽदम्भ॑नम्। अद॑ब्धासः। अदा॑भ्यम्। चित्रा॑वसो। चि॑त्रवसो॒ऽइति॒ चित्र॑ऽवसो। स्व॒स्ति। ते। पा॒रम्। अ॒शी॒य॒॥१८॥

पदार्थः—(इन्धानाः) प्रकाशयन्तः (त्वा) त्वामनन्तगुणं जगदीश्वरं प्रकाशादिगुणवन्तं भौतिकं वा (शतम्) शतसंख्याकान् संवत्सरानधिकं वा (हिमाः) हेमन्तर्तुयुक्तानि वर्षाणि। शतं हिमाः शतं वर्षाणि जीव्यास्म शत॰ २.३.४.२१। (द्युमन्तम्) द्यौरनन्तः प्रकाशो विद्यते यस्मिन् परमेश्वरे वा प्रशस्तः प्रकाशो विद्यते यस्मिन् भौतिके तम्, अत्र भूम्न्यर्थे प्रशंसार्थे च मतुप्। (सम्) सम्यगर्थे (इधीमहि) जीवेम वा (वयस्वन्तः) प्रशस्तं पूर्णमायुर्विद्यते येषां ते, अत्र प्रशंसार्थे मतुप्। (वयस्कृतम्) यो वयः करोति तम् (सहस्वन्तः) सहनं सहो विद्यते येषां ते, अत्र भूम्न्यर्थे मतुप्। (सहस्कृतम्) यः सहः सहनं करोति कारयति वा तम् (अग्ने) विज्ञात ईश्वर, कार्यप्रापकोऽग्निर्वा। (सपत्नदम्भनम्) यः सपत्नान् दम्भयतीति तम् (अदब्धासः) दम्भाहंकाररहिताः, अनुपहिंसिताः। हिनस्ति दभ्नोतीति वधकर्मसु पठितम्। (निघं॰ २.१९) अत्र आज्जसेरसुग् [अष्टा॰ ७.१.५०] इत्यसुगागमः। (अदाभ्यम्) अहिंसनीयम् (चित्रावसो) चित्रमद्भुतं वसु धनं विद्यते यस्मिंस्तत्संबुद्धावीश्वर, चित्राणि वसूनि धनानि यस्माद्वा स भौतिकः, अत्र अन्येषामपि॰  [अष्टा॰ ६.३.१३७] इति दीर्घः। (स्वस्ति) प्राप्तव्यं सुखम्। स्वस्तीति पदनामसु पठितम्। (निघं॰ ५.५) अनेन प्राप्तव्यं सुखं गृह्यते (ते) तव तस्य वा (पारम्) सर्वदुःखेभ्यः पृथग्भूतम् (अशीय) प्राप्नुयाम्॥१८॥

अन्वयः—हे चित्रावसो अग्ने जगदीश्वरादब्धासो वयस्वन्तः सहस्वन्तोऽदाभ्यं सपत्नदम्भनं वयस्कृतं सहस्कृतं द्युमन्तं त्वामिन्धानाः सन्तो वयं शतं हिमाः समिधीमहि प्रकाशयेम जीवेमैवं कुर्वन्नहमपि यत्ते तव कृपया सर्वदुःखेभ्यः पारं गत्वा स्वस्ति सुखमशीय प्राप्नुयामित्येकः॥१८॥

अदब्धासो वयस्वन्तः सहस्वन्तस्त्वा तमदाभ्यं सपत्नदम्भनं वयस्कृतं सहस्कृतमग्ने अग्निं नित्यमिन्धानाः प्रदीपयन्तो वयं शतं हिमाः शतं वर्षाणि जीवेमैवं कुर्वन्नहमपि योयं चित्रावसो चित्रावसुरग्निस्ते तस्य सकाशाद् दारिद्र्यादिदुःखेभ्यः पारं गत्वा स्वस्ति सुखमशीय प्राप्नुयामिति द्वितीयः॥१८॥

भावार्थः—अत्र श्लेषालङ्कारः। मनुष्यैः पुरुषार्थेनेश्वरोपासनयाऽग्न्यादि-पदार्थेभ्य उपकारकरणेन च सर्वदुःखान्तं गत्वा परं सुखं प्राप्य शतवर्षपर्यन्तं जीवितव्यम्, न च केनाप्येकक्षणमप्यालस्ये स्थातव्यम्। किंतु यथा पुरुषार्थो वर्द्धेत तथैवानुष्ठातव्यमिति॥१८॥

पदार्थः—हे (चित्रावसो) आश्चर्यरूप धन वाले (अग्ने) परमेश्वर! (अदब्धासः) दम्भ, अहङ्कार और हिंसादि दोषरहित (वयस्वन्तः) प्रशंसनीय पूर्ण अवस्थायुक्त (सहस्वन्तः) अत्यन्त सहन स्वभावसहित (अदाभ्यम्) मानने योग्य (सपत्नदम्भनम्) शत्रुओं के नाश करने (वयस्कृतम्) अवस्था की पूर्ति करने (सहस्कृतम्) सहन करने-कराने तथा (द्युमन्तम्) अनन्त प्रकाश वाले (त्वा) आपका (इन्धानाः) उपदेश और श्रवण करते हुए हम लोग (शतम्) सौ वर्ष तक वा सौ से अधिक (हिमाः) हेमन्त ऋतुयुक्त (समिधीमहि) अच्छे प्रकार प्रकाश करें वा जीवें। इस प्रकार करता हुआ मैं भी जो (ते) आपकी कृपा से सब दुःखों से (पारम्) पार होकर (स्वस्ति) सुख को (अशीय) प्राप्त होऊँ॥१॥१८॥

(अदब्धासः) दम्भ, अहङ्कार, हिंसादि दोषरहित (वयस्वन्तः) पूर्ण अवस्थायुक्त (सहस्वन्तः) अत्यन्त सहन करने वाले (त्वा) उस (अदाभ्यम्) उपयोग करने योग्य (सपत्नदम्भनम्) आग्नेयादि शस्त्र-अस्त्रविद्या में हेतु होने से शत्रुओं को जिताने (वयस्कृतम्) अवस्था को बढ़ाने (सहस्कृतम्) सहन का हेतु (द्युमन्तम्) अच्छे प्रकार प्रकाशयुक्त (अग्ने) कार्यों को प्राप्त कराने वाले भौतिक अग्नि को (इन्धानाः) प्रज्वलित करते हुए हम लोग (शतम्) सौ वर्ष पर्यन्त (हिमाः) हेमन्त ऋतुयुक्त (समिधीमहि) जीवें। इस प्रकार करता हुआ मैं भी जो यह (चित्रावसो) आश्चर्यरूप धन के प्राप्ति का हेतु अग्नि है (ते) उसके प्रकाश से दारिद्र्य आदि दुःखों से (पारम्) पार होकर (स्वस्ति) अत्यन्त सुख को (अशीय) प्राप्त होऊँ॥२॥१८॥

भावार्थः—इस मन्त्र में श्लेषालङ्कार है। मनुष्यों को अपने पुरुषार्थ, ईश्वर की उपासना तथा अग्नि आदि पदार्थों से उपकार लेके दुःखों से पृथक् होकर उत्तम-उत्तम सुखों को प्राप्त होकर सौ वर्ष जीना चाहिये अर्थात् क्षण भर भी आलस्य में नहीं रहना, किन्तु जैसे पुरुषार्थ की वृद्धि हो वैसा अनुष्ठान निरन्तर करना चाहिये॥१८॥