यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविरचितम्)/अध्यायः ३/मन्त्रः २६

← मन्त्रः २५ यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविरचितम्)
अध्यायः ३
दयानन्दसरस्वती
मन्त्रः २७ →
सम्पादकः — डॉ॰ ज्ञानप्रकाश शास्त्री, जालस्थलीय-संस्करण-सम्पादकः — डॉ॰ नरेश कुमार धीमान्
यजुर्वेदभाष्यम्/अध्यायः ३


तन्त्वेत्यस्य सुबन्धुर्ऋषिः। अग्निर्देवता। स्वराड्बृहती छन्दः। मध्यमः स्वरः॥

पुनः स कीदृश इत्युपदिश्यते॥

फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥

तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः।

स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ऽअघाय॒तः स॑मस्मात्॥२६॥

पदपाठः—तम्। त्वा॒। शो॒चि॒ष्ठ। दी॒दि॒व॒ इति॑ दीदिऽवः। सु॒म्नाय॑। नू॒नम्। ई॒म॒हे॒। सखि॑भ्य॒ इति॒ सखि॑ऽभ्यः। सः। नः॒। बो॒धि॒। श्रु॒धि। हव॑म्। उ॒रु॒ष्य। नः॒। अ॒घा॒य॒त इत्य॑घऽयतः। स॒म॒स्मा॒त्॥२६॥

पदार्थः—(तम्) जगदीश्वरम् (त्वा) त्वाम् (शोचिष्ठ) पवित्रतम (दीदिवः) प्रकाशमयानन्दप्रद। अत्र दिवुधातोश्छन्दसि लिट् [अष्टा॰ ३.२.१०५] इति लिट्। क्वसुश्च [अष्टा॰ ३.२.१०७] इति लिटः स्थाने क्वसुः। छन्दस्युभयथा [अष्टा॰ ३.४.११७] इति लिडादेशस्य क्वसोः सार्वधातुकत्वादिडभावः। तुजादीनां दीर्घोऽभ्यासस्य [अष्टा॰ ६.१.७] इत्यभ्यासदीर्घः। मतुवसो रुः सम्बुद्धौ छन्दसि [अष्टा॰ ८.३.१] इति रुरादेशश्च। (सुम्नाय) सुखाय। सुम्नमिति सुखनामसु पठितम्। (निघं॰ ३.९) (नूनम्) निश्चयार्थे (ईमहे) याचामहे। ईमह इति याच्ञाकर्मसु। (निघं॰ ३.१९) (सखिभ्यः) मित्रेभ्यः (सः) जगदीश्वरः (नः) अस्मानस्माकं वा (बोधि) बोधयति। अत्र लडर्थे लुङ् बहुलं छन्दसि [अष्टा॰ ६.४.७३] इत्य[भावोऽन्तर्गतो ण्यर्थश्च। (श्रुधि) शृणु। अत्र द्व्यचोऽतस्तिङः [अष्टा॰ ६.३.१३५] इति दीर्घः। बहुलं छन्दसि [अष्टा॰ २.४.७३] इति श्नोर्लुक्। श्रुशृणु॰  [अष्टा॰ ६.४.१०२] इति हेर्ध्यादेशश्च। (हवम्) श्रोतुं श्रावयितुमर्हं स्तुतिसमूहं यज्ञम् (उरुष्य) रक्ष। अत्र कण्ड्वादि [अष्टा॰ ३.१.२७] आकृतिगणत्वादुरुषशब्दाद् यक्, ततोऽन्येषामपि॰  [अष्टा॰ ६.३.१३७] इति दीर्घः। (नः) अस्मान्। अत्र। नश्च धातुस्थोरुषुभ्यः। (अष्टा॰ ८.४.२६) इति णकारादेशः। (अघायतः) यः परस्याघमिच्छत्यघायति ततः। आचार्यप्रवृत्तिर्ज्ञापयति भवत्यघशब्दाच्छन्दसि परेच्छायां क्यजिति, यदयमश्वाघस्यादिति क्यचि प्रकृत ईत्वबाधनार्थमाकारं शास्ति (अष्टा॰ ३.१.८) अस्मिन् सूत्रे भाष्यकारस्य व्याख्यानाशयेनेदं सिद्ध्यतीति बोध्यम्। (समस्मात्) सर्वस्मात्। समशब्दोऽत्र सर्वपर्यायः। अयं मन्त्रः (शत॰ २.३.४.३१-३३) व्याख्यातः॥२६॥

अन्वयः—हे शोचिष्ठ दीदिवो जगदीश्वर! वयं नोऽस्माकं सखिभ्यश्च नूनं सुम्नाय तं त्वामीमहे, यो भवान् नोऽस्मान् बोधि सम्यग्विज्ञानं बोधयति, सः त्वं नोऽस्माकं हवं श्रुधि कृपया शृणु, नोऽस्मान् समस्मात् सर्वस्मादघायतः परपीडाकरणरूपात् पापादुरुष्य सततं पृथक् रक्ष॥२६॥

भावार्थः—सर्वैर्मनुष्यैः स्वार्थं स्वमित्रार्थं सर्वप्राण्यर्थं च सुखप्राप्तये परमेश्वरः प्रार्थनीयस्तथैवाचरणं च कार्यम्। प्रार्थितः सन् जगदीश्वरोऽधर्मान्निवृत्तिमिच्छुकान् मनुष्यान् स्वसत्तया सर्र्वेभ्यः पापेभ्यो निवर्त्तयति, तथैव स्वविचारपरमपुरुषार्थाभ्यां सर्वेभ्यः पापेभ्यो निवर्त्य धर्माचरणे सर्वैर्मनुष्यैर्नित्यं प्रवर्तितव्यमिति बोध्यम्॥२६॥

पदार्थः—हे (शोचिष्ठ) अत्यन्त शुद्धस्वरूप (दीदिवः) स्वयं प्रकाशमान आनन्द के देने वाले जगदीश्वर! हम लोग वा (नः) अपने (सखिभ्यः) मित्रों के (सुम्नाय) सुख के लिये (तं त्वा) आप से (ईमहे) याचना करते हैं तथा जो आप (नः) हम को (बोधि) अच्छे प्रकार विज्ञान को देते हैं (सः) सो आप (नः) हमारे (हवम्) सुनने-सुनाने योग्य स्तुतिसमूह यज्ञ को (श्रुधि) कृपा करके श्रवण कीजिये और (नः) हम को (समस्मात्) सब प्रकार (अघायतः) पापाचरणों से अर्थात् दूसरे को पीड़ा करने रूप पापों से (उरुष्य) अलग रखिये॥२६॥

भावार्थः—सब मनुष्यों को अपने मित्र और सब प्राणियों के सुख के लिये परमेश्वर की प्रार्थना करना और वैसा ही आचरण भी करना कि जिससे प्रार्थित किया हुआ परमेश्वर अधर्म से अलग होने की इच्छा करने वाले मनुष्यों को अपनी सत्ता से पापों से पृथक् कर देता है, वैसे ही उन मनुष्यों को भी पापों से बचकर धर्म के करने में निरन्तर प्रवृत्त होना चाहिये॥२६॥