यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविरचितम्)/अध्यायः ४/मन्त्रः १२

← मन्त्रः ११ यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविरचितम्)
अध्यायः ४
दयानन्दसरस्वती
मन्त्रः १३ →
सम्पादकः — डॉ॰ ज्ञानप्रकाश शास्त्री, जालस्थलीय-संस्करण-सम्पादकः — डॉ॰ नरेश कुमार धीमान्
यजुर्वेदभाष्यम्/अध्यायः ४


श्वात्रा इत्यस्याङ्गिरस ऋषयः। आपो देवताः। ब्राह्म्यनुष्टुप् छन्दः। गान्धारः स्वरः॥

एतदनुष्ठायाग्रे मनुष्यैः किं किं कर्त्तव्यमित्युपदिश्यते॥

इसका अनुष्ठान करके आगे मनुष्यों को क्या-क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है॥

श्वा॒त्राः पी॒ता भ॑वत यू॒यमा॑पोऽअ॒स्माक॑म॒न्तरु॒दरे॑ सु॒शेवाः॑।

ताऽअ॒स्मभ्य॑मय॒क्ष्माऽअ॑नमी॒वाऽअना॑गसः॒ स्व॑दन्तु दे॒वीर॒मृता॑ऽऋता॒वृधः॑॥१२॥

पदपाठः—श्वा॒त्राः पी॒ताः। भ॒व॒त॒। यू॒यम्। आ॒पः॒। अ॒स्माक॑म्। अ॒न्तः। उ॒दरे। सु॒शेवा॒ इति॑ सु॒ऽशे॑वाः। ताः। अ॒स्मभ्य॑म्। अ॒य॒क्ष्माः। अ॒न॒मी॒वाः। अना॑गसः। स्वद॑न्तु। दे॒वीः। अ॒मृताः॑। ऋ॒ता॒वृधः॑। ऋ॒त॒वृध॒ इत्यृ॑त॒ऽवृधः॑॥१२॥

पदार्थः—(श्वात्राः) श्वात्रं प्रशस्तं विज्ञानं धनं वा विद्यते यासां ताः। अत्र अर्श आदिभ्योऽच्। (अष्टा॰५.२.१२७) इति प्रशंसार्थेऽच्। श्वात्रमिति पदनामसु पठितम्। (निघं॰४.२) धननामसु च। (निघं॰२.१०) (पीताः) कृतपानाः (भवत) नित्यं सम्पद्येरन् (यूयम्) एताः (आपः) प्राणा जलादयो वा (अस्माकम्) मनुष्याणाम् (अन्तः) मध्ये (उदरे) शरीराभ्यन्तरे (सुशेवाः) सुष्ठु शेवं सुख याभ्यस्ताः। शेवमिति सुखनामसु पठितम्। (निघं॰३.६) (अस्मभ्यम्) मनुष्यादिभ्यः (अयक्ष्माः) अविद्यमानो यक्ष्मा क्षयरोगे याभ्यस्ताः (अनमीवाः) अविद्यमानोऽमीवा ज्वरादिरोगसमूहो याभ्यस्ताः (अनागसः) न विद्यतेऽगः पापं दोषो यासु ता निर्दोषाः (स्वदन्तु) सुष्ठु सेवन्ताम् (देवीः) दिव्यगुणसम्पन्नाः। अत्र वा छन्दसि। [अष्टा॰६.१.१०६] इति जसः पूर्वसवर्णत्वम् (अमृताः) नाशरहिता अमृतरसाः (ऋतावृधः) या ऋतं सत्यं वर्धयन्ति ताः। अयं मन्त्रः (शत॰३.२.२.१९) व्याख्यातः॥१२॥

अन्वयः—हे मनुष्या! या अस्माभिः पीताः अस्माकमन्तरुदरे स्थिता अस्मभ्यं श्वात्राः सुशेवा अयक्ष्मा अनमीवा अनागस ऋतावृधोऽमृता देवीर्देव्य आपो भवन्ति, ता भवन्तः स्वदन्तु सुसेवन्ताम्। तदेतदनुष्ठाय यूयं सुखिनो भवत॥१२॥

भावार्थः—मनुष्यैर्विद्वत्सङ्गेन सुशिक्षया विद्यां प्राप्य सर्वथा सुपरीक्षिताः शोधिताः संस्कृताः शरीरात्मबलवर्धका रोगविच्छेदका जलादयः पदार्थाः सेवनीयाः। नहि विद्याऽऽरोग्याभ्यां विना कश्चिदपि निरन्तरं कर्म कर्तुं शक्नोति, तस्मादेतत् सर्वदाऽनुष्ठेयम्॥१२॥

पदार्थः—हे मनुष्यो! जो हम ने (पीताः) पिये (अस्माकम्) मनुष्यों के (अन्तः) मध्य वा (उदरे) शरीर के भीतर स्थित हुए (अस्मभ्यम्) मनुष्यादिकों के लिये (सुशेवाः) उत्तम सुखयुक्त (अनमीवाः) ज्वरादि रोग-समूह से रहित (अयक्ष्माः) क्षय आदि रोगकारक दोषों से रहित (अनागसः) पाप दोष निमित्तों से पृथक् (ऋतावृधः) सत्य को बढ़ाने वा (अमृताः) नाशरहित अमृतरसयुक्त (देवीः) दिव्यगुणसम्पन्न (आपः) प्राण वा जल हैं, (ताः) उनको आप लोग (स्वदन्तु) अच्छे प्रकार सेवन किया करो। इसका अनुष्ठान करके (यूयम्) तुम सब मनुष्य सुखों को भोगने वाले (भवत) नित्य होओ॥१२॥

भावार्थः—मनुष्यों को विद्वानों के सङ्ग वा उत्तम शिक्षा से विद्या को प्राप्त होकर अच्छे प्रकार परीक्षित शुद्ध किये हुए, शरीर और आत्मा के बल को बढ़ाने और रोगों को दूर करने वाले जल आदि पदार्थों का सेवन करना चाहिये, क्योंकि विद्या वा आरोग्यता के विना कोई भी मनुष्य निरन्तर कर्म करने को समर्थ नहीं हो सकता। इससे इस कार्य्य का सर्वदा अनुष्ठान करना चाहिये॥१२॥