यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविरचितम्)/अध्यायः ४/मन्त्रः ४

← मन्त्रः ३ यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविरचितम्)
अध्यायः ४
दयानन्दसरस्वती
मन्त्रः ५ →
सम्पादकः — डॉ॰ ज्ञानप्रकाश शास्त्री, जालस्थलीय-संस्करण-सम्पादकः — डॉ॰ नरेश कुमार धीमान्
यजुर्वेदभाष्यम्/अध्यायः ४


चित्पतिर्मेत्यस्य प्रजापतिर्ऋषिः। परमात्मा देवता। निचृदब्राह्मी पङ्क्तिश्छन्दः। पञ्चमः स्वरः॥

येन सूर्य्यादिकं जगद्रचितं सोऽस्मदर्थं किं किं कुर्य्यादित्युपदिश्यते॥

जिसने सूर्य्य आदि सब जगत् को बनाया है, वह परमात्मा हमारे लिये क्या-क्या करे, इस विषय का उपदेश अगले मन्त्र में किया है॥

चि॒त्पति॑र्मा पुनातु वा॒क्पति॑र्मा पुनातु दे॒वो मा॑ सवि॒ता पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभिः॑। तस्य॑ ते पवित्रपते प॒वित्र॑पूतस्य॒ यत्का॑मः पु॒ने तच्छ॑केयम्॥४॥

पदपाठः—चि॒त्पति॒रिति॑ चि॒त्ऽपतिः॑। मा॒। पु॒ना॒तु। वा॒क्पति॒रिति॑ वाक्ऽपतिः॑। मा॒। पु॒ना॒तु॒। दे॒वः। मा॒। स॒वि॒ता। पु॒ना॒तु॒। अच्छि॑द्रेण। प॒वित्रे॑ण। सूर्य्य॑स्य। र॒श्मिभि॑रिति॑ र॒श्मिऽभिः॒। तस्य॑। ते॒। प॒वि॒त्र॒प॒त॒ इति॑ प॒वित्र॑ऽपते। प॒वित्र॑पूत॒स्येति॑ प॒वित्र॑ऽपूतस्य। यत्का॑म॒ इति॒ यत्ऽका॑मः। पुने। तत्। श॒के॒य॒म्॥४॥

पदार्थः—(चित्पतिः) चेतयति येन विज्ञानेन तस्य पतिः पालयिताऽधिष्ठातेश्वरो भवान् (मा) माम् (पुनातु) पवित्रं करोतु (वाक्पतिः) यो वायो वेदविद्यायाः पतिः स्वामी पालयिता (मा) माम् (पुनातु) विद्वांसं कृत्वा पवित्रयतु (देवः) यः स्वप्रकाशेन सर्वस्य प्रकाशकः (मा) माम् (सविता) सर्वस्य जगतो दिव्यस्य प्रसवितोत्पादकः (पुनातु) शोधयतु शुद्धं करोतु (अच्छिद्रेण) अविनाशिना विज्ञानेन (पवित्रेण) शुद्धिकारकेण (सूर्य्यस्य) सवितृमण्डलस्य प्राणस्य वा (रश्मिभिः) प्रकाशैर्गमनागमनैः (तस्य) जगदीश्वरस्य (ते) तव (पवित्रपते) पवित्रस्य पालयितः पवित्रपूतस्य यः पवित्रैः शुद्धैः स्वाभाविकैर्विज्ञानादिभिर्गुणैः पूतः पवित्रस्तस्य (यत्कामः) यः कामो यस्य सः (पुने) पवित्रो भवामि (तत्) पवित्रं कर्म (शकेयम्) शक्नुयाम्। अयं मन्त्रः (शत॰३.१.३.२२-२३) व्याख्यातः॥४॥

अन्वयः—हे पवित्रपते परमात्मन् चित्पतिर्वाक्पतिः सविता देवो भवान् पवित्रेणाच्छिद्रेण विज्ञानेन सूर्यस्य रश्मिभिश्च मा मां मम चित्तं च पुनातु। मा मां मम वाचं च पुनातु। मा मां मम चक्षुश्च पुनातु। यस्य पवित्रपूतस्य कृपया यत्कामोऽहं पुने पवित्रो भवामि। यस्य ते तवोपासनया पवित्रं कर्म कर्त्तुं शक्नुयाम्, तस्य सेवा कर्तुं योग्या मे कथं न भवेत्॥४॥

भावार्थः—मनुष्यैर्येन वेदविज्ञात्रा पत्या परमेश्वरेण विद्याभूजलवायुसूर्य्यादयः शुद्धिकारकाः पदार्थाः प्रकाशितास्तस्योपासना पवित्रकर्मानुष्ठानाभ्यां मनुष्यैः पूर्णकामः पवित्रता च कार्य्या॥४॥

पदार्थः—हे (पवित्रपते) पवित्रता के पालन करनेहारे परमेश्वर! (चित्पतिः) विज्ञान के स्वामी (वाक्पतिः) वाणी को निर्मल और (सविता) सब जगत् को उत्पन्न करने वाले (देवः) दिव्य स्वरूप आप (पवित्रेण) शुद्ध करने वाले (अच्छिद्रेण) अविनाशी विज्ञान वा (सूर्यस्य) सूर्य और प्राण के (रश्मिभिः) प्रकाश और गमनागमनों से (मा) मुझ और मेरे चित्त को (पुनातु) पवित्र कीजिये, (मा) मुझ और मेरी वाणी को (पुनातु) पवित्र कीजिये, (मा) मुझ तथा मेरे चक्षु को (पुनातु) पवित्र कीजिये, जिस (पवित्रपूतस्य) शुद्ध स्वाभाविक विज्ञान आदि गुणों से पवित्र (ते) आप की कृपा से (यत्कामः) जिस उत्तम कामनायुक्त मैं (पुने) पवित्र होता हूं, जिस (ते) आपकी उपासना से (तत्) उस अत्युत्तम कर्म के करने को (शकेयम्) समर्थ होऊँ, उस आपकी सेवा मुझ को क्यों न करनी चाहिये॥४॥

भावार्थः—मनुष्यों को उचित है कि जिस वेद के जानने वा पालन करने वाले परमेश्वर ने वेदविद्या, पृथिवी, जल, वायु और सूर्य्य आदि शुद्धि करने वाले पदार्थ प्रकाशित किये हैं, उसकी उपासना तथा पवित्र कर्मों के अनुष्ठान से मनुष्यों को पूर्ण कामना और पवित्रता का सम्पादन अवश्य करना चाहिये॥४॥