लघुसिद्धान्तकौमुदी/विकारार्थप्रकरणम्
(विकारार्थप्रकरणम् इत्यस्मात् पुनर्निर्दिष्टम्)
← शैषिकप्रकरणम् | लघुसिद्धान्तकौमुदी विकारार्थप्रकरणम् वरदराजः |
ठगधिकारप्रकरणम् → |
अथ विकारार्थकाः
तस्य विकारः॥ लसक_१११३ = पा_४,३.१३४॥
(अश्मनो विकारे टिलोपो वक्तव्यः)। अश्मनो विकारः आश्मः। भास्मनः। मार्त्तिकः॥
अवयवे च प्राण्योषधिवृक्षेभ्यः॥ लसक_१११४ = पा_४,३.१३५॥
चाद्विकारे। मयूरस्यावयवो विकारो वा मायूरः। मौर्वं काण्डं भस्म वा। पैप्पलम्॥
मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः॥ लसक_१११५ = पा_४,३.१४३॥
प्रकृतिमात्रान्मयड्वा स्यात् विकारावयवयोः/ अश्ममयम्, आश्मनम्/ अभक्ष्येत्यादि किम्? मौद्गः सूपः/ कार्पासमाच्छादनम्॥
नित्यं वृद्धशरादिभ्यः॥ लसक_१११६ = पा_४,३.१४४॥
आम्रमयम्। शरमयम्॥
गोश्च पुरीषे॥ लसक_१११७ = पा_४,३.१४५॥
गोः पुरीषं गोमयम्॥
गोपयसोर्यत्॥ लसक_१११८ = पा_४,३.१६०॥
गव्यम्। पयस्यम्॥
इति विकारार्थाः। (प्राग्दीव्यतीयाः)॥ ६॥