विष्णुपुराणम्/चतुर्थांशः/अध्यायः १
।
मैत्रेय उवाच।
भगवन्यन्नरैः कार्य्यं साधुकर्मण्यवस्थितैः ।
तन्मह्यं गुरुणाख्यातं नित्यनैमित्तिकात्मकम् १ ।
वर्णधर्मास्तथाख्याता धर्मा ये चाश्रमेषु च ।
श्रोतुमिच्छाम्यहं वंशं राज्ञां तद्ब्रूहि मे गुरो २ ।
श्रीपराशर उवाच ।
मैत्रेय श्रूयतामयमनेकयज्वशूरवीरधीरभूपालालंकृतो ब्रह्मादिर्मानवो वंशः ३ ।
तदस्य वंशस्यानुपूर्वीमश्षोवंशपापप्रणाशनाय मैत्रेयैतां कथां शृणु ४ ।
तद्यथा सकलजगतामादिरनादिभूतस्स ऋग्यजुस्सामादिमयो भगवान् विष्णुस्तस्य ब्रह्मणो मर्त्तं रूपं हिरण्यगर्भो ब्रह्मांडभूतो ब्रह्मा भगवान् प्राग्बभूव ५ ।
ब्रह्मणश्च दक्षिणांगुष्ठजन्मा दक्षप्रजापतिः दक्षस्याप्यदितिरदितेर्विवस्वान् विवस्वतो मनुः ६ ।
मनोरिक्ष्वाकुनृगधृष्टशर्यातिनरिष्यंतप्रांशुनाभगदिष्टकरूषपृषध्राख्या दश पुत्रा बभूवुः ७ ।
इष्ठिं च मित्रावरुणयोर्मनुः पुत्रकामश्चकार ८ ।
तत्र तावदह्नुते होतुरपचारादिला नाम कन्या बभूव ९ ।
सैव च मित्रावरुणयोः प्रसादात्सुद्युम्नो नाम मनोः पुत्रो मैत्रेय आसीत् १० ।
पुनश्चेश्वरकोपात्स्त्री सती सा तु सोमसूनोर्बुधस्याश्रमसमीपे बभ्राम ११ ।
सानुरागाच्च तस्यां बुधः पुरूरवसमात्मजमुत्पादयामास १२ ।
जातेपि तस्मिन्नमिततेजोभिः परमर्षिभिरिष्टिमय ऋङ्मयो यजुर्मयस्साममयोथर्वणमयस्सर्ववेदमयो मनोमयो ज्ञानमयो न किंचिन्मयोन्नमयो भगवान् यज्ञपुरुषस्वरूपी सुद्युम्नस्य पुंस्त्वमभिलषद्भिर्यथावदिष्टस्तत्प्रसादादिला पुनरपि सुद्युम्नोऽभवत् १३ ।
तस्याप्युत्कलगयविनतास्त्रयः पुत्रा बभूवुः १४ ।
सुद्युम्नस्तु स्त्रीपूर्वकत्वाद्रा ज्यभागं न लेभे १५ ।
तत्पित्रा तु वसिष्ठवचनात्प्रतिष्ठानं नाम नगरं सुद्युम्नाय दत्तं तच्चासौ पुरूरवसे प्रादात् १६ ।
तदन्वयाश्च क्षत्त्रियास्सर्वै दिक्ष्वभवन् ।
पृषध्रस्तु मनुपुत्रो गुरुगोवधाच्छूद्र त्वमगमत् १७ ।
मनोः पुत्रः करूषः करूषात्कारूषाः क्षत्त्रिया महाबलपराक्रमा बभूवः १८ ।
दिष्टपुत्रस्तु नाभागो वैश्यतामगमत्तस्माद्बलंधनः पुत्रोभवत् १९ ।
बलंधनाद्वत्सप्रीतिरुदारकीर्त्तिः २० ।
वत्सप्रीतेः प्रांशुरभवत् २१ ।
प्रजापतिश्च प्रांशोरेकोऽभवत् २२ ।
ततश्च खनित्रः २३ ।
तस्माच्चक्षुषः २४ ।
चक्षुषाच्चातिबलपराक्रमो विंशोभवत् २५ ।
ततो विविंशकः २६ ।
तस्माच्च खनिनेत्रः २७ ।
ततश्चातिविभूतिः २८ ।
अतिविभूतेरतिबलपराक्रमः करंधमः पुत्रोभवत् २९ ।
तस्मादप्यविक्षित् ३० ।
अविक्षितोप्यतिबलपराक्रमः पुत्रो मरुत्तो नामाऽभवत् ।
यस्येमावद्यापि श्लोकौ गीयेत् ३१ ।
मरुत्तस्य यथा यज्ञस्तथा कस्याभवद्भुवि ।
सर्वं हिरण्मयं यस्य यज्ञवस्त्वतिशोभनम् ३२ ।
अमाद्यदिंद्र स्सोमेन दक्षिणाभिर्द्विजातयः ।
मरुतः परिवेष्टारस्सदस्याश्च दिवौकसः ३३ ।
स मरुत्तश्चक्रवर्त्ती नरिष्यंतनामानं पुत्रमवाप ३४ ।
तस्माच्च दमः ३५ ।
दमस्य पुत्रो राजवर्धनो जज्ञे ३६ ।
राजवर्द्धनात्सुवृद्धिः ३७ ।
सुवृद्धेः केवलः ३८ ।
केवलात्सुधृतिरभूत् ३९ ।
ततश्च नरः ४० ।
तस्माच्चंद्र ः! ४१ ।
ततः केवलोभूत् ४२ ।
केवलाद्बंधुमान् ४३ ।
बंधुमतो वेगवान् ४४ ।
वेगवतो बुधः ४५ ।
ततश्च तृणबिंदुः ४६ ।
तस्याप्येका कन्या इलविलानाम ४७ ।
ततश्चालंबुसानाम वराप्सरास्तृणबिंदुं भेजे ४८ ।
तस्यामप्यस्य विशालो जज्ञे यः पुरीं विशालं निर्ममे ४९ ।
हेमचंद्रश्च विशालस्य पुत्रोभवत् ५० ।
ततश्चंद्रः ५१ ।
तत्तनयो धूम्राक्षः ५२ ।
तस्यापि सृंजयोऽभूत् ५३ ।
सृंजयात्सहदेवः ५४ ।
ततश्च कृशाश्वो नाम पुत्रोभवत् ५५ ।
सोमदत्तः कृशाश्वाज्जज्ञे योश्वमेधानां शतमाजहार ५६ ।
तत्पुत्रो जनमेजयः ५७ ।
जनमेजयात्सुमतिः ५८ ।
एते वैशालिका भूभृतः ५९ ।
श्लोकोप्यत्र गीयते ६० ।
तृणबिंदोः प्रसादेन सर्वे वैशालिका नृपाः ।
दीर्घायुषो महात्मानो वीर्यवंतोतिधार्मिकाः ६१ ।
शर्यातेः कन्या सुकन्यानामाभवत् यामुपयेमे च्यवनः ६२ ।
आनर्त्तनामा परमधार्मिकश्शर्यातिपुत्रोभवत् ६३ ।
आनर्त्तृस्यापि रेवतनामा पुत्रो जज्ञे योसावानर्त्तविषयं बुभुजे पुरीं च कुशस्थलीमध्युवास ६४ ।
रेवतस्यापि रैवतः पुत्रः ककुद्मिनामा धर्मात्मा भ्रोतृशतस्य ज्योष्ठोऽभवत् ६५ ।
तस्य रेवतीनाम कन्याभवत् ६६ ।
स तामादाय कस्योयमर्हतीति भगवंतमब्जयोनिं प्रष्टुं ब्रह्मलोकं जगाम ६७ ।
तावच्च ब्रह्मणॐतिके हाहाहूहूसंज्ञाभ्यां गंधर्वाभ्यामतितानं नाम दिव्यं गांधर्वमगीयत ६८ ।
तच्च त्रिमार्गपरिवृत्तैरनेकयुगपरिवृत्तिं तिष्ठन्नपि रैवतश्शृण्वन्मुहूर्त्तमिव मेने ६९ ।
गीतावसाने च भगवंतमब्जयोनिं प्रणम्य रैवतः कन्यायोग्यं वरमपृच्छत् ७० ।
ततश्चासौ भगवानकथयत्कथय योभिमतस्ते वर इति ७१ ।
पुनश्च प्रणम्य भगवते तस्मै यथाभिमतानात्मनस्स वरान् कथयामास ।
क एषां भगवतोभिमत इति यस्मै कन्यामिमां प्रयच्छामीति ७२ ।
ततः किंचिदवनतशिरास्सस्मितं भगवानब्जयोनिराह ७३ ।
य एते भवतोभिमता नैतेषां सांप्रतं पुत्रपौत्रापत्यापत्यसंततिरस्त्यवनीतले ७४ ।
बहूनि तवात्रैव गांधर्वं शृण्वतश्चतुर्यगान्यतीतानि सांप्रतं ७५ ।
महीतलेष्टाविंशतितममनोश्चतुर्युगमतीतप्रायं वर्तते ७६ ।
आसन्नो हि कलिः ७७ ।
अन्यस्मै कन्यारत्नमिदं भवतैकाकिनाभिमताय देयम् ७८ ।
भवतोपि पुत्रमित्त्रकलत्रमंत्रिभृत्यबंधुबलकोशादयस्समस्ताः कालेनैतेनात्यंतमतीताः ७९ ।
ततः पुनरप्युत्पन्नसाध्वसो राजा भगवंतं प्रणम्य पप्रच्छ ८० ।
भगवन्नेवमवस्थिते म येयं कस्मै देयेति ८१ ।
ततस्स भगवान् किंचिदवनम्रकंधरः कृतांजलिर्भूत्वा सर्वलोकगुरुरंभोजयोनिराह ८२।
ब्रह्मोवाच ।
न ह्यादिमध्यांतमजस्य यस्य विद्मो वयं सर्वमयस्य धातुः ।
न च स्वरूपं न परं स्वभावं न चैव सारं परमेश्वरस्य ८३ ।
कलामुहूर्त्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः ।
अजन्मनाशस्य सदैकमूर्त्तेरनामरूपस्य सनातनस्य ८४ ।
यस्य प्रसादादहमच्युतस्य मूर्त्तिः प्रजासृष्टिकरॐतकारी ।
क्रोधाच्च रुद्र ः! स्थितिहेतुभूतो यस्माच्च मध्ये पुरुषः परस्मात् ८५ ।
तद्रू पमास्थाय सृजत्य जोयः स्थितौ च योऽसौ पुरुषस्वरूपी ।
रुद्र स्वरूपेण च योत्ति विश्वं धत्ते तथानंतवपुस्समस्तम् ८६ ।
पाकाय योग्नित्वमुपैति लोकान्बिभर्त्ति पृथ्वीवपुख्ययात्मा ।
शक्रादिरूपी परिपाति विश्वमर्केंदुरूपश्च तमो हिनस्ति ८७ ।
करोति चेष्टाश्श्वसनस्वरूपी लोकस्य तृप्तिं च जलान्नरूपी ।
ददाति विश्वस्थितिसंस्थितस्तु सर्वावकाशं च नभस्स्वरूपी ८८ ।
यस्सृज्यते सर्गकृदात्मनैव यः पाल्यते पालयिता च देवः ।
विश्वात्मकस्संहृयतेंतकारी पृथक् त्रयस्यास्य च योव्ययात्मा ८९ ।
यस्मिञ्जगद्यो जगदेतदाद्यो यं चाश्रितोस्मिञ्जगति स्वयंभूः ।
स सर्वभूतप्रभवो धरित्र्! यां स्वांश्नो पुष्णुर्नृप तेऽवतीर्णः ९० ।
कुशस्थली या तव भूप रम्या पुरी पुराभूदमरावतीव ।
सा द्वारका संप्रति तत्र चास्ते स केशवांशो बलदेवनामा ९१ ।
तस्मै त्वमेनां तनयां नरेंद्र प्रयच्छ मायामनुजाय जायाम् ।
श्लाघ्यो वेरोसौ तनया तवेयं स्त्रीरत्नभूता सदृशो हि योगः ९२ ।
श्रीपराशर उवाच ।
इतीरितोसौ कमलोद्भवेन भुवं समासाद्य पतिः प्रजानाम् ।
ददर्श ह्रस्वान् पुरुषान् विरूपानल्पौजसस्स्वल्पविवेकवीर्यान् ९३ ।
कुशस्थलीं तां च पुरीमुपेत्य दृष्ट्वान्यरूपां प्रददौ स कन्याम् ।
सीरायुधाय स्फटिकाचलाभवक्षस्थलायातुलधीर्नरेंद्र ः! ९४ ।
उच्चप्रमाणामिति तामवेक्ष्य स्वलांगलाग्रेण च तालकेतुः ।
विनम्रयामास ततश्च सापि बभूव सद्यो वनिता यथान्या ९५ ।
तां रेवतीं रैवतभूपकन्यां सीरायुधोऽसौ विधिनोपयेमे ।
दत्त्वाथ कन्यां स नृपो जगाम हेमालयं वै तपसे धृतात्मा ९६ ।
इति श्रीविष्णुमहापुराणे चतुर्थांशो! प्रथमोध्यायः १।