विष्णुपुराणम्/चतुर्थांशः/अध्यायः ९
रजेः पञ्चपुत्रशतान्यतुलवीर्य्यसांराणयासन् । देवासुरसंग्रामारम्भे परस्पर वधेप्सवो देवाश्वासुराश्व ब्रह्माणां पप्रच्छुः ।। ४-९-१।।
भगवन् ! अस्माकमत्र विरोधे कतरः पक्षो जेता भविष्यतीति । अथाह भगवान्--येषामर्थे रजिरात्तायुधो योतूस्यातीति । अथ दैत्यैरुपेत्य रजि रात्म साहाय्यदानायाभ्यर्थितः प्राह, --योतूस्येऽहं भवता मर्थे, यद्यहममर जयादू भवतामिन्द्रो बविष्यामि इति । आकर्ण्यैतत् तैरभिहितो, न वयमन्यथा वदिष्यामोऽन्यथा करिष्यामः । अस्माकमिन्द्रः प्रह्लादस्तदर्थमयमुद्यम इत्युक्त्वा गतोष्वसुरेषु देवैरप्यसाववनीपतिरेवमेवोक्तः । तेनापि च तथैवोक्ते देवैरिन्द्रस्त्वं भविष्यसीति समन्वीप्सितम ।। ४-९-२ ।।
रजिनापि देवसैन्यसहायेन अनेकैर्महास्त्रेस्तदशेषमसूरबलं निषूदितम् ।
अवजितारातिपक्षश्व इन्द्रो रजिचरणयुलमात्मशिरसा निपीडयाह,--भय त्राणदानादस्मत्पिता भवान्, अशीषलोकानामुत्तमो भवान्, यस्याहं पुत्रस्त्रिलो केन्द्रः ।। ४-९-३ ।।
स चापि राजा प्रहस्याह,--एवमेवास्तु, अनतिक्रमणीया हि वैरिपक्षादप्यनेकविधचाटुवाक्यगर्भा प्रणतिः, इत्युक्ता स्वपुरमाजगाम ।। ४-९-४ ।।
शतक्रतुरपीन्द्रत्वं तकार ।
स्वर्याते च रजौ नारदर्षिचोदिता राजसूताः शतक्रतुमात्मपितृपुत्रमाचारादू राज्यं याचितवन्तः ।। ४-९-५ ।।
अप्रदाने चावजित्येन्द्रमतिबलिनः स्वयमिन्द्रत्वं चक्रः । ततश्व बहुतिथे काले व्यतीते बृहस्पतिमेकान्ते दृष्ट्वापह्टतत्रैलोक्ययज्ञभागः शतक्रतुराह ।। ४-९-६ ।।
वदरीफलमात्रमप्यर्हसि मम आप्यायनाय पुरो डाशखणडं दातुमित्युक्तो बृहस्पतिरूचे, --यद्यवं पूर्वमेव त्वयाहं चोदितः स्यां, तन्मया त्वदर्थं किमकर्त्तव्यमिति ।। ४-९-७ ।।
स्वल्पैरेवाहोभिस्त्वां निजं पदं प्रापयिष्यामि इत्यभिधाय तेषामनु दिनाभिचारिकं बुद्धिमोहाय शक्रस्य च तेजोवृद्धये जुहाव । ते चापि
तेन बुद्धिमोहेनाभिभूयमाना ब्रह्मद्रिषो धर्म्मत्यागिनो वेदवादपराङूमुखा बभूवुः ततश्व तानपेतधर्म्मा चारान् इन्द्रो जघान पुरोहिताप्यायिततेजाश्व त्रिदिवमाक्रामत् । एतदिन्द्रस्य स्वपदच्यवनारोहणां श्रुत्वा पुरुषः स्वपदभ्रशं दौरात्म्यं वा न चाप्नोति । रम्भस्त्वनपत्योऽभवत् । क्षत्रवृद्धसुतः प्रतिक्षत्त्रः, ततूपुत्रः सञ्जयः, ततश्व विजयः, तस्माज्व यज्ञकृत्, तस्य हर्षवर्द्धनः, हर्षवर्द्धनसुतः सहदेवः, तस्माददीनः, तस्य जयसेनः, ततश्व संहुतिः, तत पुत्रः, क्षंत्रधर्म्माः, इत्येते क्षत्रवृद्धस्य । अतो नहुषवंशं वक्ष्यामि इति ।। ४-९-८ ।।