विष्णुपुराणम्/चतुर्थांशः/अध्यायः ८
श्रीपराशर उवाच ।
पुरूरवसो ज्येष्ठः पुत्रो यस्त्वायुर्नामा स राहोर्दुहितरमुपयेमे १ ।
तस्यां च पंच पुत्रानुत्पादयामास २ ।
नहुषक्षत्रवृद्धरंभरजिसंज्ञास्तथैवानेनाः पंचमः पुत्रोऽभूत् ३ ।
क्षत्रवृद्धात्सुहोत्रः पुत्रोऽभवत् ४ ।
काश्यपकाशगृत्समदास्त्रयस्तस्य पुत्रा बभूवुः ५ ।
गृत्समदस्य शौनकश्चातुर्वर्ण्यप्रवर्त्तयिताऽभूत् ६ ।
काश्यस्य काश्योः काशीराजः तस्माद्राष्ट्रः राष्ट्रस्य दीर्घतपाः पुत्रोऽभवत् ७ ।
धन्वंतरिस्तु दीर्घतपसः पुत्रोऽभवत् ८ ।
स हि संसिद्धकार्यकरणस्सकलसंभूतिष्वशेषो ज्ञानविदा भगवता नारायणेन चातीत संभूतौ तस्मै वरो दत्तः ९ ।
काशीराजगोत्रेऽवतीर्य त्वमष्टधा सम्यगायुर्वेदं करिष्यसि यज्ञभागभुग्भविष्यसीति १० ।
तस्य च धन्वंतरेः पुत्रः केतुमान् केतुमतो भीमरथः तस्यापि दिवोदासः तस्यापि प्रतर्दनः ११ ।
स च भद्रश्रेण्यवंशविनाशनादशेषशत्रवोनेन जिता इति शत्रुजिदभवत् १२ ।
तेन च प्रीतिमतात्मपुत्रो वत्सवत्सेत्यभिहितो वत्सोऽभवत् १३ ।
सत्यपरतया ऋतध्वजसंज्ञामवाप १४ ।
ततश्च कुवलयनामानमश्वं लेभे ततः कुवलयाश्व इत्यस्यां पृथिव्यां प्रथितः १५ ।
तस्य च वत्सस्य पुत्रोऽलर्कनामाभवत् यस्यायमद्यापि श्लोको गीयते १६ ।
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
अलर्कादपरो नान्यो बुभुजे मेदिनीं युवा १७ ।
तस्याप्यलर्कस्य सन्नतिनामाऽभवदात्मजः १८ ।
सन्नतेः सुनीथः तस्यापि सुकेतुः तस्माच्च धर्मकेतुर्जज्ञे १९ ।
ततश्च सत्यकेतुः तस्माद्विभुः तत्तयस्सुविभुः ततश्च सुकुमारस्तस्यापि दृष्टकेतुः ततश्च वीतिहोत्रः तस्माद्भार्गः भार्गस्य भार्गभूमिः ततश्चातुर्वर्ण्यप्रवृत्तिरित्येते काश्यपभूभृतः कथिताः २० ।
रजेस्तु संततिः श्रूयताम् २१ ।
इति श्रीविष्णुमाहापुराणे चतुर्थांशोऽष्टमोऽध्याय ८।