विष्णुपुराणम्/चतुर्थांशः/अध्यायः ७
तस्याप्यायुर्धीमानमावसु-विश्वावसु-शतायुः-श्रुतायुः (अयुतायुः) संज्ञाः षड़भवन् पुत्राः ।। ४-७-१ ।।
अमावसोर्भीमो नाम पुत्रोऽभवत् । भीमस्य काञ्चनः, काञ्चनात् सुहोत्रः,
तस्यापि जह्नः । योऽसौ यज्ञवाटमखिलं गङ्गाम्भसा प्लावितमालोक्य क्रोधसंरक्तनयनो भगन्तं यज्ञपुरुषमात्मनि परमेण समाधिना समारोप्या खिलामेव गङ्गामपिवत् ।। ४-७-२ ।।
अथैनं देवर्षयः प्रसादयामासुः, दुहितृत्वे दुहितृत्वे चास्य गङ्गामनयन् । जह्नोश्व सुजह्नु र्नाम पुत्रोऽभवत् । तस्याप्यजकः, ततो बलाकाश्वः, तस्मात् कुशः, कुशस्य कुशाश्व-कुशनाभामूर्त्तरयामावसवश्वत्वारः पुत्रा बभूवुः ।। ४-७-३ ।।
तेषां कुशाश्वः "शक्रतुल्यो मे पुत्रो भवे" दिति तपश्वचार । तञ्चोग्रत पसमवलोक्य मा भवत्वन्योऽ स्मत्तुल्यवीर्य्य" इत्यात्मनैवास्येन्द्रः पुत्रत्वम गच्छत ।। ४-७-४ ।।
गाधिर्नाम स कौशिकोऽभवत् । गाधिश्व सत्यवतीं नाम कन्यामजनयत् । ताञ्च भार्गव ऋचीको वब्र ।। ४-७-५ ।।
गाधिरप्यतिरोषणाय अतिवृद्धाय च ब्राह्मणाय दातुमनिच्छन्नेकतः
श्यामकर्णानामिन्दुवर्च्चसामनिल रंहसामश्वानां सहस्त्रं कन्याशुल्कमयाचत ।। ४-७-६ ।।
तेनापि ऋषिणा वरुणसकाशादुपलभ्य अश्वतीर्थो तूपन्नं तादृशाश्वसहस्त्र दत्तम् ।। ४-७-७ ।।
ततस्तामृतचीकः कन्यामुपयेमे । ऋचीकश्वतस्या श्वरुमपत्यार्थं चकार
तथा प्रसादितश्व तन्मात्रे क्षत्रवरपुत्रोतूपत्तये चरुमपरं साधयामास ।। ४-७-८ ।।
एष चरुर्भवत्या अयमपरस्त्वन्मात्रा सम्यगुपयोज्य इत्युत्तवा वनं जगाम ।। ४-७-९ ।।
उपयोगकाले च तां माता सत्यवतीमाह,--सर्व्व एवात्मपुत्रमतिगुणं समभिलषति, नात्म-जायाभ्रातृ गुणोष्वतीवादृतो भवतीत्यतोऽर्हसि मम
त्वमात्मीयञ्चरु दातुं मदीयञ्चरुमात्मनोपयोक्तुम् ।। ४-७-१० ।।
मतूपुत्रेणा हि सकलभूमणडलपरिपालनं कार्य्यम् ।। ४-७-११ ।।
कियदूब्राह्मणास्य बलवीर्य्यसम्पदित्युक्ता सा स्वंचरु मात्रे दत्तवती ।। ४-७-१२ ।।
अथ वनादभ्यागत्य सत्यवतीमृषिरपश्यत् आह चैनाम,--अतिपापे! किमिदमकार्य्यं भवत्या कृतम्, अतिरौद्र ते वपुरालक्ष्यते, नूनं त्वया त्वन्मातृ सतूकृतश्वरुरुपयुक्तः न युक्तमैतत् ।। ४-७-१३ ।।
मया हि तत्र चरौ सकलैव शौर्य्य--बलसम्पदा रोपिता, त्वदीये चरावप्यखिलशान्ति ज्ञान-तितिक्षादिका ब्राह्मणगुणासम्पत् । एतज्व विपरीतं कुर्व्वत्यास्तवातिरौद्रास्त्रधारण-मारणनिष्ठः क्षत्रियाचारः पुत्रो भविष्यति, अस्याश्वोपशमरुचिर्ब्राह्मणाचारः ।। ४-७-१४ ।।
इत्याकर्ण्यैव सा तस्य पादौ जग्राह । प्रणिपत्य च एनमाह,--भगवन् ! मयैतदज्ञानादनुष्ठितं, प्रसादं मे कुरु, मैवंविधः पुत्रो भवतु, काममेवंविधः पौत्रो भवतु इत्युक्तो मुनिरप्याह--एवमस्तु इति ।। ४-७-१५ ।।
अनन्तरञ्च सा जमदग्निमजीजनत् । तन्माता च विश्वामित्रं जनयामास । सत्यवती च कौशिकी नाम नद्यभवत् । जमदग्निरिक्ष्वाकुवंशोद्भवस्य
रेणोस्तनयो रेणुकामुपयेमे । तस्माञ्चाशेषक्षत्रवशहन्तारं परशुरामसज्ञ भगवतः सकललोकगुरोर्नारायणस्यांशं जमदग्निरजीजनत् ।। ४-७-१६ ।।