विष्णुपुराणम्/चतुर्थांशः/अध्यायः १८

इति श्रीविष्णुमहापुराणे चतुर्थांशेऽष्टादशोऽध्यायः (१८)

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

श्रीपराशर उवाच
ययातेश्चातुर्थपुत्रस्यानोःसभानलचक्षुः परमेषुसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ४,१८.१ ॥
सभानलपुत्रः कालानलः ॥ २ ॥
कालानलात्सृंजयः ॥ ४,१८.३ ॥
सृंजयात्पुरञ्जयः ॥ ४,१८.४ ॥
पुरञ्जयाज्जनमेजयः ॥ ४,१८.५ ॥
तस्मान्महाशालः ॥ ४,१८.६ ॥
तस्माच्च महामनाः ॥ ४,१८.७ ॥
तस्मादुशीनरतितीक्षू द्वौ पुत्रावुत्पन्नौ ॥ ४,१८.८ ॥
उशीनरस्यापि शिबिनृगनवकृमि वर्माख्याः पञ्च पुत्रा बभूवुः ॥ ४,१८.९ ॥
पृषदर्भसुवीरकेकयमद्रकाश्चत्वारशिशबिपुत्राः ॥ ४,१८.१० ॥
तितीक्षोरपि रुशद्रथः पुत्रोऽभूत् ॥ ४,१८.११ ॥
तस्यापि हेमः हेमस्यापि सुतपाः सुतपसश्च बलिः ॥ ४,१८.१२ ॥
यस्य क्षेत्रे दीर्घतमसांगवङ्गकलिङ्गसुह्यपौण्ड्राख्यं वालेयं क्षत्रमजन्यत ॥ ४,१८.१३ ॥
तन्नामसंतसतिसंज्ञाश्च पञ्चविषयाः बभूवुः ॥ ४,१८.१४ ॥
अङ्गादनपानस्ततो दिविरथस्तस्माद्धर्मरथः ॥ ४,१८.१५ ॥
ततश्चित्ररथः रोमपादसंज्ञः ॥ ४,१८.१६ ॥
यस्य दशरथो मित्रं जज्ञे ॥ ४,१८.१७ ॥
यस्याजपुत्रो दशरथः शान्तां नाम कन्यामनपत्यस्यदुहितृत्वे युयोज ॥ ४,१८.१८ ॥
रोमपादाच्चतुरङ्गः तस्मात्पृथुलाक्षः ॥ ४,१८.१९ ॥
ततश्चंपः यश्चंपां निवेशायामास ॥ ४,१८.२० ॥
चंपस्य हर्यङ्गो नामात्मजोऽभूत् ॥ ४,१८.२१ ॥
हर्यङ्गाद्भद्ररथः भद्ररथाद्बृहद्रथः बृहद्रथाद्बृहत्कर्मा बृहत्कर्मणश्च वृहद्भानुस्तस्माच्च बृहन्मनाः बृहन्मनसो जयद्रथः ॥ ४,१८.२२ ॥
जयद्रथो ब्रहमक्षत्रान्तरालसंभूत्यां पत्न्यां विजयं नाम पुत्रमजीजनत् ॥ ४,१८.२३ ॥
विजयश्च धृतिं पुत्रमवाप ॥ ४,१८.२४ ॥
तस्यापि धृतव्रतः पुत्रोऽभूत् ॥ ४,१८.२५ ॥
धृतव्रतात्सत्यकर्मा ॥ ४,१८.२६ ॥
सत्यकर्मणस्त्वतिरथः ॥ ४,१८.२७ ॥
यो गङ्गाङ्गतो मञ्जूषागतं पृथापविद्धं कर्णं पुत्रमवाप ॥ ४,१८.२८ ॥
कर्णाद्वृषसेनः इत्येतदन्ता अङ्गवंश्याः ॥ ४,१८.२९ ॥
अतश्च पुरुवंशं श्रोतुमर्हसि ॥ ४,१८.३० ॥