विष्णुपुराणम्/चतुर्थांशः/अध्यायः १९
श्रीपराशर उवाच ।
पूरोर्जनमेजयस्तस्यापि प्रचिन्वान् प्रचिन्वतः प्रवीरः प्रवीरान्मनस्युर्मनस्योश्चाभयदः तस्यापि सुद्युस्सुद्यो र्बहुगतः तस्यापि संयातिस्संयातेरहंयातिः ततो रौद्रा श्वः १ ।
ऋतेषुकक्षेषुस्थंडिलेषुकृतेषुजलेषुधर्मेषुधृतेषुस्थलेषुसन्नतेषुवनेषुनामानो रौद्रा श्वस्य दश पुत्रा बभूवुः २ ।
ऋतेषोरंतिनारः पुत्रोऽभूत् ३ ।
सुमतिमप्रतिरथं ध्रुवं चाप्यंतिनारः पुत्रानवाप ४ ।
अप्रतिरथस्य कण्वः पुत्रोऽभूत् ५ ।
तस्यापि मेधातिथिः ६ ।
यतः कण्वायना द्विजा बभूवुः ७ ।
अप्रतिरथस्यापरः पुत्रोऽभूदैलीनः ८ ।
ऐलीनस्य दुष्यंताद्याश्चत्वारः पुत्रा बभूवुः ९ ।
दुष्यंताच्चक्रवर्त्ती भरतोऽभूत् १० ।
यन्नामहेतुर्देवैश्श्लोको गीयते ११ ।
माता भस्त्र पितुः पुत्रो येन जातः स एव सः ।
भरस्व पुत्रं दुष्यंतमावमंस्थाश्शकुंतलाम् १२ ।
रेतोधाः पुत्रो नयति नरदेव यमक्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुंतला १३ ।
भरतस्य पत्नित्रये नव पुत्रा बभूवुः १४ ।
नैते ममानुरूपा इत्यभिहितास्तन्मातरः परित्यागभयात्तत्पुत्राञ्जघ्नुः १५ ।
ततोस्य वितथे पुत्रजन्मनि पुत्रार्थिनो मरुत्सोमयाजिनो दीर्घतमसः पार्ष्ण्यपास्तद्बृहस्पतिवीर्यादुतथ्यपत्न्यां ममतायां समुत्पन्नो भरद्वाजाख्यः पुत्रो मरुद्भिर्दत्तः १६ ।
तस्यापि नामनिर्वचनश्लोकः पठ्यते १७ ।
मूढे भर द्वाजमिमं भरद्वाजं बृहस्पते ।
यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् इति १८ ।
भरद्वाजस्स तस्य वितथे पुत्रजन्मनि मरुद्भिर्दत्तः ततो वितथसंज्ञामवाप १९ ।
वितथस्यापि मन्युः पुत्रोऽभवत् २० ।
बृहत्क्षत्रमहावीर्यनगरगर्गा अभवन्मन्युपुत्राः २१ ।
नगरस्य संकृतिस्संकृतेर्गुरुप्रीतिरंतिदेवौ २२ ।
गर्गाच्छिनिः ततश्च गार्ग्याश्शैन्याः क्षत्रोपेता द्विजातयो बभूवु २३ ।
महावीर्याच्च दुरुक्षयो नाम पुत्रोऽभवत् २४ ।
तस्य त्रय्यारुणिः पुष्करिणः कपिश्च पुत्रत्रयमभूत् २५ ।
तच्च पुत्रत्रितयमपि पश्चाद्विप्रतामुपजगाम २६ ।
बृहत्क्षत्रस्य सुहोत्रः २७ ।
सुहोत्राद्धस्ती य इदं हस्तिनपुरमावासयामास २८ ।
अजमीढद्विजमीढपुरुमीढास्त्रयो हस्तिनस्तनयाः २९ ।
अजमीढात्कण्वः ३० ।
कण्वान्मेधातिथिः ३१ ।
यतः कण्वायना द्विजाः ३२ ।
अजमीढस्यान्यः पुत्रो बृहदिषुः ३३ ।
बृहदिषोर्बृहद्धनुर्बृहद्धनुषश्च बृहत्कर्मा ततश्च जयद्र थस्तस्मादपिविश्वजित् ३४ ।
ततश्च सेनजित् ३५ ।
रुचिराश्वकाश्यदृढहनुवत्सहनुसंज्ञास्सेनजितः पुत्राः ३६ ।
रुचिराश्वपुत्रः पृथुसेनः पृथुसेनात्पारः ३७ ।
पारान्नीलः ३८ ।
तस्यैकशतं पुत्राणाम् ३९ ।
तेषां प्रधानः कांपिल्याधिपतिस्समरः ४० ।
समरस्यापि पारसुपारसदश्वास्त्रयः पुत्राः ४१ ।
सुपारात्पृथुः पृथोस्सुकृतेर्विभ्राजः ४२ ।
तस्माच्चाणुहः ४३ ।
यश्शुकदुहितरं कीर्त्तिं नामोपयेमे ४४ ।
अणुहाद्ब्रह्यदत्तः ४५ ।
ततश्च विष्वक्सेनस्तस्मादुदक्सेनः ४६ ।
भल्लाभस्तस्य चात्मजः ४७ ।
द्विजमीढस्य तु यवीनरसंज्ञः पुत्रः ४८ ।
तस्यापि धृतिमांस्तस्माच्च सत्यधृतिस्ततश्च दृढनेमिस्तस्माच्च सुपार्श्वस्ततस्सुमतिस्ततश्च सन्नतिमान् ४९ ।
सन्नतिमतः कृतः पुत्रोऽभूत् ५० ।
यं हिरण्यनाभो योगमध्यापयामास ५१ ।
यश्चतुर्विंशतिप्राच्यसामागानां संहिताश्चकार ५२ ।
कृताच्चोग्रायुधः ५३ ।
येन प्राचुर्येण नीपक्षयः कृतः ५४ ।
उग्रायुधात्क्षेम्यः क्षेम्यात्सुधीरस्तस्माद्रि पुंजयः तस्माच्च बहुरथ इत्येते पौरवाः ५५ ।
अजमीढस्य नलिनी नाम पत्नी तस्यां नीलसंज्ञः पुत्रोऽभवत् ५६ ।
तस्मादपि शांतिः शांतेस्सुशांतिस्सुशांतेः पुरंजयः तस्माच्च ऋक्षः ५७ ।
ततश्च हर्यश्वः ५८ ।
तस्मान्मुद्गलसृंजयबृहदिषुयवीनरकांपिल्यसंज्ञाः पंचानामेव तेषां विषयाणां रक्षणायालमेते मत्पुत्रा इति पित्राभिहिताः पांचालाः ५९ ।
मुद्गलाच्च मौद्गल्याः क्षत्रोपेता द्विजातयो बभूवुः ६० ।
मुद्गलाद्धर्यश्वः ६१ ।
हर्यश्वाद्दिवोदासोऽहल्या च मिथुनमभूत् ६२ ।
शरद्वतश्चाहल्यायां शतानंदोऽभवत् ६३ ।
शतानंदात्सत्यधृतिर्धनुर्वेदान्तगो जज्ञे ६४ ।
सत्यधृतेर्वराप्सरसमुर्वशीं दृष्ट्वा रेतस्कन्नं शरस्तंबे पपात ६५ ।
तच्च द्विधागतमपत्यद्वयं कुमारः कन्या चाभवत् ६६ ।
तौ च मृगयामुपयातश्शंतनुर्दृष्ट्वा कृपया जग्राह ६७ ।
ततः कुमारः कृपः कन्या चाश्वत्थाम्नो जननी कृपी द्रो णाचार्यस्य पत्न्यभवत् ६८ ।
दिवोदासस्य पुत्रो मित्रायुः ६९ ।
मित्रायोश्च्यवनो नाम राजा ७० ।
च्यवनात्सुदासः सुदासात्सौदासः सौदासात्सहदेवस्तस्यापि सोमकः ७१ ।
सोमकाज्जंतुः पुत्रशतज्येष्ठोऽभवत् ७२ ।
तेषां यवीयान् पृषतः पृषताद्द्रु पदस्तस्माच्च धृष्टद्युम्नस्ततो धृष्टकेतुः ७३ अजमीढस्यान्यो ऋक्षनामा पुत्रोऽभवत् ७४ ।
तस्य संवरणः ७५ ।
संवरणात्कुरुः ७६ ।
य इदं धर्मक्षेत्रं कुरुक्षेत्रं चकार ७७ ।
सुधनुर्जह्नुपरीक्षित्प्रमुखाः कुरोः पुत्राः बभूवुः ७८ ।
सुधनुषः पुत्रस्सुहोत्रस्तस्माच्च्यवनः च्यवनात्कृतकः ७९ ।
ततश्चोपरिचरो वसुः ८० ।
बृहद्र थप्रत्यग्रकुशांबकुचेलमात्स्यप्रमुखाः वसोः पुत्रास्सप्ताजायंत ८१ ।
बृहद्र थात्कुशाग्रः कुशाग्राद्वृषभः वृषभात्पुष्पवान् तस्मात्सत्यहितः तस्मात्सुधन्वा तस्य च जतुः ८२ ।
बृंहद्र थाच्चान्यश्शकलद्वयजन्मा जरया संधितो जरासंधनामा ८३ ।
तस्मात्सहदेवस्सहदेवात्सोमपस्ततश्च श्रुतिश्रवाः ८४ ।
इत्येते मया मागधा भूपालाः कथिताः ८५ ।
इति श्रीविष्णुमहापुराणे चतुर्थांश एकोनविंशोऽध्यायः १९।