विष्णुपुराणम्/चतुर्थांशः/अध्यायः २१
अतः परं भविष्यानहं भूमिपालान् कीर्त्तयिष्ये । योऽयं साम्प्रतमवनीपतिः,पराक्षित् तस्यापि जनमेजय - श्रुतसेनोग्रसेन-भीमसेनाः पुत्राश्वत्वारो भविष्यन्ति ।। ४-२०-१ ।।
जनमेजयस्यापि शतानीको भविष्यति । योऽसौ याज्ञवल्क्याद् वेदमधीत्य कृपादस्त्राण्यवाप्य विषमविषयविरक्तचित्तवृत्तिश्व शौनकोपदेशादात्मविज्ञानप्रवीणः परं निर्व्वाणमवाप्स्यति ।। ४-२०-२ ।।
शतानीकादश्वमेधदत्तो भविता तस्मादप्यधिसीमकृष्णः, अधिसीमकृष्णाद् निचक्षुः, यो गङ्गयापहृते हस्तिनापुरे कौशाम्ब्यां निवत्स्यति । तस्याप्युष्णः पुत्रो भविता । उष्णाद्विचिित्ररथः, ततः शुचिरथः, तस्माद् वृष्णि मान्, ततः सुषेणः, तस्मादपि सुनीथः, सुनीथादृचः, ततो नृचक्षुः, तस्यापि सुखाबलः, तस्मात् परिप्लवः, ततश्व सुनयः, ततो मेधावी, मेधाविनो नृपञ्जयः, ततो मृदुः, तस्मात् तिग्मः, वसुदानः, ततोऽप्यपरः शतानीकः ।। ४-२०-३ ।।
तस्माच्च उदयनः, उदयनाद्विहीनरः, ततश्च दण्डपाणिः, ततो निरमित्रः, तस्माच्च क्षेमकः । तत्रायं श्लोकः ।
ब्रह्मक्षत्रस्य यो योनिर्वंशो राजर्षिसत्कृतः ।
क्षेमकं प्राप्य राजानं संस्थानं प्राप्स्यते कलौ ।। ४-२०-४ ।।