विष्णुपुराणम्/चतुर्थांशः/अध्यायः २२

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

श्रीपराशर उवाच
अतश्चेक्ष्वाकवो भविष्याः पार्थिवाः कथ्यन्ते ॥ ४,२२.१ ॥
बृहद्बलस्य पुत्रो बृहत्क्षणः ॥ ४,२२.२ ॥
तस्मादुरुक्षयस्तस्माच्च वत्सव्यूहस्ततश्च प्रतिव्योमस्तस्मादपि दिवाकरः ॥ ४,२२.३ ॥
तस्मात्सहदेवः सहदेवाद्बृहदश्वस्तत्सूनुर्भानुरथस्तस्य च प्रतीताश्वस्तस्यापि सुप्रतीकस्ततश्च मरुदेवस्ततः सुनक्षत्रस्तमात्किन्नरः ॥ ४,२२.४ ॥
किन्नरादन्तरिक्षस्तस्मात्सुपर्णस्ततश्चामित्रजित् ॥ ४,२२.५ ॥
ततश्च बृहद्भाजस्तस्यापि धर्मी धर्मीणः कृतञ्जयः ॥ ४,२२.६ ॥
कृतञ्जयाद्रणञ्जयः ॥ ४,२२.७ ॥
रणञ्जयात्संजयस्तस्माच्छाक्यश्छाक्याच्छुद्धोदनस्तस्माद्राहुलस्ततः प्रसेनजित् ॥ ४,२२.८ ॥
ततश्च क्षुद्रकस्ततश्चज कुण्डकस्तस्मादपि सुरथः ॥ ४,२२.९ ॥
तत्पुत्रश्च सुमित्रः ॥ ४,२२.१० ॥
इत्येते चेक्ष्वाकवो बृहद्बलान्वयाः ॥ ४,२२.११ ॥
अत्रानुवंशश्लोकः ॥ ४,२२.१२ ॥
इक्ष्वाकूणामयं वंशःसुमित्रान्तो भविष्यति ।
यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ ४,२२.१३ ॥
इति श्रीमहाविष्णुपुराणे चतुर्थांशे द्वाविंशोऽध्यायः (२२)