विष्णुपुराणम्/चतुर्थांशः/अध्यायः २३
मागधानां बार्हद्रथानां भविष्याणामनुक्रमं कथयामि ।। ४-२३-१ ।।
अत्र हि वंशे महाबला जरासन्धप्रधानां बङूवुः ।। ४-२३-२।।
जरासचन्धसुतात् सहदेवचात सोमापिः, तस्मात् श्रुतवान्, तस्याप्ययुतायुः, ततश्व निरमित्रः तत्तनयः सुक्षत्रः, तस्मादपि बृहत्कर्म्मा, ततश्व सेनजित्, तस्माज्व श्रुतञ्जयः, ततो विप्रः, तस्य च पुत्रः शुचिनामा भविष्यति । तस्यापि क्षेम्यः, ततश्व सुव्रतादू धर्म्मः, ततः सुश्रमः, ततो दृढ़सेनः,
ततः सुमतिः, तस्मात् सुबलः, तस्य सुनीतो भविता । ततः सत्यजित्, सत्यजितो विशजित्, तस्यापि रिपुञ्जयः पुत्रः, इत्येते बाहद्रथा भूपतयो वर्षसहस्त्रमेकं भविष्यन्ति ।। ४-२३-३ ।।