विष्णुपुराणम्/चतुर्थांशः/अध्यायः ३
अतश्च मांधातुः पुत्रसंततिरभिधीयते १ ।
अंबरीषस्य मांधातृतनयस्य युवनाश्वः पुत्रोऽभूत् २ ।
तस्माद्धारीतः यतोंगिरसो हारीता ३ ।
रसातले मौनेया नाम गंधर्वा बभूवुष्षट्कोटिसंख्यातास्तैरशेषाणि नागकुलान्यपहृतप्रधानरत्नाधिपत्यान्यक्रियंत ४ ।
तैश्च गंधर्ववीर्यावभूतैरुरगेश्वरैस्तूयमानो भगवानशेषदेवेश आस्ते तच्छ्रवणोन्मीलितोन्निद्रपुंडरीकनयनो जलशयनो निद्रावसानप्रबुद्धः प्रणिपत्याभिहितः । भगवन्नस्माकमेतेभ्यो गंधर्वेभ्यो भयमुत्पन्नं कथमुपशममेष्यतीति ५ ।
आह च भगवाननादिनिधनपुरुषोत्तमो योसौ यौवनाश्वस्य मांधातुः पुरुकुत्सनामा पुत्रस्तमहमनुप्रविश्य तानशेषान् दुष्टगंधर्वानुपशमं नयिष्यामीति ६ ।
तदाकर्ण्य भगवते जलशायिने कृतप्रणामाः पुनर्नागलोकमागताः पन्नगाधिपतयो नर्मदां च पुरुकुत्सानयनाय चोदयामासुः ७ ।
सा चैनं रसातलं नीतवती ८ ।
रसातलगतश्चासौ भगवत्तेजसाप्यायितात्मवीर्य्यस्सकलगंधर्वान्निजघान ९ ।
पुनश्च स्वपुरमाजगाम १० ।
सकलपन्नगाधिपतयश्च नर्मदायै वरं ददुः ।
यत्तेनुस्मरणसमवेतं नामग्रहणं करिष्यति न तस्य सर्पविषभयं भविष्यतीति ११ ।
अत्र च श्लोकः १२ ।
नर्मदायै नमः प्रातर्नर्मदायै नमो निशि ।
नमोस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः १३ ।
इत्युच्चार्याहर्निशमंधकारप्रवेशे वा सर्पैर्न दश्यते न चापि कृतानुस्मरणभुजो विषमपि भुक्तमुपघाताय भवति १४ ।
पुरुकुत्साय संततिविच्छेदो न भविष्यतीत्युरगपतयो वरं ददुः १५ ।
पुरुकुत्सो नर्मदायां त्रसद्दस्युमजीजनत् १६ ।
त्रसद्दस्युतस्संभूतोऽनरण्यः यं रावणोदिग्विजये जघान १७ ।
अनरण्यस्य पृषदश्वः पृषदश्वस्य हर्यश्वः पुत्रोऽभवत् १८ ।
तस्य च हस्तः पुत्रोऽभवत् १९ ।
ततश्च सुमनास्तस्यापि त्रिधन्वा त्रिधन्वनस्त्रय्यारुणिः २० ।
त्रय्यारुणेस्सत्यव्रतः योऽसौ त्रिशंकुसंज्ञामवाप २१ ।
स चंडालतामुपगतश्च २२ ।
द्वादशवर्षिक्यामनावृष्ट्यां विश्वामित्रकलत्रापत्यपोषणार्थं चंडालप्रतिग्रहपरिहरणाय च जाह्नवीतीरन्यग्रोधे मृगमांसमनुदिनं बबंध २३ ।
स तु परितुष्टेन विश्वामित्रेण सशरीरस्स्वर्गमारोपितः २४ ।
त्रिशंकोर्हरिश्चंद्र स्तस्माच्च रोहिताश्वस्ततश्च हरितो हरितस्य चंचुश्चंचोर्विजयवसुदेवौ रुरुको विजयाद्रु कस्य वृकः २५ ।
ततो वृकस्य बाहुः योऽसौ हैहयतालजंघादिभिः पराजितॐतर्वत्न्या महिष्या सह वनं प्रविवेश २६ ।
तस्याश्चा सपत्न्या गर्भस्तंभनाय गरो दत्तः २७ ।
तेनास्य गर्भस्सप्तवर्षाणि जठर एव तस्थौ २८ ।
स च बाहुर्वृद्धभावादौर्वाश्रमममीपे ममार २९ ।
सा तस्य भार्या चितां कृत्वा तमारोप्यानुमरणकृतनिश्चयाऽभूत् ३० ।
अथैतामतीतानागतवर्त्तमानकालत्रयवेदी भगवानौर्वस्स्वाश्रमान्निर्गत्याब्रवीत् ३१ ।
अलमलमनेनासद्ग्राहेणाखिलभूमं डलपतिरतिवीर्यपराक्रमो नैकयज्ञकृदरातिपक्षक्षयकर्त्ता तवोदरे चक्रवर्त्ती तिष्ठति ३२ ।
नैवमतिसाहसाध्यवसायिनी भवती भवेत्युक्ता सा तस्मादनुमरणनिर्बंधाद्विरराम ३३ ।
तेनैव च भगवता स्वाश्रममानीता ३४ ।
तत्र कतिपयदिनाभ्यंतरे च सहैव तेन गरेणातितेजस्वी बालको जज्ञे ३५ ।
तस्यौर्वो जातकर्मादिक्रिया निष्पाद्य सगर इति नाम चकार ३६ ।
कृतोपनयनं चैनमौर्वो वेदशास्त्राण्यस्त्रं चाग्नेयं भार्गवाख्यमध्यापयामास ३७ ।
उत्पन्नबुद्धिश्च मातरमब्रवीत् ३८ ।
अंब कथयात्र वयं क्व तातोस्माकमित्येवमादिपृच्छंतं माता सर्वमेवावोचत् ३९ ।
ततश्च पितृराज्यापहरणादमर्षितो हैहयतालजंघादिवधाय प्रतिज्ञामकरोत् ४० ।
प्रायशश्च हैहयतालजंघाञ्जघान ४१ ।
शकयवनकांभोजपारदपप्लवाः हन्यमानास्तत्कुलगुरुं वसिष्ठं शरणं जग्मुः ४२ ।
अथैनान्वसिष्ठो जीवन्मृतकान् कृत्वा सगरमाह ४३ ।
वत्सालमेभिर्जीवन्मृतकैरनुमृतैः ४४ ।
एते च मयैव त्वत्प्रतिज्ञापरिपालनाय निजधर्मद्विजसंगपरित्यागं कारिताः ४५ ।
तथेति तद्गुरुवचनमभिनंद्य तेषां वेषान्यत्वमकारयत् ४६ ।
यवनान्मुंडितशिरसोर्द्धमुंडिताञ्च्छकान् प्रलंबकेशान् पारदान् पप्लवाञ्श्मश्रुधरान् निस्स्वाध्यायवषट्कारानेतानन्यांश्च क्षत्रियांश्चकार ४७ ।
एते चात्मधर्मपरित्यागाद्ब्राह्मणैः परित्यक्ता म्लेच्छतां ययुः ४८ ।
सगरोपि स्वमधिष्ठानमागम्य अस्खलितचक्रस्सप्तद्वीपवतीमिमामुर्वीं प्रशशास ४९ ।
इति श्रीविष्णुमहापुराणे चतुर्थांशो! तृतीयोऽध्यायः ३।